गरुडपुराणम्/आचारकाण्डः/अध्यायः ११८

← आचारकाण्डः, अध्यायः ११७ गरुडपुराणम्
अध्यायः ११८
वेदव्यासः
आचारकाण्डः, अध्यायः ११९ →

श्रीगरुडमहापुराणम् ११८
ब्रह्मोवाच ।
व्रतं कैवल्यशमनमखण्डद्वादशीं वदे ।
मागशीर्षे सिते पक्षे गव्याशी समुपोषितः ॥ १,११८.१ ॥

द्वादश्यां पूजये द्विष्णुं दद्यान्मासचतुष्टयम् ।
पञ्चव्रीहियुतं पात्रं विप्रायेदमुदाहरेत् ॥ १,११८.२ ॥

सप्तजन्मनि हे विष्णो यन्मया हि व्रतं कृतम् ।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥ १,११८.३ ॥

यथाखण्डं जगत्सर्वं त्वमेव पुरुषोत्तम ।
तथाखिलान्यखण्डानि व्रितानि मम सन्ति वै ॥ १,११८.४ ॥

सक्तुपात्राणि चैत्रादौ श्रावणादौ घृतान्वितान् ।
व्रतकृद्वतपूर्णस्तु स्त्रीपुत्रस्वर्गभाग्भवेत् ॥ १,११८.५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेऽखण्डद्वादशीव्रतकथनंनामाष्टादशोत्तर शततमोऽध्यायः