गरुडपुराणम्/आचारकाण्डः/अध्यायः १६४

← आचारकाण्डः, अध्यायः १६३ गरुडपुराणम्
अध्यायः १६४
वेदव्यासः
आचारकाण्डः, अध्यायः १६५ →

श्रीगरुडमहापुराणम् १६४
धन्वन्तरिरुवाच ।
मिथ्याहारविहारेण विशेषेण विरोधिना ।
साधुनिन्दावधाद्युद्धहरणाद्यैश्च सेवितैः ॥ १,१६४.१ ॥

पाप्मभिः कर्मभिः सद्यः प्राक्तनैः प्रेरितामलाः ।
शिराः प्रपद्य तैर्युक्तास्त्वग्वसारक्तमामिषम् ॥ १,१६४.२ ॥

दूषयन्ति च संशोष्य निश्चरन्तस्ततो बहिः ।
त्वचः कुर्वान्ति वैवर्ण्यं शिष्टाः कुष्ठमुशन्तितम् ॥ १,१६४.३ ॥

कालेनोपेक्षितं यत्स्यात्सर्वं कोष्ठानि तद्वपुः ।
प्रपद्य धातून्बाह्यान्तः सर्वान्संक्लेद्य चावहेत् ॥ १,१६४.४ ॥

सस्वेदक्लेदसङ्कोचान्कृमीन् सूक्ष्मांश्चदारुणान् ।
लोमत्वक्स्नायुधमनीराक्रामति यथाक्रमम् ॥ १,१६४.५ ॥

भस्माच्छादितवत्कुर्याद्बाह्यं कुष्ठमुदाहृतम् ।
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः ॥ १,१६४.६ ॥

सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकस्ततः ।
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ॥ १,१६४.७ ॥

मण्डलाख्यं विचर्चो च ऋष्याख्यं वातपित्तजम् ।
चर्मैककुष्ठं किटिमं सिध्मालसविपादिकाः ॥ १,१६४.८ ॥

वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रूशतारुषी ।
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ॥ १,१६४.९ ॥

सर्वेभ्यः काकणं पूर्वत्रिकं दद्रु सकाकणम् ।
पुण्डरीकर्यजिह्वे च महाकुष्ठानि सप्त तु ॥ १,१६४.१० ॥

अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः ।
दाहः कण्डूस्त्वचि स्वापस्तोदः कोचोन्नतिस्तमः ॥ १,१६४.११ ॥

व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः ।
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽतिकोपनम् ॥ १,१६४.१२ ॥

रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् ।
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ॥ १,१६४.१३ ॥

विस्तृताकृतिपर्यस्तन्दूषितैर्लोमभिश्चितम् ।
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥ १,१६४.१४ ॥

उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत् ।
वर्तुलं बहुलकेत्युक्तं दाहरुजाधिकम् ॥ १,१६४.१५ ॥

असंच्छन्नमदरणं कृमिवत्स्यादुदुम्बरम् ।
स्थिरं सत्यानं गुरु स्निग्धं श्वेतरक्तं मलान्वितम् ॥ १,१६४.१६ ॥

अन्योन्यसक्तपुच्छूनबहुकण्डूस्नुतिकृमि ।
श्लक्ष्णपीताभासंयुक्तं मण्डलं परिकीर्तितम् ॥ १,१६४.१७ ॥

सकण्डूपिटिका श्यावा सक्लेदा च विचर्चिका ।
परुषन्तत्ररक्तान्तमन्तः श्यामं समुन्नतम् ॥ १,१६४.१८ ॥

ऋष्यजिह्वाकृतिप्रोक्तं ऋष्यजिह्वं बहुक्रिमि ।
हस्तिचर्मखरस्पर्शं चर्माख्यं कुष्ठमुच्यते ॥ १,१६४.१९ ॥

अस्वेदञ्चमत्स्यशल्कसन्निभं किटिमं पुनः ।
रूक्षाग्निवर्णं दुः स्पर्शं कण्डूमत्परुषासितम् ॥ १,१६४.२० ॥

अन्ता रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत् ।
श्लक्ष्णस्पर्शं तनु स्निग्धं स्वच्छमस्वेदपुष्पवत् ॥ १,१६४.२१ ॥

प्रायेण चोर्ध्वकार्श्यञ्च कुण्डैः कण्डूपरैश्चितम् ।
रक्तैरलंशुका पाणिपादे कुर्याद्विपादिका ॥ १,१६४.२२ ॥

तीव्रार्तिं गाढकण्डूञ्च सरागपिडिकाचितम् ।
दीर्घप्रतानदूर्वावदतसीकुसुमच्छवि ॥ १,१६४.२३ ॥

उच्छूनमण्डलो दद्रुः कण्डूमानिति कथ्यते ।
स्थूलमूलं सदाहार्ति रक्तस्त्रावं बहुव्रणम् ॥ १,१६४.२४ ॥

सादहकक्लेदरुजं प्रायशः सर्वजन्म च ।
रक्ताक्तमण्डलं पाण्डु कण्डूदाहरुजान्वितम् ॥ १,१६४.२५ ॥

सोत्सेधमाचितं रक्तैः कञ्जपर्णमिवाम्बुभिः ।
पुण्डरीकं भवेत्तद्धि चितं स्फोटैः सितारुणैः ॥ १,१६४.२६ ॥

विस्फोटपिटिका पामा कण्डूक्लेदरुजान्विताः ।
सूक्ष्मा श्यामारुणा रूक्षा प्रायः स्फिक्पाणिकूर्परे ॥ १,१६४.२७ ॥

सस्फोटसंस्पर्शसहं कण्डूरक्तातिदाहवत् ।
रक्तदलं चर्मदलं काकणं तीव्रदाहरुक् ॥ १,१६४.२८ ॥

पूर्वरक्तञ्च कृष्णञ्च काकणं त्रिफलोपमम् ।
कृष्णलिङ्गैर्युतैः सर्वैः स्वस्वकारणतो भवेत् ॥ १,१६४.२९ ॥

दोषभेदाय विहितैरादिशेल्लिङ्गकर्मभिः ।
कुष्ठस्वदोषानुगतं सर्वदोषगतं त्यजेत् ॥ १,१६४.३० ॥

कुष्ठोक्तं यच्च यच्चास्थिमज्जाशुक्रसमाश्रयम् ।
कृच्छ्रं मेदोमतञ्चैव याप्यं स्नाप्वास्थिमांसगम् ॥ १,१६४.३१ ॥

अकृच्छ्रं कफवातोत्थं त्वग्गतं त्वमलञ्च यत् ।
तत्र त्वचि स्थिते कष्ठे काये वैवर्ण्यरूक्षाता ॥ १,१६४.३२ ॥

स्वेदतापश्वयथवः शोणिते पिशिते पुनः ।
पाणिपादाश्रिताः स्फोटाः क्लेशात्सन्धिषु चाधिकम् ॥ १,१६४.३३ ॥

दोषस्याभीक्ष्णयोगेन दलनं स्याच्च मेदसि ।
नातिसंज्ञास्ति मज्जास्थिनेत्रवेगस्वरक्ष्यः ॥ १,१६४.३४ ॥

क्षते च क्रिमिभिः शुक्रे स्वदारापत्यबाधनम् ।
यथापूर्वाणि सर्वाणि स्वलिङ्गानि मृगादिषु ॥ १,१६४.३५ ॥

कष्ठैकसम्भवं श्वित्रं किलासं दारुणं भवेत् ।
निर्दिष्टमपरिस्त्रावि त्रिधातूद्भवसंश्रयम् ॥ १,१६४.३६ ॥

वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।
सदाहं रोमविध्वंसि कफाच्छ्वेतं घन गुरु ॥ १,१६४.३७ ॥

सकण्डूरं क्रमाद्रक्तमांसमेदः सु चादिशेत् ।
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥ १,१६४.३८ ॥

अशुक्लरोमबहुलमसंश्लिष्टं मिथो नवम् ।
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ॥ १,१६४.३९ ॥

गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तरम् ।
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छिता ॥ १,१६४.४० ॥

स्पर्शैकाहारसंगादिसेवनात्प्रायशो गदाः ।
एकशय्यासनाच्चैव वस्त्रमाल्यानुलेपनात् ॥ १,१६४.४१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कुष्ठरोगनिदान नाम चतुः षष्ट्युत्तरशततमोऽध्यायः