गरुडपुराणम्/आचारकाण्डः/अध्यायः १६५

← आचारकाण्डः, अध्यायः १६४ गरुडपुराणम्
अध्यायः १६५
वेदव्यासः
आचारकाण्डः, अध्यायः १६६ →

श्रीगरुडमहापुराणम् १६५
धन्वन्तरिरुवाच ।
क्रिमयश्च द्विधा प्रोक्ता बाह्यभ्यन्तरभेदतः ।
बहिर्मलकफासृग्विट्जन्मभेदाच्चतुर्विधाः ॥ १,१६५.१ ॥

नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः ।
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥ १,१६५.२ ॥

बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ।
द्विधा ते कोष्ठपिडिकाः कण्डूगण्डान्प्रकुर्वते ॥ १,१६५.३ ॥

कुष्ठैकहेतवोऽन्तर्जाः श्लेष्मजा बाह्यसम्भवाः ।
मधुरान्नगुडक्षीरदधिमत्स्यनवौदनैः ॥ १,१६५.४ ॥

कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ।
पृथुब्रध्ननिभाः केचित्केचिद्गण्डूपदोपमाः ॥ १,१६५.५ ॥

रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाणवः ।
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ॥ १,१६५.६ ॥

अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ।
च्युरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते ॥ १,१६५.७ ॥

हृल्लासमास्यश्रवणमविपाकमरोचकम् ।
मूर्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान् ॥ १,१६५.८ ॥

रक्तवाहिशिरास्थानरक्तजा जन्तवोऽणवः ।
अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः ॥ १,१६५.९ ॥

केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः ।
षट्ते कुष्ठैककर्माणः सहसौरसमातरः ॥ १,१६५.१० ॥

पक्वाशये पुरीषोत्था जायन्तेऽथोविसर्पिणः ।
वृद्धास्ते स्युर्भवेयुश्च ते यदामाशयोन्मुखाः ॥ १,१६५.११ ॥

तदास्योद्गारनिः श्वामविड्गन्धानुविधायिनः ।
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ॥ १,१६५.१२ ॥

ते पञ्चनाम्ना क्रिमयः ककेरुकमकेरुकाः ।
सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि ॥ १,१६५.१३ ॥

वङ्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः ।
रोमहर्षाग्निसदनं गुदकण्डूंर्विमार्गगाः ॥ १,१६५.१४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे क्रिमिनिदानं नाम पञ्चषष्ठ्यधिकशततमोऽध्यायः