गरुडपुराणम्/आचारकाण्डः/अध्यायः १६८

← आचारकाण्डः, अध्यायः १६७ गरुडपुराणम्
अध्यायः १६८
वेदव्यासः
आचारकाण्डः, अध्यायः १६९ →

श्रीगरुडमहापुराणम् १६८
निदानं समाप्तम् ।
धन्वन्तरिरुवाच ।
सर्वरोगहरं सिद्धं योगसारं वदाम्यहम् ।
शृणु सुश्रुतं संक्षेपात्प्राणिनां जीवहेतवे ॥ १,१६८.१ ॥

कषायकटुतिक्ताम्लरूक्षाहारादिभोजनात् ।
चिन्ताव्यवयव्यायामभयशोकप्रजागरात् ॥ १,१६८.२ ॥

उच्चैर्भाषातिभाराच्च कर्मयोगातिकर्षणात् ।
वायुः कुप्यति पर्जन्ये जीर्णान्ने दिनसंक्षये ॥ १,१६८.३ ॥

उष्णाम्ल लवणक्षारकटुकाजीर्णभोजनात् ।
तीक्ष्णातपाग्निसन्तापमद्यक्रोधनिषेवणात् ॥ १,१६८.४ ॥

विदाहकाले भुक्तस्य मध्याह्ने जलदात्यये ।
ग्रीष्मकालेर्ऽद्धरात्रेऽपि पित्तं कुप्यति देहिनः ॥ १,१६८.५ ॥

स्वाद्वम्ललवणस्निग्धगुरुशीतातिभोजनात् ।
नवान्नपिच्छिलानूपमांसादेः सेवनादपि ॥ १,१६८.६ ॥

अव्यायाम दिवास्वप्नशय्यासनसुखादिभिः ।
कफप्रदोषो भुक्ते च वसन्ते च प्रकुप्यति ॥ १,१६८.७ ॥

देहपारुष्यसंकोचतोदविष्टम्भकादयः ।
तथा च सुप्ता रोमहर्षस्तम्भनशोषणम् ॥ १,१६८.८ ॥

श्यामत्वमङ्गविश्लेषबलमायासवर्धनम् ।
वायोर्लिङ्गानि तैर्युक्तं रोगं वातात्मकं वदेत् ॥ १,१६८.९ ॥

दाहोष्मपादसंक्लेदकोपरागपरिश्रमाः ।
कट्वम्लशववैगन्ध्यस्वेदमूर्छातितृट्भ्रमाः ॥ १,१६८.१० ॥

हारिद्रं हरितत्वञ्च पित्तलिङ्गान्वितैर्नरः ।
देहे स्निग्धत्वमाधुर्यचिरकारित्वबन्धनम् ॥ १,१६८.११ ॥

स्तैमित्यतृप्तिसङ्घातशोथशतिलगौरवम् ।
कण्डूनिद्राभियोगश्च लक्षणं कफसम्भवम् ॥ १,१६८.१२ ॥

हेतुलक्षणसंसर्गाद्विद्याद्व्याधिं द्विदोषजम् ।
सर्वहेतुसमुत्पन्नं त्रिलिङ्गं सान्निपातिकम् ॥ १,१६८.१३ ॥

दोषधातुमलाधारो देहिनां देह उच्यते ।
तेषां समत्वमारोग्यं क्षयवृद्धेर्विपर्ययः ॥ १,१६८.१४ ॥

वसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।
वातपित्तकफा दोषा विण्मूत्राद्या मलाः स्मृताः ॥ १,१६८.१५ ॥

वायुः शीतो लघुः सूक्ष्मः स्वरनाशीस्थिरो बली ।
पित्तमम्लकटूष्णञ्चापङ्क्ती रोगकारणम् ॥ १,१६८.१६ ॥

मधुरो लवणः स्निग्धो गुरुः श्लेषमातिपिच्छिलः ।
गुदश्रोण्याश्रयो वायुः पित्तं पक्वाशयस्थितम् ॥ १,१६८.१७ ॥

कफस्यामाशयस्थानं कण्ठो वा मूर्धसन्धयः ।
कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ॥ १,१६८.१८ ॥

कट्वम्ललवणाः पित्तं स्वादूष्णलवणाः कफम् ।
एत एव विपर्यस्ताः शमायैषां प्रयोजिताः ।
भवन्ति रोगिणां शान्त्यै स्वस्थाने सुखहेतवः ॥ १,१६८.१९ ॥

चक्षुष्यो मधुरो ज्ञेयो रसधातुविवह्द्धनः ।
अम्लोत्तरो मनोहृद्यं तथा दीपनपाचनम् ॥ १,१६८.२० ॥

दीपनोज्वरतृष्णाघ्नस्तिक्तः शोधनशोषणः ।
पित्तलो लेखन स्तम्भी कषायो ग्राहिशोषणः ॥ १,१६८.२१ ॥

रसवीर्यविपाकानामाश्रयं द्रव्यमुत्तमम् ।
रसपाकान्तरस्थायि सर्वद्रव्याश्रयं द्रुतम् ॥ १,१६८.२२ ॥

शीतोष्णं लवणं वीर्यमथ वा शक्तिरिष्यते ।
रसानां द्विविधः पाको कटुरेव च ॥ १,१६८.२३ ॥

भिषग्भेषजरोगार्तपरिचारकसम्पदः ।
चिकित्साङ्गानिचत्वारि विपरीतान्यसिद्धये ॥ १,१६८.२४ ॥

देशकालवयोवह्निसाम्यप्रकृतिभेषजम् ।
देहसत्त्वबलव्याधीन्बुद्ध्वा कर्म समाचरेत् ॥ १,१६८.२५ ॥

बहूदकनगोऽनूपः कफमारुतकोपवान् ।
जाङ्गलोऽपरशाखी च रक्तपित्तगदोत्तरः ॥ १,१६८.२५*१ ॥

संसृष्टलक्षणोपेतो देशः साधारणः स्मृतः ।
बाल आ षोडशान्मध्यः सप्ततेर्वृद्ध उच्यते ॥ १,१६८.२६ ॥

कफपित्तानिलाः प्रायो यथाक्रममुदीरिताः ।
क्षाराग्निशस्त्ररहिता क्षीणे प्रवयसि क्रियाः ॥ १,१६८.२७ ॥

कृशस्य वृंहणं कार्यंस्थूलदेहस्य कर्षणम् ।
रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ॥ १,१६८.२८ ॥

स्थैर्यव्यायामसन्तोषैर्बोद्धव्यं यत्नतो बलम् ।
अविकारी महोत्साहो महासाहसिको नरः ॥ १,१६८.२९ ॥

पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि ।
श्वसुखायोपकल्प्यन्ते तत्साम्यमिति कथ्यते ॥ १,१६८.३० ॥

गर्भिण्याः श्लैष्मिकैर्भक्ष्यैः श्लैष्मिको जायते नरः ।
वातलैः पित्तलैस्तद्वत्समधातुर्हिताशनात् ॥ १,१६८.३१ ॥

कृशो रूक्षोऽल्पकेशश्च चलचित्तो नरः स्थितः ।
बहुवाक्यरतः स्वप्नेवातप्रकृतिको नरः ॥ १,१६८.३२ ॥

अकालपलितो गौरः प्रस्वेदी कोपनो बुधः ।
स्वप्नेऽपि दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ॥ १,१६८.३३ ॥

स्थिरचित्तः स्वरः सूक्ष्मः प्रसन्नः स्निग्धमूर्धजः ।
स्वप्ने जलशिलालोकी श्लेष्म प्रकृतिको नरः ॥ १,१६८.३४ ॥

संमिश्रलक्षणैर्ज्ञेयो द्वित्रिदोषान्वयो नरः ।
दोषस्येतरसद्भावेऽप्यधिका प्रकृतिः स्मृताः ॥ १,१६८.३५ ॥

मन्दस्तीक्ष्णोऽथ विषमः समश्चैति चतुर्विधाः ।
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ॥ १,१६८.३६ ॥

समस्य पालनं कार्यं विषमे वातनिग्रहः ।
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम् ॥ १,१६८.३७ ॥

प्रभवः सर्वरोगाणामजीर्णं चाग्निनाशनम् ।
आमाम्लरसविष्टम्भ लक्षणन्तच्चतुर्विधम् ॥ १,१६८.३८ ॥

आमाद्विषूचिका चैव हृदालस्यादयस्तथा ।
वचालवणतोयेन छर्दनं तत्र कारयेत् ॥ १,१६८.३९ ॥

शुक्राभावो भ्रमो मूर्छा तर्षोऽम्लात्संप्रवर्तते ।
अपक्वं तत्र शीताम्बुपानं वातनिषेवणम् ॥ १,१६८.४० ॥

गात्रभङ्गं शिरोजाड्यं भक्तदोषादयो गदान् ।
तस्मिन्स्वापो दिवा कार्योलङ्घनं च विवर्जनम् ॥ १,१६८.४१ ॥

शूलगुल्मौ च विण्मूत्रस्थानविष्टम्भसूचकौ ।
विधेयं स्वेदनं तत्र पानीयं लवणोदकम् ॥ १,१६८.४२ ॥

आममम्लं च विष्टब्धं कफपित्तानिलैः क्रमात् ।
आलिप्य जठरं प्राज्ञो हिङ्गुत्र्यूषणसैन्धवैः ॥ १,१६८.४३ ॥

दिवास्वप्नं प्रकुर्वीत सर्वाजीर्णविनाशनम् ।
अहितान्नै रोगराशिरहितान्नं ततस्त्यजेत् ॥ १,१६८.४४ ॥

उष्णाम्बु वानुपानं च माक्षिकैः पाचनं भवेत् ।
करीरदधिमत्स्यैश्च प्रायः क्षीरं विरुध्यते ॥ १,१६८.४५ ॥

बिल्वः शोणा च गम्भारी पाटला गणिकारिका ।
दीपनं कफवातघ्नं पञ्चमूलमिदं महत् ॥ १,१६८.४६ ॥

शालपर्णो पृश्रिपर्णो बृहतीद्वयगोक्षुरम् ।
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥ १,१६८.४७ ॥

उभयं दशसूलं स्यात्सन्निपातज्वरापहम् ।
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ॥ १,१६८.४८ ॥

एतैस्तैलानि सर्पोषि प्रलेपादलकां जयेत् ।
क्वाथाच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् ॥ १,१६८.४९ ॥

स्नेहञ्च तत्समं क्षीरं कल्कश्च स्नेहपादकः ।
संवर्तितौषधैः पाको बस्तौ पाने भवेत्समः ।
खरोऽभ्यङ्गे मृदुर्नस्ये पाकोऽपि संप्रकल्पयेत् ॥ १,१६८.५० ॥

स्थूलदेहन्द्रियाश्चिन्त्या प्रकृतिर्या त्वधिष्ठिता ।
आरोग्यमिति तं विद्यादायुष्मन्तमुपाचरेत् ॥ १,१६८.५१ ॥

यो गृह्णातीन्द्रियैरर्थान्विपरीतान्स मृत्युभाक् ।
भिषङ्मित्रगुरुद्वेषी प्रियारातिश्च यो भवेत् ॥ १,१६८.५२ ॥

गुल्फजानुललाटं च हनुर्गण्डस्तथैव च ।
भ्रष्टं स्थानच्युतं यस्य स जहात्यचिरादसून् ॥ १,१६८.५३ ॥

वामाक्षिमज्जनं जिह्वा श्यामा नासा विकारिणी ।
कृष्णौ स्थानच्युतौ चोष्ठौ कृष्णास्यं यस्यतं त्यजेत् ॥ १,१६८.५४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैद्यकशास्त्रपरिभाषा नामाष्टषष्ट्यधिकशततमोऽध्यायः