प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १६६ गरुडपुराणम्
अध्यायः १६७
वेदव्यासः
आचारकाण्डः, अध्यायः १६८ →

श्रीगरुडमहापुराणम् १६७
धन्वन्तरीरुवाच ।
वातरक्तनिदानं ते वक्ष्ये सुश्रुत तच्छृणु ।
विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः ॥ १,१६७.१ ॥

प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् ।
स्थूलानां सुखिनां चापि कुप्यते वातशोणितम् ॥ १,१६७.२ ॥

अग्निघातादशुद्धेश्च नृणामसृजि दूषिते ।
वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः ॥ १,१६७.३ ॥

तादृशैवासृजा रुद्धः प्राक्तदैव प्रदूषयेत् ।
तथा वातो गुदे पीडां बलासं वातशोणितम् ॥ १,१६७.४ ॥

संस्तभ्य जनयेत्पूर्वं पश्चात्सर्वत्र धावति ।
विशेषाद्वमनाद्यैश्च प्रलम्बस्तस्य लक्षणम् ॥ १,१६७.५ ॥

भविष्यतः कुष्ठसमं तथा साम्बुदसंज्ञकम् ।
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु ॥ १,१६७.६ ॥

कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः ।
भूत्वा भूत्वा प्रशाम्यन्ति मुहुराविर्भवन्ति च ॥ १,१६७.७ ॥

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि ।
आखोरिव विलं क्रुद्धः कृत्स्नं देहं बिधावति ॥ १,१६७.८ ॥

त्वङ्मांसाश्रयमत्तानं तत्पूर्वं जायते ततः ।
कालान्तरेण गम्भीरं सर्वधातूनभिद्रवेत् ॥ १,१६७.९ ॥

कट्यादिसंयतस्थाने त्वक्ताम्रश्यावलोहिताः ।
श्वयथुर्ग्रथितः पाकः स वायुश्चास्थिमज्जसु ॥ १,१६७.१० ॥

छिन्दन्निव चरत्यन्तश्चकीकुर्वंश्च वेगवान् ।
करोति खञ्जं पङ्गुं वा शरीरं सर्वतश्चरन् ॥ १,१६७.११ ॥

वाताधिकेऽधिकं तत्र शूलस्फुरणभञ्जनम् ।
शोथस्य रौक्ष्यं कृष्णत्वं श्यावतावृद्धिहानयः ॥ १,१६७.१२ ॥

धमन्यङ्गुलिसन्धीनां संकोचोङ्गग्रहो तिरुक् ।
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥ १,१६७.१३ ॥

रक्ते शोथोऽतिरुक्तोदस्ताम्राश्चिमिचिमायते ।
स्निग्धरूक्षैः समं नैति कण्डुक्लेदसमन्वितः ॥ १,१६७.१४ ॥

पित्ते विदाहः संमोहः स्वादो मूर्छा मदस्तृषा ।
स्पर्शासहत्वं रुग्रावः शोषः पाको भृशोष्मता ॥ १,१६७.१५ ॥

कफे स्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतता ।
कण्डूर्मन्दा च रुग्द्बन्द्वं सर्वलिङ्गञ्च संकरात् ॥ १,१६७.१६ ॥

एकदोषञ्च संसाध्यं याप्यञ्चैव द्विदोषजम् ।
त्रिदोषजन्त्यजेदाशु रक्तपित्तं सुदारुणम् ॥ १,१६७.१७ ॥

रक्तमङ्गे निहन्त्याशु शाखासन्धिषु मारुतः ।
निवेश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून् ॥ १,१६७.१८ ॥

वायौ पञ्चात्मके प्राणे रौक्ष्याच्चापल्यलङ्घनैः ।
अत्याहाराभिघाताच्च वेगोदीरणचारणैः ॥ १,१६७.१९ ॥

कुपितश्चक्षुरादीनामुपघातं प्रकल्पयेत् ।
पीनसो दाहतृट्कासश्वासादिश्चैव जायते ॥ १,१६७.२० ॥

कण्ठरोधोमलभ्रंशच्छर्द्यरोचकपीनसान् ।
कुर्याच्च गलगण्डदींस्तञ्जत्रुमूर्ध्वसंश्रयः ॥ १,१६७.२१ ॥

व्यानोऽतिगमनस्नानक्रीडाविषयचोष्टितैः ।
विरुद्धरूक्षभीहर्षविषादाद्यैश्च दूषितः ॥ १,१६७.२२ ॥

पुंस्त्वोत्साहबलभ्रंशशोकचित्तप्लवज्वरान् ।
सर्वाकारादिनिस्तोदरोमहर्षं सुषुप्तताम् ॥ १,१६७.२३ ॥

कुष्ठं विसर्पमन्यच्च कुर्यात्सर्वाङ्गसादनम् ।
समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः ॥ १,१६७.२४ ॥

करोत्यकालशयनजागराद्यैश्च दूषितः ।
शूलगुल्मग्रहण्यादीन्यकृत्कामाश्रयान्गदान् ॥ १,१६७.२५ ॥

अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः ।
यानपानसमुत्थानचङ्क्रमैश्चातिसेवितैः ॥ १,१६७.२६ ॥

कुपितः कुरुते रोगान्कृत्स्नान् पक्वाशयाश्रयान् ।
मूत्रसुक्रप्रदोषार्शोगुदभ्रंशादिकान्बहून् ॥ १,१६७.२७ ॥

सर्वाङ्गमाततं सामं तन्द्रास्तैमित्यगौरवैः ।
स्निग्धत्वाद्बोध कालस्य शैत्यशोथाग्निहानयः ॥ १,१६७.२८ ॥

कण्डूरूक्षातिनाशेन तद्विधोपशमेन च ।
मुक्तिं विद्यान्निरामं तं तन्द्रादीनां विपर्ययात् ॥ १,१६७.२९ ॥

वायोरावरणं वातो बहुभेदं प्रचक्षते ।
पित्तलिङ्गावृते दाहस्तृष्णा शूलं भ्रमस्तमः ॥ १,१६७.३० ॥

कटुकोष्णाम्ललवणैर्विदाहशीतकामता ।
शैत्यगौरवशूलाग्निकट्वाज्यपयसोऽधिकम् ॥ १,१६७.३१ ॥

लङ्घनायासरूक्षोष्णकामता च कफावृते ।
कफावृतेऽङ्गमर्दः स्याद्धृल्लासो गुरुतारुचिः ॥ १,१६७.३२ ॥

रक्तवृते सदाहार्तिस्तवङ्मांसाश्रयजा भृशम् ।
भवेत्सरागः श्वयथुर्जायन्ते मण्डलानि च ॥ १,१६७.३३ ॥

शोथो मांसेन कठिनो हृल्लासपिटिकास्तथा ।
हर्षः पिपीलिकानां च संचार इव जायते ।
चललग्रनो मृदुः शीतः शोथो गात्रेषु रोचकः ॥ १,१६७.३४ ॥

आढ्यवात इव ज्ञेयः स कृच्छ्रो मेदसावतः ।
स्पर्श आच्छादितेत्युष्णशीतलश्च त्वनावृते ।
मज्जावृते तु विषमं जृम्भणं परिवेष्टनम् ॥ १,१६७.३५ ॥

शूलञ्च पड्यिमानश्च पाणिभ्यां लभते सुखम् ।
शुक्रावृते तु शोथे वै चातिवेगो न विद्यते ॥ १,१६७.३६ ॥

भुक्ते कुक्षौ रुजा जीर्णे निकृत्तिर्भवति ध्रुवम् ।
मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत् ॥ १,१६७.३७ ॥

छिद्रावृते विबन्धोऽथ स्वस्थानं परिकृन्त ति ।
पतत्याशु ज्वराक्रान्तो मूर्छां च लभते नरः ॥ १,१६७.३८ ॥

सकृत्पीडितमन्येन दुष्टं शुक्रं चिरात्सृजेत् ।
सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक् ॥ १,१६७.३९ ॥

विलोमे मारुते चैव हृदयं परिपीड्यते ।
भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥ १,१६७.४० ॥

रुजा तन्द्रा स्वरभ्रंशो दाहो व्याने तु सर्वशः ।
क्रमों गचेष्टाभङ्गश्च सन्तापः सहवेदनः ॥ १,१६७.४१ ॥

समान ऊष्मोपहतिः सस्वेदोपरतिः सुतृट् ।
दाहश्च स्यादपाने तु मले हारिद्रवर्णता ॥ १,१६७.४२ ॥

रजोवृद्धिस्तापनञ्च तथा चानाहमेहनम् ।
श्लेष्मणा प्रावृते प्राणे नादः स्नोतोऽवरोधनम् ॥ १,१६७.४३ ॥

ष्ठीवनञ्चैव सस्वेदश्वासनिः श्वाससंग्रहः ।
उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः ॥ १,१६७.४४ ॥

बलवर्णप्रणाशश्चा पाने पर्वास्थिसंग्रहः ।
गुरुताङ्गेषु सर्वेषु स्थूलत्वञ्चागतं भृशम् ॥ १,१६७.४५ ॥

समानेऽतिक्रियाज्ञत्वमस्वेदो मन्दवह्निता ।
अपाने सकलं मूत्रं शकृतः स्यात्प्रवर्तनम्? ॥ १,१६७.४६ ॥

इति द्वाविंशतिविधं वातरक्तामयं विदुः ।
प्राणादयस्तथान्योऽन्यं समाक्रान्ता यथाक्रमम् ॥ १,१६७.४७ ॥

सर्वेऽपि विंशतिविधं विद्यादावरणञ्च यत् ।
हृल्लासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः ॥ १,१६७.४८ ॥

हृद्रोगो मुखशोषश्च प्राणेनापान आवृते ।
उदानेनावृते प्राणे भवेद्धै बलसंक्षयः ॥ १,१६७.४९ ॥

विचारणेन विभजेत्सर्वमावरणं भिषक् ।
स्थानान्यपेक्ष्य वातानां वृर्धिहानिं च कर्मणाम् ॥ १,१६७.५० ॥

प्राणादीनाञ्च पञ्चानां पित्तमावरणं मिथः ।
पित्तादीनामावसतिर्मिश्राणां मिश्रितैश्च तैः ॥ १,१६७.५१ ॥

मिश्रैः पित्तादिभिस्तद्वन्मिश्राण्यपित्वनेकधा ।
तांल्लक्षयेदवहितो यथास्वं लक्षणोदयात् ॥ १,१६७.५२ ॥

शनैः शनैश्चोपशयान्दृढानपि मुहुर्मुहुः ।
विशेषाज्जीवितं प्राण उदानो बलमुच्यते ।
स्यात्तयोः पीडनाद्धनिरायुषञ्च बलस्य च ॥ १,१६७.५३ ॥

आवृता वायवोऽज्ञाता ज्ञाता वा स्थानविच्युताः ।
प्रयत्नेनापि दुः साध्या भवेयुर्वानुपद्रवाः ॥ १,१६७.५४ ॥

विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः ।
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षया ॥ १,१६७.५५ ॥

निदानं सुश्रुत ! मया आत्रेयोक्तं समीरितम् ।
सर्वरोगविवेकाय नराद्यायुः प्रवृद्धये ॥ १,१६७.५६ ॥

एवं विज्ञाय रोगादींश्चिकित्सामथ वै चरेत् ।
त्रिफला सर्वरोगघ्नी मध्वाज्यगुडसंयुता ॥ १,१६७.५७ ॥

सव्योषा त्रिफला वापि सर्वरोगप्रमर्दिनी ।
शतावरीगुडूच्यग्निविडङ्गेन युताथवा ॥ १,१६७.५८ ॥

शतावरी गुडूच्यग्निः शुण्ठीमूषलिका बला ।
पुनर्नवा च बृहती निर्गुण्डी निम्बपत्रकम् ॥ १,१६७.५९ ॥

भृङ्गराजश्चामलकं वासकस्तद्रसेन वा ।
भाविता त्रिफला सप्तवारमेखमथापिवा ॥ १,१६७.६० ॥

पूर्वोक्तश्च यथालाभयुक्तैश्चूर्णञ्च मोदकः ।
वटिका घृततैलं वा कषायो शोषरोगनुत् ।
पलं पलार्धकं वापि कर्षं कर्षार्धमेव वा ॥ १,१६७.६१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वातरक्तनि सप्तषष्ट्याधिकशततमोध्यायः