प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १६९ गरुडपुराणम्
अध्यायः १७०
वेदव्यासः
आचारकाण्डः, अध्यायः १७१ →

श्रीगरुडमहापुराणम् १७०
धन्वन्तरिरुवाच ।
ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः ।
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।
शृतशीतं जलं दद्यात्पिपासाज्वरशान्तये ॥ १,१७०.१ ॥

नागरं देवकाष्ठञ्च धान्याकं बृहतीद्वयम् ।
दद्यात्पाचनकं पूर्वं ज्वरिताय ज्वरापहम् ॥ १,१७०.२ ॥

आरग्वधाभयामुस्तातिक्ताग्रन्थिकनिर्मितः ।
कषायः पाचनः सामे सशूले च ज्वरेहितः ॥ १,१७०.३ ॥

मधूकसारसिन्धूत्थवचोषणकणाः समाः ।
श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ॥ १,१७०.४ ॥

त्रिवृद्विशालात्रिफलाकटुकारग्वधैः कृतः ।
सक्षारो भेदनः क्वाथः पेयः सर्वज्वरापहः ॥ १,१७०.५ ॥

महौषधामृतामुस्तचन्दनोशीरधान्यकैः ।
क्वाथस्तृतीयकं हन्ति शर्करामधुयोजितः ॥ १,१७०.६ ॥

अपामगजटाकट्यां लोहितैः सप्ततन्तुभिः ।
बद्ध्वा वारे रवेर्नूनं ज्वरं हन्ति तृतीयकम् ॥ १,१७०.७ ॥

गङ्गाया उत्तरे कूले अपुत्रस्तापसो मृतः ।
तस्मै तिलोदकं दद्यान्मुञ्चत्यैकाहिको ज्वरः ॥ १,१७०.८ ॥

गुडूच्याः क्वाथकल्काभ्यां विफलावासकस्य च ।
मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः ॥ १,१७०.९ ॥

धात्रीशिवाकणावह्निक्वाथः सर्वज्वरान्तकः ।
ज्वरातिसारहरणमौषधं प्रवदाम्यथ ॥ १,१७०.१० ॥

पृश्रिपर्णोबलाविल्वनागरोत्पलधान्यकैः ।
पाठेन्द्रयवभूनिम्बमुस्तपर्पटकैः शृताः ।
ज्यन्त्याममतीसारं सज्वरं समहौषधाः ॥ १,१७०.११ ॥

नागरातिविषामुस्तभूनिम्बामृतवत्सकैः ।
सर्वज्वरहरः क्वथः सर्वातीसारनाशनः ॥ १,१७०.१२ ॥

मुस्तपर्पटकदिव्यशृङ्गवेरशृतं पयः ।
शालपर्णो पृश्रिपर्णो बृहती कण्टकारिका ॥ १,१७०.१३ ॥

बलाश्वदंष्ट्राबिल्वादि पाठानागरधान्यकम् ।
एतदाहारसंयोगे हितं सर्वातिसारिणाम् ॥ १,१७०.१४ ॥

बिल्वचूतास्थिक्वाथश्च खण्डं मध्वतिसारनुत् ।
अतिसारे हिता तद्वत्कुटजत्वक्कणायुता ॥ १,१७०.१५ ॥

वत्सकातिविषाविश्वकणाकन्दकषायकः ।
प्रयुक्तश्चामशूलाढ्ये ह्यतीसारे सशोणित ॥ १,१७०.१६ ॥

चिकित्साथ ग्रहण्यास्तुग्रहणी चाग्रिनाशिनी ।
चित्रकाक्वाथक्लकाभ्यां ग्रहणीघ्नं क्षृतं हविः ।
गुल्मशोथोदरप्लीहशूलार्शोघ्नं प्रदीपनम् ॥ १,१७०.१७ ॥

सौवर्चलं सैन्धवञ्च विडङ्गौद्भिदमेव च ।
सामुद्रेण समं पञ्चलवणान्यत्र योजयेत् ॥ १,१७०.१८ ॥

भेषजं शस्त्रक्षाराग्न्यस्त्रिधा वै चार्शसां हरम् ।
विद्धि तच्चार्शसोघ्नन्तु यद्धि तक्रं नवोद्धृतम् ॥ १,१७०.१९ ॥

गुडूटीं पिप्पलीयुक्तामभयां घृतभर्जिताम् ।
त्रिवृदर्शोविनाशार्थं भक्षयेदम्ललोणिकाम् ॥ १,१७०.२० ॥

तिलेक्षुरससंयोगश्चार्शः कुष्ठ विनाशनः ।
पञ्चकोलं समरिचं सत्र्यूषणमथाग्निकृत् ॥ १,१७०.२१ ॥

हरीतकी भक्ष्यमाणा नागेरण गुडेन वा ।
सैन्धवोपहिता वापि सातत्येनाग्निदीपनी ॥ १,१७०.२२ ॥

फलत्रिकामृतासातिक्ताभूनिम्बनिम्बजः ।
क्वाथः क्षौद्रयुतो हन्यात्पाण्डुरोगं सकामलम् ॥ १,१७०.२३ ॥

त्रिवृच्च त्रिफला श्यामा पिप्पली शर्कग मधु ।
मोदकः सन्निपातान्तो रक्तपित्तज्वरापहः ॥ १,१७०.२४ ॥

वासायां विद्यमानायामाशायां जीवितस्य च ।
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥ १,१७०.२५ ॥

आटरूपकमृद्वीकापथ्याक्वाथः सशर्करः ।
क्षौद्राढ्यः कासनिः श्वासरक्तपित्तनिबर्हणः ॥ १,१७०.२६ ॥

वासारसः खण्डमधुयुतः पीतोऽथरक्तजित् ।
सल्लकीबदरीजम्बुप्रियालाम्रार्जुनं धवः ।
पीतं क्षीरञ्च मध्वाढ्यं पृथक्छोणितवारणम् ॥ १,१७०.२७ ॥

समूलफलपत्राया निर्गुण्ड्याः स्वरसैर्घृतम् ।
सिद्धं पीत्वा क्षयक्षीणी निर्व्यादिर्भाति देववत् ॥ १,१७०.२८ ॥

हरीतकी कणा शुण्ठी मरिचं गुडसंयुतम् ।
कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ १,१७०.२९ ॥

कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे ।
प्रस्थं सिद्धं घृतं स्याच्च कासनुद्वह्निदापनम् ॥ १,१७०.३० ॥

कृष्णा धात्री शिता शुण्ठी हक्काघ्नी मधुसंयुता ।
हिक्काश्वासी पिवेद्भार्ङ्गो सविश्वामुष्णवारिणा ॥ १,१७०.३१ ॥

तैलाक्तं स्वरभेदे वा खादिरं धारयेन्मुखे ।
पथ्यां पिप्पलिकायुक्तां संयुक्तां नागरेण वा ॥ १,१७०.३२ ॥

विडङ्गत्रिलाचूर्णं छर्दिहृन्मधुना सह ।
आम्रजम्बूकषायं वा पिबोन्माक्षिकसंयुतम् ॥ १,१७०.३३ ॥

छर्दि सर्वां प्रणुदति तृष्णाञ्चैवापकर्षति ।
त्रिफला भ्रममूर्छाहृत्पीता सा मधुनापि वा ॥ १,१७०.३४ ॥

पञ्चगव्यं हितं पानादपस्मारग्रहादिनुत् ।
कूष्माण्डकरसो वाज्यं सयष्टिकं तदर्थकृत् ॥ १,१७०.३५ ॥

ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च ।
पुराणं सेव्यमुन्मादग्रहापस्मारद्घृनुतम् ॥ १,१७०.३६ ॥

अश्वगन्धाकषाये च कल्के क्षीरे चतुर्गुणे ।
घृतपक्वन्तु वातघ्नं वृष्यं मां साय पुत्रकृत् ॥ १,१७०.३७ ॥

नीलीमुण्डीरिकाचूर्णं मधुसर्पिः समन्वितम् ।
छिन्नाक्वाथं पिबन्हन्ति वातरक्तं सुदुस्तरम् ॥ १,१७०.३८ ॥

सगुडाः पञ्च पथ्याश्च कुष्टार्शोवातसादनाः ।
गडचीस्वरसं कल्कं चूर्णं वा क्वाथमेव वा ॥ १,१७०.३९ ॥

वातरक्तान्तकं कालागुडूचीक्वाथकल्कतः ।
कुष्ठव्रणादिशमनं शृतमाज्यं सदुग्धकम् ॥ १,१७०.४० ॥

त्रिफलागुग्गुलुर्वातरक्तमूर्छापहारकः ।
ऊरुस्तम्भविनाशाय गोमूत्रेण च गुग्गुलुः ॥ १,१७०.४१ ॥

शुण्ठीगोक्षुरकक्वाथः सामवातार्तिशूलनुत् ।
दशमूलामृतैरण्डरास्नानागरदारुभिः ॥ १,१७०.४२ ॥

क्वाथो हन्ति माहशोथं मरीचगुडसंयुतः ।
कासघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ १,१७०.४३ ॥

कण्टकारिगुडूचीभ्यां पृथक्त्रिंशत्पले रसे ।
प्रस्थसिद्धं घृतञ्चैव कासनुद्धृदि दीपनः ॥ १,१७०.४४ ॥

कृष्णाधात्रीसिताशुण्ठीमरीचसैन्धवान्वितः ।
क्वाथ एरण्डतैलेन सामं हन्त्यनिलं गुरुम् ॥ १,१७०.४५ ॥

बला पुनर्नवैरण्डबृहतीद्वयगोक्षुरैः ।
सहिङ्गुलवर्ण पीतं वातशूलविमर्दनम् ॥ १,१७०.४६ ॥

त्रिफलानिम्बयष्टीककटुकारग्वधैः शृतम् ।
पाययेन्मधुना मिश्रं दाहशूलोपशान्तये ॥ १,१७०.४७ ॥

त्रिफलापः सयष्टीकाः परिणामार्तिनाशनाः ।
गोमूत्रशुद्धमण्डूरं त्रिफलाचूर्णसंयुतम् ।
विलिहन्मधुसर्पिर्भ्यां शूलं हन्ति त्रिदोषजम् ॥ १,१७०.४८ ॥

त्रिवृत्कृष्णाहरीतक्यो द्विचतुष्पञ्चभागिकाः ।
गुटिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥ १,१७०.४९ ॥

हरीतकीयवक्षारपिप्पलीत्रिवृतस्तथा ।
घृतैश्चूर्णमिदं पेयमुदावर्ताविनाशनम् ॥ १,१७०.५० ॥

त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भाविताः ।
वटिका मूत्रपीतास्ताः श्रेष्टाश्चानाहभेदिकाः ॥ १,१७०.५१ ॥

त्र्यूषणत्रिफलाधन्यविडङ्गचव्यचित्रकैः ।
कल्कीकृतैर्घृतं सिद्धं संस्कारं वातगुल्मनुत् ॥ १,१७०.५२ ॥

मूलं नागरमानीतं सक्षीरं हृदयार्तिनुत् ।
सौवचलं तदर्धन्तु शिवानाञ्च घृतं पिबेत् ॥ १,१७०.५३ ॥

कणापाषाणभेदैर्वा शिलाजतुकचूर्णकम् ।
तण्डुलीभिर्गुडेनापि मूत्रकृच्छ्रीति जीवति ॥ १,१७०.५४ ॥

अमृतानागरीधात्रीवाजिगन्धात्रिकण्टकाम् ।
प्रपिबेद्वातरेगार्तः सशूलो मूत्रकृच्छ्रवान् ॥ १,१७०.५५ ॥

सितातुल्यो यवक्षारः सर्वकृच्छ्रनिवारणः ।
निदिग्धिकारसो वापि सक्षौद्रः कृच्छ्रनाशनः ॥ १,१७०.५६ ॥

लवणं त्रिफलाकल्कैर्मूत्राघातहरं स्मृतम् ।
मूत्रे विरुद्धे कर्पूरचूर्णं लिङ्गे प्रवेशयेत् ॥ १,१७०.५७ ॥

क्वाथश्च शिग्रुमूलोत्थः कटूष्णोश्मानिपातनः ।
सर्वमेहहरोधात्र्या रसःक्षौद्रनिशायुतः ।
त्रिफलादारुदार्व्यष्टक्वाथः क्षौद्रेण मेहहा ॥ १,१७०.५८ ॥

अस्वप्नं च व्यवायं च व्यायामाश्चिन्तनानि च ।
स्थौल्यमिच्छन्पपरित्यक्तं क्रमेणाभिप्रवर्धयेत् ॥ १,१७०.५९ ॥

यवश्यामाकभोजी स्यास्थौल्यकृन्मधुवारिणा ।
उष्णमन्नं समण्डं वा पिबन्कृशतनुर्भवेत् ॥ १,१७०.६० ॥

सचव्यजीरकं व्योषा हिङ्गुसौवर्चलामलाः ।
मधुना रक्तवः पीता मेधोघ्ना सर्वदीपनाः ॥ १,१७०.६१ ॥

चतुर्गुणे जले मूत्रे द्विगुणे चित्रकाणि च ।
कल्कैः सिद्ध घृत प्रस्थं सक्षीरं जठरी पिबेत् ॥ १,१७०.६२ ॥

क्रमवृद्ध्या दशाहानि दश पैप्पालिकं दिनम् ।
वर्धयेत्पयसा सार्धं तथैवापानयेत्पुनः ॥ १,१७०.६३ ॥

क्षीरषष्टिकभोजीस्यादेवं कृष्णसहस्रकम् ।
बृंहणं मुद्गमायुष्यं प्लीहोदरविनाशनम् ॥ १,१७०.६४ ॥

पुनर्नवाक्वाथकल्कैः सिद्धं शोथहरं घृतम् ।
गावा मत्रेण संसेव्यं पिप्पली वा पयोऽन्विताः ।
गुडन वाभयां तुल्यां विश्वं वा शोथरोगिणा ॥ १,१७०.६५ ॥

तैलमेरण्डजं पीत्वा बलासिद्धं पयोऽन्वितम् ।
आध्मानशूलोपचितामन्त्रवृद्धिञ्जयेन्नरः ॥ १,१७०.६६ ॥

भ्रष्टोरुचकतैलेन कल्कः पथ्यासमुद्भवः ।
कृष्णसैन्धवसंयुक्तो वद्धिरोगहरः परः ॥ १,१७०.६७ ॥

निर्गुण्डीमूलनस्येन गण्डमाला विनश्यति ।
स्मुहीगण्डीरिकास्वेदो नाशयेदर्बुदानि च ॥ १,१७०.६८ ॥

हस्तिकर्णपलाशस्य गलगण्डं तु लेपतः ।
धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः ॥ १,१७०.६९ ॥

प्रलेपःश्लीपदं हन्ति चिरोत्थमतिदारुणम् ।
शोभाञ्जनकसिन्धृत्थहिङ्गुं विद्रधिनाशनम् ॥ १,१७०.७० ॥

शरपुङ्खा मधुयुता यात्सर्स्वव्रणगेपणी ।
निम्बपत्रस्य वालेपः श्वयथुव्रणगेपणः ॥ १,१७०.७१ ॥

त्रिफला खदिरो दार्वो न्यग्रोधो व्रणशोधनः ।
सद्यः क्षतं व्रणं वैद्यः सशूलं परिषेचयेत् ॥ १,१७०.७२ ॥

यष्टीमधुकयुक्तेन किञ्चिदुष्णेन सर्पिषा ।
बुद्ध्वागन्तुव्रणान्वैद्यो घृतक्षौद्रसमन्विताम् ॥ १,१७०.७३ ॥

शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशिनीम् ।
क्वाथो वंशत्वगेरण्डश्वदंष्ट्रवनिदाकृतः ॥ १,१७०.७४ ॥

सहिङ्गुसैन्धवः पीतः कोष्ठस्थं स्त्रावयेदसृक् ।
यवकोलकुलत्थानां निःस्नेहेन रसेन वा ॥ १,१७०.७५ ॥

भुञ्जीतान्नं यवाग्वा वा पिवेत्सैन्धवसंयुतम् ।
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रिमीन् ॥ १,१७०.७६ ॥

त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृतः ।
निर्यन्त्रणो विबन्धघ्नो व्रधनगेपणः ॥ १,१७०.७७ ॥

दूर्वास्वरससिद्धं वा तलं कम्पिल्लकेन वा ।
दार्वोत्वचश्च कल्केन प्रधानं व्रणरोपणम् ॥ १,१७०.७८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरादिचिकित्सानिरूपणं नाम सप्तत्युत्तरशततमोऽध्यायः