गरुडपुराणम्/आचारकाण्डः/अध्यायः १७१

← आचारकाण्डः, अध्यायः १७० गरुडपुराणम्
अध्यायः १७१
वेदव्यासः
आचारकाण्डः, अध्यायः १७२ →

श्रीगरुडमहापुराणम् १७१
धन्वन्तरिरुवाच ।
नाडीव्रणादिरोगाणां चिकित्सां शृणु सुश्रुत ।
नाडीं शस्त्रेण संपाट्य नाजीनां व्रणवत्क्रिया ॥ १,१७१.१ ॥

गुग्गुलुत्रिफलाव्योपैः समांशैराज्ययोजितैः ।
नाडीदुष्टव्रणं शूलं भगन्दरमथो जयेत् ॥ १,१७१.२ ॥

निर्गुण्डीरसतस्तैलं नाडीदुष्टव्रणापहम् ।
हितं पामामयानां तु पानाभ्यञ्जननावनैः ॥ १,१७१.३ ॥

गग्गुत्रिफलाकृष्णात्रिपञ्चैकांशयोजिता ।
घुटि (गुडि) काशोथगुल्मार्शोभगन्दरवतां हिता ॥ १,१७१.४ ॥

ध्वजमध्ये शिरावेधे विशुद्धिरुपदंशके ।
पाको रक्ष्यः प्रयत्नेन शिश्रक्षयकरो हि सः ॥ १,१७१.५ ॥

पटोलनिम्बत्रिफलागुडूचीक्वाथमापिबेत् ।
सगुग्गुलुं सखदिरमुपदंशो विनश्यति ॥ १,१७१.६ ॥

दहेत्कटाहे त्रिफलां सामसी (षी) मधसंयुताम् ।
उपदंशे प्रलेपोऽय सद्यो रोपयते व्रणम् ॥ १,१७१.७ ॥

त्रिफलानिम्बभूनिम्बकरञ्जखदिरादिभिः ।
कल्कैः क्वाथैर्घृतं पक्वमुपदंशहरं परम् ॥ १,१७१.८ ॥

आदौ भग्नं विदित्वा तु सेचयेच्छीतलांबुना ।
पक्वेनालेपनं कार्यं बन्धनं च कुशान्वितम् ॥ १,१७१.९ ॥

माषं मांसं तथा सर्पिः क्षीरं यूषः सतीजलः ।
बृंहणं चान्नपानं स्यात्प्रदेयं भग्नरोगिणे ॥ १,१७१.१० ॥

रसोनमधुनासाज्यसिताकल्कं समश्नुता ।
छिन्नभिन्नच्युतास्थीनां सन्धानमचिराद्भवेत् ॥ १,१७१.११ ॥

अश्वत्थत्रिफलाव्योषाः सवरभिः समीकृतैः ।
तुल्यो गुग्गुलुना योज्यो भग्नसन्धिप्रसाध (कृत्) कः ॥ १,१७१.१२ ॥

सर्वकुष्ठेषु वमनं रेचनं रक्तमोक्षण ।
वचावासापटोलानां निम्बस्य कलिनीत्वचः ॥ १,१७१.१३ ॥

कषायो मधुना पीतो वातहृन्मदनान्वितः ।
विरेचनं प्रयोक्तव्यं त्रिवृत्कर्णफलत्रिकैः ॥ १,१७१.१४ ॥

मनः शिलांमरीचैस्तु तैलं कुष्ठविनाशनम् ।
सर्वकुष्ठे विलेपोऽयं शिवापञ्चगुडौदनम् ॥ १,१७१.१५ ॥

करञ्जैलगजैः कुष्ठं गोमूत्रेण प्रलेपतः ।
करवीरोद्वर्तनं च तैलाक्तस्य च कुष्ठहृत् ॥ १,१७१.१६ ॥

हरिद्रा मलयं रास्ना गुडूच्येडगजस्तथा ।
आरग्वधः करञ्जश्च लेपः कुष्ठहरः परः ॥ १,१७१.१७ ॥

मनः शिलाविडङ्गानि वागजी सर्षपास्तथा ।
करञ्जैर्मूत्रपिष्टोऽयं लेपः कुष्टहरोर्ऽकवत् ॥ १,१७१.१८ ॥

विडङ्गैडवचा कुष्ठनिशासिन्धूत्थसर्षपैः ।
मूत्राम्लपिष्टो लेपोऽयं दद्रूकुष्टविनाशनः ॥ १,१७१.१९ ॥

प्रपुन्नाटसुबीजानि धात्री सर्जरसः स्नुही ।
सौवीरपिष्टं दद्रूणामेतदुद्वर्तनं परम् ॥ १,१७१.२० ॥

आरग्वधस्य पत्राणि आरनालेन पेषयेत् ।
दद्रूकिट्टिम (भ) कुष्ठानि हन्ति सिध्मानमेव च ॥ १,१७१.२१ ॥

उष्णो पीता वागुजी च कुष्ठजित्क्षीरभोजनः ।
तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः ।
वृष्याः सप्त समा मेध्याः कष्ठहाः कामचारिणः ॥ १,१७१.२२ ॥

विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् ।
हन्ति कुष्ठक्रिमिमेहनाडीव्रणभगन्दरान् ॥ १,१७१.२३ ॥

यः खादेदभयारिष्टमरिष्टामलकानिशाः ।
स जयेत्सर्वकुष्ठानिमासादूर्ध्वं न संशयः ॥ १,१७१.२४ ॥

दह्यमानायुतः कुम्भे मूलगे खदिराङ्कुरः ।
साक्षधात्रीरसः क्षौद्रो हन्यात्कुष्ठं रसायनम् ॥ १,१७१.२५ ॥

धात्री खदिरयोः क्काथं पीत्वा वागजिसंयुतम् ।
शङ्खेन्दुधवलं श्वित्रं हन्ति तूर्णं न संशयः ॥ १,१७१.२६ ॥

पीत्वा भल्लातकं तैलं मासाद्व्याधिं जयेन्नरः ।
सेवितं खादिरं वारि पानाद्यैः कुष्ठजिद्भवेत् ॥ १,१७१.२७ ॥

भावितं मलपूक्वाथैः सोमराजीफलं बहु ।
कर्षं भक्षेदलवणो ह्यक्षफल्गुशृतं पिबेत् ॥ १,१७१.२८ ॥

हन्ति श्वित्रमसाध्यं च लेपे योज्यापराजिता ।
वासा शुद्धा च त्रिफला पटोलं च करञ्जकम् ॥ १,१७१.२९ ॥

निम्बाशनं कृष्णवेत्रं क्वाथकल्केन यद्धृतम् ।
वज्रकं तद्भवेत्कुष्ठं शतवर्षाणि जीवति ॥ १,१७१.३० ॥

स्वरसेन च दूर्वायाः पचेत्तैलं चतुर्गुणम् ।
कच्छूर्विचर्चिका पामा अभ्यङ्गादेव नश्यति ॥ १,१७१.३१ ॥

द्रुमत्वगर्ककुष्ठानि लवणानि च मूत्रकम् ।
गम्भारिकाचित्रकैस्तैस्तैलं कुष्ठव्रणादिनुत् ॥ १,१७१.३२ ॥

(अथाम्लपित्तचिकित्सा) धात्रीनिम्बफलं तद्वद्गोमूत्रेण च चित्रकम् ।
वासामृतापर्पटिकानिम्बभूनिम्बमार्करैः (वैः) ।
त्रिफलाकुलत्थैः क्वाथः सक्षौद्रश्चाम्लपित्तहा ॥ १,१७१.३३ ॥

फलत्रिकं पटोलं च तिक्तक्वाथः सितायुतः ।
पीतो यष्टीमधुयुतो ज्वरच्छर्द्यम्लपित्तजित् ॥ १,१७१.३४ ॥

वासाघृतं तिक्तघृतं पिप्पलीघृतमेव च ।
अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डकं तथा ॥ १,१७१.३५ ॥

पिप्पली मधुसंयुक्ता अम्लपित्तविनाशिनी ।
श्लेष्माग्निमान्द्यनुत्पथ्यापिप्पलीगुडमोदकः ॥ १,१७१.३६ ॥

पिष्ट्वाजाजीं सधन्याकां घृप्रस्थं विपाचयेत् ।
कफपित्तारुचिहरं मन्दानलवमिं हरेत् ॥ १,१७१.३७ ॥

(इत्यम्लपित्तचिकित्सा) पिप्पल्यमृतभूनिम्बवासकारिष्टपर्पटैः ।
खदिरारिष्टकैः क्वाथो विस्फोटार्तिज्वरापहः ॥ १,१७१.३८ ॥

त्रिफलारससंयुक्तं सर्पिस्त्रिवृतयासह ।
प्रयोक्तव्यं विरेकार्थं वीसर्पज्वरशान्तये ॥ १,१७१.३९ ॥

खादिरात्रिफलारिष्टपटोलामृतवासकैः ।
क्वाथोऽष्टकाख्यो जयति रोमान्तिकमसूरिकाम् ॥ १,१७१.४० ॥

कुष्ठवीसर्पविस्फोटकण्ड्वादीनां विघातकः ।
लशुनानां तु चृर्णस्य घर्षो मशकनाशनः ॥ १,१७१.४१ ॥

चर्मकीलं जरुमणिं मशकांस्तिलकालकान् ।
उत्कृत्य शस्त्रेण दहेत्क्षागग्निभ्यामशेषतः ॥ १,१७१.४२ ॥

पटोलनीलीलेपः स्याज्जाल (ज्वाला) गर्दभरोगनुत् ।
गुञ्जाफलैः शृतं तलं भृङ्गराजरसेन तु ।
कण्ठ (ण्डु) दारुणकृत्कुष्ठवातव्याधिविनाशनम् ॥ १,१७१.४३ ॥

अर्कास्थिमज्जात्रिफलानालीछा भृङ्गराजकम् ।
जीर्णे पक्वे लौहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥ १,१७१.४४ ॥

क्षीरात्सशर्करसाद्द्विप्रस्थो मधुकात्पले ।
तैलम्य कुडवं पक्वं तन्नस्यं पलितापहम् ॥ १,१७१.४५ ॥

मुखरोगे तु त्रिफलागण्डूषपरिधारणम् ।
गृहधूम यवक्षारपाठाव्योपरसाञ्जनम् ॥ १,१७१.४६ ॥

तेजोदं त्रिफलालोध्रं चित्रकं चेति चूर्णितम् ।
सक्षौद्रं धारयेद्वक्त्रे ग्रीवादन्तास्यरोगनुत् ॥ १,१७१.४७ ॥

पटोल निम्बजम्व्वाग्रमालतीनवपल्लवाः ।
पञ्चपल्लवकः श्रेष्ठः कषयो मुखधावने ॥ १,१७१.४८ ॥

लशुनार्द्रकशिग्रूणां पारुल्या मूलकस्य च ।
रुदन्त्याश्च रसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥ १,१७१.४९ ॥

तीव्रशूलोत्तरे कर्णे सशब्दे क्लेदवाहिनि ।
बस्तमूत्रं क्षिपेत्कोष्णं सैन्धवेनावचूर्णितम् ॥ १,१७१.५० ॥

जातीपत्ररसे तैलं पक्वं पूतिककर्णजित् ।
शुण्ठीतैलं सार्षपं च क्रोष्णं स्यात्कर्णशूलनुत् ॥ १,१७१.५१ ॥

पञ्चमूलिशृतं क्षीरं स्याच्चित्रकहरीतकी ।
सर्पिर्गुडः षडङ्गश्चयूषः पीनसशान्तये ॥ १,१७१.५२ ॥

अक्षिकुक्षिभवा रोगाः प्रतिश्यायव्रणज्वराः ।
पञ्चैते पञ्चरात्रेण प्रशमं यान्ति लङ्घनात् ॥ १,१७१.५३ ॥

धात्रीरसानाञ्च दृशः कोपं हरति पूरणात् ।
सक्षौद्रः सैन्धवो वापि शिग्रुदार्विरसाञ्जनम् ॥ १,१७१.५४ ॥

हरिद्रादारुसिन्धूत्थपथ्याजनवगौरिकैः ।
पिष्टैर्दत्तो बहिर्लपो नेत्रव्याधिनिवारकः ॥ १,१७१.५५ ॥

मृतभ्रष्टाभयालेपात्त्रिफला क्षीरसंयुता ।
शुण्ठीनिम्बदलैः पिष्टैः सुखोष्णैः स्वल्पसैन्धवैः ।
धार्यश्चक्षुषि संक्षेपाच्छोथकण्डूरुजापहः ॥ १,१७१.५६ ॥

अभयाक्षामृतं चैकद्विचतुर्भागिकं युतम् ।
मध्वाज्यलीढं क्वाथो वा सर्वनेत्ररुगर्दनम् ॥ १,१७१.५७ ॥

चन्दनत्रिफलापूगपलाशतरुमूलकैः ।
जलपिष्टैरियं विर्तिरशेषतिमिरापहा ॥ १,१७१.५८ ॥

दध्नातिघृष्टं मरिचं रात्र्यान्ध्यापहमञ्जनम् ।
त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् ॥ १,१७१.५९ ॥

तिमिराण्यचिराद्धन्यात्पीतमेतन्निशामुखे ।
पिप्पलीत्रिफला द्राक्षालोहचूर्णं ससैन्धवम् ॥ १,१७१.६० ॥

भृङ्गराजरसैर्घृष्टं घुटिकाञ्जनमिष्यते ।
आन्ध्यं सतिमिरं काचं हन्त्यन्यान्नेत्ररोगकान् ॥ १,१७१.६१ ॥

त्रिकटु त्रिफला नक्त सैन्धवं च मनः शिला ।
रुचकं शङ्खनाभिश्च जातीपुष्पाणि निम्बकम् ॥ १,१७१.६२ ॥

रसाञ्जनं भृङ्गराजं घृतं मधु पयस्तथा ।
एतत्पिष्ट्वा च वटिका सर्वनेत्ररुगर्दिनी ॥ १,१७१.६३ ॥

दग्धमेरण्डकं मूलं लेपात्काकिकपेषितम् ।
शिरोऽर्तिं नाशयत्याशु पुष्पं वा मुचुकुन्दक (ज) म् ॥ १,१७१.६४ ॥

शतमूल्यैरण्डमूलचक्राव्याघ्रीपलैः शृतम् ।
तैलं नस्यमरुश्लेष्मतिमिरोर्ध्वर्(द्ध) गदापहम् ॥ १,१७१.६५ ॥

नाचनं (लनणं) सगुडं विश्वं पिप्पली वा ससैन्धवा ।
भुजस्तम्भादिरोगेषु सर्वेषूर्ध्वगदेषु च ॥ १,१७१.६६ ॥

सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम् ।
दशमूलीकषायं तु सर्पिः सैन्धवसंयुतम् ।
नस्यमङ्गविभेदघ्नं सूर्यावर्तशिरोऽर्तिनुत् ॥ १,१७१.६७ ॥

दध्ना सौवर्चलाजाजीमधूकं नीलमुत्पलम् ।
पिबेत्क्षौद्रयुतं नारी वातासृग्दरपीडिता ॥ १,१७१.६८ ॥

वासकस्वरसं पैत्ते गुडूच्या रसमेव वा ।
जलेनामलकीबीजं कल्कं वाससितामधु ॥ १,१७१.६९ ॥

आमलक्या मधुरसं मूलं कार्पासमेव वा ।
पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ॥ १,१७१.७० ॥

तण्डुलीयकमूलं तु सक्षौद्रे सरसाञ्जनम् ।
तण्डुलोदकसंपीतं सर्वांश्चासृक्दराञ्जयेत् ।
कुशमूलं तण्डुलाद्भिः पीतं चासृक्दरं जयेत् ॥ १,१७१.७१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नाडीव्रणादिचिकित्सावर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः