गरुडपुराणम्/आचारकाण्डः/अध्यायः १७६

← आचारकाण्डः, अध्यायः १७५ गरुडपुराणम्
अध्यायः १७६
वेदव्यासः
आचारकाण्डः, अध्यायः १७७ →

श्रीगरुडमहापुराणम् १७६
श्रीभगवानुवाच ।
सप्तरात्रात्प्रजायन्ते खल्वाटस्य कचाः शुभाः ।
दग्धहस्तिदन्तलेपात्साजाक्षीररसाञ्जनात् ॥ १,१७६.१ ॥

भृङ्गराजरसेनैव चतुर्भागेन साधितम् ।
केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च ॥ १,१७६.२ ॥

एलामांसीकुष्ठमुरायुक्तमभ्यङ्गतः शिवम् ।
गुञ्जाफलं समादेयं लेपनं चन्द्रलुप्तनुत् ॥ १,१७६.३ ॥

आम्रास्थिचूर्णलेपाद्वै केशाः सूक्ष्मा भवन्ति च ।
करञ्जामलकैलाललाक्षालेपोऽरुणापहः ॥ १,१७६.४ ॥

आम्रास्थिमज्जामलकलेपात्केशा भवन्ति वै ।
बद्धमूला घना दीर्घाः स्नग्धाः स्युर्नोत्पतन्ति च ॥ १,१७६.५ ॥

विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम् ।
सचतुर्गुणगोमूत्रं मनसः शिलमेव वा ॥ १,१७६.६ ॥

शिरोऽभ्यङ्गाच्छिराजन्मयूकालिख्याः क्षयं नयेत् ।
नवदग्धं शङ्खचूर्णं घृष्टसीसकलेपितम् ॥ १,१७६.७ ॥

कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज ।
भृङ्गराजं लोहचूर्णं त्रिफला बीजपूरकम् ॥ १,१७६.८ ॥

नीली च करवीरं च गुडमेतैः समं शृतम् ।
पलितानीह कृष्णानि कुर्याल्लेपान्महौषधम् ॥ १,१७६.९ ॥

आम्रास्थिमज्जा त्रिफला नी (ता) ली च भृङ्ग राजकम् ।
जीर्णं पक्वं लोहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥ १,१७६.१० ॥

चक्रमर्दकबीजानि कुष्ठमेरण्डमूलकम् ।
अत्यम्लकाञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत् ॥ १,१७६.११ ॥

सैन्धवं च वचा हिङ्गु कुष्ठं नागेश्वरं तथा ।
शतपुष्पा देवदारु एभिस्तैलं तु साधितम् ॥ १,१७६.१२ ॥

गोपुरीपरसेनैव चतुर्भागेन संयुतम् ।
तत्कणभरणादुग्रकर्णशूलं क्षयं नयेत् ॥ १,१७६.१३ ॥

मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणाच्छिव ।
कर्णयोः पूतिनाशः स्यात्कृमिस्त्रावादिकस्य च ॥ १,१७६.१४ ॥

मालतीपुप्पदलयो रसेन भरणात्तथा ।
गोजलेनैव पूरेण पूयस्त्रावो विनश्यति ॥ १,१७६.१५ ॥

कष्ठमाषमरीचानि तगरं मधु पिप्पली ।
अपामार्गोऽश्वगन्धा च बृहती सितसर्षपाः ॥ १,१७६.१६ ॥

यवास्तिलाः सैन्धवं च पादिकोद्वर्तनं शुभम् ।
लिङ्गबाहुस्तनानां च कर्णयोर्वृद्धिकृद्भवेत् ।
कटुतैलं भल्लातकं बृहती फलदाडिमम् ॥ १,१७६.१७ ॥

वल्कलैः साधितैर्लिप्तं लिङ्गं तेन विवर्धते ॥ १,१७६.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे केशोत्पत्त्यादिवर्णनं नाम षट्सप्तत्युत्तरशततमोऽध्यायः