प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १७६ गरुडपुराणम्
अध्यायः १७७
वेदव्यासः
आचारकाण्डः, अध्यायः १७८ →

श्रीगरुडमहापुराणम् १७७
हरिरुवाच ।
सोभाञ्जनपत्ररसं मधुयुक्तं हि चक्षुषोः ।
भ (च) रणाद्रोगहरणं भवेन्नास्त्यत्र संशयः ॥ १,१७७.१ ॥

अशीतितिलपुष्पाणि जात्याश्च कुसुमापि च ।
उषानिम्बामलाशुण्ठीपिप्पलीतण्डुलीयकम् ॥ १,१७७.२ ॥

छायासुष्कां वटीं कुर्यात्पिष्ट्वा तण्डुलवारिणा ।
मधुना सहसा चाक्ष्णोरञ्जनात्तिमिरादिनुत् ॥ १,१७७.३ ॥

बिभीतकास्थिमज्जा तु शङ्खनाभिर्मनः शिला ।
निम्बपत्रमरीचा नि अजामूत्रेण पेषयेत् ॥ १,१७७.४ ॥

पुष्पं रात्र्यन्धतां हन्ति तिमिरं पटलं तथा ।
चतुर्भागानि शङ्खस्य तदर्धेन मनः शिला ॥ १,१७७.५ ॥

सैन्धवं च तदर्धेनत्वेतत्पिष्ट्वादकेन तु ।
छायाशुष्कां तु वटिकां कृत्वा नयनमञ्जयेत् ॥ १,१७७.६ ॥

तिमिरं पटलं हन्ति पिचिटं च महौषधम् ।
त्रिकटु त्रिफलां चैव करं जस्य फलानि च ॥ १,१७७.७ ॥

सैन्धवं रजनीद्वे व भृङ्गराजरसेन हि ।
पिष्ट्वा तदञ्जनादेव तिमिरादिविनाशनम् ॥ १,१७७.८ ॥

आटरूषकमूलं तु काञ्जिकापिष्टमेव तु ।
तेनाक्षिबूमिलेपाच्च चक्षुः शूलं विनश्यति ॥ १,१७७.९ ॥

सतक्रं बदरीमूलं पीतं वाक्षिव्यथां हरेत् ।
सैन्धंवं कटुतैलं च अपामार्गस्य मूलकम् ॥ १,१७७.१० ॥

क्षीरकाञ्जिकसंघृष्टं ताम्रपात्रे तु तेन च ।
अञ्जनात्पिञ्जटस्यैव नाशो भवति शङ्कर ॥ १,१७७.११ ॥

ओं दद्रु सर क्रों ह्रीं ठः ठः दद्रु सर ह्रीं ह्रीं ओं उं ऊ सर क्रीं क्रीं ठः ठः ।
आद्या हि वशामायान्ति मन्त्रेणानेन चाञ्जनात् ॥ १,१७७.१२ ॥

बिल्वकनीलिकामूलं पिष्टमभ्यञ्जनेन च ।
अनेनाञ्जितमात्रेण नश्यन्ति तिमिराणि हि ॥ १,१७७.१३ ॥

कटुकं (पिप्पली) तगरं चैव हरिद्रामलकं वचा ।
खदिरपिष्टवात्तश्च अञ्जनान्नेत्ररोगनुत् ॥ १,१७७.१४ ॥

नीरपूर्णमुखो धौति बृहन्मानेन योऽक्षिणी ।
प्रभाते नेत्ररोगैश्च नित्यं सर्वैः प्रमुच्यते ॥ १,१७७.१५ ॥

शुक्लैरण्डस्य मूलेन पत्रेणापि प्रसाधितम् ।
छगदग्धसेकमौष्ण्याच्चक्षुषोर्वातशलनत् ॥ १,१७७.१६ ॥

चन्दनं सैन्धवं वृद्धपालाशश्च हरीतकी ।
पटलं कुसुमं नीली च (व) क्रिकां हरतेऽञ्जनम् ॥ १,१७७.१७ ॥

गुञ्जामूलं छागमूत्रे घृष्टं तिमिरनुच्च तत्रौप्यताम्रसुवर्णानां हस्तघृष्टशलाकया ॥ १,१७७.१८ ॥

घृष्टमुद्वर्तनं रुद्र कामलाव्याधिनाशनम् ।
घोषाफलमपाघ्रातं पीतकामलनाशनम् ॥ १,१७७.१९ ॥

दूर्वादाडिमपुष्पं तु अलक्तकहरीतकी ।
नासार्शवातरक्तनुन्नस्याद्वै स्वरसेन हि ॥ १,१७७.२० ॥

आपिष्ट्वा जाङ्गली मू (तू) लं तद्रसेन वृषध्वज ।
नस्यादाराद्विनश्येत नाशार्शो नीललोहित ॥ १,१७७.२१ ॥

गव्यं घृतं सर्जरसं रुद्र धन्याकसैन्धवम् ।
धुत्तूरकं गैरिकं च एतैः साधितसिक्थकम् ॥ १,१७७.२२ ॥

सतैलं व्रणनुत्स्याच्च स्फुटितोद्धटिताधरे ।
जातीपत्रं च चर्वित्वा विधृतं मुखरोगनुत् ॥ १,१७७.२३ ॥

भक्षात्केसरबीजस्य दन्ताः स्युश्चलिताःस्थिराः ।
मुष्टकं कुष्ठमेला च यष्टिकं मधुवालकम् ॥ १,१७७.२४ ॥

धन्याकमेतददनान्मुखदुर्गन्धनुद्धर ।
कषायं कटुकं वापि तिक्तशाकस्य भक्षणात् ॥ १,१७७.२५ ॥

तलयुक्तस्य नित्यं स्यान्मुखदुर्गन्धताक्षयः ।
दन्तव्रणानि सर्वाणि क्षयं गच्छन्त्यनेन तु ॥ १,१७७.२६ ॥

काञ्जिकस्य सतैलस्य गण्डूषकवलास्थितिः ।
ताम्बूलचूर्णदग्धस्य मुखस्य व्याधिनुच्छिव ! ॥ १,१७७.२७ ॥

परित्यक्तश्लेष्मणश्च शुण्ठीचर्वणतो यथा ।
मातुलुङ्गदलान्येला यष्टी मधु च पिप्पली ॥ १,१७७.२८ ॥

जातीपत्रमथैषां च चूर्णं लीढ्वा तथा कृतम् ।
शेफालिकजटायाश्च चर्वणं गलशुण्ठिनुत् ॥ १,१७७.२९ ॥

नासाशिरारक्तकर्षान्नश्येच्छंशकर जिह्विका ।
रसः शिरीषबीजानां हरिद्रायाश्चतुर्गुणः ॥ १,१७७.३० ॥

तेन पक्वेन भूतेश नस्यं मस्तकरोगनुत् ।
गलरोगा विनश्यन्ति नस्यमात्रेण तत्क्षणात् ॥ १,१७७.३१ ॥

दन्तकीटविनाशः म्याद्गुञ्जामूलस्य चर्वणात् ।
काकजङ्घास्नुहीनीलीकवायो मधुमोजितः ॥ १,१७७.३२ ॥

दन्ताक्रान्तान्दन्तजांश्च कृमीन्नाशयते शिव ।
घतं कर्कटपादेन दुग्धोन्मिश्रेण साधितम् ॥ १,१७७.३३ ॥

तेन चाम्यङ्गितादन्ताः कुर्युः कटकटान्न हि ।
लिप्त्वा कर्कटपादेन केवलेनाथवाशिव ॥ १,१७७.३४ ॥

त्रिसप्ताहं वाः पिष्टानि ज्योतिष्मत्याः फलानि हि ।
शुक्लाभयामज्जलेपाद्दन्तस्याङ्ककलङ्कनुत् ॥ १,१७७.३५ ॥

लोध्रकुङ्कुममञ्जिष्ठालोहका लेयकानि च ।
यवतण्डुलमेतैश्च यष्टी मधुसमन्वितैः ॥ १,१७७.३६ ॥

वारिपिष्टैर्वक्त्रलेपः स्त्रीणां शोभनवक्त्रकृत् ।
द्विभागं छागदुग्धेन तैलप्रस्थं तु साधितम् ॥ १,१७७.३७ ॥

रक्तवन्दनमञ्जिष्ठालक्षाणां कर्षकेण वा ।
यष्टीमधुकुङ्कुमाभ्यां सप्ताहान्मुखकान्तिकृत् ॥ १,१७७.३८ ॥

शुण्ठीपिप्पलिचूर्णं तु गुडूची कण्टकारिका ।
एभिश्च क्वथितं वारि पीतं चाग्निं करोति वै ॥ १,१७७.३९ ॥

वातशूलक्षयं चैव कगेति प्रथमेश्वर ।
करञ्जपर्पटोशीरं बहती कटुरोहिणी ॥ १,१७७.४० ॥

गोक्षुरं क्वथितं त्वभिर्वारि पीतं श्रमापहन् ।
दाहं पित्तं ज्वरं शोषं मूर्छां चैव क्षयं नयेत् ॥ १,१७७.४१ ॥

मध्वाज्यपिप्पलीचूर्णं क्वथितं क्षीरसंयुतम् ।
पीतं हृद्रोगकासस्य विषमज्वरनुद्भवेत् ॥ १,१७७.४२ ॥

क्वाथौपधीनां सर्वासां कर्षार्धं ग्राह्यमेव च ।
वयोऽनुरूयतो ज्ञेयो विशेषो वृषभध्वज ॥ १,१७७.४३ ॥

दुग्धं पीतं तु संयुक्तं गोपुरीषरसेन च ।
विषमज्वरनुत्स्याच्च काकजन्धारसस्तथा ॥ १,१७७.४४ ॥

मशुण्ठि क्वथितं क्षीग्मजाया ज्वरनुद्भवेत् ।
यष्टीमधुकमुस्तं च सैन्धवं बृहतीफलम् ॥ १,१७७.४५ ॥

एतैर्नस्वप्रिदानाच्च निद्रा स्यात्पुरुपस्य च ।
मरीचप्रध्वश्वलालानस्यान्निद्रा भवेच्छिव ॥ १,१७७.४६ ॥

मूलं तु काकजङ्घाया निद्राकृत्स्याच्छिरस्थितम् ।
सिद्धं तैलं काञ्जिकेन तथा सर्जरसेन च ॥ १,१७७.४७ ॥

शीतोदकसमायुक्तं लेपात्सन्तापनाशनम् ।
शोणितज्वरदाहेभ्यो जातसन्तापनुत्तथा ॥ १,१७७.४८ ॥

शृकशैवालमन्थश्च शुण्ठीपापाणभेदकम् ।
शौवाञ्जनं गोक्षुरं वा वरुणच्छन्नमेव च ॥ १,१७७.४९ ॥

सौभाञ्जनस्य मूलं च एतैः क्वथितवारि च ।
दत्त्वा हिङ्गुयवक्षारं पीतं वातविनाशनम् ॥ १,१७७.५० ॥

पिप्पली पिप्पलीमूलं तथा भल्लातकं शिव ।
वार्येतैः क्वथितं पीतं वरशूलापहारकृत् ॥ १,१७७.५१ ॥

अश्वगन्धामूलकाभ्यां सिद्धा वल्मीकमृत्तिका ।
एतया मर्दनाद्रुद्र ऊरुस्तम्भः प्रशाम्यति ॥ १,१७७.५२ ॥

बृहतीकस्य वै मूलं संपिष्टमुदकेन च ।
पीतं संघातवातस्य विपाटनकृदेव च ॥ १,१७७.५३ ॥

पीतं तक्रेण मूलं च आर्द्रस्य तगरस्य च ।
हरेत्झिञ्जिनीवातं?वै वृक्षमिन्द्राशनिर्यथा ॥ १,१७७.५४ ॥

अस्थिसंहारमेकेन भक्तेन सह वादितम् ।
पतिं मांसरसेनापि वातनुच्चास्थिभङ्गनुत् ॥ १,१७७.५५ ॥

घृतलिप्तं सशुष्कं च छागीक्षीरेण संयुतम् ।
तल्लोपात्पादयार्नंश्येत्सक्षेप्ये चात्र संशयः ॥ १,१७७.५६ ॥

मध्वाज्यसैन्धवं सिक्थं गुडकैरिकगुग्गुलैः ।
ससर्जरसस्फुटितः क्लोमशुद्धिश्च लेपनात् ॥ १,१७७.५७ ॥

कटुतैलेन लिप्तो वै विधूमाग्नौ प्रतापितः ।
मृत्तिकारखादितः पादः समः स्याद्वृषभध्वज ॥ १,१७७.५८ ॥

सर्जरसाः सिक्थकं च जीरकं च हरीतकी ।
उत्साधितघृताभ्यङ्गो ह्यग्निदग्धव्यथापनुत् ॥ १,१७७.५९ ॥

तिलतैलं चाग्निदग्धं यवभस्मसमन्वितम् ।
अग्निदग्धव्रणं नश्येद्ब्रहुशः कृतलेपतः ॥ १,१७७.६० ॥

नवनीतं माहिषं च दग्धपिष्टतिलानि च ।
सभल्लाकं व्रणं नश्येद्धृच्छूलं नस्यलेपनात् ॥ १,१७७.६१ ॥

कर्पूरगव्यसर्पिर्भ्यां प्रहारः पूरितो हर ।
शस्त्रोद्भवः सबद्धश्च शुक्लवर्णेन शङ्कर ! ।
पाकं च वेदनां चैव संस्पृशेद्वृषभध्वज ॥ १,१७७.६२ ॥

आम्र (तस्य) मूलरसेनैव शस्त्रघातः प्रपूरितः ।
ढौकते शस्त्रघाताभ्यां निर्व्रणो घृपूरितः ॥ १,१७७.६३ ॥

शरपुङ्खा लज्जालुका पाठा चैषां तु मूलकम् ।
जलपिष्टं तस्य लेपाच्छस्त्रघातः प्रशाम्यति ॥ १,१७७.६४ ॥

मूलं च काकजङ्घायास्त्रिरात्रेणैव शोषितः ।
पाकपूतिं वेदनां च हन्ति वै रोहितो व्रणे ॥ १,१७७.६५ ॥

सजलं तिलतैलं च अपामार्गस्य मूलकम् ।
तत्सेकदानान्नश्येच्च प्रहारोद्भववेदना ॥ १,१७७.६६ ॥

अभयां सैन्धवं शुण्ठीमेतत्पिष्ट्वोदकेन तु ।
भक्षयित्वा ह्यजीर्णस्य नाशो भवति शङ्कर ! ॥ १,१७७.६७ ॥

कटिबद्धं निम्बमूलमक्षिसूलहरं भवेत् ।
शणमूलं सताम्बूलं दग्धमिन्द्रियकस्य (ल्प) हृत् ॥ १,१७७.६८ ॥

अन्नस्विन्नहरिद्रा च श्वेतसर्षपमूलकम् ।
बीजानि मातुलुङ्गस्य एषामुद्वर्तनं समम् ।
सप्तरात्रप्रयोगेण शुभदेहकरं भवेत् ॥ १,१७७.६९ ॥

श्वेतापराजितापत्रं निम्बपत्ररसेन तु ।
नस्यदानाड्डाकिनीनां मातॄणां ब्रह्मरक्षसाम् ।
मोक्षः स्यान्मधुसारेण नस्याच्च वृषभध्वज ॥ १,१७७.७० ॥

मूलं श्वेतजयन्त्याश्च पुष्यर्क्षे तु समाहृतम् ।
श्वेतापराजितार्कस्य चित्रकस्य च मूलकम् ।
कृत्वा तु वटिकां नारी तिलकेन वशी भवेत् ॥ १,१७७.७१ ॥

पिप्पलीलोहचूर्णं तु शुण्ठीश्चामलकानि च ।
समानि रुद्र जानीयात्सैन्धवं मधुशर्करा ॥ १,१७७.७२ ॥

उदुम्बरप्रमाणेन सप्ताहं भक्षणात्समम् ।
पुमांश्च बलवान्स स्याज्जीवेद्वर्षशतद्वयम् ।
ओं ठ ठ ठ इति सर्ववश्यप्रयोगेषु प्रयुक्तः सर्वकामकृत् ॥ १,१७७.७३ ॥

संगृह्य विद्वान्काकस्य निलयं प्रदहेच्च तत् ।
चिताग्नौ भस्म तच्छत्रोर्दत्तं शिरसि शङ्कर ॥ १,१७७.७४ ॥

तमुच्चाटयते रुद्र शृणु तद्योगमुत्तमम् ।
निः क्षिप्तं च पुरीषं वै वनमूषिकचर्मणि ॥ १,१७७.७५ ॥

कटितन्तुनिबद्धं वै कुर्यान्मलनिरोधनम् ।
कृष्णकाकस्य रक्तेन यस्य नाम प्रलिप्य च ॥ १,१७७.७६ ॥

च्युतदले मध्यमध्ये ततो निः क्षिप्यते हर ! ।
स खाद्यते काकवृन्दैर्नारी पुरुष एव च ॥ १,१७७.७७ ॥

शर्करामध्वजाक्षीरं तिलगोक्षुरकं समम् ।
स शत्रुं नाशयेद्रुद्र ! उच्चाटितमिदं हर ! ॥ १,१७७.७८ ॥

उलूककृष्णकाकस्य बिल्वस्याथ समिच्छतम् ।
रुधिरेण समायुक्तं ययोर्नाम्ना तु हूयते ।
तयोर्मध्ये महावैरं भवेन्नास्त्यत्र संशयः ॥ १,१७७.७९ ॥

भावितं ऋक्षदुग्धेन मत्स्यस्य रोहितस्य च ।
मांसं तत्साधितं तैलं तदभ्यङ्गाच्च रोगनुत् ।
चन्दनोदकनस्यात्तु रोमोत्थानं भवेत्पुनः ॥ १,१७७.८० ॥

हस्ते लाङ्गलिकाकन्दं गृहीतं तेन लेपितम् ।
शरीरं येन स पुमान्वृद्धेर्दर्पं व्यपोहति ॥ १,१७७.८१ ॥

मयूररुधिरेणैव जीवं संहरते शिव ।
ज्वलतां तु भुजङ्गानां बिलस्थानामपीश्वर ॥ १,१७७.८२ ॥

देहश्चिताग्नौ दग्धश्च सर्पस्याजगरस्य हि ।
तद्भस्म संमुखे क्षिप्तं शत्रणां भङ्गकृद्भवेत् ॥ १,१७७.८३ ॥

मन्त्रेणानेन तत्क्षिप्तं महाभङ्गकरं रिपोः ।
ओं ठ ठ ठ चाहीहिचाहीहि स्वाहा ।
ओं उदरं पाहिहि पाहिहिस्वाहा ॥ १,१७७.८४ ॥

सुदर्शनाया मलं तु पुष्यर्क्षे तु समाहृतम् ।
निः क्षिप्तं गृहमध्ये तु भुजङ्गा वर्जयन्ति तत् ॥ १,१७७.८५ ॥

अर्कमूलेन रविणा अर्काग्निज्वलिता शिव ।
युक्ता सिद्धार्थतैलेन वर्तिर्मार्गाहिनाशिनी ॥ १,१७७.८६ ॥

मार्जारपललं विष्ठा हरितालं च भावितम् ।
छाग मूत्रेण तल्लिप्तो मूषिको मूषिकान्हरेत् ॥ १,१७७.८७ ॥

मुक्तो हि मन्दिरे रुद्र नात्र कार्या विचारणा ।
विफलार्जुनपुष्पाणि भल्लातकशिरीषकम् ॥ १,१७७.८८ ॥

लाक्षा सर्जरसश्चैव विडङ्गश्चैव गुग्गुलुः ।
एतैर्धूपो मक्षिकाणां मशकाणां विनाशनः ॥ १,१७७.८९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नेत्राञ्जनादिनिरूपणं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः