गरुडपुराणम्/आचारकाण्डः/अध्यायः २१२

← आचारकाण्डः, अध्यायः २११ गरुडपुराणम्
अध्यायः २१२
वेदव्यासः
आचारकाण्डः, अध्यायः २१३ →

श्रीगरुडमहापुराणम् २१२
सूत उवाच ।
प्रस्तार आद्यगोऽथो लः परतुल्योऽथ पूर्वगः ।
नष्टमध्ये समेंऽके लः समेऽर्धे विषमे गुरुः ॥ १,२१२.१ ॥

प्रतिलोमगुणं लाद्यं द्विरुद्दिष्टक एकनुत् ॥ १,२१२.२ ॥

संख्या द्विरर्धे रूपे तु शून्यं शून्ये द्विरीरितम् ।
तावदर्धे तद्गुणितं द्विर्द्व्यूनन्तु तदन्ततः ॥ १,२१२.३ ॥

परे पूर्णं परे पूर्णं मेरुः प्रस्तारतो भवेत् ॥ १,२१२.४ ॥

लगसंख्या वृत्तसंख्या चाद्याङ्गुलमथोर्ध्वतः ।
संख्यैव द्विगुणैकोनाच्छन्दः सारोऽयमीरितः ॥ १,२१२.५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमानाचा छन्दोलक्षणं नाम द्वादशोत्तरद्विशततमोऽध्यायः