प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः २१२ गरुडपुराणम्
अध्यायः २१३
वेदव्यासः
आचारकाण्डः, अध्यायः २१४ →

श्रीगरुडमहापुराणम् २१३
सूत उवाच ।
हरेः श्रुत्वाब्रवीद्ब्रह्मा यथा व्यासाय शौनक ।
ब्राह्मणादिसमाचारं सर्वदं ते तथा वदे ॥ १,२१३.१ ॥

श्रुतिस्मृती तु विज्ञाय श्रौतं कर्म समाचरेत् ।
श्रौतं कर्म न चेदुक्तं तदा स्मार्तं समाचरेत् ॥ १,२१३.२ ॥

तत्राप्यशक्तः करणे सदाचारं चरेद्वुधः ।
श्रुतिस्मृती ह विप्राणां लोचने कर्मदर्शने ॥ १,२१३.३ ॥

श्रुत्युक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः ।
सिष्टाचारेण संप्राप्तस्त्रयो धर्माः सनातनाः ॥ १,२१३.४ ॥

सत्यं दानं दयालोभो विद्येज्या पूजनं दमः ।
अष्टौ तानि पवित्राणि शिष्टाचारस्य लक्षणम् ॥ १,२१३.५ ॥

तेजोमयानि पूर्वेषां शरीराणीन्द्रियाणि च ।
न लिप्यते पातकेन पद्मपत्रमिवाम्भसा ॥ १,२१३.६ ॥

निवासमुख्या वर्णानां धर्माचाराः प्रकीर्तिताः ।
सत्यं यज्ञस्तपो दानमेतद्धर्मस्य लक्षणम् ॥ १,२१३.७ ॥

अदत्तस्यानुपादानं दानमध्ययनं जपः ।
विद्या वित्तं तपः शौचं कुले जन्म त्वरोगिता ॥ १,२१३.८ ॥

संसारोच्छित्तिहेतुश्च धर्मादेव प्रवर्तते ।
धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽधिगम्यते ॥ १,२१३.९ ॥

इज्याध्ययनदानानि यथाशास्त्रं सनातनः ।
ब्रह्मक्षत्त्रियवैश्यानां सामान्यो धर्म उच्यते ॥ १,२१३.१० ॥

याजनाध्ययने शुद्धे विशुद्धाच्च प्रतिग्रहः ।
वृत्तित्रयमिदं प्राहुर्मुनयः श्रेष्ठवर्णिनः ॥ १,२१३.११ ॥

शस्त्रेणाजीवनं राज्ञो भूतानाञ्चाभिरक्षणम् ।
पाशुपाल्यं कृषिः पण्यं वैश्यस्याजीवनं स्मृतम् ॥ १,२१३.१२ ॥

शूद्रस्य द्विजशुश्रूषा द्विजानामनुपूर्वशः ।
गुरौ वासोऽग्निशुश्रूषा स्वाध्यायो ब्रह्मचारिणः ॥ १,२१३.१३ ॥

त्रिः स्नाता स्नापिता भैक्ष्यं गुरौ प्राणान्तिकी स्थितिः ।
समेखलो जटी दण्डी मुण्डी वा गुरुसंश्रयः ॥ १,२१३.१४ ॥

अग्निहोत्रोपचरणं जीवनं च स्वकर्मभिः ।
धर्मदारेषु कल्पेत पर्ववर्जं रतिक्रियाः ॥ १,२१३.१५ ॥

देवपित्रतितिभ्यश्च पूजादिष्वनुकल्पनम् ।
श्रुतिस्मृत्यर्थसंस्थानं धर्मोऽयं गृहमेधिनः ॥ १,२१३.१६ ॥

जटित्वमग्निहोत्रत्वं भूशय्याजिनधारणम् ।
वने वासः पयोमूलनीवारफलवृत्तिता ॥ १,२१३.१७ ॥

प्रतिषिद्धान्निवृत्तिश्च त्रिः स्नानं व्रतधारिता ।
देवतातिथिपूजा च धर्मोऽयं वनवासिनः ॥ १,२१३.१८ ॥

सर्वारम्भपरित्यागो भिक्षान्नं वृक्षमूलता ।
निष्परिग्रहताद्रोहः समता सर्वजन्तुषु ॥ १,२१३.१९ ॥

प्रियाप्रियपरिष्वङ्गेसुखदुः खाधिकारिता ।
सबाह्याभ्यन्तरे शौचं वाग्यमो ध्यानचारिता ॥ १,२१३.२० ॥

सर्वैद्रियसमाहारो धारणाध्याननित्यता ।
भावसंशुद्धिरेत्येष परिव्राड्धर्म उच्यते ॥ १,२१३.२१ ॥

अहिंसा सूनृता वाणी सत्यशौचे क्षमा दया ।
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥ १,२१३.२२ ॥

यथोक्तकारिणः सर्वे प्रयान्ति परमां गतिम् ।
आ बोधात्स्वपनं यावत्गृहिधर्मं च वच्मि ते ॥ १,२१३.२३ ॥

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च ॥ १,२१३.२४ ॥

शर्वर्यन्ते समुत्थाय कृतशौचः समाहितः ।
स्नात्वा सन्ध्यामुपासीत सर्वकालमतन्द्रितः ॥ १,२१३.२५ ॥

प्रातः सन्ध्यामुपा सीत दन्तधावनपूर्विकाम् ।
उभे मूत्रपुरीषे च दिवा कुर्यादुदङ्मुखः ॥ १,२१३.२६ ॥

रात्रौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा ।
छायायामन्धकारे वा रात्रौ वाहनि वा द्विजः ॥ १,२१३.२७ ॥

यथा तु समुखः कुर्यात्प्राणबाधाभयेषु च ।
गोमयाङ्गारवल्मीकफालाकृष्टे शुभे ॥ १,२१३.२८ ॥

मार्गोपजीव्यच्छायासु न मूत्रं च पुरीषकम् ।
अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषिकस्थलात् ॥ १,२१३.२९ ॥

परेषां शौचशिष्टाच्च श्मशानाच्च मृदं त्यजेत् ।
एकां लिङ्गे मृदं दद्याद्वाम हस्ते मृदं द्विधा ॥ १,२१३.३० ॥

उभयोर्द्वे च दातव्ये मूत्रशौचं प्रचक्षते ।
एकां लिङ्गे गुदे तिस्त्रस्तथा वामकरे दश ॥ १,२१३.३१ ॥

पञ्च पादे दशैकस्मिन्करयोः सप्तमृत्तिकाः ।
अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ॥ १,२१३.३२ ॥

द्वितीया च तृतीया च तदर्धा परिकीर्तिता ।
उपविष्टस्तु विण्मूत्रं कर्तुं यस्तु न विन्दति ॥ १,२१३.३३ ॥

स कुर्यादर्धशौचं तु स्वस्य शौचस्य सर्वदा ।
दिवा शौचस्य रात्र्यर्धं यद्वा पादो विधीयते ॥ १,२१३.३४ ॥

स्वस्थस्य तु यथोद्दिष्टमार्तः कुर्याद्यथाबलम् ।
वसा शुक्रमसृङ्मज्जा लाला विण्मूत्रकर्णविट् ॥ १,२१३.३५ ॥

श्लेष्माश्रदूषिका स्वेदो द्वादशैते नृणां मलाः ।
मन्येत यावता शुद्धिं तावच्छौचं समाचरेत् ॥ १,२१३.३६ ॥

प्रमाणं शौचसंख्याया नादिष्टैरवशिष्यते ।
शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ॥ १,२१३.३७ ॥

मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्तरम् ।
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ॥ १,२१३.३८ ॥

संमृज्याङ्गुष्ठमूलेन त्रिभिरास्यमुपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥ १,२१३.३९ ॥

अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रे पुनः पुनः ।
कनिष्ठाङ्गष्ठयोर्नाभिं हृदयं तु तलेन वै ॥ १,२१३.४० ॥

सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ।
ऋचो यजूंषि सामानि त्रिः पठन्प्रीणयेत्क्रमात् ॥ १,२१३.४१ ॥

अथर्वाङ्गिरसौ पूर्वं द्विः प्रमार्ष्ट्यथ तन्सुखम् ।
इतिहासपुराणानि वेदाङ्गानि वेदाङ्गानि यथाक्रमम् ॥ १,२१३.४२ ॥

खं मुखे नासिके वायुं नेत्रे सूर्यं श्रुती (तीर्दि) दिशः ।
प्राणग्रन्थिमथो नाभिं ब्रह्माणं हृदये स्पृशेत् ॥ १,२१३.४३ ॥

रुद्रं मूर्ध्ना समालभ्य प्रीणात्यथ शिखामृषीन् ।
बाहू यमेन्द्रवरुणकुबेरवसुधानलान् ॥ १,२१३.४४ ॥

अभ्युक्ष्य चरणौ विष्णुमिन्द्रं विष्णु करद्वयम् ।
अग्निर्वायुश्च सूर्येन्दुगिरयोऽङ्गुलिपर्वसु ॥ १,२१३.४५ ॥

गङ्गाद्याः सरितस्तासु या रेखाः करमध्यगाः ।
उषः काले तु संप्राप्ते शौचं कृत्वा यथार्थवत् ॥ १,२१३.४६ ॥

ततः स्नानर्ं प्कुर्वीत दन्तधावनपूर्वकम् ।
मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः ॥ १,२१३.४७ ॥

तस्मात्सर्वप्रयत्नेन कुर्याद्वै दन्तघावनम् ।
कदम्बबिल्वखदिरकरवीरवटार्जुनाः ॥ १,२१३.४८ ॥

यूथी च बृहती जाती करञ्जार्कातिमुक्तकाः ।
जम्बूमधूका पामार्गशिरीषोदुम्बरासनाः ॥ १,२१३.४९ ॥

क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने ।
कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः ॥ १,२१३.५० ॥

प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचामेत् ।
अमायां च तथा षष्ठ्यां नवम्यां प्रतिपद्यपि ॥ १,२१३.५१ ॥

वर्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे ।
अभावे दन्त काष्ठस्य निषिद्धायां तथा तिथौ ॥ १,२१३.५२ ॥

अषां द्वादशगण्डूषैः कुर्वीत मुखशोधनम् ।
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हितम् ॥ १,२१३.५३ ॥

सर्वमर्हति शुद्धात्मा प्रातः स्नायी जपादिकम् ।
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ॥ १,२१३.५४ ॥

स्त्रवत्येष दिवा रात्रौ प्रातः स्नानं विशोधनम् ।
मनः प्रसादजननं रूपसौभाग्यवर्धनम् ॥ १,२१३.५५ ॥

शोकदुः खप्रशमनं गङ्गास्नानवदाचरेत् ।
अद्य हस्ते तु नक्षत्रे दशम्यां ज्येष्ठके सिते ॥ १,२१३.५६ ॥

दशपाप हरायां च अदत्वा दानकल्मषम् ।
विरुद्धाचरणं हिंसा परदारोपसेवनम् ॥ १,२१३.५७ ॥

पारुष्यानृतपैशुन्यमसम्बद्धाभिभाषणम् ।
परद्रव्याभिधानं च मनसानिष्टचिन्तनम् ॥ १,२१३.५८ ॥

एतद्दशाघघातार्थं गङ्गास्नानं करोम्यहम् ।
प्रातः संक्षेपतः स्नानं वानप्रस्थगृहस्थयोः ॥ १,२१३.५९ ॥

यतेस्त्रिषवणं स्नानं सकृत्त ब्रह्मचारिणः ।
आचम्य तीर्थमावाह्य स्नायात्स्मृत्वाव्ययं हरिम् ॥ १,२१३.६० ॥

तिस्रः कोट्यस्तु विज्ञेया मन्देहा नाम राक्षसाः ।
उदयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ १,२१३.६१ ॥

स हन्ति सूर्यं सन्ध्यायां नोपास्तिं कुरुते तु यः ।
दहन्ति मन्त्रपूतेन तोयेनानलरूपिणा ॥ १,२१३.६२ ॥

अहोरात्रस्य यः सन्धिः सा सन्ध्या भवतीति ह ।
द्विनाडिका भवेत्सन्ध्या यावद्भवति दर्शनम् ॥ १,२१३.६३ ॥

गन्ध्याकर्मावसाने तु स्वयं होमो विधीयते ।
स्वयं होमफलं यत्तु तदन्येन न जायते ॥ १,२१३.६४ ॥

ऋत्विक्पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः ।
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥ १,२१३.६५ ॥

ब्रह्मा वै गार्हपत्याग्निर्दक्षणाग्निस्त्रिलोचनः ।
विष्णुराहवनीयाग्निः कुमारः सत्य उच्यते ॥ १,२१३.६६ ॥

कृत्वा होमं यथाकालं सौरान्मन्त्राञ्जपेत्ततः ।
समाहितात्मा सावित्रीं प्रणवं च यथोदितम् ॥ १,२१३.६७ ॥

प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
त्रिपदायां च सावित्र्यां न भयं विद्यते क्वचित् ॥ १,२१३.६८ ॥

गायत्त्रीं यो जपेन्नित्यं कल्यमुत्थाय मानवः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १,२१३.६९ ॥

श्वेतवर्णा समुद्दिष्टा कौशैयवसना तथा ।
अक्षसूत्रधरा देवी पद्मासनगता शुभा ॥ १,२१३.७० ॥

आवाह्य यजुपानेन तेजोऽसीति विधानतः ।
एतद्यजुः पुरा दैवैर्दृष्टिदर्शनकाङ्क्षिभिः ॥ १,२१३.७१ ॥

आदित्यमण्डलान्तः स्थां ब्रह्मलोकस्थितामपि ।
तत्रावाह्य जपित्वातो नमस्काराद्विसर्जयेत् ॥ १,२१३.७२ ॥

पूर्वाह्न एव कुर्वीत देवतानां च पूजनम् ।
न विष्णोः परमो देवस्तस्मात्तं पूजयेत्सदा ॥ १,२१३.७३ ॥

ब्रह्मविष्णुशिवान्देवान्न पृथग्भावयेत्सुधीः ।
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ॥ १,२१३.७४ ॥

हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ।
एतानि सततं पश्येदर्चयेच्च प्रदक्षिणम् ॥ १,२१३.७५ ॥

वेदस्याध्ययनं पूर्वं विचारोभ्यसनं जपः ।
तद्दानं चैव शिष्यभ्यो वेदाभ्यासो हि पञ्चधा ॥ १,२१३.७६ ॥

वेदार्थं यज्ञशास्त्राणि धर्मशास्त्राणि चैव हि ।
मूल्येन लेखयित्वा यो दद्याद्याति स वैदिकम् ॥ १,२१३.७७ ॥

इतिहा सपुराणानि लिखित्वायः प्रयच्छति ।
ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणीकृतम् ॥ १,२१३.७८ ॥

मृतीये च तथा भागे पोष्यवर्गार्थसाधनम् ।
माता पिता गुरुर्भ्राता प्रजा दीनाः समाश्रिताः ॥ १,२१३.७९ ॥

अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्गा उदाहृतः ।
भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ॥ १,२१३.८० ॥

भरणं पोष्य वर्गस्य तस्माद्यत्नेन कारयेत् ।
स जीवति वरश्चैको बहुभिर्योपजीव्यति ॥ १,२१३.८१ ॥

जीवन्तो मृतकास्त्वन्ये पुरुषाः स्वोदरम्भराः ।
स्वकीयोदरपूर्तिश्च कुक्कुरस्यापि विद्यते ॥ १,२१३.८२ ॥

अर्थेभ्योऽपि विवृद्धेभ्यः सम्भूतेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ १,२१३.८३ ॥

सर्वरत्नाकरा भूमिर्धान्यानि पशवः स्त्रियः ।
अर्थस्य कार्ययोगित्वादर्थ इत्यभिधीयते ॥ १,२१३.८४ ॥

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ १,२१३.८५ ॥

धनं तु त्रिविधं ज्ञेयं शुक्लं शबलमेव च ।
कृष्णं च तस्य विज्ञेयो विभागः सप्तधा पृथक् ॥ १,२१३.८६ ॥

क्रमायत्तं प्रीतिदत्तं प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम् ॥ १,२१३.८७ ॥

वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम् ।
याजनाध्यापने नित्यं विशुद्धश्च (द्धाच्च) प्रतिग्रहः ॥ १,२१३.८८ ॥

त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् ।
शुद्धार्थं लब्धकरजं दण्डाप्तं जयजं तथा ॥ १,२१३.८९ ॥

वैशेषिकं धनं दृष्टं वैश्यस्यापि विलक्षणम् ।
कृषिगोरक्षवाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात् ॥ १,२१३.९० ॥

कुसीदकृषिवाणिज्यं प्रकुर्वीत स्वयं परम् (कृतम्) ।
आपत्काले स्वयं कुर्वन्नैनसा युज्यते द्विजः ॥ १,२१३.९१ ॥

बहवो वर्तनोपाया ऋषिभिः परिकीर्तिताः ।
सर्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥ १,२१३.९२ ॥

अनावृष्ट्या राजभयान्मूषिकाद्यैरुपद्रवैः ।
कृष्यादिके भवेद्बाधा सा कुसीदे न विद्यते ॥ १,२१३.९३ ॥

शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेपि वा ।
उष्णे वर्षति शीते वा वर्धनं न निवर्तते ॥ १,२१३.९४ ॥

देशं गतानां या वृद्धिर्नानापण्योपजीविनाम् ।
कुसीदं कुर्वतः सम्यक्संस्थितस्यैव जायते ॥ १,२१३.९५ ॥

लब्धलाभः पितॄन्देवान्ब्राह्मणांश्चैव पूजयेत् ।
ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः ॥ १,२१३.९६ ॥

वणिक्कुसीदं दद्याद्यो वस्त्रं गाङ्काञ्चनादिकम् ।
कृषीवलोऽन्नपानादियानशय्यासनानि च ॥ १,२१३.९७ ॥

राजभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम् ।
पादेनास्य च यावक्यं कुर्यात्संचयमात्मवान् ॥ १,२१३.९८ ॥

अर्धेन चात्मभरणं नित्यनैमित्तिकांन्वितम् ।
पादं चेत्यर्थयामस्य मूलभूतं विवर्धयेत् ॥ १,२१३.९९ ॥

विद्या शिल्पं भूतिः सेवा गोरक्षा विपणिः कृषिः ।
वृत्तिर्भैक्ष्यं कुसीदं च दश जीवनहेतवः ॥ १,२१३.१०० ॥

प्रतिग्रहार्जिता विप्रे क्षत्रिये शस्त्रनिर्जिता ।
वैश्ये न्यायार्जिताः स्वार्थाः शूद्रे शुश्रूषयार्जिताः ॥ १,२१३.१०१ ॥

नदी बहूदका शाकमृत्पर्णानि समित्कुशाः ।
आग्नेयो ब्रह्मघोषश्च विप्राणां धनमुत्तमम् ॥ १,२१३.१०२ ॥

अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे ।
अमृतं तद्विदुर्देवास्तस्मात्तन्नैव वर्जयेत् ॥ १,२१३.१०३ ॥

गुरुद्रव्यांश्चौज्जिहीर्षुरर्चिष्यन्दे वतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तुष्येत्तु स्वयं ततः ॥ १,२१३.१०४ ॥

साधुतः प्रतिगृह्णीयादथ वासाधुतो द्विजः ।
गुणवानल्पदोषश्च निर्गुणो हि निमज्जति ॥ १,२१३.१०५ ॥

एवं त्वक्षवृत्त्या वा कृत्वा भरणमात्मनः ।
कुर्याद्विशुद्धिं परतः प्रायश्चित्तं द्विजोत्तमः ॥ १,२१३.१०६ ॥

चतुर्थे च तथा भागे स्नानार्थं मृद माहरेत् ।
तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले ॥ १,२१३.१०७ ॥

नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ।
मार्जनाचमावगाहाश्चाष्टस्नानं प्रकीर्तितम् ॥ १,२१३.१०८ ॥

अस्नातस्तु पुमान्नार्हे जपाग्निहवनादिषु ।
प्रातः स्नानं तदर्थं तु नित्यस्नानं प्रकीर्तितम् ॥ १,२१३.१०९ ॥

चाण्डालशवविष्ठाद्यान्स्पृष्ट्वा स्नानं रजस्वलाम् ।
स्नानार्हस्तु यदा स्नाति स्नानं नैमित्तिकं हि तत् ॥ १,२१३.११० ॥

पुष्यस्नानादिकं स्नानं दैवज्ञविधिचोदितम् ।
तद्धि काम्यं समुद्दिष्टं नाकामस्तत्प्रयोजयेत् ॥ १,२१३.१११ ॥

जप्तुकामः पवित्राणि अर्चिष्यन्देवतातिथीन् ।
स्नानं समाचरेद्यस्तु क्रियाङ्गं तच्च कीर्तितम् ॥ १,२१३.११२ ॥

मलापकर्षणार्थाय प्रवृत्तिस्तत्र नान्यथा ।
सरः सुदेवखातेषु तीर्थेषु च नदीषु च ॥ १,२१३.११३ ॥

स्नानमेव क्रिया यस्मात्क्रियास्नानमतः परम् ।
अद्भिर्गात्राणि शुध्यन्ति तीर्थस्नानात्फलं लभेत् ॥ १,२१३.११४ ॥

मार्जनान्मज्जनैर्मन्त्रैः पापमाशु प्रणश्यति ।
नित्यं नैमित्तिकं चापि क्रियाङ्गं मलकर्षणम् ॥ १,२१३.११५ ॥

तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः ।
भूमिष्ठादुद्धृतं पुण्यं ततः प्रस्त्रवणोदकम् ॥ १,२१३.११६ ॥

ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते ।
तीर्थतोयं ततः पुण्यं गागं पुण्यं तु सर्वतः ॥ १,२१३.११७ ॥

गागं पयः पुनात्याशु पापमामरणान्तिकम् ।
गयायां च कुरुक्षेत्रे यत्तोयं समुपस्थितम् ॥ १,२१३.११८ ॥

तस्मात्तु गाङ्गमपरं जानीयात्तोयमुत्तमम् ।
पुत्रजन्मनि योगेषु तथा संक्रमणे रवेः ॥ १,२१३.११९ ॥

राहोश्च दर्शने स्नानं प्रशस्तं निशि नान्यथा ।
उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ ॥ १,२१३.१२० ॥

प्राजापत्येन तत्तुल्यं महापातकनाशनम् ।
यत्फलं द्वादशाब्दानि प्राजापत्ये कृते भवेत् ॥ १,२१३.१२१ ॥

प्रातः स्नायी तदाप्नोति वर्षेण श्रद्धयान्वितः ।
य इच्छेद्विपुलान् भोगांश्चन्द्रसूर्यग्रहोपमान् ॥ १,२१३.१२२ ॥

प्रातः स्नायी भवेन्नित्यं मासौ द्वौ माघफाल्गुनौ ।
यस्तु माघं समासाद्य प्रातः स्नायी हविष्यभुक् ॥ १,२१३.१२३ ॥

इतिपापं महाघोरं मासादेव व्यपोहति ।
मातरं पितरं वापि भ्रातरं सुहृदं गुरुम् ॥ १,२१३.१२४ ॥

यमुद्दिश्य निमज्जेत द्वादशांशं लभेत्तु सः ।
तुष्यत्यामलकैर्विष्णुरेकादश्या विशेषतः ॥ १,२१३.१२५ ॥

श्रीकामः सर्वदा स्नानं कुर्वोतामलकैर्नरः ।
सन्तापः कीर्तिरल्पायुर्धनं निधनमेव च ॥ १,२१३.१२६ ॥

आरोग्यं सर्वकामाप्तिरभ्यङ्गाद्भास्करादिषु ।
उपोषितस्य व्रतिनः कृत्तकेशस्य नापितैः ॥ १,२१३.१२७ ॥

तावच्छ्रीस्तिष्ठति प्रीता यावत्तैलं न संस्पृशेत् ।
एवं स्नात्वा पितॄन्देवान्मनुष्यांस्तर्पयेन्नरः ॥ १,२१३.१२८ ॥

नाभिमात्रे जले स्थित्वा चिन्तयेदूर्जमानसः ।
आगच्छन्तु मे पितर इमं गृह्णन्त्वपोञ्जलिम् ॥ १,२१३.१२९ ॥

त्रींस्त्रीनेवाञ्जलीन्दद्यादाकाशे दक्षिणे तथा ।
वसित्वा वसनं शुष्कं स्थलस्था स्तर्णबर्हिषि ॥ १,२१३.१३० ॥

विधिज्ञास्तर्पणं कुर्युर्न पात्रे तु कदाचन ।
यदपां क्रूरमांसात्तु यदमेध्यं तु किञ्चन ॥ १,२१३.१३१ ॥

अशान्तं मलिनं यच्च तत्सर्वमपगच्छतु ।
गृहीत्वानेन मन्त्रेण तोयं सव्येन पाणिना ॥ १,२१३.१३२ ॥

प्रक्षिपोद्दिशि नैरृत्यां रक्षोऽपहतये तु तत् ।
निषिद्धभक्षणाद्यत्तु पापाद्यच्च प्रतिग्रहात् ॥ १,२१३.१३३ ॥

दुष्कृतं यच्च मे किञ्चिद्बाङ्मनः कायकर्मभिः ।
पुनातु मे तदिन्द्रस्तु वरुणः सबृहस्पतिः ॥ १,२१३.१३४ ॥

सविता च भगश्चैव मुनयः सनकादयः ।
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन् ॥ १,२१३.१३५ ॥

क्षिपेदबञ्जलींस्त्रीस्तु कुर्वन्संक्षेपतर्पणम् ।
सुराणामर्चनं कुर्याद्ब्रह्मा दीनाममत्सरी ॥ १,२१३.१३६ ॥

ब्राह्मवैष्णवरौद्रैश्च सावित्रैर्मैत्रवारुणैः ।
तल्लिङ्गैरर्चयेन्मन्त्रैः सर्वदेवान्नमस्य च ॥ १,२१३.१३७ ॥

नमस्कारेण पुष्पाणि विन्यसेत्तु पृथक्पृथक् ।
सर्वदेवमयं विष्णुं भास्करं चाप्यथार्चयेत् ॥ १,२१३.१३८ ॥

दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा ।
अर्चितं स्याज्जगादिदं तेन सर्वं चराचरम् ॥ १,२१३.१३९ ॥

अन्यैश्च तान्त्रिकैर्मन्त्रैः पूजयेच्च जनार्दनम् ।
आदावर्घ्यं प्रदातव्यं ततः पश्चाद्विलेपनम् ॥ १,२१३.१४० ॥

ततः पुष्पाञ्जलिं धूपमु पहारफलानि च ।
स्नानमन्तर्जले चैव मार्जनाचमनं तथा ॥ १,२१३.१४१ ॥

जलाभिमन्त्रणं यच्च तीर्थस्य परिकल्पयेत् ।
अघमर्षणसूक्तेन त्रिवारं त्वेव नित्यशः ॥ १,२१३.१४२ ॥

स्नाने चरितमित्येतत्समुद्दिष्टं महात्मभिः ।
ब्रह्मक्षत्रविशां चैव मन्त्रवत्स्नानमिष्यते ॥ १,२१३.१४३ ॥

तूष्णीमेव तु शूद्रस्य सनमस्कारकं स्मृतम् ।
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ॥ १,२१३.१४४ ॥

होमो दैवी बलिर्भौतो न यज्ञोऽतिथिपूजनम् ।
गवा गोष्ठे दशगुणं अग्न्यगारे शताधिकम् ॥ १,२१३.१४५ ॥

सिद्धक्षेत्रेषु तीर्थेषु देवतायतनेषु च ।
सहस्रशतकोटीनामनन्तं विष्णुसन्निधौ ॥ १,२१३.१४६ ॥

पञ्चमे च तथा भागे संविभागो यथार्थतः ।
पितृदे वमनुष्याणां कोटीनां चोपदिश्यते ॥ १,२१३.१४७ ॥

ब्राह्मणेभ्यः प्रदायाग्र यः सुहृद्भिः सहाश्नुते ।
स प्रेत्य लभते स्वर्गमन्नदानं समाचरन् ॥ १,२१३.१४८ ॥

पूर्वं मधुरमश्रीयाल्लवणाम्लौ च मध्यतः ।
कटुतिक्तकषायांश्च पयश्चैव तथान्ततः ॥ १,२१३.१४९ ॥

शाकं च रात्रौ भूमिष्ठमत्यन्तं च विवर्जयेत् ।
नचैकरससेवायां प्रसज्जेत कदाचन ॥ १,२१३.१५० ॥

समृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ।
वैश्यस्य चान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम् ॥ १,२१३.१५१ ॥

अमावासी वसेदत्र एकहायनमेव वा ॥ १,२१३.१५२ ॥

तत्र श्रीश्चैव लक्ष्मीश्च वसते नात्र संशयः ।
उदरे गार्हपत्याग्निः पृष्ठदेशे तु दक्षिणः ॥ १,२१३.१५३ ॥

आस्ये चाहवनीयोऽग्निः सत्यः पर्व च मूर्धनि ।
यः पञ्चाग्नीनिमान्वेद आहिताग्निः स उच्यते ॥ १,२१३.१५४ ॥

शरिरमापः सोमं च विविधं चान्नमुच्यते ।
प्राणो ह्यग्निस्तथादित्यस्त्रिभोक्ता एक एव तु ॥ १,२१३.१५५ ॥

अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्येतत्परिणतौ ममाप्यव्याहतं सुखम् ॥ १,२१३.१५६ ॥

हस्तेन परिमार्ज्याथ कुर्यात्ताम्बूलभक्षणम् ।
श्रवणं चेतिहासस्य तत्कुर्यात्सुसमाहितः ॥ १,२१३.१५७ ॥

इतिहासपुराणाद्यैः षष्ठसप्तमकेनयेत् ।
ततः सन्ध्यामुपासीत स्नात्वा वै पश्चिमां नरः ॥ १,२१३.१५८ ॥

एतद्वा दिवसे प्रोक्तमनुष्ठानं मया द्विज ।
आचारं यः पठेद्विद्वाञ्छृणुयात्स दिवंव्रजेत् ।
आचारादिर्धर्मकर्ता केशवो हि स्मृतो द्विज ॥ १,२१३.१५९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पञ्चोत्तरद्विशततमोऽध्यायः