गरुडपुराणम्/आचारकाण्डः/अध्यायः २२४

← आचारकाण्डः, अध्यायः २२३ गरुडपुराणम्
अध्यायः २२४
वेदव्यासः
आचारकाण्डः, अध्यायः २२५ →

श्रीगरुडमहापुराणम् २२४
सूत उवाच ।
चतुर्युगसहस्रान्ते ब्राह्मो नैमित्तिको लयः ।
अनावृष्टिश्च कल्पान्ते जायते शतवार्षिकी ॥ १,२२४.१ ॥

उतिष्ठन्ति तदा रौद्रा दिवि सप्त दिवाकराः ।
ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम् ॥ १,२२४.२ ॥

भूर्भुवः स्वर्महर्लोकं चराचरं जनस्तथा ।
विष्णुश्च रुद्रो भूत्वासौ पातालानि दहत्यधः ॥ १,२२४.३ ॥

विष्णुर्दहेत्त्रिलोकञ्चि मुखान्मेघान् सृजत्यलम् ।
वर्षन्ते वै वर्षशतं नानावर्णा महाघनाः ॥ १,२२४.४ ॥

विष्णुरूपःशतं वाति वर्षाणां वायुरूर्जितः ।
विष्णुरे कार्णवी भूते वर्षे ब्रह्मस्वरूपधृक् ।
शेतेऽनन्तासने विष्णुर्नष्टे स्थावरजङ्गमे ॥ १,२२४.५ ॥

सुप्त्वा वर्षसहस्रं स जगद्भूयोऽसृजद्धरिः ।
अथ प्राकृतिकं वक्ष्ये प्रलयं शृणु शौनक ॥ १,२२४.६ ॥

पूर्णे संवत्सरशते संहृत्य सकलं जगत् ।
ब्रह्माणं न्यस्य देहे हि मुक्तो योगबलैर्हरिः ॥ १,२२४.७ ॥

ये गता ब्रह्मणः स्थानं तेऽपि यान्ति परं पदम् ।
अनावृष्ट्यर्कसम्पन्ना आसन्मेघास्तथा द्विज ।
शतं वर्षाणि वर्षद्भिर्मेधैरण्डं प्रपूर्यते ॥ १,२२४.८ ॥

अन्तर्गतेन तोयेन भिन्नमण्डं जगत्पतेः ।
पूर्णे ब्रह्मायुषि गते भिद्यतेऽम्भसि लीयते ॥ १,२२४.९ ॥

एवं सा जगदाधारा तोये चोर्वो प्रलीयते ।
आपस्तेजसि लीयन्ते तेजो वायौ प्रलीयते ॥ १,२२४.१० ॥

वायुः खे खञ्च भूतादौ विशते च तदा महान् ।
महान्प्रपद्यतेऽव्यक्तं प्रकृतिः पुरुषे परे ॥ १,२२४.११ ॥

शतवर्षं हरिः शेते सृजत्यथ दिनगमे ।
अव्यक्तादिक्रमेणैव व्यक्तीभूतं चराचरम् ॥ १,२२४.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नैमित्तिकप्रलयोनाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः