गरुडपुराणम्/आचारकाण्डः/अध्यायः २२५

← आचारकाण्डः, अध्यायः २२४ गरुडपुराणम्
अध्यायः २२५
वेदव्यासः
आचारकाण्डः, अध्यायः २२६ →


श्रीगरुडमहापुराणम् २२५
सूत उवाच ।
आध्यात्मिकादितापांस्त्रीञ्ज्ञात्व संस्राचक्रवित् ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ १,२२५.१ ॥
संसारचक्रं वक्ष्येऽहमादाबुत्क्रान्तिकालतः ।
यद्विना पुरुषार्थो न लीनः स्यात्परमात्मनि ॥ १,२२५.२ ॥
ऊर्ध्ववासी नरस्त्यक्त्वा देहमन्यत्प्रपद्यते ।
नीयतेद्वादशाहेन यमस्य यमपूरुषैः ॥ १,२२५.३ ॥
तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह ।
यच्च पिण्डं प्रयच्छन्ति यमलोके तदश्नुते ॥ १,२२५.४ ॥
गतश्च नरकं पापात्स्वर्गं याति स्वपुण्यतः ।
पापकृद्याति नरकं पुण्यकृद्याति वै दिवम् ॥ १,२२५.५ ॥
स्वर्गाच्च नरकात्त्यक्तः स्त्रीणां गर्भे भवत्यपि ।
नाभिभूतञ्च तस्यैव याति बीजद्वयं हि तत् ॥ १,२२५.६ ॥
कललं बुद्ब्रुदमयं ततः शोणितमेव च ।
पेश्याः पलसमोऽण्डः स्यादङ्कुरं तत उच्यते ॥ १,२२५.७ ॥
उपाङ्गान्यङ्गुलीनेत्रनासास्यश्रवणानि च ।
आवहं याति चाङ्गेभ्यस्तत्परन्तु नखादिकम् ॥ १,२२५.८ ॥
त्वचो रोमाणि जायन्ते केशाश्चैव ततः परम् ।
नरश्चाधोमुखः स्थित्वा दशमे च सः जायते ॥ १,२२५.९ ॥
ततस्तु वैष्णवी माया वृणोत्यत्यन्तमोहिनी ।
बालत्वं त्वथ कौमारं यौवनं वृद्धतामपि ॥ १,२२५.१० ॥
ततश्च मरणं तत्तद्धर्मामाप्नोति मानवः ।
एवं संसारचक्रेऽस्मिन् भ्राम्यते घटीयन्त्रवत् ॥ १,२२५.११ ॥
नरकात्प्रतिमुक्तस्तु पापयोनिषु जायते ।
पतितात्प्रतिगृह्याथ अधोयोनिं व्रजेद्बुधः ॥ १,२२५.१२ ॥
नरकात्प्रतिमुक्तस्तु कृमिर्भवति याचकः ।
उपाध्यायव्यलीकं तु कृत्वा श्वा भवति द्विज ॥ १,२२५.१३ ॥
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् ।
गर्दभोजायते जन्तुर्मित्रस्यैवापमानकृत् ॥ १,२२५.१४ ॥
पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते ।
भुर्तुः पिण्डमुपाश्वस्तो वञ्जयित्वा तमेव यः ॥ १,२२५.१५ ॥
सोऽपि मोहसमापन्नो जायते वानरो मृतः ।
न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः ॥ १,२२५.१६ ॥
असूयकश्च नरकान्मुक्तो भवति राक्षसः ।
विश्वासहर्ता च नरो मीनयोनौ प्रजायते ॥ १,२२५.१७ ॥
यवधान्यानि संहृत्य जायते मूषको मृतः ।
परदाराभिमर्शात्तु वृको घोरोऽभिजायते ॥ १,२२५.१८ ॥
भ्रातृभार्याप्रसंगेन कोकिलो जायते नरः ।
गुर्वादिभार्यागमनाच्छूकरो जायते नरः ॥ १,२२५.१९ ॥
यज्ञदानविवाहानां विघ्नकर्ता भवेत्कृमिः ।
देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते ॥ १,२२५.२० ॥
प्रमुक्तो नरकाद्वापि वायसः सन्प्रजायते ।
ज्येष्ठभ्रात्रपमानाच्च क्रौञ्चयोनौ प्रजायते ॥ १,२२५.२१ ॥
शूद्रस्तु ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।
तस्यामपत्यमुत्पाद्य काष्ठान्तः कटीको भवेत् ॥ १,२२५.२२ ॥
कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ।
अशस्त्रं पुरुषं हर्ता नरः सञ्जायते खरः ॥ १,२२५.२३ ॥
कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते ।
भोजनञ्चोरयित्वा तु मक्षिका जायते नरः ॥ १,२२५.२४ ॥
हृत्वाज्यञ्चैव मार्जारस्तिलहृच्चैव मूषकः ।
घृतं हृत्वा च नकुलः काको मद्भुरमामिषम् ॥ १,२२५.२५ ॥
मधु हृत्वा नरो दंशपूपं हृत्वा पिपीलिकः ।
अपो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥ १,२२५.२६ ॥
हृते काष्ठे च हारीतः कपोतो वा प्रजायते ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ १,२२५.२७ ॥
कार्पासिके हृते क्रौञ्चो वह्रिहर्ता बकस्तथा ।
मयूरो वर्णकं हृत्वा शाकपत्रञ्च जायते ॥ १,२२५.२८ ॥
जीवञ्जीवकतां याति रक्तवस्त्वपहृन्नरः ।
छुछुन्दरिः शुभान्गन्धाञ्छशं हृत्वा शशो भवेत् ॥ १,२२५.२९ ॥
षण्डाः कलापहरणे काष्ठहृत्तृणकीटकः ।
पुष्पं हृत्वा दरिद्रस्तु पङ्गुर्याचकहृन्नरः ॥ १,२२५.३० ॥
शाकहर्ता च हारीतस्तोयहर्ता च चातकः ।
गृहहृन्नरकान्गत्वा रौरवादीन्सुदारुणान् ॥ १,२२५.३१ ॥
तृणगुल्मलतावल्लीत्वग्घारी तरुतां व्रजेत् ।
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ॥ १,२२५.३२ ॥
विद्यापहारी मूकः स्याद्गत्वा च नरकान्बहन् ।
असमिद्धे हुते चाग्नौ मन्दाग्निः खलु जायते ॥ १,२२५.३३ ॥
परनिन्दा कृतघ्नत्वं परसीमाभिघातनम् ।
नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् ॥ १,२२५.३४ ॥
परस्वहरणाशौचं देवतानां च कुत्सनम् ।
निकृत्य बन्धनं नॄणां कार्पण्यञ्च नृणां वधः ।
उपलक्षणाद्विजानीयान्मुक्तानां नरकादनु ॥ १,२२५.३५ ॥
दया भूतेषु संवादः परलोकं प्रति क्रिया ।
सत्यं हितार्थमुक्तिश्च वेदप्रामाण्यदर्शनम् ॥ १,२२५.३६ ॥
गुरुदेवर्षिसिद्धर्षिसेवनं साधुसंयमः ।
सत्क्रियाष्वसनं मैत्री स्वर्गस्य लक्षणं विदुः ।
अष्टाङ्गयोगविज्ञानात्प्राप्नोत्यात्यन्तिकं फलम् ॥ १,२२५.३७ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मविपाकादिकथनं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः