गरुडपुराणम्/आचारकाण्डः/अध्यायः २२९

← आचारकाण्डः, अध्यायः २२८ गरुडपुराणम्
अध्यायः २२९
वेदव्यासः
आचारकाण्डः, अध्यायः २३० →

श्रीगरुडमहापुराणम् २२९
सूत उवाच ।
अशेषलोकनाथस्य सारमाराधनं हरेः ।
दद्यातु पुरुषसूक्तेण यः पुष्पाण्यप एव च ॥ १,२२९.१ ॥

अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम् ।
यो न पूजयते विष्णुं तं विद्याद्ब्रह्मघातकम् ॥ १,२२९.२ ॥

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
तं यो न ध्यायते विष्णुं स विष्ठायां क्रिमिर्भवेत् ॥ १,२२९.३ ॥

नरके पच्यमानस्तु यमेन परिभाषितः ।
किन्त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ १,२२९.४ ॥

उदकेनाप्यभावेन द्रव्याणामर्चितः प्रभुः ।
यो ददाति स्वकं लोकं स त्वया किं न चार्चितः ॥ १,२२९.५ ॥

न तत्करोति सा माता न पिता नापि बान्धवः ।
यत्करोति हृषीकेशः सन्तुष्टः श्रद्धयार्चितः ॥ १,२२९.६ ॥

वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ १,२२९.७ ॥

न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्दनः ॥ १,२२९.८ ॥

सम्पदैश्वर्यमाहात्म्यैः सन्तत्या न च कर्मणा ।
विमुक्तैश्चैकता लभ्या मूलमाराधनं हरेः ॥ १,२२९.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजानिरूपणं नामैकोनत्रिशदुत्तरद्विशततमोऽध्यायः