गरुडपुराणम्/आचारकाण्डः/अध्यायः २३०
← आचारकाण्डः, अध्यायः २२९ | गरुडपुराणम् अध्यायः २३० वेदव्यासः |
आचारकाण्डः, अध्यायः २३१ → |
श्रीगरुडमहापुराणम् २३०
सूत उवाच ।
आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ १,२३०.१ ॥
किं तस्य दानैः किन्तीर्थैः किं तपोभिः किमध्वरैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ १,२३०.२ ॥
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ।
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥ १,२३०.३ ॥
प्रयश्चित्तान्यशेषाणि तपः कर्माणि यानि वै ।
विद्धि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ १,२३०.४ ॥
कृतपापेऽनुरक्तिश्च यस्य पुंसः प्रजायते ।
प्रायश्चित्तन्तु तस्यैकं हरेः संस्मरणं परम् ॥ १,२३०.५ ॥
मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः ।
सोऽपि स्वर्गतिमाप्नोति किं पुनस्तत्परायणः ॥ १,२३०.६ ॥
जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य च योगिनः ।
या काचिन्मनसो वृत्तिः सा भवत्यच्युताश्रयात् ॥ १,२३०.७ ॥
उत्तिष्ठन्निपतन्विष्णुं प्रलपन्विविशंस्तथा ।
भुञ्जञ्जाग्रच्च गोविन्दं माधवं यश्च संस्मरेत् ॥ १,२३०.८ ॥
स्वेस्वे कर्मण्यभिरतः कुर्याच्चित्तं जनार्दने ।
एषा शास्त्रानुसारोक्तिः किमन्यैर्बहुभाषितैः ॥ १,२३०.९ ॥
ध्यानमेव परो धर्मो ध्यानमेव परं तपः ।
ध्यानमेव परं शौचं तस्माद्ध्यानपरो भवेत् ॥ १,२३०.१० ॥
नास्ति विष्णोः परं ध्थेयं तपो नानशनात्परम् ।
तस्मात्प्रधानमत्रोक्तं वासुदेवस्य चिन्तनम् ॥ १,२३०.११ ॥
यद्दुर्लभं परं प्राप्यं मनसो यन्न गोचरम् ।
तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥ १,२३०.१२ ॥
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ॥ १,२३०.१३ ॥
ध्यानेन सदृशो नास्ति शोधनं पापकर्मणाम् ।
आगामिदेहहेतूनां दाहको योगपावकः ॥ १,२३०.१४ ॥
विनिष्पन्नसमाधिस्तु मुक्तिमत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्निदग्धकर्मा च योऽचिरात् ॥ १,२३०.१५ ॥
यथाग्निरुद्यतशिखः कक्षं दहति वानिलः ।
तथा चित्तस्थिते विष्णौ योगिना सर्वकिल्बिषम् ॥ १,२३०.१६ ॥
यथाग्नियोगात्कनकममलं संप्रजायते ।
संप्लुष्टो वासुदेवेन मनुष्याणां सदा मलः ॥ १,२३०.१७ ॥
गङ्गास्नानसहस्रेषु पुष्करस्नानकोटिषु ।
यत्पापं निलययाति स्मृते नश्यति तद्धरौ ॥ १,२३०.१८ ॥
प्राणायामसहस्नैस्तु यत्पापं नश्यति ध्रुवम् ।
क्षणमात्रेण तत्पापं हरेर्ध्यानात्प्रणश्यति ॥ १,२३०.१९ ॥
कलिप्रभावाद्दुष्टोक्तिः पाषण्डानां तथोक्तयः ।
न क्रामेन्मानसं तस्य यस्य चेतसि केशवः ॥ १,२३०.२० ॥
सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः ।
लग्नं तदेव विख्यातं यत्र संस्मर्यते हरिः ॥ १,२३०.२१ ॥
सा हानिस्तन्महच्छिद्रं सा चार्थजडमूकता ।
चन्मुहूर्तं क्षणो वापि वासुदेवो न चिन्त्यते ॥ १,२३०.२२ ॥
कलौ कृत युगं तस्य कलिस्तस्य कृते युगे ।
हृदि नो यस्य गोविन्दो यस्य चेतसि नाच्युतः ॥ १,२३०.२३ ॥
यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा ।
गोविन्दे नियतं चेतः कृतकृत्यः सदैव सः ॥ १,२३०.२४ ॥
वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय वेवेन्द्रत्वादिकं फलम् ॥ १,२३०.२५ ॥
असंत्यज्य च गार्हस्थयं स तप्त्वा च महत्तपः ।
छिनत्ति पौरुषीं मायां केशवार्पितमानसः ॥ १,२३०.२६ ॥
क्षमां कुर्वन्ति क्रुद्धेषु दयां मूर्खेषु मानवाः ।
मुदञ्च धर्मशीलेषु गोविन्दे हृदयस्थिते ॥ १,२३०.२७ ॥
ध्यायेन्नारायणं देवं स्नानदानादिकर्मसु ।
प्रायश्चितेतेषु सर्वेषु दुष्कृतेषु विशेषतः ॥ १,२३०.२८ ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ १,२३०.२९ ॥
कीटपक्षिगणानाञ्च हरौ संन्यस्तचेतसाम् ।
ऊर्ध्वा ह्येव गतिश्चास्ति किं पुनर्ज्ञानिनां नृणाम् ॥ १,२३०.३० ॥
वासुदेवतरुच्छाया नातिशीतातितापदा ।
नरकद्वारशमनी सा किमर्थं न सेव्यते ॥ १,२३०.३१ ॥
न च दुर्वाससः शापो राज्यञ्चापि शचीपतेः ।
हन्तुं समर्थं हि सखे हृत्कृते मधुसूदने ॥ १,२३०.३२ ॥
वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चिन्ता सिद्धां मन्येत धारणाम् ॥ १,२३०.३३ ॥
ध्येयः सदा सवितृमण्डलमध्यवर्तो नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ १,२३०.३४ ॥
न हि ध्यानेन सदृशं पवित्रमिह विद्यते ।
श्वपचान्नानि भुञ्जानो पापी नैवात्र लिप्यते ॥ १,२३०.३५ ॥
सदा चित्तं समासक्तं जन्तोर्विषयगोचरे ।
यदि नारायणेऽप्येवं को न मुच्येत बन्धनात् ॥ १,२३०.३६ ॥
सूत उवाच ।
विष्णुभक्तिर्यस्य चित्ते कं वा जीवो नमेत्सदा ।
स तारयति चात्मानं तदैव दुरितार्णवात् ॥ १,२३०.३७ ॥
तञ्ज्ञानं यत्र गोविन्दः सा कथा यत्र काशवः ।
तत्कर्म यत्तदर्थाय किमन्यैर्बहुभाषितैः ॥ १,२३०.३८ ॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ १,२३०.३९ ॥
प्रणाममीशस्य शिरः फलं विदुस्तदर्चनं पाणिफलं दिवौकसः ।
मनः फलं तद्गुणकर्मचिन्तनं वचस्तु गोविन्दगुणस्तुतिः फलम् ॥ १,२३०.४० ॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ।
केशवस्मरणादेव तस्य सर्वं विनश्यति ॥ १,२३०.४१ ॥
यत्किञ्चित्कुरुते कर्म पुरुषः साध्वसाधु वा ।
सर्वं नारायणे न्यस्य कुर्वन्नपि न लिम्पति ॥ १,२३०.४२ ॥
तृणादिचतुरास्यान्तं भूतग्रामं चतुर्विधम् ।
चराचरं जगत्सर्वं प्रसुप्तं मायया तव ॥ १,२३०.४३ ॥
यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र नवा विशेत्कथमपि ब्राह्मोऽपिलोकोऽल्पकः ।
मुक्तिञ्चेतसि संस्थितो जडधियां पुंसां ददात्यव्ययः किञ्चित्रं यदयं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ १,२३०.४४ ॥
अग्निकार्यं जपः स्नानं विष्णोर्ध्यानञ्च पूजनम् ।
गन्तुं दुः खोदधेः कुर्युर्ये च तत्र नरन्ति ते ॥ १,२३०.४५ ॥
राष्ट्रस्य शरणं राजा पितरो बालकस्य च ।
धर्मश्च सर्वमर्त्यानां सर्वस्य शरणं हरिः ॥ १,२३०.४६ ॥
ये नमन्ति जगद्योनिं वासुदेवं सनातनम् ।
न येभ्यो विद्यते तीर्थमधिकं मुनिसत्तम् ॥ १,२३०.४७ ॥
अनर्घरत्नपूजाञ्च कुर्यात्स्वाध्यायमेव च ।
तमेवोद्दिश्य गोविन्दं ध्यायन्नित्यमतन्द्रितः ॥ १,२३०.४८ ॥
शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा ।
द्विजजाति समंमन्यो न याति नरकं नरः ॥ १,२३०.४९ ॥
आदरेण सदा स्तौति धनवन्तं धनेच्छया ।
तथा विश्वस्य कर्तारं को न मुच्येत बन्धनात् ॥ १,२३०.५० ॥
यथा प्राप्तवनो वह्निर्दहत्यार्द्रमपीन्धनम् ।
तथाविधः स्थितो विष्णुर्योगिनां सर्वकिल्विषम् ॥ १,२३०.५१ ॥
आदीप्तं पर्वतं यद्वन्नाश्रयन्ति मृगादयः ।
तद्वत्पापनि सर्वाणि योगाभ्यासरतं नरम् ॥ १,२३०.५२ ॥
यस्य यावांश्च विश्वासस्तस्य सिद्धिस्तु तावती ।
एतवानेव कृष्णस्य प्रभावः परिमीयते ॥ १,२३०.५३ ॥
विद्वेषादपि गोविन्दं दमघोषात्मजः स्मरन् ।
शिशुपालो गतस्तत्त्वं किं पुनस्तत्परायणः ॥ १,२३०.५४ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुमहात्म्यवर्णनं नाम त्रिंशदुत्तरद्विशततमोऽध्यायः