गरुडपुराणम्/आचारकाण्डः/अध्यायः २३१

← आचारकाण्डः, अध्यायः २३० गरुडपुराणम्
अध्यायः २३१
वेदव्यासः
आचारकाण्डः, अध्यायः २३२ →

श्रीगरुडमहापुराणम् २३१
सूत उवाच ।
नारसिंहस्तुतिं वक्ष्ये शिवोक्तं शौनकाधुना ।
पूर्वं मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ॥ १,२३१.१ ॥

भगवन् भक्षयिष्यामः सदेवासुरमानुषम् ।
त्वत्प्रसादाज्जगत्सर्वं तदनुज्ञातुमर्हसि ॥ १,२३१.२ ॥

शङ्करौवाच ।
भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः ।
तस्माड्वोरतरप्रायं मनः शीघ्रं निवर्त्यताम् ॥ १,२३१.३ ॥

इत्येवं शङ्करेणोक्तमनादृत्य तु तद्वचः ।
भक्षयामासुरव्यग्रास्त्रैलोक्यं सचराचरम् ॥ १,२३१.४ ॥

त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणेन वै ।
नृसिंहरूपिणं देवं प्रदध्यौ भगवाञ्छिवः ॥ १,२३१.५ ॥

अनादिनिधनं देवं सर्वभूतभवोद्भवम् ।
विद्युज्जिह्वं महादंष्ट्रं स्फुरत्केसरमालिनम् ॥ १,२३१.६ ॥

रत्नाङ्गदं समुकुटं हेमकेसरभूषितम् ।
खोणिसूत्रेण महता काञ्चनेन विराजितम् ॥ १,२३१.७ ॥

नीलोत्पलदलश्यामं रत्ननूपुरभूषितम् ।
तेजसाक्रान्तसकलब्रह्माण्डोदरमण्डपम् ॥ १,२३१.८ ॥

आवर्तसदृशाकारैः संयुक्तं देहरोमभिः ।
सर्वपुष्पैर्योजिताञ्च धारयंश्च महास्त्रजम् ॥ १,२३१.९ ॥

स ध्यातमात्रो भगवान्प्रददौ तस्य दर्शनम् ।
यादृशेन रूपेण ध्यातो रुद्रैस्तु भक्तितः ॥ १,२३१.१० ॥

तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः ।
प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ॥ १,२३१.११ ॥

शङ्कर उवाच ।
नमस्तेऽस्त जगन्नाथ नरसिंहवपुर्धर ।
दैत्येश्वरेन्द्रसंहारिनखशुक्तिविराजित ॥ १,२३१.१२ ॥

नखमण्डलसभिन्नहेमपिङ्गलविग्रह ।
नमोऽस्तु पद्मनाभाय शोभनाय जगद्गुरो ।
कल्पान्ताम्भोदनिर्घोष सूर्यकोटिसमप्रभ ॥ १,२३१.१३ ॥

सहस्रयमसंत्रास सहस्रेन्द्रपराक्रम ।
हसस्त्रधनदस्फीत सहस्रचरणात्मक ॥ १,२३१.१४ ॥

सहस्रचन्दप्रतिम ! सहस्रांशुहरिक्रम ।
सहस्ररुद्रतेजस्क सहस्रब्रह्मसंस्तुत ॥ १,२३१.१५ ॥

सहस्ररुद्रसंजप्त सहस्राक्षनिरीक्षण ।
सहस्रजन्ममथन सहस्रबन्धनमोचन ॥ १,२३१.१६ ॥

सहस्रवायुवेगाक्ष सहस्राज्ञकृपाकर ।
स्तुत्वैवं देवदेवेशं नृसिंहवपुषं हरिम् ।
विज्ञापयामास पुनर्विनयावनतः शिवः ॥ १,२३१.१७ ॥

अन्धकस्य विनाशाय या सृष्टा मातरो मया ।
अनादृत्य तु मद्वाक्यं भक्ष्यन्त्वद्भुताः प्रजाः ॥ १,२३१.१८ ॥

सृष्ट्वा ताश्च न शक्तोऽहं संहर्तुमपराजितः ।
पूर्वं कृत्वा कथं तासां विनाशमभिरोचये ॥ १,२३१.१९ ॥

एवमुक्तः स रुद्रेण नरसिहवपुर्हरिः ।
सहस्रहेवीर्जिह्वाग्रात्तदा वागीश्वरो हरिः ॥ १,२३१.२० ॥

तथा सुरगणान्सर्वान्रौद्रान्मातृगणान्विभुः ।
संहृत्य जगतः शर्म कृत्वा चान्तर्दधे हरिः ॥ १,२३१.२१ ॥

नारसिंहमिदं स्तोत्रं यः पठेन्नियतेन्द्रियः ।
मनोरथप्रदस्तस्य रुद्रस्येव न संशयः ॥ १,२३१.२२ ॥

ध्यायेन्नृसिंहं तरुणार्कनेत्रं सिदाम्बुजातं ज्वलिताग्निवत्क्रम् ।
अनादिमध्यान्तमज पुराणं परापरेशं जगतां निधानम् ॥ १,२३१.२३ ॥

जपेदिदं सन्ततदुः खजालं जहाति नीहारमिवांशुमाली ।
समातृवर्गस्य करोति मूर्तिं यदा तदा तिष्ठति तत्समीपे ॥ १,२३१.२४ ॥

देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधातुं त्रिपुरान्तकारी ।
प्रसाद्य तं देववरं स लब्ध्वा अव्याज्जगन्मातृगणेभ्य एव च ॥ १,२३१.२५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नृसिंहस्तोत्रं नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः