प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः २३८ गरुडपुराणम्
अध्यायः २३९
वेदव्यासः
आचारकाण्डः, अध्यायः २४० →


श्रीगरुडमहापुराणम् २३९
श्रीभगवानुवाच ।
सन्नपि ब्रह्म तस्मात्खं मरुत्खाच्च ततोऽनलः ॥ १,२३९.१ ॥

अग्नेरापस्ततः पृथ्वी प्रपञ्चाकृतिसूतिका ।
ततः सप्तदशं लिङ्गं पञ्चकर्मेन्द्रियाणि च ॥ १,२३९.२ ॥

वाक्पाणिपादं पायुश्चाप्युपस्थमथ धीन्द्रियम् ।
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं स्यात्पञ्च वायवः ॥ १,२३९.३ ॥

प्राणोपानः समानश्च व्यानस्तूदान एव च ।
मनोन्तः करणं धीश्च स्यान्मनः संशयात्मकम् ॥ १,२३९.४ ॥

बुद्धिर्निश्चयरूपा तु एतत्सूक्ष्मस्वरूपकम् ।
हिरण्यगर्भमात्मीयसूत्रं तत्कार्यालिङ्गकम् ॥ १,२३९.५ ॥

पञ्चीकृतानि भूतानि ह्यपञ्चीकृतभूततः ।
पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं समजायत ॥ १,२३९.६ ॥

लोकप्रसिद्धं स्थूलाख्यं शरीरं चरणादिमत् ।
पञ्चीकृतानि भूतानि तत्कार्यं तत्स्थमेव च ॥ १,२३९.७ ॥

सर्वं शरीरजातं च प्राणिनां स्थूलमीरितम् ।
त्रिधाह्रि परमात्मस्थं शरीरं प्रोच्यते बुधैः ॥ १,२३९.८ ॥

देहद्वयाभिगामी च त्वमथो जीव एकतः ।
स्वभेदवाक्याद्ब्रह्मैव प्रविष्टं देहयोर्द्वयोः ॥ १,२३९.९ ॥

जलार्क्ववद्वदरवज्जीवः प्राणादिधारणः ।
जाग्रत्स्वप्नसुषुप्तीनां साक्षी जीवः स च स्मृतः ॥ १,२३९.१० ॥

जाग्रत्स्वप्नसुषुप्त्याख्यैर्व्यातिरिक्तश्च निर्गुणः ।
निर्गातावयवोसंगो नित्यशुद्धस्वभावकः ॥ १,२३९.११ ॥

परमात्मैव यज्जाग्रत्स्वप्नाद्यैर्यस्त्रिधा मतः ।
अन्तः करणराशेश्चैवान्तः करणःस्थितः ॥ १,२३९.१२ ॥

जाग्रत्स्वप्नसुषुप्तीश्च पश्यतो विकृतिः सदा ।
फलक्रियाकारकयोर्जाग्रदादीन्वदाम्यहम् ॥ १,२३९.१३ ॥

इन्द्रियैरथ विज्ञानं जाग्रत्स्थानमुदीरितम् ।
जाग्रत्संस्कारसंभूतप्रत्ययो विषयार्थिनः ॥ १,२३९.१४ ॥

स्वप्नं सुषुप्तिः करणोपसंघाते धियः (प) स्थित (ति) ।
ब्रह्मणः कारणावस्थायां स्थितिः कालकात्मना ॥ १,२३९.१५ ॥

क्रमतोक्रमतो जीवो जाग्रदादि स पश्यति ।
समाध्यारंभकाले तु पूर्वमेवावधारयेत् ॥ १,२३९.१६ ॥

मुमुक्षावथ संजाते अन्तः करणकेवले ।
विलापयेत्क्षेत्रजातं तत्क्षेत्रं परिशेषयेत् ॥ १,२३९.१७ ॥

पञ्चीकृतेभ्यो भूतेभ्यो भाण्डादि व्यतिरिक्तकम् ।
यथा मृदो घटो भिन्नो नास्ति तत्कार्यतस्तथा ॥ १,२३९.१८ ॥

पञ्चीकृतानि भूतानि अपञ्चीकृतभूततः ।
शंसंति व्यतिरेकेण शिष्टाः सूक्ष्मशरीरकम् ॥ १,२३९.१९ ॥

अपञ्चीकृतभूतेभ्यो न लिङ्गं व्यतिरिक्तकम् ।
पृथ्व्याधारं विना नास्ति विना नास्ति च तेन सा ॥ १,२३९.२० ॥

तेजश्च वायुना नास्ति वायुः खेन विना न हि ।
यद्ब्रह्मणा च खं नास्ति शुद्ध ब्रह्म विना च खम् ॥ १,२३९.२१ ॥

शुद्धभावस्तदा जाग्रत्स्वप्नादीनामसंभवः ।
जीवत्ववर्जितः प्राप्तात्मचैतन्यानुरूपतः ॥ १,२३९.२२ ॥

नित्यं शुद्धं बुद्धमुक्तं सत्यं ब्रह्माद्वितीयकम् ।
तत्त्वंपदान्तौ शिष्टौ च तत्कारो ब्रह्मवाचकः ॥ १,२३९.२३ ॥

उकारश्च अकारश्च मकारोयमृगद्वयः ।
ब्रह्माहमस्म्यहं ब्रह्मज्ञानमज्ञानवर्धनम् ॥ १,२३९.२४ ॥

अयमात्मा परं ज्योतिश्चिन्नामानन्दरूपकः ।
सत्यं ज्ञानमनतं हि त्वमसीति श्रुतीरितम् ॥ १,२३९.२५ ॥

अहं ब्रह्मास्मि निर्लेपमहं ब्रह्मास्मि सर्वगम् ।
योसावादित्यपुरुषसोसावहमनादिमत् ।
गीतासारोर्ऽजुनायोक्तो येन ब्रह्मणि वै लयः ॥ १,२३९.२६ ॥

इति श्रीगारुडे महापुराणे प्रथमांशे आचारकाण्डे ब्रह्मगीतासारो नामेकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः