प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः २३९ गरुडपुराणम्
अध्यायः २४०
वेदव्यासः

श्रीगरुडमहापुराणम् २४०
हरिरुवाच ।
पुराणं गारुडं रुद्र प्रोक्तं सारं मयातव ।
ब्रह्मादीनां शृण्वतां च भुक्तिमुक्तिप्रदायकम् ॥ १,२४०.१ ॥

विद्याकीर्तिप्रभालक्ष्मीजयारोग्यादिकारकम् ।
यः पठेच्छृणुयाद्रुद्र सर्ववित्स दिवं व्रजेत् ॥ १,२४०.२ ॥

ब्रह्मोवाच ।
इति व्यास मया विष्णोः पुराणं मुक्तिदं श्रुतम् ।
व्यास उवाच ।
श्रुत्वैतद्गारुडं पुण्यं ब्रह्मास्मानित्युवाच ह ॥ १,२४०.३ ॥

दक्षनारद मुख्यादिन् ब्रह्म ध्यान्हरिं गतः ।
मयापि तुभ्यं सूतेन पुराणं कथितं परम् ॥ १,२४०.४ ॥

यच्छ्रुत्वा सर्ववित्प्राप्तकामो ब्रह्म फलं भवेत् ।
विष्णुः सारतमंप्राह गरुडं गारुडं ततः ॥ १,२४०.५ ॥

महासारं धर्मकामधनमोक्षादिदायकम् ।
सूत उवाच ।
शौनक प्रवरं प्रोक्तं पुराणं गारुडं तव ॥ १,२४०.६ ॥

यदब्रवीत्पुरा व्यासः सारं मां गारुडेरितम् ।
व्यासः श्रुत्वा ब्रह्मणश्च पुराणं गारुडं शुभम् ।
देवं ध्यायन्वेदमेकं चतुर्धा व्यभजद्धरिः ॥ १,२४०.७ ॥

अष्टादशपुराणानि तानि मां प्राह वै शुकः ।
इदं तु गारुडं श्रेष्ठं मया ते शौनकेरितम् ॥ १,२४०.८ ॥

मुनीनां शृण्वतां मध्ये पृच्छतः सर्ववाचकम् ।
यः पठेच्छणुयाद्वापि श्रावयेद्वा समाहितः ॥ १,२४०.९ ॥

संलिखेल्लेखयेद्वापि धारयेत्पुस्तके ननु ।
धर्मार्थो प्राप्नुयाद्धर्मर्थार्थो चार्थमाप्नुयात् ॥ १,२४०.१० ॥

कामा नवाप्नुयात्कामी मोक्षार्थो मोक्षमाप्नुयात् ।
यद्यदिच्छति तत्सर्वं गारुडश्रवणाल्लभेत् ॥ १,२४०.११ ॥

ब्राह्मणो वेदपारस्य गन्ता स्यान्नात्र संशयः ।
क्षत्त्रियो क्षत्त्रियस्यापि रक्षिता भवतीह च ॥ १,२४०.१२ ॥

नान्यस्य श्रवणं हि स्यात्पुराणं वेदसंमितम् ।
वदेद्यदि स मूढात्मा कीर्तिहानिमवाप्नुयात् ॥ १,२४०.१३ ॥

अन्यस्मै च वदेद्विद्वान् ब्राह्मणोन्तरितो य दि ।
ब्राह्मणान्तरितै सर्वैः श्रोतव्यं गारुडं त्विदम ॥ १,२४०.१४ ॥

यथा विष्णुस्तथा तार्क्ष्यस्तार्क्ष्यस्तोत्राद्धरिः स्तुतः ।
गारुडं वसुराजश्च श्रुत्वा सर्वमवाप ह ॥ १,२४०.१५ ॥

वरुरुवाच ।
नमस्यामि महाबाहुं खगेद्र हरिवाहनम् ।
विष्णोर्ध्वसंस्थानं वित्रासितमहासुरम् ॥ १,२४०.१६ ॥

नमस्ते नागदर्पघ्न विनतानन्दवर्धन ।
सुपक्षपात निद्दभ दीनदैत्यनिरीक्षित ॥ १,२४०.१७ ॥

परस्परस्य शापेन सुप्रतीकविभावसू ।
गजकच्छपतां प्राप्तौ भ्रातरौचैव संयुतौ ॥ १,२४०.१८ ॥

यदुच्छ्रितौ योजनानि जस्तद्द्विगुणायतः ।
कूर्मस्त्रियोजनोत्सोधा शतयोजनवमडलः ॥ १,२४०.१९ ॥

न खाद्यौ तौ त्वयानीचौ चतुर्भुजौ च पक्षिप? ।
परस्परकृताच्छापदोषाच्च परिमोचितौ ॥ १,२४०.२० ॥

निषाददेशस्वादेन देवं ब्रूस्मानिदितम्? ।
विषादीशस्ततो मुक्तस्तत्रापि ब्राह्मणस्त्वया ॥ १,२४०.२१ ॥

वटारोहिणवृक्षस्य योजनानां शतायुता ।
शाखा भिन्ना त्वया यत्र वालखिल्याः समास्थिताः ॥ १,२४०.२२ ॥

त्वया यत्नकृता कृत्वानखस्थौ गजकच्छपौ ।
नभस्पपिनिरालंबे सर्वतः परिवारितौ ॥ १,२४०.२३ ॥

त्वया जिता रणे देवाः सर्वे शक्रपुरोगमाः ।
आहृतं तत्पुरा सोमं वाह्निं निर्वाप्य काश्यपे ॥ १,२४०.२४ ॥

नागौ दृष्टिविषौ कृत्वा रजसा तु विचक्षुषौ ।
तीक्ष्णाग्रेण न सा भङ्क्त्वाविक्रवेतौ मनोहतः? ॥ १,२४०.२५ ॥

आहृत्यापि त्वया सोमं नीतमेव न भक्तितः ।
तेन विष्णोर्ध्वजस्थानं वाहनत्वं गतो ह्यसि ॥ १,२४०.२६ ॥

त्वया निः क्षिप्य दर्भेषु सोमं नागाश्च वञ्चिताः ।
जहार चामृतं पात्रं शीघ्रं वै ब्रह्मसूदन ॥ १,२४०.२७ ॥

यत्र जिह्वाद्विधाभूताः पन्नगानां द्विजोत्तम ।
विनता मोचिता दास्यात्कद्वा पूर्वजिता रणे ॥ १,२४०.२८ ॥

उच्चैः श्रवाः स किंवर्णः शुक्ल इत्येव भाषते ।
कृष्णवर्णमहं मन्ये पूर्वदृष्टमुवाच ह ॥ १,२४०.२९ ॥

त्वया वज्रपहारेण पक्षमुक्तं पुरा स्वतः? ।
दधीचवज्रशक्राणां मातुरर्थाय नान्यथा ॥ १,२४०.३० ॥

तस्य पक्षस्य देवेन्द्रो यदानीतं हि दृष्टवान् ।
तदा तव सुपर्णोति नाम स्थानं जगत्त्रये ॥ १,२४०.३१ ॥

ध्यानमात्राद्विनश्येत्तु विषं स्थावरजङ्गमम् ।
पठेद्वा शृणुयाद्यश्च भुक्तिं मुक्तिमवाप्नुयात् ॥ १,२४०.३२ ॥

सूत उवाच ।
वसुराजो गारुडं वै श्रुत्वा सर्वमवाप्तवान् ।
गरुडो भगवान्विष्णुध्यांयन्सर्ववाप्तवान् ॥ १,२४०.३३ ॥

तदुक्तं गारुडं पुण्यं पुराणं यः पठेन्नरः ।
सर्वकाममवाप्याथ प्राप्नोति परमां गतिम् ॥ १,२४०.३४ ॥

श्लोकपादं पठित्वा च सर्वपापक्षयो भवेत् ।
यस्येदं वर्तते गेह तस्य सर्वं भवेदिह ॥ १,२४०.३५ ॥

गारुडं यस्य हस्ते तु तस्य हस्तगतो नयः ।
यः पठेच्छृणुयादेतद्भुक्तिं मुक्तिं समाप्नुयात् ॥ १,२४०.३६ ॥

धर्मार्थकाममोक्षांश्च प्राप्नुयाच्छ्रवणादितः ।
पुत्रार्थो लभते पुत्रान् कामार्थो काममाप्नुयात् ॥ १,२४०.३७ ॥

विद्यार्थो लभते विद्यां जयार्थो लभते जयम् ।
ब्रह्महत्यादिना पापी पापशुद्धिमवाप्नुयात् ॥ १,२४०.३८ ॥

वन्ध्यापि लभते पुत्त्रं कन्या विन्दति सत्पतिम् ।
क्षेमार्थो लभते क्षेमं बोगार्थो बोगमाप्नुयात् ॥ १,२४०.३९ ॥

मङ्गलार्थो मङ्गलानि गुणार्थो गुणमाप्नुयात् ।
काव्यार्थो च कवित्वं च सारार्थो सारमाप्नुयात् ॥ १,२४०.४० ॥

ज्ञानार्थो लभते ज्ञानं सर्वसंसारमर्दनम् ।
इदं स्वस्त्ययनं धन्यं गारुडं गरुडेरितम् ॥ १,२४०.४१ ॥

नाकाले मरणं तस्य श्लोकमेकं तु यः पठेत् ।
श्लोकार्धपठनादस्य दुष्टशत्रुक्षयो ध्रुवम् ॥ १,२४०.४२ ॥

सूताच्छ्रुत्वा शौनकस्तुनौमिषे मुनिभिः क्रतौ ।
अहं ब्रहेति संध्यायन्मुक्तोभूद्गरुडध्वजात् ॥ १,२४०.४३ ॥

ओं
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे गरुडपुराणमाहात्म्यं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः
शुभं भूयात् ।
इति श्रीगारुडे प्रथमांश आचारकाण्डः समाप्तः ।