प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः ४६ गरुडपुराणम्
अध्यायः ४७
वेदव्यासः
आचारकाण्डः, अध्यायः ४८ →

।।सूत उवाच ।।
प्रासादानां लक्षणं च वक्ष्ये शौनक तच्छृणु ।।
चतुः षष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम् ।। 47.1 ।।

चतुष्कोणं चतुर्भिश्च द्वाराणि सूर्य्यसंख्यया ।।
चत्वारिंशाष्टभिश्चैव भित्तीनां कल्पना भवेत् ।। 47.2 ।।

ऊर्द्ध्वक्षेत्रसमा जङ्घा जङ्घार्धद्विगुणं भवेत् ।।
गर्भविस्तारविस्तीर्णः शुकाङ्‌घ्रिश्च विधीयते ।। 47.3 ।।

तत्त्रिभागेन कर्त्तव्यः पञ्चभागेन वा पुनः ।।
निर्गमस्तु शुकाङ्‌घ्रेश्च उच्छ्रायः शिखरार्द्धगः ।। 47.4 ।।

चतुर्द्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनम् ।।
चतुर्थे पुनरस्यैव कण्ठमामूलसाधनम् ।। 47.5 ।।

अथ वापि समं वास्तुं कृत्वा षोडशभागिकम् ।।
तस्य मध्ये चतुर्भागमादौ गर्भं तु कारयेत् ।। 47.6 ।।

चतुर्भागेन भित्तीनामुच्छ्रायः स्यात्प्रमाणतः ।। 47.7 ।।

द्विगुणः शिखरोच्छ्रायो भित्त्युच्छायाच्च मानतः ।।
शिखरार्द्धस्य चार्द्धेन विधेयास्तु प्रदक्षिणाः ।। 47.8 ।।

चतुर्दिक्षु तथा ज्ञेयो निर्गमस्तुः तथा बुधैः ।।
पञ्चभागेन संभज्य गर्भमानं विचक्षणः ।। 47.9 ।।

भागमेकं गृहीत्वा तु निर्गमं क्लपयेत्पुनः ।।
गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ।। 47.10 ।।

एतत्सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम् ।।
लिङ्गमानमथो वक्ष्ये पीठो लिङ्गसमो भवेत् ।। 47.11 ।।

द्विगुणेन भवेद्रर्भः समन्ताच्छौनक ध्रुवम् ।।
तद्द्विधा च भवेद्भीतिर्जंघा तद्विस्तरार्द्धगा ।। 47.12 ।।

द्विगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक ।।
पीठगर्भावरं कर्म तन्मानेन शुकाङ्‌घ्रिकम् ।। 47.13 ।।

निर्गमस्तु समाख्यातः शेषं पूर्ववदेव तु ।।
लिंगमानं स्मृतं ह्येतद्द्वारमानमथोच्यते ।। 47.14 ।।

कराग्रं वेदवत्कृत्वा द्वारं भागाष्टमं भवेत् ।।
विस्तरेण समाख्यातं द्विगुणंस्वेच्छया भवेत् ।। 47.15 ।।

द्वारवत्पीठमध्ये तु शेषं शुषिरकं भवेत् ।।
पादिकं शेषिकं भित्तिर्द्वारार्द्धेन परिग्रहात् ।। 47.16 ।।

तद्विस्तारसमा जङ्घा शिखरं द्विगुणं भवेत् ।।
शुकाङ्‌घ्रिः पूर्ववज्ज्ञेया निर्गमोच्छ्रायकं भवेत् ।। 47.17 ।।

मण्डपे मानमेतत्तु स्वरूपं चापरं वदे ।।
त्रैवेदं कारयेत्क्षेत्रं यत्र तिष्ठन्ति देवताः ।। 47.18 ।।

इत्थं कृतेन मानेन बाह्यभागविनिर्गतम् ।।
नेमिः पादेन विस्तीर्णा प्रासादस्य समन्ततः ।। 47.19 ।।

गर्भं तु द्विगुणं कुर्य्यान्नेम्या मानं भवेदिह ।।
स एव भित्तेरुत्सेधो शिखरो द्विगुणो मतः ।। 47.20 ।।

प्रासादानां च वक्ष्यामि मानं योनिं च मानतः ।।
वैराजः पुष्पकाख्यश्च कैलासो मालिकाह्वयः ।। 47.21 ।।

त्रिविष्टपं च पञ्चैते प्रासादाः सर्वयोनयः ।।
प्रथमश्चतुरश्रो हि द्वितीयस्तु तदायतः ।। 47.22 ।।

वृत्तो वृत्तायतश्चान्योऽष्टाश्रश्चेह च पञ्चमः ।।
एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः ।। 47.23 ।।

सर्वप्रकृतिभूतेभ्यश्चत्वारिंशत्तथैव च ।।
मेरुश्च मन्दरश्चैव विमानश्च तथापरः ।। 47.24 ।।

भद्रकः सर्वता भद्रो रुचको नन्दनस्तथा ।।
नन्दिवर्द्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी ।। 47.25 ।।

चतुरश्राः समुद्भूता वैराजादिति गम्यताम् ।।
वलभी गृहराजश्च शालागृहं च मन्दिरम् ।। 47.26 ।।

विमानं च तथा ब्रह्ममन्दिरं भवनं तथा ।।
उत्तम्भं शिबिका वेश्म नवैते पुष्पकोद्भवाः ।। 47.27 ।।

वलयो दुन्दुभिः पद्मो महापद्मस्तथापरः ।।
मुकुली चास्य उष्णीषी शङ्खश्च कलशस्तथा ।। 47.28 ।।

गुवावृक्षस्तथान्यश्च वृत्ताः कैलाशसम्भवाः ।।
गजोऽथ वृषभो हंसो गरुडः सिंहनामकः ।। 47.29 ।।

भूमुखो भूधरश्चैव श्रीजयः पृथिवीधरः ।।
वृत्तायताः समुद्भूता नवैते मणिकाह्वयात् ।। 47.30 ।।

वज्रं चक्रं तथान्यच्च मुष्टिकं वभ्रुसंज्ञितम् ।।
वक्रः स्वस्तिकखड्गौ च गदा श्रीवृक्ष एव च ।। 47.31 ।।

विजयो नामतः श्वेतस्त्रिविष्टिपसमुद्भवाः ।।
त्रिकोणं पद्ममर्द्धेन्दुश्चतुष्कोणं द्विरष्टकम् ।। 47.32 ।।

यत्र तत्र विधातव्यं संस्थानं मण्डपस्य तु ।।
राज्यं च विभवश्चैवः ह्यायुर्वर्द्वनमेव च ।। 47.33 ।।

पुत्रलाभः स्त्रियः पुष्टिस्त्रिकोणादिक्रमाद्भवेत् ।।
कुर्य्याद्धजादिकं ख्यातद्वारि गर्भगृहं तथा ।। 47.34 ।।

मण्‍डपः समसंख्याभिर्गुणितः सूत्रकस्तथा ।।
मण्डपस्य चतुर्थांशाद्भद्रः कार्य्यो विजानता ।। 47.35 ।।

स्पर्धागवाक्षकोपेतो निर्गवाक्षोऽथ वा भवेत् ।।
सार्द्धभित्तिप्रमाणेन भितिमानेन वा पुनः ।। 47.36 ।।

भित्तेर्द्वैगुण्यतो वापि कर्त्तव्या मण्डपाः क्वचित् ।।
प्रासादे मञ्चरी कार्य्या चित्रा विषमभूमिका ।। 47.37 ।।

परिमाणविरोधेन रेखावैषम्यभूषिता ।।
आधारस्तु चतुर्द्धारश्चतुर्मण्डपशोभितः ।। 47.38 ।।

शतश्रृङ्गसमायुक्तो मेरुः प्रासाद उत्तमः ।।
मण्डपास्तस्य कर्त्तव्या भद्रैस्त्रिभिरलङ्कृताः ।। 47.39 ।।

गठनाकारमानानां भिन्नाभिन्ना भवन्ति ते ।।
कियन्तो येषु चाधारा निराधाराश्च केचन ।। 47.40 ।।

प्रतिच्छन्दकभेदेन प्रासादाः सम्भवन्ति ते ।।
अन्योन्यासंस्करास्तेषां घटनानामभेदतः ।। 47.41 ।।

देवतानां विशेषाय प्रासादा बहवः स्मृताः ।।
प्रासादे नियमो नास्ति देवतानां स्वयम्भुवाम् ।। 47.42 ।।

तानेव देवतानां च पूर्वमानेन कारयेत् ।।
चतुरश्रायतास्तत्त्र चतुष्कोणसमन्विताः ।। 47.43 ।।

चन्द्रशालान्विता कार्य्या भेरीशिखरसंयुता ।।
पुरतो वाहनानां च कर्त्तव्या लग्न(घु) मण्डपाः ।। 47.44 ।।

नाट्यशाला च कर्त्तव्या द्वारदेशसमाश्रया ।।
प्रसादे देवतानां च कार्य्या दिक्षु विदिक्ष्वपि ।। 47.45 ।।

द्वारपालाश्च कर्त्तव्या मुख्या गत्वा पृथक्‌ पृथक्‌ ।।
किञ्चिददूरतः कार्य्या मठास्तत्रोपजीविनाम् ।। 47.46 ।।

प्रावृता जगती कार्य्या फलपुष्पजलान्विता ।।
प्रसादेषु सुरांस्थाप्य पूजाभिः पूजयेन्नरः ।।
वासुदेवः सर्वदेवः सर्वभाक्‌ तद्गृहादिकृत् ।। 47.47 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे प्रासादलिङ्गमण्डपादिलक्षणनिरूपणंनाम सप्तचत्वारिंशोऽध्यायः ।। 47 ।।