प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः ६९ गरुडपुराणम्
अध्यायः ७०
वेदव्यासः
आचारकाण्डः, अध्यायः ७१ →

              ॥सूत उवाच ॥
दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम् ॥
असृग्गृहीत्वा चरितुं प्रतस्थे निस्त्रिंशनीलेन नभः स्थलेन ॥ 70.1 ॥

जेत्त्रा सुराणां समरेष्वजस्रं वीर्य्यावलेपोद्धतमानसेन ॥
लङ्काधिपेनार्द्धपथे समेत्य स्वर्भानुनेव प्रसभं निरुद्धः ॥ 70.2 ॥

तत्सिंहलीचारुनितम्बबिम्बविक्षो भितागाधमहाह्रदायाम् ॥
पूगद्रुमाबद्धतटद्वयायां मुमोच सूर्य्यः सरिदुत्तमायाम् ॥ 70.3 ॥

ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया ॥
नाम्ना रावणगङ्गेति प्रथिमानमुपागता ॥ 70.4 ॥

ततः प्रभृत्येव च शर्वरीषु कूलानि रत्नैर्निचितानि तस्याः ॥
सुवर्णनाराचशतैरिवान्तर्बहिः प्रदीप्तैर्निशितानि भान्ति ॥ 70.5 ॥

तस्यास्तटेपूज्ज्वचारुरागा भवन्ति तोयेषु च पद्मरागाः ॥
सौगन्धिकोत्थाः कुरुविन्दजाश्च महागुणाः स्फाटिकसंप्रसूताः ॥ 70.6 ॥

बन्धू कगुंजासकलेन्द्रगोपजवासमासृक्समवर्णशोभाः ॥
भ्राजिष्णवो दाडिमबीजवर्णास्तथापरे किशुकपुष्पभासः ॥ 70.7 ॥

सिन्दुरपद्मोत्पलकुंकुमानां लाक्षारसस्यापि समानवर्णः ॥
सांद्रेऽपि रागे प्रभया स्वयैव भान्ति स्वलक्ष्याः स्फुटमध्यशोभाः ॥ 70.8 ॥

भानोश्च भासामनुवेधयोगामासाद्य रशमि प्रकरेण दूरम् ॥
पार्श्वानि सर्वाण्यनुरञ्जयन्ति गुणापपन्नाः स्फटिकप्रसूताः ॥ 70.9 ॥

कुसुम्भनीलव्यतिमिश्ररागप्रत्युग्ररक्ताबुजतुल्यभासः ॥
तथापरेऽरुष्करकण्टकारिपुष्पत्विषो हिङ्गुलवत्त्विषोऽन्ये ॥ 70.10 ॥

चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित् ॥
अन्ये पुनः सन्ति च पुष्पितानां तुल्यत्विषा कोकनदोत्तमानाम् ॥ 70.11 ॥

प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फटिकोद्भवानाम् ॥
आनीलरक्तोत्पलचारुभासः सौगन्धिकोत्था मणयो भवन्ति ॥ 70.12 ॥

कामं तु रागः कुरुविन्दजेषु स नैव यादृक् स्फटिकोद्भवेषु ॥
निरर्चिषोऽन्तर्बहुला भवन्ति प्रभाववन्तोऽपि नतैः समस्तैः ॥ 70.13 ॥

ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः ॥
पद्मरागघनं रागं बिभ्राणाः स्फटिकार्चिषः ॥ 70.14 ॥

वर्णानुयायिनस्तेषा मान्ध्रदेशे तथा परे ॥
न जायन्ते हि ये केचिन्मूल्यलेशमवाप्नुयुः ॥ 70.15 ॥

तथैव स्फाटिकोत्थानां देशे तुम्बुरुसंज्ञके ॥
सधर्माणः प्रजायन्ते स्वल्पमूल्या हि ते स्मृताः ॥ 70.16 ॥

वर्णाधिक्यं गुरुत्वं च स्निग्धता समताच्छता ॥
अर्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः ॥ 70.17 ॥

ये कर्करच्छिद्रमलोपदिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः ॥
न ते प्रशस्ता मणयो भवन्ति समानतो जातिगुणैः समस्तैः ॥ 70.18 ॥

दोषोपसृष्टं मणिमप्रबोधाद्विभर्त्ति यः कश्चन कञ्चिदेव ॥
तं शोकचिन्तामयमृत्युवित्तनाशादयो दोषगणा भजंते ॥ 70.19 ॥

कामं चारुतराः पंच जातीना प्रतिरूपकाः ॥
विजा तयः प्रयत्नेन विद्वांस्तनुपलक्षयेत् ॥ 70.20 ॥

कलशपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तपाणीयाः ॥
श्रीपूर्णकाश्च सदृशा विजातयः पद्मरागाणाम् ॥ 70.21 ॥

तुषोपसर्गात्कलशाभिधानमाताम्रभावादपि तुम्बुरूत्थम् ॥
कार्ष्ण्यात्तथा सिंहलदेशजातं मुक्ताभिधानं नभसः स्वभावात् ॥ 70.22 ॥

श्रीपूर्णकं दीप्तिविनाकृतत्वाद्विजातिलिङ्गाश्रय एव भेदः ॥
यस्ताम्रिकां पुष्यति पद्मरागो योगात्तुषाणामिव पूर्णमध्यः ॥ 70.23 ॥

स्नेहप्रदिग्धः प्रतिभाति यश्च यो वा प्रघृष्टः प्रजहाति दीप्तिम् ॥
आक्रान्तमूर्द्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतां बिभर्त्ति ॥ 70.24 ॥

संप्राप्य चोत्क्षिप्य यथानुवृत्तिं विभर्तियः सर्वगुणानतीव ॥
तुल्यप्रमाणस्य च तुल्यजातेर्यो वा गुरुत्वेन भवेत्तु तुल्यः ॥
प्राप्यापि रत्नाकरजा स्वजातिं लक्षेद्गुरुत्वेन गुणेन विद्वान् ॥ 70.25 ॥

अप्रणश्यति सन्देहे शाणे तु परिलेखयेत् ॥
सु(स्व) जातकसमुत्थेन लिखित्वापि परस्परम् ॥ 70.26 ॥

वज्रं वा कुरुविन्दं वा विमुच्यानेन केनचित् ॥
नाशक्यं लेखनं कर्त्तुं पद्मरागेन्द्रनीलयोः ॥ 70.27 ॥

जात्यस्य सर्वेऽपि मणेर्न जातु विजातयः सन्ति समानवर्णाः ॥
तथापि नानाकरणार्थमेव भेदप्रकारः परमः प्रदिष्टः ॥ 70.28 ॥

गुणोपपन्नेन सहावबद्धोमेणिर्न धार्यो विगुणो हि जात्या ॥
न कौस्तुभेनापि सहावबद्धं विद्वान्विजातिं बिभृयात्कदाचित् ॥ 70.29 ॥

चाण्डाल एकोऽपि यथा द्विजातीन्समेत्य भूरीनपि हन्त्ययत्नात् ॥
अथो मणीन्भूरिगुणोपपन्नाञ्शक्रोति विप्लावयितुं विजात्यः ॥ 70.30 ॥

सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपि वर्त्तमानम् ॥
न पद्मरागस्य महागुणस्य भर्त्तारमापत्स्पृशतीह काचित् ॥ 70.31 ॥

दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं समभिद्रवन्ति ॥
गुणैः समुत्तेजितचारुरागं यः पद्मरागं प्रयतो बिभर्त्ति ॥ 70.32 ॥

वज्रस्य यत्तण्डुलसंख्ययोक्तं मूल्यं समुत्पादितगौरवस्य ॥
तत्पद्मरागस्य महागुणस्य तन्माषकल्पाकलितस्य मूल्यम् ॥ 70.33 ॥

वर्णदाप्त्यपपन्नं हि मणिरत्नं प्रशस्यते ॥
ताभ्यामीषदपि भ्रष्टं मणिमूल्यात्प्रहीयते ॥ 70.34 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पद्मरागपरीक्षणं नाम सप्ततितमोऽध्यायः ॥ 70 ॥