प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः ७० गरुडपुराणम्
अध्यायः ७१
वेदव्यासः
आचारकाण्डः, अध्यायः ७२ →

               ॥सूत उवाच ॥
दानवाधिपतेः पित्तमादाय भुजगाधिपः ॥
द्विधा कुर्वन्निव व्योम सत्वरं वासुकिर्ययौ ॥ 71.1 ॥

स तदा स्वशिरोरत्नप्रभादीप्ते नभोऽम्बुधौ ॥
राजतः स महानेकः खण्डसेतुरिवाबभौ ॥ 71.2 ॥

ततः पक्षनिपातेन संहरन्निव रोदसी ॥
गरुत्मान्पन्नगेन्द्रस्य प्रहर्त्तुमुपचक्रमे ॥ 71.3 ॥

सहसैव मुमोच तत्फणीन्द्रः सुरसाभ्यक्ततुरुष्क (रष्क) पादपायाम् ॥
कलिकाघनगन्धवासिता यां वरमाणिक्यगिरेरुपत्यकायाम् ॥ 71.4 ॥

तस्य प्रपातसमनन्तरकालमेव तद्वद्वरालयमतीत्य रमासमीपे ॥
स्थानं क्षितेरुपपयोनिधितीरलेखंयां वरमाणिक्यगिरेरुपत्यकायाम् ॥ 71.5 ॥

तत्रैव किञ्चित्पततस्तु पित्तादुपेत्य जग्राह ततो गरुत्मान् ॥
मूर्च्छापरीतः सहसैव घोणारन्ध्रद्वयेन प्रमुमोच सर्वम् ॥ 71.6 ॥

तत्राकठोरशुककण्ठशिरीषपुष्पखद्योतपृष्ठचरशाद्वलशैवलानाम् ॥
कल्हारशष्पकभुजङ्गभुजाञ्च पत्रप्राप्तत्विषो मरकताः शुभदा भवन्ति ॥ 71.7 ॥

तद्यत्र भोगीन्द्रभुजाभियुक्तं पपात पित्तं दितिजाधिपस्य ॥
तस्याकरस्यातितरां स देशो दुः खोपलभ्यश्च गुणैश्च युक्तः ॥ 71.8 ॥

तस्मिन्मरकतस्थाने यत्किञ्चिदुपजायते ॥
तत्सर्वं विषरोगाणां प्रशमाय प्रकीर्त्त्यते ॥ 71.9 ॥

सर्वमन्त्रौषधिगणैर्यन्न शक्यं चिकित्सितुम् ॥
महाहिदंष्ट्राप्रभवं विषं तत्तेन शाम्यति ॥ 71.10 ॥

अन्यदप्याकरे तत्र यद्दोषैरुपवर्जितम् ॥
जायते तत्पवित्राणामुत्तमं परिकीर्त्तितम् ॥ 71.11 ॥

अत्यन्तहरितवर्णं कोमलमर्चिर्विभेदजटिलं च ॥
काञ्चनचूर्णस्यान्तः पूर्णमिव लक्ष्यते यच्च ॥ 71.12 ॥

युक्तं संस्थानगुणैः समरागं गौरवेण न विहीनम् ॥
सवितुः करसंस्पर्शाच्छुरयति सर्वाश्रमं दीप्त्या ॥ 71.13 ॥

हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेद्दीप्तिः ॥
अचिरप्रभाप्रभाहतनवशाद्वलसन्निभा भाति ॥ 71.14 ॥

यच्च मनसः प्रसादं विदधाति निरीक्ष्यमतिमात्रम् ॥
तन्मरकतं महागुणमिति रत्नविदां मनोवृत्तिः ॥ 71.15 ॥

वर्णस्याति विभुत्वाद्यस्यान्तः स्वच्छकिरणपरिधानम् ॥
सान्द्रस्निग्धविशुद्धं कोमलबर्हिप्रभादिसमकान्ति ॥ 71.16 ॥

वर्णोज्ज्वलया कान्त्या सान्द्राकारो विभासया भाति ॥
तदपि गुणवत्संज्ञामाप्नोति हि यादृशी पूर्वम् ॥ 71.17 ॥

शबलकठोरमलिनं रूक्षं पाषाणकर्करोपेतम् ॥
दिग्धं शिलाजतुना मरकतमेवंविधं विगुणम् ॥ 71.18 ॥

यत्सन्धिशोषितं रत्नमन्यन्मरकताद्भवेत् ॥
श्रेयस्कामैर्न तद्धार्य्यं क्रेतव्यं वा कथञ्चन ॥ 71.19 ॥

भल्लातकी पुत्रिका च तद्वर्णसमयोगतः ॥
मणेर्मरकतस्यैते लक्षणीया विजातयः ॥ 71.20 ॥

क्षौमेण वाससा मृष्टा दीप्तिं त्यजति पुत्रिका ॥
लाघवेनैव काचस्य शक्या कर्त्तुं विभावना ॥ 71.21 ॥

कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुणवर्णैः ॥
भल्लातकस्यस्वनात्तु वैषम्यमुपैति वर्णस्य ॥ 71.22 ॥

वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्द्विजातयः ॥
तेषां नाप्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥ 71.23 ॥

ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते ॥
तिर्य्यगालोच्यमानानां सद्यश्चैव प्रणश्यति ॥ 71.24 ॥

स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ ॥
ददद्भिर्गोहिरण्यानि कुर्वद्भिः साधनानि च ॥ 71.25 ॥

दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च ॥
बाध्यमानेषु विविधैर्दोषजातैर्विषोद्भवैः ॥ 71.26 ॥

दौषैर्होनं गुणैर्युक्तं काञ्चनप्रतियोजितम् ॥
संग्रामे विचरद्भिश्च धार्य्यं मरकतं बुधैः ॥ 71.27 ॥

तुलया पद्मरागस्य यन्मूल्यमुपजायते ॥
लभतेऽभ्यधिकं तस्माद्गुणैर्मरकतं युतम् ॥ 71.28 ॥

तथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते ॥
ततोऽस्याप्यधिका हानिर्दोषैर्मरकते भवेत् ॥ 71.29 ॥

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मरकतपरीक्षणं नामैकसप्ततितमोऽध्यायः ॥ 71 ॥