गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २०

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १९ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २०
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २१ →



अश्वमेधखण्डः - विंशोऽध्यायः

उपलङ्काविजयम् -


गर्ग उवाच -
अथासुराणां मध्ये वै स्थित्वा राजन् रुषान्वितः ॥
 आभिप्रायं भीषणं च बकः पप्रच्छ राक्षसः ॥१॥
 किमर्थं यादवैः सार्द्धं युद्धमासीत्तृणोपमैः ॥
 त्वं च यत्र गतो मूर्च्छां राक्षसा निहता अहो ॥२॥
 इत्युक्तः स बकेनापि भूत्वा राजन्नवाङ्‍मुखः ॥
 हयमेधतुरंगस्य वार्तां सर्वामवर्णयत् ॥३॥
 श्रुत्वा पुत्रस्य वचनं गृहीत्वा स्वगदां बकः ॥
 विवेश यदुसैन्ये वै ज्वलनस्तु यथा वने ॥४॥
 पद्‌भ्यां ममर्द पाणिभ्यां यादवान्संमुखे गतान् ॥
 भुजाभ्यां गदयो सिंहो प्रसुप्ताँश्च मृगान्यथा ॥५॥
 हयाँश्चिक्षेप गगने गजाँश्चैव रथाँस्तथा ॥
 नराँश्च भक्षयन् युद्धे शब्दं चक्रे बको बली ॥६॥
 ननाद तेन लोकैश्च विश्वं शब्देन यादव ॥
 जाता च बधिरीभूता पृथिव्यां जनमण्डली ॥७॥
 अथ तस्यापि युद्धेन विपरीतेन यादवाः ॥
 हाहेतिवादिनः सर्वे बभूवुः खिन्नमानसाः ॥८॥
 बाध्यमानां च स्वां सेनां राक्षसेन दुरात्मना ॥
 भृशं निरीक्ष्य तप्तोऽभूत्सांबो जांबवतीसुतः ॥९॥
 गृहीत्वा पंच नाराचान्कोदंडे चण्डविक्रमः ॥
 निधायाशु मुमोचाथ बकस्योपरि मानद ॥१०॥
 ते बाणास्तच्छरीरं वै भित्वा राजन्महीतलम् ॥
 विविशुस्ते तु गत्वा वै पपुर्भोगवतीजलम् ॥११॥
 स हतस्तु शरै राजन्पपात चालयन्महीम् ॥
 पुनरुत्थाय च बको ननाद जलदस्वनः ॥१२॥
 पुनर्जांबवतीपुत्रो जघ्ने तं पंचभिः शरैः ॥
 तैर्बाणैर्विभ्रमन्सोऽपि लंकायां निपपात ह ॥१३॥
 आगत्य त्रिशिखं रक्षस्त्रिशूलं ज्वलनप्रभम् ॥
 राजन्सांबाय चिक्षेप प्रसूनमिव हस्तिने ॥१४॥
 त्रिशूलमागतं दृष्ट्वा सांबो बाणेन लीलया ॥
 चिच्छेद प्रधने शीघ्रं नागं नागांतको यथा ॥१५॥
 ततो नीत्वा गदां गुर्वीं बकस्तु रणदुर्मदः ॥
 सांबस्य तुरगान्‌ राजञ्जघान सारथिं तथा ॥१६॥
 रथं चैव पताकां च हत्वा सांबमुवाच ह ॥
 रथमन्यं समारुह्य युद्धं कुरु मया सह ॥१७॥
 विरथं त्वामधर्मेण न हनिष्याम्यहं रणे ॥
 इतीरितोऽसौ दैत्येन हसन्किंचिद्‌रुषान्वितः ॥१८॥
 शीघ्रं जघान गदया हृत्कपाटे बकस्य च ॥
 गदाहतो बको युद्धे किंचिद्व्याकुलमानसः ॥१९॥
 अगणय्य ततः सांबं यदुसैन्ये विवेश ह ॥
 स गत्वा तत्र गदया गजवाजिरथान्नरान् ॥२०॥
 कौणपः पोथयामस मृगेंद्रस्तु यथा मृगान् ॥
 हाहाकारस्तदैवासीद्यदुसैन्ये नृपेश्वर ॥२१॥
 ततो विलोक्य रोषेण राजन् रुक्मवतीसुतः ॥
 तत्रागतोऽभयं कुर्वन्‌ रथेनाक्षौहिणीयुतः ॥२२॥
 अनिरुद्ध उवाच -
किं करिष्यसि हे मूढ त्यक्त्वा वीरस्य संमुखम् ॥
 भीतानां मारणे श्लाघा न भविष्यति तेऽसुर ॥२३॥
 यदि शक्तिश्च त्वद्देहे विद्यते शृणु मद्वचः ॥
 मत्संमुखे समागत्य कुरु युद्धं प्रयत्‍नतः ॥२४॥
 इति श्रुत्वानिरुद्धस्य वाक्यं राजन्बकासुरः ॥
 रुषा स्फुरत्सर्प इव युद्धार्थं शीघ्रमाययौ ॥२५॥
 आगतं तं विलोक्याथानिरुद्धो धन्विनां वरः ॥
 नाराचैर्दशभी राजञ्जघान प्रधने रुषा ॥२६॥
 ते शरास्तच्छरीरं वै शीघ्रं भित्वा बहिर्गताः ॥
 पुनस्ते भीषणं भित्वा विविशुर्वै महीतलम् ॥२७॥
 ततः पपात स बको भीषणेन समन्वितः ॥
 पृथिव्यां मूर्च्छितो भूत्वा यथा वज्रहतो गिरिः ॥२८॥
 तदा जयजयरावो यदुसैन्ये बभूव ह ॥
 नेदुर्दुंदुभयश्चैव भेर्य्यः शंखाश्च गोमुखाः ॥२९॥
 ततश्च राक्षसाः सर्वे क्रोधपूरितमानसाः ॥
 स्वनाथौ पतितौ दृष्ट्वा यदून्हंतुं समाययुः ॥३०॥
 ततः समभवद्युद्धमुभयोः सेनयोर्मृधे ॥
 बाणैः खड्गैर्गदाभिश्च शक्तिभिर्भिंदिपालकैः ॥३१॥
 राक्षसानां बलं तीव्रं दृष्ट्वा राजन्हरेः सुताः ॥
 अष्टादश च सांबाद्या निजघ्नुर्निशितैः शरैः ॥३२॥
 तत्र तेषां च बाणौघैः कौणपाः पतिता मृधे ॥
 केचिन्मृत्युं गताः केचिद्‍दुद्रुवुर्जीवितैषिणः ॥३३॥
 अथोत्थितो मुहूर्तेन बको राजन्भयंकरः ॥
 त्वरं जगाम शत्रोश्चानिरुद्धस्य तु संमुखे ॥३४॥
 तत्र गत्वा गदां गुर्वीं चिक्षेप तच्छिरोपरि ॥
 बाहुना च बको राजन्हतोऽसीति ब्रुवन् वचः ॥३५॥
 तामागतां विलोक्याथ यमदंडेन माधवः ॥
 चिच्छेद सहसा राजन्कुवाक्येनेव मित्रताम् ॥३६॥
 ततः क्रुद्धो बको युद्धे प्रसार्य मुखमण्डलम् ॥
 दुद्राव तं भक्षयितुं राहुश्चन्द्रमिव क्वचित् ॥३७॥
 आगतं तं निरीक्ष्याथानिरुद्धो धन्विनां वरः ॥
 यमदंडं पुनर्नीत्वा ताडयामास तेन तम् ॥३८॥
 ततो भग्नशिरा भूत्वा ह्युद्वमन्‍रुधिरं मुखात् ॥
 चालयन्वसुधां राजन्पतितो मूर्च्छितोऽभवत् ॥३९॥
 ततश्च भीषणो रोषात्पितरं वीक्ष्य मूर्च्छितम् ॥
 परिघेण रणे राजन्निजघान तु यादवान् ॥४०॥
 ततोऽनिरुद्धो बलवान्नागपाशेन रोषतः ॥
 चकर्ष भीषणं बद्ध्वा नागं विष्णुरथो यथा ॥४१॥
 तं बद्धं पाशिनः पाशैर्भग्नमानमधोमुखम् ॥
 विनिर्जितं हीनबलं सांबो वचनमब्रवीत् ॥४२॥
 असुरेन्द्रानिरुद्धस्य हयमेधतुरंगमम् ॥
 शीघ्रं प्रयच्छ भद्रं ते पुरीं गत्वा विधानतः ॥४३॥
 अनिरुद्धं हरेः पौत्रं श्रीकृष्णस्य महात्मनः ॥
 नॄणां प्रदर्शयन् रूपं विचरंतं मिषेण च ॥४४॥
 यं नमंति समागत्य देवदैत्यनराः सुराः ॥
 तं विद्धि कृष्णसदृशं नॄणां पापप्रणाशनम् ॥४५॥
 तेन त्वं निर्जितो युद्धे दुःखं मा कुरु राक्षस ॥
 अस्माभिः सहितो गच्छ कर्तुं कृष्णस्य दर्शनम् ॥४६॥
 गर्ग उवाच -
बोधितः सोऽपि सांबेन मुक्तः पाशैश्च वारुणैः ॥
 पुरीं गत्वा ददौ तस्मै द्रव्ययुक्तं तुरंगमम् ॥४७॥
 ततःसोऽप्यनिरुद्धेन तुरंगस्य तु पालने ॥
 प्रार्थितो भीषणो राजन्प्रत्युवाच विचार्य तम् ॥४८॥
 भीषण उवाच -
यदा भवति चैतन्यो मत्पिता सुरपालक ॥
 तदाहं तस्य वचनादागमिष्ये न संशयः ॥४९॥
 इतीरितोऽसौ किल भीषणेन
     प्रद्युम्नपुत्रः क्रतुवाहनं च ॥
 कृत्वा विमाने यदुसेनया वै
     स्वयं समारुह्य जगाम खं हि ॥५०॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
उपलंकाविजयो नाम विंशोऽध्यायः ॥२०॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता