गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २१

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २० गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २१
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः २२ →



अश्वमेधखण्डः - एकविंशोऽध्यायः

भद्रावतीविजयम् -


गर्ग उवाच -
ततः प्राप्तः स्वसेनायां विमानस्थ उषापतिः ॥
 शीघ्रं चाकाशमार्गेण नादयञ्जयदुन्दुभीन् ॥१॥
 दृष्ट्वा तानागतान्सर्वे ह्यक्रूराद्याश्च यादवाः ॥
 मिलित्वा कुशलं सर्वं पप्रच्छुस्ते न्यवेदयन् ॥२॥
 ततस्त्यक्त्वा विमूर्च्छां वै बकस्तु सहसोत्थितः ॥
 अदृष्ट्वा यादवांस्तत्र पुत्रं पप्रच्छ रोषतः ॥३॥
 ततः पित्रे भीषणो वै वार्तां सर्वामवर्णयत् ॥
 श्रुत्वा वचः प्राह बको रुषा प्रस्फुरिताधरः ॥४॥
 अहं जानामि यदवो विमानेन कुशस्थलीम् ॥
 मद्‌भयाच्च गताः पुत्र यथा सिंहभयान्मृगाः ॥५॥
 तस्मादयादवीं पृथ्वीं करिष्येऽहं न संशयः ॥
 हनिष्यामि यदून्सर्वान्गत्वा कृष्णस्य द्वारकाम् ॥६॥
 भीषण उवाच -
मन्युं नियच्छ भो राजन्नस्माकं समयो न हि ॥
 प्रसीदति यदा देवो तदा जेष्याम यादवान् ॥७॥
 गर्ग उवाच -
बोधितः सोऽपि पुत्रेण तूष्णीं भूत्वा बकासुरः ॥
 विचचार वने राजन् वनजंतून्प्रभक्षयन् ॥८॥
 ततस्तुरंगं विधिनाभिषिच्य
     दानानि दत्त्वा द्विजपुंगवेभ्यः ॥
 विमोचयामास पुनर्जयाय
     प्रद्युम्नपुत्रो विजयो नृपेन्द्र ॥९॥
 हयस्तु मुक्तः किल कार्ष्णिजेन
     स्वरं प्रकुर्वन्नृप धैवतं च ॥
 पश्यन्स देशान्बहुवीरयुक्ता-
     न्भद्रावतीं नाम पुरीं जगाम ॥१०॥
 तत्र भद्रावतीमश्वो नानाचोपवनैर्वृताम् ॥
 गिरिदुर्गेण राजेंद्र तथा रजतमंदिरैः ॥११॥
 महावीरजनैर्युक्तां यौवनाश्वेन पालिताम् ॥
 दृढां लौहकपाटैश्च नृपस्याग्रे स्थितोऽभवत् ॥१२॥
 तं गृहीत्वा तु तस्यापि वार्तां ज्ञात्वा नृपेश्वरः ॥
 युद्धं कर्तुं च कुपितः ससैन्यो निर्ययौ पुरात् ॥१३॥
 ससैन्यमागतं दृष्ट्वा यौवनाश्वं महाबलम् ॥
 आहूय मंत्रिणं प्राह कृष्णभक्तं हि कार्ष्णिजः ॥१४॥
 अनिरुद्ध उवाच -
कोऽयं समागतो मंत्रिन्संमुखे सह सेनया ॥
 हयहर्त्ता शत्रुमुख्यो तत्सर्वं कथयस्व च ॥१५॥
 उद्धव उवाच -
नृपोऽयं यौवनाश्वाख्यो मरुधन्वपतेः सुतः ॥
 अत्र राज्यं च कुरुते मृते पितरि सत्तम ॥१६॥
 अयं षोडशवर्षीयो कुमंत्रिवचनाद्‌रणम् ॥
 करिष्यति महाराज मारणीयः स न त्वया ॥१७॥
 इति श्रुत्वा तथेत्युक्त्वा यौवनाश्वेन कार्ष्णिजः ॥
 युद्धं चकार प्रधने यथा नागेन नागहा ॥१८॥
 तं तु ते विरथं चक्रे हत्वा चाक्षौहिणीत्रयम् ॥
 प्रत्याह विमलं वाक्यं यौवनाश्वमुषापतिः ॥१९॥
 अनिरुद्ध उवाच -
राजन्प्रयच्छ तुरगं युद्धं कुरु न चेन्मया ॥
 वाक्यं श्रुत्वा हरेः पौत्रं ज्ञात्वा राजा भयान्वितः ॥२०॥
 अर्पयामास विधिना तस्मै यज्ञतुरंगमम् ॥
 भूत्त्वा कृतांजली राजा प्रार्थितस्तेन चाब्रवीत् ॥२१॥
 यौवनाश्व उवाच -
द्वारकायां यदा यज्ञो भविष्यति नृपेश्वर ॥
 तदाहं चागमिष्यामि कृष्णस्यांघ्री विलोकितुम् ॥२२॥
 ततश्च कृत्वा तं राज्ये वंदितस्तेन कार्ष्णिजः ॥
 मुमुचे वाजिनं श्रेष्ठं विजयी विजयाय च ॥२३॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
भद्रावतीविजयो नामैकविंशोऽध्यायः ॥२१॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता