गौडपादकारिका/द्वितीयप्रकरणम्
← प्रथमप्रकरणम् | गौडपादकारिका/द्वितीयप्रकरणम् गौडपादः |
तृतीयप्रकरणम् → |
(अथ गौडपादीयकारिकायां वैतथ्याख्यं द्वितीयं प्रकरणम् /द्वितीयं प्रकरणम्
[ष्]वैतथ्यप्रकरणम्)
वैतथ्यं सर्वभावानां स्वप्ने आहुर्मनीषिणः ।
अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ २.१ ॥
अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति ।
प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते ॥ २.२ ॥
अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् ।
वैतथ्यं तेन वै प्राप्तं स्वप्ने आहुः प्रकाशितम् ॥ २.३ ॥
अन्तःस्थानात्तु भेदानां (तस्माज्/तथा) जागरिते स्मृतम् ।
यथा तत्र तथा स्वप्ने (संवृतत्वेन /संवृतत्वं न) भिद्यते ॥ २.४ ॥
(स्वप्नजागरितस्थाने /ष्]स्वप्नजागरिते स्थाने) ह्येकमाहुर्मनीषिणः ।
भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ २.५ ॥
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः ॥ २.६ ॥
सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते /अपि प्रतिपद्यते) ।
तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ २.७ ॥
(अपूर्वं /अपूर्वाः) स्थानि(धर्मो /धर्मा) हि यथा स्वर्गनिवासिनाम् ।
तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ २.८ ॥
स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ २.९ ॥
जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।
बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ २.१० ॥
उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ।
क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः ॥ २.११ ॥
कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया ।
स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ २.१२ ॥
विकरोत्यपरान् भावानन्तश्चित्ते (व्यवस्थितान् /अव्यवस्थितान्) ।
नियतांश्च बहिश्चित्ते एवं कल्पयते प्रभुः ॥ २.१३ ॥
चित्त(काला हि /कालाश्च) येऽन्तस्तु द्वयकालाश्च ये बहिः ।
कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ २.१४ ॥
अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः ।
कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ २.१५ ॥
जीवं कल्पयते पूर्वं ततो भावान् पृथग्विधान् ।
बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ २.१६ ॥
अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता ।
सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ २.१७ ॥
निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते ।
रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ २.१८ ॥
प्राणादिभिर्(अनन्तैश्च /ष्]अनन्तैस्तु) भावैरेतैर्विकल्पितः ।
मायैषा तस्य देवस्य (यया संमोहितः /ष्]ययायं मोहितः) स्वयम् ॥ २.१९ ॥
(प्राण /प्राणा) इति प्राणविदो भूतानीति च तद्विदः ।
गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ २.२० ॥
पादा इति पादविदो विषया इति तद्विदः ।
लोका इति लोकविदो देवा इति च तद्विदः ॥ २.२१ ॥
वेदा इति वेदविदो यज्ञा इति च तद्विदः ।
भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ २.२२ ॥
सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः ।
मूर्त इति मूर्तविदो अमूर्त इति च तद्विदः ॥ २.२३ ॥
काल इति कालविदो दिश इति च तद्विदः ।
वादा इति वादविदो भुवनानीति तद्विदः ॥ २.२४ ॥
मन इति मनोविदो बुद्धिरिति च तद्विदः ।
चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ २.२५ ॥
पञ्चविंशक इत्येके षड्विंश इति चापरे ।
एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २.२६ ॥
लोकांल्लोकविदः प्राहुराश्रमा इति तद्विदः ।
स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २.२७ ॥
सृष्टिरिति सृष्टिविदो लय इति च तद्विदः ।
स्थितिरिति स्थितिविदः (सर्वे /सर्वं) चेह तु सर्वदा ॥ २.२८ ॥
यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।
तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २.२९ ॥
एतैरेषो अपृथग्भावैः पृथगेवेति लक्षितः ।
एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ २.३० ॥
स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ २.३१ ॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ २.३२ ॥
भावैरसद्भिरेवायमद्वयेन च कल्पितः ।
भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ २.३३ ॥
(नात्म/नान्य)भावेन नानेदं न स्वेनापि कथंचन ।
न पृथङ्नापृथक्किंचिदिति तत्त्वविदो विदुः ॥ २.३४ ॥
वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः ।
निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ २.३५ ॥
तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् ।
अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ २.३६ ॥
निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च ।
चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ २.३७ ॥
तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ।
तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ २.३८ ॥
[चोलिति (गौडपादीयकारिकायां /गौडपादीये आगमशास्त्रे [ष्]गौडपादीयकारिकासु)वैतथ्याख्यं
द्वितीयं (प्रकरणम् /प्रकरणं समाप्तम्) चोल्]