गौडपादकारिका/प्रथमप्रकरणम्
गौडपादः
द्वितीयप्रकरणम् →



अथ गौडपादीयकारिकाः

 

(बहिष्[ष्]बहिः)प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः  ।

घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा (स्मृतः /स्थितः)  ॥ १.१ ॥

दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः  ।

आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः  ॥ १.२ ॥

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।

आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत  ॥ १.३ ॥

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम्  ।

आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत  ॥ १.४ ॥

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः  ।

वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते  ॥ १.५ ॥

प्रभवः सर्व(भावानां /भूतानां) सतामिति विनिश्चयः  ।

सर्वं जनयति प्राणश्चेतोअंशून् पुरुषः पृथक् ॥ १.६ ॥

विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः  ।

स्वप्नमाया(स/स्व)रूपेति सृष्टिरन्यैर्विकल्पिता  ॥ १.७ ॥

इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः  ।

कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः  ॥ १.८ ॥

भोगार्थं सृष्तिरित्यन्ये क्रीडार्थमिति चापरे  ।

देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा  ॥ १.९ ॥

निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः  ।

अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः  ॥ १.१० ॥

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ  ।

प्राज्ञः कारणबद्धस्तु (द्वौ तौ /द्वे तु) तुर्ये न सिध्यतः  ॥ १.११ ॥

नात्मानं न (परांश्[ष्]परं) चैव न सत्यं नापि चानृतम्  ।

प्राज्ञः किंचन संवेत्ति (तुर्यं तत्/तुरीयः) सर्वदृक्सदा  ॥ १.१२ ॥

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः  ।

बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते  ॥ १.१३ ॥

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया  ।

न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः  ॥ १.१४ ॥

अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः  ।

विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते  ॥ १.१५ ॥

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते  ।

अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा  ॥ १.१६ ॥

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः  ।

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः  ॥ १.१७ ॥

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते  ॥ १.१८ ॥

विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम्  ।

मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च  ॥ १.१९ ॥

तैजसस्योत्वविज्ञाने उत्कर्षो दृश्यते स्फुटम्  ।

मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम्  ॥ १.२० ॥

मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम्  ।

मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च  ॥ १.२१ ॥

त्रिषु धामसु (यत्/यस्) तुल्यं सामान्यं वेत्ति निश्चितः  ।

स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः  ॥ १.२२ ॥

अकारो नयते विश्वमुकारश्चापि तैजसम्  ।

मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः  ॥ १.२३ ॥

ओंकारं पादशो विद्यात्पादा मात्रा न संशयः  ।

ओंकारं पादशो ज्ञात्वा न किंचिदपि चिन्तयेत् ॥ १.२४ ॥

युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम्  ।

प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ १.२५ ॥

प्रणवो ह्यपरं ब्रह्म प्रणवश्च (परः /ष्]परं) स्मृतः  ।

अपूर्वोऽनन्तरोऽबाह्यो अनपरः प्रणवोऽव्ययः  ॥ १.२६ ॥

सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च  ।

एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम्  ॥ १.२७ ॥

प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम्  ।

सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति  ॥ १.२८ ॥

अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः  ।

ओंकारो विदितो येन स मुनिर्नेतरो जनः  ॥ १.२९ ॥

 

[चोलिति (माण्डूक्योपनिषदर्थाविष्करणपरायां गौडपादीयकारिकायां प्रथममागमप्रकरणम्

/गौदपादीये आगमशास्त्रे आगमाख्यं प्रथमं प्रकरणं समाप्तम्) चोल्]