चतुर्दण्डीप्रकाशिका/प्रबन्धप्रकरणम्

← गीतप्रकरणम् चतुर्दण्डीप्रकाशिका
प्रबन्धप्रकरणम्
वेङ्कटमखी
एवं गीतप्रकरणे गीतं सम्यङ् निरूपितम् ।
नवमेथ प्रकरणे प्रबन्धोयं निरूप्यते ॥९.१
ननु प्रबध्यत इति व्युत्पत्या नास्ति भिन्नता ।
गीतप्रबन्धयोस्तस्मात्पृथक्प्रकरणं वृथा ॥९.२
उच्यते षड्भिरङ्गैश्च चतुर्भिर्धातुभिश्च यः ।
निबद्धः स्वरसंदर्भस्तस्मिन्नेव हि भूरिशः ॥९.३
प्रबन्ध इति लोकानां व्यवहारो निरीक्ष्यते ।
अतः प्रबन्धशब्दोत्र निरूढः पङ्कजादिवत् ॥९.४
गीतप्रबन्धयोरेवं भेदो यदि न कल्प्यते ।
कुतः सिध्येच्चतुर्दण्डी कुत्तो गोपालनायकः ॥९.५
प्रयुक्तं तु चतुर्दण्डीत्यतो गीतप्रबन्धयोः ।
भेदात्पृथक्प्रकरणं प्रबन्धार्थं प्रवर्तते ॥९.६
निबद्धः षड्भिरङ्गैश्च चतुर्भिर्धातुभिश्च यः ।
स्वरौघः स प्रबन्धः स्यदित्युक्तं तत्र कानि तु ॥९.७
षडङ्गानीति चेत्ब्रूमः स्वरश्च बिरुदं पदम् ।
तेनकः पाटतालौ चेत्येतान्यङ्गानि षट् पुनः ॥९.८
प्रबन्धस्याङ्गिनो ज्ञेयान्यन्यद्रत्नाकरे स्फुटम् ।
तत्र स्वरास्तु षड्जाद्याः शब्दा ध्वन्यात्मका इति ॥९.९
स्वरप्रकरणे प्रोक्तं प्रबन्धाङ्गस्वरास्त्विह ।
सरिगाद्याः सप्त वर्णाः षड्जादिध्वनिवाचकाः ॥९.१०
स्वराभिव्यक्तिसंयुक्ताः स्वरशब्देन कीर्तिताः ।
संबुद्ध्यन्तपदैरेव नेतुर्यदुपबद्धते ॥९.११
वर्णनं धैर्यशौर्यादेर्बिरुदं नाम तन्मतम् ।
क्रियाकारकसंबन्धरूपेण यदि बध्यते ॥९.१२
तदेवं धैर्यशौर्यादेर्वर्णनं तत्पदं स्मृतम् ।
अतो न संकराशङ्का बिरुदस्य पदस्य च ॥९.१३
तेनको नाम तेनेति शब्दस्य विकृतिर्भवेत् ।
विकृतत्वं च भाण्डीरभाषयास्य समागतम् ॥९.१४
सोयं तेनेति शब्दश्च तच्छब्दोपनिबन्धनः ।
तच्छब्दश्च भवेन्नित्यकल्याणब्रह्मवाचकः ॥९.१५
ओं तत्सदिति निर्देशात्तत्वमस्यादिवाक्यतः ।
तथा च यत्प्रबन्धेषु तेन तेनेति दृश्यते ॥९.१६
तस्यायमर्थस्तेनायं ब्रह्मणा मङ्गलात्मना ।
प्रबन्धे लक्षित इति पाटो वाद्याक्षरोत्करः ॥९.१७
रुद्रवीणासमुद्भूताः पाटास्तकतनादयः ।
शङ्खादिमुखवाद्योत्थाः पाटास्थुलथुगादयः ॥९.१८
उरोवाद्यभवाः पाटा धिंतधिंतकिणादयः ।
एवमन्येपि विज्ञेयाः पाटा लक्ष्यानुसारतः ॥९.१९
तालस्तालप्रकरणे सप्रपञ्चोभिधास्यते ।
इत्यङ्गानि षडुक्तानि निरूप्यन्तेथ धातवः ॥९.२०
धातुर्नाम प्रबन्धस्यावयवः स चतुर्विधः ।
उद्ग्राहः प्रथमस्तत्र ततो मेलापकध्रुवौ ॥९.२१
आभोगश्चेत्यथैतेषां क्रमाल्लक्षणमुच्यते ।
प्रबन्धस्यादिमो भाग उद्ग्राहः परिकीर्तितः ॥९.२२
आदावुद्गृह्यते गीतमनेनारभ्यते यतः ।
मिथोमेलनहेतुत्वादुद्ग्राहध्रुवयोर्द्वयोः ॥९.२३
मेलापकः प्रबन्धस्य द्वितीयो भाग उच्यते ।
ध्रुवत्वाद्ध्रुवसंज्ञस्तु तृतीयोवयवः स्मृतः ॥९.२४
प्रबन्धस्य यदाभोगं परिपूर्तिं करोति तत् ।
आभोगः स प्रबन्धस्य तुरीयावयवः स्मृतः ॥९.२५
ध्रुवाभोगान्तरे जातो यतस्तेनान्तराभिधः ।
पञ्चमोप्यपरो धातुर्यद्यप्यस्ति तथाप्यसौ ॥९.२६
गीतेष्वेवं परं दृष्टस्त्रिखण्डेष्वेव तेष्वपि ।
उपयुक्ताः प्रबन्धस्य चत्वारो धातवस्ततः ॥९.२७
षडङ्गैर्लक्षितैरित्थं चतुर्भिर्धातुभिश्च यः ।
निबद्धः स्वरसंदर्भः स प्रबन्ध इति स्थितम् ॥९.२८
स च पञ्चविधः प्रोक्तो मेदिनीजातिमानथ ।
आनन्दिनीजातिमांश्च दीपनीजातिमांस्तथा ॥९.२९
भावनीजातिमांश्चाथ तारावल्याख्यजातिमान् ।
तत्र स्वरादिभिः षड्भिरङ्गैर्युक्ता तु मेदिनी ॥९.३०
अङ्गपञ्चकसंयुक्ता जातिरानन्दिनी स्मृता ।
चतुरङ्गयुता जातिर्दीपनीति प्रकीर्तिता ॥९.३१
अङ्गत्रयवती जातिराख्याता भावनी बुधैः ।
जातिरङ्गद्वयोपेता तारावल्यभिधीयते ॥९.३२
एकाङ्गसंगता जातिर्न निबन्धेषु विद्यते ।
एताभिजातिभिर्युक्ता ये प्रबन्धास्तु पञ्चभिः ॥९.३३
ते तत्तज्जातिमत्संज्ञां भजन्तीति व्यवस्थितिः ।
परित्यक्ताङ्गनामानि पञ्चाङ्गाद्यासु जातिषु ॥९.३४
तत्तज्जातिप्रबन्धानां लक्षणेषु प्रचक्ष्महे ।
पुनः प्रबन्धस्त्रिविधो मतङ्गाद्यैरुदीरितः ॥९.३५
द्विधातुकस्त्रिधातुश्च चतुर्धातुरिति क्रमात् ।
अत्र सांगीतिकैरेषा परिभाषावधार्यताम् ॥९.३६
प्रबन्धमात्र उद्ग्राहध्रुवौ द्वौ नियतौ स्मृतौ ।
विनोद्ग्राहं प्रबन्धस्यारम्भ एव न संभवेत् ॥९.३७
ध्रुवत्वमेव नास्त्येतद्ध्रुवस्य च विवर्जने ।
एवं स्थिते प्रबन्धोयं द्विधतुरिति यत्र तु ॥९.३८
तत्रोद्ग्राहध्रुवौ ग्राह्यौ मेलापाभोगवर्जनात् ।
अथोच्यते चतुर्धातुः प्रबन्ध इति यत्र तु ॥९.३९
तत्रोद्ग्राहादयो ग्राह्याश्चत्वारोपि च धातवः ।
यत्र तूक्तं प्रबन्दोयं त्रिधातुरिति तत्र किम् ॥९.४०
मेलापकस्य संत्याग आभोगस्येति संशयः ।
भवत्येव तथाप्यग्रे प्रबन्धेषु त्रिधातुषु ॥९.४१
विनाभोगं प्रबन्धस्य त्रिधातोः क्वाप्यदर्शनात् ।
त्यागो मेलापकस्यैव वेदितव्यस्त्रिधातुषु ॥९.४२
संप्रदायोधुना कश्चित्प्रबन्धेषु प्रदृश्यते ।
इह प्रबन्धा ये युक्ताः पृथगाभोगधातुना ॥९.४३
तेष्वाभोगं द्विधा कृत्वा पूर्वार्धं तालवर्जितम् ।
आलापरूपं कार्यं तल्लोके वाक्यमितीर्यते ॥९.४४
द्वितीयार्धं तालयुक्तं कर्तव्यमिति निर्णयः ।
तत्राद्यार्धे प्रबन्धस्य गातुश्चाख्यां प्रयोजयेत् ॥९.४५
द्वितीयार्धं तु वर्णस्य नामधेयमिति स्थितिः ।
आलापधातोः सर्वत्र स्वरूपमिदमेव हि ॥९.४६
लक्ष्ये त्विदानीं कैवाडप्रबन्धादिषु केषुचित् ।
आभोगा वर्तमाना ये तेष्वेवोक्तप्रकारतः ॥९.४७
आलपखण्डानालापरूपखण्डत्वमिष्यते ।
तत्तु सर्वत्र कर्तव्यं प्रबन्धाभोगधातुषु ॥९.४८
पुनः प्रबन्धो निर्युक्तानिर्युक्तत्वेन च द्विधा ।
निर्युक्तः स भवेच्छन्दस्तालरागादिकस्य यः ॥९.४९
नियमेनोपबद्धः स्यात्तस्यैव नियमं विना ।
निबद्धः स्यादनिर्युक्तश्छन्दस्तालादिकस्य च ॥९.५०
नियतस्त्वमुकेनैव च्छन्दसा त्वमुनैव च ।
तालेनामुकरागेणाप्यनयैव च भाषया ॥९.५१
प्रबन्धोयं निबद्धः स्यादित्येवं रूप उच्यते ।
एवं नियमराहित्यमेवानियम ईरितः ॥९.५२
तत्र तावत्प्रबन्धानां द्विधातुत्वं त्रिधातुता ।
निर्युक्तत्वं तदन्यत्वं तत्तल्लक्ष्म तु वक्ष्यते ॥९.५३
इदानीं तु प्रबन्धानां लक्षणं वक्तुमादितः ।
मेदिन्यादिक्रमेणैव तत्तज्जातीमतोपि च ॥९.५४
प्रबन्धानुद्दिशाम्यत्र प्रबन्धसुखबुद्धये ।
श्रीरङ्गः श्रीविलासश्च पञ्चभङ्गिरतः परम् ॥९.५५
पञ्चाननोमातिलकौ करणं सिंहलीलकः ।
मेदिनीजातिमन्तोमी प्रबन्धाः सप्त कीर्तिताः ॥९.५६
पञ्चतालेश्वरो वर्णस्वरो वस्त्वाभिधानकः ।
विजयस्त्रिपदाख्यश्च ततो हरविलासकः ॥९.५७
चतुर्मुखः पद्धडी श्रीवर्धनो हर्षवर्धनः ।
आनन्दिनीजातिमन्तः प्रबन्धा दश कीर्तिताः ॥९.५८
सुदर्शनः स्वराङ्गश्च त्रिभङ्गिश्चैव कन्दुकः ।
वदनं चेति पञ्चैते दीपनीजातिसंयुताः ॥९.५९
वर्णो गद्यं ततः कन्दः कैवाडश्चाङ्गचारिणी ।
वर्तन्यार्या च गाथा च ततः क्रौञ्चपदः स्मृतः ॥९.६०
कलहंसस्तोटकश्च हंसलीलश्चतुष्पदी ।
वीरश्रीर्मङ्गलाचारो दण्डकश्चेत्यमी पुनः ॥९.६१
द्वष्ट प्रबन्धा उद्दिष्टा भावनीजातिसंगताः ।
एला ढेङ्की झोम्पटश्च लम्भरासैकतलिका ॥९.६२
चक्रवाकः स्वरार्थश्च मातृका ध्वनिकुट्टिनी ।
त्रिपदी षट्पदी चैव झम्पटश्चच्चरी तथा ॥९.६३
चर्या च राहडी चैव धवलो मङ्गलस्तथा ।
ओवी लोली ढोल्लरी च दन्ती द्वाविंश इत्यमी ॥९.६४
तारावलीजातिमन्तः प्रबन्धाः परिकीर्तिताः ।
इत्येकजातिमन्तोमी प्रबन्धाः षष्टिरीरिताः ॥९.६५
अत्र प्रबन्धाः कीर्त्यन्ते जातिद्वयसमन्विताः ।
हयलीलेति च तथा गजलीलेत्युभावपि ॥९.६६
तारावलीदीपनीभ्यां समेताविति निर्णयः ।
द्विपदी च द्विपथको वृत्तं चेति त्रयस्त्वमी ॥९.६७
प्रबन्धा भावनीतारावलीजातिद्वयान्विताः ।
घटनामा प्रबन्धस्तु दीपनीभावनीयुतः ॥९.६८
इति द्विजातिमन्तोमी षट् प्रबन्धाः प्रकीर्तिताः ।
तालार्णवस्तथा रागकदम्बश्चेत्युभौ स्मृतौ ॥९.६९
मेदिनीप्रमुखाभिश्च पञ्चभिर्जातिभिर्युतो ।
अतोद्दिष्टप्रबन्धानां क्रमाल्लक्षणमुच्यते ॥९.७०
श्रीरङ्गस्य प्रबन्धस्य चतस्रः खण्डिकाः स्मृताः ।
प्रतिखण्डिकमेकैको रागस्तालश्च वाञ्छितः ॥९.७१
प्रतिखण्डिकमप्यन्ते प्रयोज्यं नियमात्पदम् ।
तदन्यानि स्वरादीनि पञ्चाङ्गान्यैच्छिकक्रमात् ॥९.७२
प्रयोज्यान्यत्र चाद्यार्धं प्रतिखण्डिकमस्ति यत् ।
स उद्ग्राहो द्वितीयार्धं ध्रुव इत्येष निर्णयः ॥९.७३
न स्तो मेलापकाभोगावाभोगविरहेपि च ।
तुरीयायाः खण्डिकाया अन्ते नामाङ्कनं पदैः ॥९.७४
गातृनेतृप्रबन्धानां कार्यं तेन द्विधातुकः ।
प्रबन्धोयं भवेच्छन्दस्तालाद्यनियमेन च ॥९.७५
निबद्धत्वादनिर्युक्त इति श्रीरङ्गलक्षणम् ।
श्रीविलासप्रबन्धस्य कर्तव्याः पञ्चखण्द् दिकाः ॥९.७६
प्रतिखण्डिकमेकैको रागस्तालश्च वाञ्छितः ।
प्रतिखण्डिकमप्यन्ते प्रयोक्तव्याः स्वराः परम् ॥९.७७
ऐच्छिकेन क्रमेणैव योज्यं शिष्टाङ्गपञ्चकम् ।
द्विधातुत्वादिकं सर्वं श्रीरङ्गवदिति स्थितिः ॥९.७८
पञ्चभङ्गिप्रबन्धस्य खण्डिके द्वे प्रकल्पयेत् ।
प्रतिखण्डिकमेकैको रागस्तालश्च वाञ्छितः ॥९.७९
तेनकोन्ते प्रयोक्तव्यः प्रतिखण्डिकमत्र तु ।
शिष्टमन्यत्परिज्ञेयं श्रीरङ्गाख्यप्रबन्धवत् ॥९.८०
पञ्चभङ्गिरसावेव द्वयोः खण्डिकयोः पृथक् ।
अन्ते पदान्वितः स्याच्चेत्तदा पञ्चाननो भवेत् ॥९.८१
न्यत्पूर्ववदुन्नेयमतोमातिलकाभिधे ।
प्रबन्धे खण्डिकास्तिस्रः कर्तव्याः प्रतिखण्द् दिकम् ॥९.८२
रागस्तालस्तथैकैको वाञ्छितः प्रतिखण्डितम् ।
अन्ते तु बिरुदं योज्यमन्यच्छ्रीरङ्गवद्भवेत् ॥९.८३
श्रीरङ्गाद्यास्तु पञ्चोमातिलकान्ता इमे स्मृताः ।
षड्भिरङ्गैर्निबद्धत्वान्मेदिनीजातिसंगताः ॥९.८४
अथोद्देशक्रमप्राप्तं करणं लक्ष्यते स्फुटम् ।
इष्टस्वरे प्रबन्धस्यारम्भो मोक्षोंशकस्वरे ॥९.८५
रासस्तालो द्रुताख्यस्तु लय एतैः समेतता ।
ज्ञेयं करणसामान्यलक्ष्म तच्चाष्टधा मतम् ॥९.८६
स्वराद्यं पाटपूर्वं च बन्धाद्यं च पदादिमम् ।
तेनाद्यं बिरुदाद्यं च चित्राद्यं मिश्रपूर्वकम् ॥९.८७
एतेषां लक्षणान्यष्टकरणानां क्रमाद्ब्रुवे ।
यतोद्ग्राहध्रुवौ सान्द्रस्वरबद्धौ पदैः पुनः ॥९.८८
आभोगः स्याद्गातृनेतृप्रबन्धाह्वयचिह्नितः ।
तत्तु स्वराद्यकरणं तद्वदन्याद्यपि स्फुटम् ॥९.८९
किं तूद्ग्राहस्वरस्थाने तेषां भेदोस्ति तद् ब्रुवे ।
स्यात्पाटकरणं बद्धं हस्तपाटयुतैः स्वरैः ॥९.९०
क्रमव्यत्यासभेदेन तदपि द्विविधं स्मृतम् ।
आदौ स्वरास्ततो हस्तपाटश्चेत्क्रम उच्यते ॥९.९१
प्रथमं हस्तपाटोथ स्वराश्चेत्तदुदीरितम् ।
व्यत्यासपाटकरणं मतङ्गभरतादिभिः ॥९.९२
स्वरैर्मुरजपाटैश्च यतोद्ग्राहध्रुवावुभौ ।
क्रमेणोपनिबध्येते तद्बन्धकरणं विदुः ॥९.९३
स्वरैः पदैर्विरच्येते यतोद्ग्राहध्रुवौ क्रमात् ।
तदा पदाद्यं करणं मन्यन्ते गीतकोविदाः ॥९.९४
यत्रोद्ग्राहः स्वरैर्बद्धस्तेनकैस्तु ध्रुवो भवेत् ।
तत्तेनकरणं नाम प्रबन्धं परिचक्षते ॥९.९५
स्वरैश्च बिरुदैः स्यातां यत्रोद्ग्राहध्रुवौ क्रमात् ।
बिरुदाद्यं तथा प्रोक्तं करणं लक्ष्यकोविदैः ॥९.९६
स्वरैश्च हस्तपाटैश्च यतोद्ग्राहो विरच्यते ।
पाटैर्मुरजसंभूतैः पदैश्च स्यादथ ध्रुवः ॥९.९७
तच्चित्रकरणं नाम प्रबन्धं सूरयो विदुः ।
स्वरैः पाटैस्तेनकैश्च यतोद्ग्राहो निबध्यते ॥९.९८
तैरेव चेद्ध्रुवोपि स्यात्तन्मिश्रकरणं विदुः ।
ननु चित्रस्य मिश्रस्य को भेद इति चेच्छृणु ॥९.९९
तिलतण्डुलवज्जातो मिथोवयवसंकरः ।
चित्रत्वं मिश्रता नाम भवेत्क्षीराम्बुनोरिव ॥९.१००
मिथोवयवसांकर्यमिति भेदस्तयोर्द्वयोः ।
निरूपितानि करणान्येवं नवविधान्यपि ॥९.१०१
व्यत्यासपाटकरणप्रबन्धेन सह स्फुटम् ।
नवैतानि त्रिधातुत्वात्प्रत्येकं कालभेदतः ॥९.१०२
मङ्गलारम्भकाद्याख्याविशेषैः सप्तविंशतिः ।
इत्युक्तं शार्ङ्गिणा तत्तु व्यामोहैकप्रयोजनम् ॥९.१०३
निर्युक्तोयं प्रबन्धः स्यात्तालस्य नियमो यतः ।
य आदिताल इत्युक्त एकेन लघुना युतः ॥९.१०४
रासताल इति प्रोक्तः स एवात्रेति निर्णयः ।
मेलापकस्य विरहात्त्रिधातुरिति कीर्तितः ॥९.१०५
स्वरादीनां षडङ्गानां करणेषु नवस्वपि ।
पर्यायेण निविष्टत्वान्मेदिनीजातिमानयम् ॥९.१०६
अथोद्देशक्रमप्राप्तः सिंहलीलो निरूप्यते ।
स्वरैः पाटैश्च बिरुदैस्तेनकैश्च क्रमेण च ॥९.१०७
विरच्यते सिंहलीलानाम्ना तालेन स स्मृतः ।
प्रबन्धः सिंहलीलाख्यः सिंहलीले द्रुतास्त्रयः ॥९.१०८
आद्यन्तयोर्लघूपेतास्त्वत्र च स्वरपाटकैः ।
उद्ग्राहं कल्पयेद्धातुं विरुदैस्तेनकैर्ध्रुवम् ॥९.१०९
पदैः कुर्यदथाभोगं तेनायां स्यात्त्रिधातुकः ।
निर्युक्तस्तालनियमादङ्गैः षड्भिः स्वरादिभिः ॥९.११०
निबद्धत्वाद्भवत्येष मेदिनीजातिसंगतः ।
तदेवं मेदिनीजातिप्रबन्धाः सप्त लक्षिताः ॥९.१११
आनन्दिनीजातिमतामथोद्दिष्टः पुरा हि यः ।
पञ्चतालेश्वरो नाम प्रबन्धः स निरूप्यते ॥९.११२
अतालः प्रथमं रागालापः स्यात्तदनन्तरम् ।
परस्परं भिन्नधातुमातुकं पदपञ्चकम् ॥९.११३
चच्चत्पुटाख्यतालेन युक्तम् द्विर्गेयमिष्यते ।
अन्ते प्रतिपदं चच्चत्पुटेनैव समन्वितान् ॥९.११४
स्वरानैच्छिकपाटांश्च क्रमेण परिकल्पयेत् ।
पञ्चमस्य पदस्यान्ते पूर्वं पाटास्ततः स्वराः ॥९.११५
गेया इति ततस्तत्र व्युत्क्रमः स्वरपाटयोः ।
एवंविधानां पञ्चानां पदानां समनन्तरम् ॥९.११६
चच्चत्पुटस्य तालस्यैवावृत्तद्वयमानतः ।
पाटैः पटहसंभूतैरन्तरं परिकल्पयेत् ॥९.११७
ततस्श्चाचपुटाख्यानतालेन पदपञ्चकम् ।
परस्परं भिन्नधातुयुक्तं द्विर्गेयमिष्यते ॥९.११८
अन्ते प्रतिपदं चाचपुटेनैव युतान्स्वरान् ।
पाटांश्च पूर्ववद्गायेत्पञ्चमस्य पदस्य तु ॥९.११९
अन्ते स्वराणां पाटानां व्युत्क्रमः पूर्ववद्भवेत् ।
ततस्चाचपुटस्यैव त्वावृत्तद्वयमानतः ॥९.१२०
हौडुक्कपाटैः कलयेदन्तरं तदनन्तरम् ।
षट्पितापुत्रकाख्येन तालेन पदपञ्चकम् ॥९.१२१
पूर्ववद्रचयेदन्ते तथा प्रतिपदं स्वराः ।
पाटाश्च क्रमतो गेयाः षट्पितापुत्रकान्विताः ॥९.१२२
पञ्चमस्य पदस्यान्ते पूर्ववद्व्युत्क्रमस्तयोः ।
षट्पितापुत्रकस्यायं तालस्यावृत्तयुग्मतः ॥९.१२३
अन्तरं शङ्खसंभूतैः पाटैर्विरचयेत्ततः ।
संपक्वेष्टाकतालेन षट् पदानि प्रकल्पयेत् ॥९.१२४
द्विर्गानं च मिथोभिन्नधातुत्वादि च पूर्ववत् ।
पूर्ववच्च प्रतिपदमन्ते स्युः स्वरपाटकाः ॥९.१२५
पाटैर्मुरजसंभूतैरन्तरं परिकल्पयेत् ।
तत उद्घट्टतालेनाभोगं द्रुतलयान्वितम् ॥९.१२६
गातृनेतृप्रबन्धाख्याभूषितं परिकल्पयेत् ।
अत्राभोगे द्रुतलयाख्यानादन्येषु धातुषु ॥९.१२७
मध्यो विलम्बितो वा स्याल्लय इत्यवगम्यताम् ।
आभोगान्ते च कुर्वीत तेनकं तदनन्तरम् ॥९.१२८
प्रबन्धादिस्थितालापे मोक्ष एवंविधस्तु यः ।
पञ्चतालेश्वरो नाम सोयमन्वर्थसंज्ञकः ॥९.१२९
स च द्वेधा वीररसे गीतो वीरावतारकः ।
शृङ्गारे तु रसे गीतः श्रृङ्गारतिलकः स्मृतः ॥९.१३०
तालप्रकरणे चच्चत्पुटादिर्लक्ष्ययिष्यते ।
तत्र च प्रतितालं यदाद्यमस्ति पदद्वयम् ॥९.१३१
उद्ग्राहः स तदन्यानि पदानि स्याद्ध्रुवस्ततः ।
अनन्तरस्तदाभोगश्चतुर्धातुरयं ततः ॥९.१३२
नन्वन्तरस्य नियमो गीतेष्वेव पुरोदितः ।
सत्यं वचनसामर्थ्यात्प्रबन्धेष्वपि कुत्रचित् ॥९.१३३
भविष्यत्यन्तरो विद्या निषादस्थपतेरिव ।
तालानां नियमाच्चैव निर्युक्त इति कीर्त्यते ॥९.१३४
पञ्चाङ्गो बिरुदाभावादानन्दिन्याख्यजातिमान् ।
अथ वर्णस्वरं ब्रूमो यत्र स्यादैच्छिकः क्रमः ॥९.१३५
स्वराणामपि पाटानां पदानां तेनकस्य च ।
तेनके च भवेन्मोक्षः स वर्णस्वर उच्यते ॥९.१३६
चतुर्धा स स्वरस्यादौ विन्यासः प्रथमो भवेत् ।
पाटनामादिविन्यासो द्वितीयः परिकीर्तितः ॥९.१३७
पदानमादिविन्यासात्तृतीयो भेद उच्यते ।
तेनानामादिविन्यासाच्चतुर्थो भेद इष्यते ॥९.१३८
एकस्मिन्नादिविन्यस्ते स्वरादिषु चतुर्ष्वपि ।
तदन्येषां त्रयणां स्याद्विन्यासः वाञ्छितक्रमात् ॥९.१३९
अत्र स्वरादिषु द्वाभ्यामुद्ग्राहं परिकल्पयेत् ।
द्वाभ्यां ध्रुवमथाभोगं पदैः कुर्यादतस्त्वयम् ॥९.१४०
स्यात्त्रिधातुरनिर्युक्तस्तालाद्यनियमात्मकः ।
पञ्चाङ्गो बिरुदाभावादानन्दिन्याख्यजातिमान् ॥९.१४१
पञ्च वस्तुप्रबन्धस्य पादांस्तावत्प्रकल्पयेत् ।
तेष्वाद्ये च तृतीये च पञ्चमे च पृथक्पृथक् ॥९.१४२
एकैकलघुवर्णाख्यमात्राः पञ्चदश स्मृताः ।
द्वितीयतुर्ययोरङ्घ्र्योर्मात्रा द्वादश कीर्तिताः ॥९.१४३
एतेषु पञ्चपादेष्वप्याद्यं पादद्वयं पुनः ।
प्रथमार्धं स्मृतं तच्च स्वरपाटान्तमिष्यते ॥९.१४४
शिष्टं पादत्रयं प्रोक्तमपरार्धमिदं पुनः ।
कर्तव्यं स्वरतेनान्तं ततो दोधकनामकम् ॥९.१४५
वृत्तं कुर्यात्तु तल्लक्ष्म च्छन्दःशास्त्रे निरूपितम् ।
’’दोधकवृत्तमिदं भभभा गौऽऽ
इदमेवास्य वृत्तस्य लक्ष्मोदाहरणं तथा ॥९.१४६
अत्रोद्ग्राहस्तेनकान्तमर्धद्वयमथ ध्रुवः ।
दोधकः स्यादथाभोगस्तेनोक्तोयं त्रिधातुकः ॥९.१४७
तालादिनियमाभावदनिर्युक्तश्च पञ्चभिः ।
अङ्गैरबिरुदैर्योगादानदिन्याख्यजातिमान् ॥९.१४८
विजयाख्यप्रबन्धस्य लक्षणं त्वथ चक्ष्महे ।
तेनैः स्वरैर्य उद्ग्राहे ध्रुवे पाटैः पदैरपि ॥९.१४९
पदान्तरैरथाभोगे गेयो विजयतालकः ।
विजयाख्यस्त्रिधातुः स निर्युक्तो नियतत्वतः ॥९.१५०
पञ्चाङ्गो बिरुदाभावदानन्दिन्याख्यजातिमान् ।
त्रिपदाख्यप्रबन्धस्य लक्ष्म सम्यक्प्रचक्ष्महे ॥९.१५१
यत्र पाटैर्भवेदेकः पादोथ बिरुदैः परः ।
स्वरैरन्यस्तु सोन्वर्थसंज्ञकस्त्रिपदाह्वयः ॥९.१५२
अत्राद्यपाद उद्ग्राहो द्वितीयस्तु ध्रुवः स्मृतः ।
आभोगस्तु पदैः कार्यस्ततोप्येष त्रिधातुकः ॥९.१५३
अनिर्युक्तश्च तालादेरंशस्यानियमत्वतः ।
पञ्चाङ्गस्तेनकाभावादानन्दिन्याख्यजातिमान् ॥९.१५४
ब्रूमो हरिविलासस्य लक्षणं लक्ष्यसंमतम् ।
पदैश्च बिरुदैराद्यः खण्डो यत्र प्रकल्प्यते ॥९.१५५
पाटैर्द्वितीयखण्डोथ तेनकैस्तु तृतीयकः ।
सोयं हरविलासाख्यः प्रबन्धः परिकीर्त्यते ॥९.१५६
अत्राद्यखण्ड उद्ग्राहो द्वितीयकतृतीयकौ ।
ध्रुवः पदान्तरैः कार्य आभोगोतस्त्रिधातुकः ॥९.१५७
तालादिनियमाभावादनिर्युक्तश्च कीर्तितः ।
पञ्चाङ्गश्च स्वराभावादानन्दिन्याख्यजातिमान् ॥९.१५८
चतुर्मुखप्रबन्धस्य लक्ष्म सम्यक्प्रचक्ष्महे ।
यत्र ति स्थायिवर्णेन स्वरैरेकोङ्घ्रिरिष्यते ॥९.१५९
ततस्त्वारोहिवर्णेन पाटैरङ्घ्रिर्द्वितीयकः ।
ततोवरोहिवर्णेन पदैरङ्घ्रिस्त्रितीयकः ॥९.१६०
ततः संचारिवर्णेन तेनैरङ्घ्रिस्तुरीयकः ।
उद्ग्राहे च समाप्तिः स्यात्स चतुर्मुख उच्यते ॥९.१६१
उक्तं स्थाय्यादिवर्णानां लक्ष्म रत्नाकरे स्फुटम् ।
गानक्रियोच्यते वर्णः सा चतुर्धा निरूपिता ॥९.१६२
स्थाय्यारोह्यवरोही च संचारीत्यथ लक्षणम् ।
स्थित्वा स्थित्वा प्रयोगः स्यादेकैकस्य स्वरस्य यः ॥९.१६३
स्थायी वर्णः स विज्ञेयः परावन्वर्थनामकौ ।
एतत्संमिश्रणाद्वर्णः संचारी तु भवेदिति ॥९.१६४
अत्राद्यपादद्वितयमुद्ग्राह इति कीर्त्यते ।
द्वितीयं पादयुगलं ध्रुव इत्यभिधीयते ॥९.१६५
पादान्तरैः स्यादाभोगस्तेनोक्तोयं त्रिधातुकः ।
तालादिनियमाभावादनिर्युक्तश्च कीर्तितः ॥९.१६६
पञ्चाङ्गो बिरुदाभावादानन्दिन्याख्यजातिमान् ।
पद्धडीति प्रबन्धोथ प्रबोधाय निरूप्यते ॥९.१६७
स्वरान्तैर्बिरुदैर्यस्याः प्रथमार्धे विरच्यते ।
पाटान्तैर्बिरुदैश्चैव द्वितीयार्धं निबध्यते ॥९.१६८
यस्याश्च प्रतिपादं स्यादन्तेनुप्राससंभवः ।
छन्दसा पद्धडीनाम्ना युक्ता सा पद्धडी मता ॥९.१६९
पद्धडीच्छन्दसो लक्ष्म च्छन्दःशास्त्रे निरूपितम् ।
’’षोडश मात्राः पादे पादे
यत्र भवन्ति निरस्तविवादे
पद्धडिका जगणेन वियुक्ता
चरमगुरुः सा सद्भिरिहोक्ता ऽऽ
इदमेव च पद्धड्या उदाहरणलक्षणे ॥९.१७०
तत्राद्यमर्धमुद्ग्राहो द्वितीयार्धं ध्रुवः स्मृतः ।
आभोगश्च पदैः कार्यस्तेनायं स्यात्त्रिधातुकः ॥९.१७१
निर्युक्तश्च यतश्छन्दोनियमोतेनकस्ततः ।
आनन्दिनीजातिमांश्चाप्यङ्गपञ्चमसंगतः ॥९.१७२
अथ श्रीवर्धनो नाम प्रबन्धोयं निरूप्यते ।
यतोद्ग्रहस्तु बिरुदैः पदैरपि भवेत्क्रमात् ॥९.१७३
पदैः स्वरध्रुवः स्याच्चेत्स श्रीवर्धन उच्यते ।
पदान्तरैरिहाभोगः कार्यस्तेन त्रिधातुकः ॥९.१७४
प्रबन्धोयमनिर्युक्तस्तालादिनियमाविधेः ।
पञ्चङ्गस्तेनकाभावदानन्दिन्याख्यजातिमान् ॥९.१७५
अथोद्देशक्रमप्राप्तो लक्ष्यते हर्षवर्धनः ।
पदैश्च बिरुदैर्यस्मिन्नुद्ग्राहो विनिबध्यते ॥९.१७६
स्वरैः पाटैर्ध्रुवैश्चैव स स्मृतो हर्षवर्धनः ।
अन्यत्सर्वमपि ज्ञेयं श्रीवर्धनवदत्र च ॥९.१७७
एवमानन्दिनीजातिप्रबन्धा दश वर्णिताः ।
अथ यो दीपनीजातिप्रबन्धेष्वपि पञ्चसु ॥९.१७८
सुदर्शनः पुरोद्दिष्टः स प्रबन्धो निरूप्यते ।
यतोद्ग्राहः पदैः कॢप्तो बिरुदैस्तेनकैर्ध्रुवः ॥९.१७९
पादान्तरैस्तथाभोगस्तं वदन्ति सुदर्शनम् ।
त्रिधातुकः प्रबन्धोयमनिर्युक्तस्तथैव च ॥९.१८०
तालादिनियमाभावात्स्वरपाटविवर्जितैः ।
अङ्गैश्चतुर्भिर्बद्धत्वाद्दीपनीजातिमान्स्मृतः ॥९.१८१
अथोच्यते स्वराङ्कस्य प्रबन्धस्येह लक्षणम् ।
यत्रोद्ग्राहः पदैर्बद्धः स्वरैर्मेलापकस्तथा ॥९.१८२
९.१८३अब् ध्रुवश्च बिरुदैस्तत्र तूद्ग्राहे ताल एककः
मेलापके तु द्वौ तालौ ध्रुवे तालास्त्रयः पुनः ॥९.१८३
स स्वराङ्क इति प्रोक्तो गातव्यो मालवश्रिया ।
आभोगः पूर्ववत्कार्यश्चतुर्धातुरतस्त्वयम् ॥९.१८४
निर्युक्तो रागनियमात्पाटतेनकवर्जितैः ।
चतुरङ्कैर्निबद्धत्वाद्दीपनीजातिमान्स्मृतः ॥९.१८५
अथोच्यते त्रिभङ्ग्याख्यप्रबन्धस्येह लक्षणम् ।
स्वरैः पाटैः पदैश्चैव क्रमेण विनिबद्धता ॥९.१८६
सामान्यलक्षणं तस्य स च पञ्चविधः स्मृतः ।
त्रिभङ्गिताले ति लघुद्वयं गुरूरथोच्यते ॥९.१८७
इत्येवंलक्षणोपेतत्रिभङ्गीतालसंगतः ।
त्रिभङ्ग्याख्यः प्रबन्धः स्यादित्येको भेद ईरितः ॥९.१८८
त्रिभङ्ग्याख्येन वृत्तेन च्छन्दःशास्तोदितेन यः ।
बद्ध्यते स त्रिभङ्गिः स्यादिति भेदो द्वितीयकः ॥९.१८९
त्रिभिरङ्गैस्त्रिभिस्तालैस्तृतीयो भेद उच्यते ।
त्रिभिर्वृत्तैरन्वितत्वाच्चतुर्थो भेद इष्यते ॥९.१९०
तथा देवत्रयस्तुत्या पञ्चमो भेद उच्यते ।
एतेषु पञ्चभेदेषु योज्यं सामान्यलक्षणम् ॥९.१९१
यथायोगमिहोन्नेयमुद्ग्राहादिविभाजनम् ।
आभोगश्च पदैः कार्यस्तेनायां स्यात्त्रिधातुकः ॥९.१९२
छन्दस्तालादिनियमात्वेष निर्युक्त उच्यते ।
दीपनीजातिमांश्चापि लोपाद्बिरुदतेनयोः ॥९.१९३
निरूप्यते कन्दुकोथ यत्राद्यचरणः पदैः ।
पाटैर्द्वितीयचरणो बिरुदैश्च तृतीयकः ॥९.१९४
उद्ग्राहे च समाप्तिश्च स कन्दुक इति स्मृतः ।
अत्राद्यपादद्वितयमुद्ग्राह इति कथ्यते ॥९.१९५
ध्रुवस्त्रितीयपादे स्यात्पदैराभोगकल्पना ।
तत्त्रिधातुरनिर्युक्तस्तालादिनियमो न यत् ॥९.१९६
दीपनीजातिमांश्चापि स्वरतेनकवर्जनात् ।
निरूप्यतेथ वदनप्रबन्धस्येह लक्षणम् ॥९.१९७
प्रबन्धोयं त्रिधा प्रोक्तस्तत्राद्यो वदनाभिधः ।
अथोपवदनाभिख्यः स्याद्वस्तुवदनाह्वयः ॥९.१९८
त्रयाणामपि चैतेषां क्रमाल्लक्षणमुच्यते ।
छगणौ पगणौ चैव दगणश्चेत्यमी त्रयः ॥९.१९९
मात्रागणाः स्युः प्रथमे पाद उद्ग्राहसंज्ञके ।
९.२००च्द् तादृगेव द्वितीयाङ्घ्रिः कर्तव्यो ध्रुवसंज्ञकः
विशेषस्त्वत्र चरणे स्वरपाटं प्रकल्पयेत् ।
पदान्तरैरथाभोग इत्येवं वदनं स्मृतम् ॥९.२०१
वदने त्रितयोप्यन्यैः पदैराभोगकल्पनम् ।
षण्मात्रकः स्याच्छगणः पगणः पञ्चमात्रकः ॥९.२०२
९.२०३अब् चतुर्मात्रस्तु चगणस्त्रिमात्रस्तगणः स्मृतः
दगणस्तु द्विमात्रः स्यादित्येतद्गणलक्षणम् ॥९.२०३
त्रिधातुकः प्रबन्दोयमनिर्युक्तस्तथैव च ।
हीनो बिरुदतेनाभ्यां चतुरङ्गसमन्वितः ॥९.२०४
दीपनीजातिमानेष भवतीत्यवधार्यताम् ।
तदेवं दीपनीजातिप्रबन्धाः पञ्च लक्षिताः ॥९.२०५
अथ द्व्यष्टप्रबन्धेषु भावनीजातिभागिषु ।
वर्णः प्रथममुद्दिष्टो वर्ण्यते तस्य लक्षणम् ॥९.२०६
बिरुदैर्विनिबध्येते यत्रोद्ग्राहध्रुवौ पुनः ।
आभोगश्च पदैर्यत्र यश्च कर्णाटभाषया ॥९.२०७
वर्णतालेन चोपेतः स वर्ण इति कथ्यते ।
त्रिविधः स च वर्णाख्यतालत्रैविध्यतः स्मृतः ॥९.२०८
वर्णतालस्त्र्यश्रमिश्रचतुरश्रया त्रिधा ।
त्र्यश्रवर्णे लघुश्चैव द्रुतद्वन्द्वं लघुत्रयम् ॥९.२०९
चतुष्काणि विरामान्तद्रुतानां त्रीण्यथ स्मृतः ।
गुरुर्द्रुतद्वयं मिश्रे पुनर्गुरुर्लघुः प्लुतः ॥९.२१०
गुरुर्लघुर्द्रुतश्चैव गुरुश्च चतुरश्रके ।
त्रिधातुकः प्रबन्धोयं नियमात्तालभाषयोः ॥९.२११
निर्युक्तस्तालबिरुदपदैरङ्गैस्त्रिभिः पुनः ।
बद्धत्वेन परिज्ञेयो भावनीजातिमानिति ॥९.२१२
अथ गद्यप्रबन्धस्य कथ्यते लक्षणं स्फुटम् ।
गद्यं नाम स्मृतं छन्दोहीनं पदकदम्बकम् ॥९.२१३
तदप्युत्कलिका चैव चूर्णिका ललितं तथा ।
वृत्तगन्धि च खण्डं च चित्रं चेत्यपि षड्विधम् ॥९.२१४
एतेषां रसभेदाश्च वर्णश्चाप्यधिदेवताः ।
नियता वृत्तिभेधाश्च गतिभेदा द्रुतादयः ॥९.२१५
द्वैविध्यमभ्युपेतस्य वेणीमिश्रत्वभेदतः ।
सर्वं रत्नाकरे प्रोक्तं तत्रत्यमवगम्यताम् ॥९.२१६
फलतो न विशेषोस्तीत्यस्माभिस्तदुपेक्षितम् ।
अथ गद्यस्य रचनाप्रकारः प्रतिपाद्यते ॥९.२१७
प्रणवाद्यमतालं च गमकै रचितैर्युतम् ।
युक्तं स्थाय्यादिवर्णैश्च गायेत्पदकदम्बकम् ॥९.२१८
ततः प्रबन्धनामाङ्कं बद्धमैच्छिकतालतः ।
अवान्तरानेकपदसमुदायात्मकं तथा ॥९.२१९
पदद्वयं निबध्नीयाद् द्विर्गेयं तत्पृथक्त्वतः ।
विलम्बितलयोपेतं प्रयोगं परिकल्पयेत् ॥९.२२०
ततो वाग्गेयकारस्य गायकस्य च नामनी ।
सताले विनिबध्नीयाद्विलम्बितलयान्विते ॥९.२२१
पुनश्च द्रुतमानेन प्रबन्धः सकलोपि च ।
९.२२२च्द् पूर्वोक्तेन क्रमेणैव गातव्यस्तदनन्तरम्
९.२२३अब् पूर्वोर्जितपदद्वन्द्वे प्रथमस्य पदस्य तु
आदिमारभ्य तत्तालं विलम्बितलयान्वितम् ॥९.२२३
एकवारं प्रयुज्याथ न्यासं कुर्यादिति स्थितिः ।
अत्राद्यभाग उद्ग्राहो ज्ञेयो यस्तालवर्जितः ॥९.२२४
यस्तु तालेन सहितः पदद्वन्द्वात्मकः पृथक् ।
द्विर्गातव्यो द्वितीयः स भागस्तु ध्रुव उच्यते ॥९.२२५
प्रयोगादिः सतालश्च यस्तु भागस्तृतीयकः ।
स आभोग इति ग्राह्यस्तत एव त्रिधातुकः ॥९.२२६
अनिर्युक्तश्च तालादिनियमस्यानपेक्षणात् ।
पदतालस्वरैर्योगात्त्र्यङ्गोयं भावनीयुतः ॥९.२२७
अथ कंदप्रबन्धस्य लक्ष्म सम्यक्प्रचक्ष्महे ।
यस्तु कर्णाटभाषाद्यैः पदैः संस्कृतवर्जितैः ॥९.२२८
पाटैश्च बिरुदैश्चैव गीयते तालवर्जितः ।
आर्यागीत्यभिधानेन यश्च वृत्तेन बध्यते ॥९.२२९
गेयः वीररसे यश्च स कंद इति कथ्यते ।
वृत्तरत्नाकरे प्रोक्तमार्यागीतेस्तु लक्षणम् ॥९.२३०
’’ार्याप्रथमदलोक्तं
यदि कथमपि लक्षणं भवेदुभयोः
दलयोः कृतयतिशोभां
तां गीतिं गीतवान्भुजङ्गेशः
ऽऽ
इदमेवास्य वृत्तस्य लक्ष्मोदाहरणं तथा ।
अस्यायमर्थ आर्यायां प्रथमार्धे प्रकीर्तिताः ॥९.२३१
त्रिंशन्मात्रा द्वितीयार्धे सप्तविंशतिरीरिताः ।
आर्यागीतौ तु पूर्वार्धवद् द्वितीयार्धकेपि च ॥९.२३२
त्रिंशन्मात्राः प्रयोक्तव्या एवंलक्षणलक्षिता ।
आर्यागीतिरिहोद्ग्राहं प्रथमार्धं प्रकल्प्य तु ॥९.२३३
पदैर्गायेद् द्वितीयार्धं ध्रुवं कृत्वा ततः परम् ।
पाटैश्च बिरुदैर्गायेत्तत आभोगकल्पनम् ॥९.२३४
ध्रुवाख्यस्य द्वितीयार्धस्यादौ पाटान्स्थितान्पुनः ।
उपक्रम्य प्रबन्धस्य न्यासं कुर्यादिति स्थितिः ॥९.२३५
त्रिधातुकः प्रबन्धोयं छन्दोनियमकीर्तनात् ।
निर्युक्तः पाटबिरुदपदैरङ्गैस्त्रिभिर्युतः ॥९.२३६
भावनीजातिमांश्चापि भवतीत्यवधार्यताम् ।
एकोनत्रिंशदाख्याताः कंदभेदास्तु शार्ङ्गिणा ॥९.२३७
निरूप्यतेथ कैवाडप्रबन्धस्येह लक्षणम् ।
यत्रोद्ग्राहो ध्रुवश्चैव पाटैरेव निबध्यते ॥९.२३८
आभोगस्तु पदैर्यस्मिन्नुद्ग्राहे च समापनम् ।
स कैवाड इति प्रोक्तः करपाटप्रधानकः ॥९.२३९
प्रबन्धः करपाटाख्यस्तदपभ्रंशनामतः ।
कैवाड इति लोकेस्मिन्सर्वत्र व्यवहारभाक् ॥९.२४०
सार्थकैरर्थहीनैश्च पाटैः स द्विविधो मतः ।
स शुद्धैर्मिश्रितैः पाटैः शुद्धो मिश्र इति द्विधा ॥९.२४१
शुद्धत्वं नाम पाटानां मुखवाद्याक्षरैः सह ।
अयुक्तत्वं मिश्रता तु तैर्युक्तत्वमितीर्यते ॥९.२४२
त्रिधातुरप्यनिर्युक्तः पाटतालपदैस्त्रिभिः ।
अङ्गैरुपनिबद्धत्वाद्भावनीजातिमांस्तथा ॥९.२४३
अथाङ्कचारिणी नाम प्रबन्धः प्रतिपाद्यते ।
यत्रोद्ग्राहध्रुवौ वीररौद्राख्यरससंहितैः ॥९.२४४
बिरुदैर्विनिबध्येते तालेनेष्टेन केनचित् ।
गातृनेतृप्रबन्धाख्याविख्यापनमनोहरैः ॥९.२४५
आभोगश्च पदैर्यस्यां कथिता साङ्कचारिणी ।
त्रिधातुकः प्रबन्धोयमनिर्युक्तश्च कीर्तितः ॥९.२४६
अङ्गैस्त्रिभिश्च बिरुदपदतालैर्निबन्धनात् ।
भावनीजातिमांश्चापि भवेद्रत्नाकरे पुनः ॥९.२४७
भेदाः षडङ्गचारिण्या वासवाद्या निरूपिताः ।
ते तत्रैवावगन्तव्या इति सर्वं समज्जसम् ॥९.२४८
निरूप्यतेथ वर्तन्याः प्रबन्धस्येह लक्षणम् ।
स्वराद्यकरणस्य प्राक्प्रबन्धस्य यदोरितम् ॥९.२४९
लक्ष्मोद्ग्राहे ध्रुवे चैव निबिडस्वरबद्धता ।
आभोगे पदबद्धत्वं भवेदिति तथैव च ॥९.२५०
वर्तन्यामपि विज्ञेयं विशेषस्तु प्रदर्श्यते ।
स्वराद्यकरणो प्रोक्तो रासस्तालो द्रुतो लयः ॥९.२५१
वर्तन्यां तु न रासः स्यात्तालः किं चैच्छिको भवेत् ।
विलम्बितलयश्चाथ गाने रीतिः प्रदर्श्यते ॥९.२५२
उद्ग्राहं तु द्विरुद्गायेद् ध्रुवाभोगौ सकृत्पुनः ।
ध्रुवे न्यासस्ततो यस्यां वर्तनी सा प्रकीर्तिता ॥९.२५३
त्रिधातुकः प्रबन्धोयमनिर्युक्तस्तथैव च ।
पदतालस्वरैर्योगात्त्र्यङ्गोयं भावनीयुतः ॥९.२५४
अथ लक्षणमार्यायाः प्रबन्धस्य निरूप्यते ।
आर्यावृत्तेन रचितामार्यामार्याः प्रचक्षते ॥९.२५५
आर्यावृत्तस्य चार्धान्ते चरणान्तेथ वा स्वराः ।
प्रयोज्यास्तत्र चाद्यार्धमुद्ग्राहं परिकल्पयेत् ॥९.२५६
तत्तद् द्विवारं गातव्यं द्वितीयार्धं भवेद् ध्रुवः ।
तत्तु गेयं सकृत्पश्चादाभोगं परिकल्पयेत् ॥९.२५७
गातृनेतृप्रबन्धाङ्कमुद्ग्राहे च समापयेत् ।
इदमार्याप्रबन्धस्य लक्षणं परिचक्षते ॥९.२५८
वृत्तरत्नाकरे प्रोक्तमार्यावृत्तस्य लक्षणम् ।
’’लक्ष्मैतत्सप्त गणा
गोपिता भवति नेह विषमे जः
षष्ठोयां न लघू वा
प्रथमेर्धे नियतमार्यायाः
षष्ठे द्वितीयलान् न्ले
परके मुखलाच्च स यतिपदनियमः
चरमेर्धे पञ्चमके
तस्मादिह भवति षष्ठो लः ऽऽ
उदाहरणमप्येतदार्यावृत्तस्य संमतम् ॥९.२५९
अस्यायमर्थः आर्यायाः प्रथमार्धे प्रकीर्तिताः ।
गणाः सप्त गुरुश्चैव विषमे जगणो न च ॥९.२६०
षष्ठोयं जगणः प्रोक्तस्तत्स्थाने न लघू च वा ।
नगणश्च लघुश्चेति जातं लघुचतुष्टयम् ॥९.२६१
इत्यार्याप्रथमार्धस्य लक्षणं विशदीकृतम् ।
तदुत्तरार्धेपि गणाः सप्तैव च गुरुस्तथा ॥९.२६२
९.२६३अब् किं तु षष्ठो गणस्तस्मिन्नेक एव लघुर्भवेत्
आर्यावृत्ते चतुर्मात्रा गणा ग्राह्या इति स्थितिः ॥९.२६३
आर्याभेदास्तु लक्ष्म्याद्याः षड्विंशतिरुदाहृताः ।
रत्नाकरे न ते लक्ष्ये प्रसिद्धा इत्युपेक्षिताः ॥९.२६४
त्रिधातुकः प्रबन्धोयं छन्दोनियमबन्धनात् ।
निर्युक्तस्त्रिभिरङ्गैश्च पदतालस्वरात्मकैः ॥९.२६५
बद्धत्वादवगन्तव्यो भावनीजातिमानिति ।
अद्य गाथाप्रबन्धस्य स्वरूपमभिधीयते ॥९.२६६
आर्यालक्षणमेवेदं गाथाया अपि लक्षणम् ।
किं त्वार्या संस्कृतपदैर्बद्धव्येति व्यवस्थितिः ॥९.२६७
गाथा तु प्राकृतपदैर्बद्धव्येत्यनयोर्भिदा ।
निर्युक्तत्वत्रिधातुत्वभावनीजातिशालिताः ॥९.२६८
गाथायामिह विज्ञेयास्त्वार्यालक्ष्मातिदेशतः ।
अथ क्रौञ्चपदो नाम प्रबन्धः प्रतिपाद्यते ॥९.२६९
यत्रोद्ग्राहः स्वरैर्बद्धः पदैस्तु ध्रुव इष्यते ।
पदान्तरैस्तथाभोगो गातृनामादिचिह्नितः ॥९.२७०
प्रतितालाख्यतालेन वक्ष्यमाणेन यो युतः ।
यश्चोद्ग्राहधृतन्यासः स तु क्रौञ्चपदः स्मृतः ॥९.२७१
लघुध्रुतद्वयं चैव प्रतिताले प्रचक्षते ।
स च द्वेधा क्रौञ्चपदनामवृत्तसमन्वितः ॥९.२७२
९.२७३अब् तद्वृत्तरहितश्चेति तत्र क्रौञ्चपदाभिधम्
वृत्तं कीदृशमित्युक्ते तल्लक्षणमुदीर्यते ॥९.२७३
आदौ तु भगणः प्रोक्तो मगणस्तदनन्तरम् ।
सगणो भगणश्चैव चत्वारो नगणास्तथा ॥९.२७४
गुरुश्च यत्र दृश्यन्ते चरणेषु चतुर्ष्वपि ।
वृत्तं क्रौञ्चपदं तत्स्यादस्योदाहरणं पुनः ॥९.२७५
’’या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना
दीर्घतराभिः स्थूलशिराभिः परिवृतवपुरतिशयकुटिलगतिः
आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिचितहृदया
सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषता ऽऽ
त्रिधातुकः प्रबन्धोयं निर्युक्तश्च तथा स्मृतः ।
तालादिनियमादङ्गैः स्वरतालपदाभिधैः ॥९.२७६
बद्धत्वात्त्रिभिरप्येष भावनीजातिमान्भवेत् ।
कलहंसप्रबन्धस्य कथयाम्यथ लक्षणम् ॥९.२७७
कलहंसाख्यवृत्तेन प्रबन्धो यः प्रबध्यते ।
तमाहुः कलहंसाख्यं तस्य वृत्तस्य लक्षणम् ॥९.२७८
आख्यातमादिभरते भरतेन महात्मना ।
’’द्वितीयसप्तमान्त्यश्च तुरीयको
गुरुर्यदा च षष्ठो दशमोपि वा
अथोदितो हि पादे त्वथ जागते
भवेदिदं तु हंसाख्यमिति स्मृतम् ऽऽ
इदमेवास्य वृत्तस्य लक्ष्यमस्यार्थ उच्यते ॥९.२७९
चतुर्ष्वपि च पादेषु द्वादशाक्षरशालिषु ।
प्रतिपादं द्वितीयश्च तुर्यः षष्ठश्च सप्तमः ॥९.२८०
दशमो द्वादशश्चैव वर्णो यदि गुरुर्भवेत् ।
तदानीं कलहंसाख्यं छन्द इत्यत्र चोच्यते ॥९.२८१
प्रयुञ्ज्यात्प्रतिपादान्तं स्वराञ्झम्पाख्यतालतः ।
गायेच्चादिमपादान्तप्रयुक्तेषु स्वरेष्वथ ॥९.२८२
न्यासं कुर्यात्प्रबन्धस्य झम्पातालस्य लक्षणम् ।
स्वरप्रकरणे प्रोक्तमलंकारनिरूपणे ॥९.२८३
अत्राद्यमर्धमुद्ग्राहं वृत्तस्य परिकल्पयेत् ।
उत्तरार्धे ध्रुवं कुर्यादाभोगं च पृथक्त्वतः ॥९.२८४
अतस्त्रिधातुकः सोयं नियमाद् वृत्ततालयोः ।
निर्युक्तश्च भवत्यङ्गैः स्वरतालपदैस्त्रिभिः ॥९.२८५
निबद्धत्वेन विज्ञेयो भावनीजातिमांस्तथा ।
लक्षणं तोटकस्याथ कथ्यते यः प्रबध्यते ॥९.२८६
तोटकाख्येन वृत्तेन स तोटक इति स्मृतः ।
लक्ष्म तोटकवृत्तस्य वृत्तरत्नाकरे स्फुटम् ॥९.२८७
’’िह तोटकमम्बुधिसैः कथितम्ऽऽ
अस्यायमर्थः सगणैश्चतुर्भिस्तोटकं स्मृतम् ।
इदमेवास्य लक्ष्यं च ज्ञेयमत्र च तोटकम् ॥९.२८८
प्रयोज्याः प्रतिपादान्तं स्वराः पूर्ववदत्र च ।
उद्ग्राहः प्रथमार्धं स्यादुत्तरार्धं ध्रुवः स्मृतः ॥९.२८९
आभोगः पूर्ववत्कार्यस्तेनायं स्यात्रिधातुकः ।
निर्युक्तो वृत्तनियमात्स्वरतालपदैस्त्रिभिः ॥९.२९०
अङ्गैरुपनिबद्धत्वाद्भावनीजातिमांस्तथा ।
हंसलीलप्रबन्धस्य लक्षणं प्रतिपाद्यते ॥९.२९१
पदैर्यत्राद्यपादः स्यत्पाटैरेव द्वितीयकः ।
हंसलीलाख्यतालेन युक्तोयं हंसलीलकः ॥९.२९२
हंसलीलाख्यताले च यगणश्च लघुर्गुरुः ।
अत्राद्यपाद उद्ग्राहो द्वितीयस्तु ध्रुवः स्मृतः ॥९.२९३
पदान्तरैस्तथाभोगस्तेनायं स्यात्त्रिधातुकः ।
निर्युक्तस्तालनियमात्पाटतालपदात्मकैः ॥९.२९४
त्रिभिरङ्गैर्निबद्धत्वाद्भावनीजातिमानपि ।
चतुष्पदीप्रबन्धोथ लक्ष्यते लक्ष्यसंमतः ॥९.२९५
यस्या द्वितीयके पादे तुर्यपादे पृथक्पृथक् ।
भवन्ति द्व्यष्टसंख्याका मात्रा लघ्वक्षरात्मिकाः ॥९.२९६
प्रथमे च तृतीयेङ्घ्रौ मात्राः पञ्चदशैव च ।
भिन्नार्थयमकोपेतं यस्यामर्धद्वयं भवेत् ॥९.२९७
आद्यमर्धं स्वरान्तं स्यात्तेनान्तं स्याद् द्वितीयकम् ।
तेनकन्याससंयुक्ता गेया कर्णाटभाषया ॥९.२९८
तालेन रहिता सेयं चतुष्पद्यभिधीयते ।
अथ सत्यर्थभिन्नानां वर्णानां या पुनःश्रुतिः ॥९.२९९
यमकं तद्भवेदित्थं यमकज्ञाः प्रचक्षते ।
अत्र स्वरान्तमाद्यार्धमुद्ग्राहं परिकल्पयेत् ॥९.३००
तेनकान्तं द्वितीयार्धं ध्रुवत्वेन प्रकल्पयेत् ।
आभोगः पूर्ववत्कार्यस्तेनायं स्यात्त्रिधातुकः ॥९.३०१
भाषनियमयुक्तत्वान्नित्युक्तश्च प्रकीर्तितः ।
पदतेनस्वरैस्त्र्यङ्गैर्बद्धत्वाद्भावनीयुतः ॥९.३०२
निरूप्यतेथ वीरश्रीप्रबन्धस्येह लक्षणम् ।
यतोद्ग्राहः पदैर्बद्धो बिरुदैस्तु ध्रुवो भवेत् ॥९.३०३
पदान्तरैस्तथाभोगो वीरश्रीरिति स स्मृतः ।
त्रिधातुकः प्रबन्धोयमनिर्युक्तश्च कीर्तितः ॥९.३०४
तालाद्यनियमात्तालपदाभ्यं बिरुदेन च ।
बद्धोयमङ्गत्रययुग्भावनीजातिमांस्तथा ॥९.३०५
उच्यते मङ्गलाचारप्रभन्दस्येह लक्षणम् ।
यः कैशिक्याख्यरागेण गीतो निःसारुसंज्ञिना ॥९.३०६
तालेन च निबद्धोयं मङ्गलाचार उच्यते ।
त्रिविधः स च गद्यात्मा पद्यात्मा चोभयात्मकः ॥९.३०७
पादान्ते वाथ वार्धान्ते प्रयोज्यास्तत्र च स्वराः ।
रागस्तु कैशिकीनामभाषारागः प्रकीर्तितः ॥९.३०८
स च गान्धर्वरागान्तर्भूतो रत्नकरे त्विति ।
ज्ञेयं निःसारुताले च विरामान्तं लघुद्वयम् ॥९.३०९
अत्र सस्वरमाद्यार्धमुद्ग्राहः परिकीर्तितः ।
सस्वरं तु द्वितीयार्धं ध्रुवो ज्ञेयः पृथक्पदैः ॥९.३१०
आभोगः पूर्ववत्कार्यस्तेनायं स्यात्रिधातुकः ।
निर्युक्तश्च भवत्येष नियमाद्रागतालयोः ॥९.३११
पदतालस्वरैस्त्र्यङ्गैर्बद्धत्वाद्भावनीयुतः ।
अथोद्देशक्रमप्राप्तो दण्डकः प्रतिपाद्यते ॥९.३१२
दण्डकाख्येन वृत्तेन यः स्वरश्च निबध्यते ।
स दण्डको दण्डकस्य लक्षणं नगणद्वयम् ॥९.३१३
रगणाः सप्त यस्य स्युः पादे पादे स दण्डकः ।
यथा --- ’’िह हि भवति दण्डकारण्यदेशे स्थितिः
पुण्यभाजां मुनीनां मनोहारिणि
त्रिदशविजयवीर्यद्दृप्यद्दशग्रीवल-
क्ष्म्या विरामेण रामेण संसेविते
जनकयजनभूमिसंभूतसीमन्तिनी-
सीमसीतापदस्पर्शपूताश्रये
भुवननमितपादपम्पाभिधानाम्बिका
तीर्थयात्रागतानेकसिद्धाकुले ऽऽ
अत्र दण्डकवृत्तस्थपदैः पूर्वार्थमुच्यते ॥९.३१४
स चोद्ग्राहो द्वितीयार्धं स्वरैर्ज्ञेयं स च ध्रुवः ।
पदान्तरैस्तथाभोगस्तत एष त्रिधातुकः ॥९.३१५
निर्युक्तो वृत्तनियमात्स्वरतालपदैस्त्रिभिः ।
अङ्गैरुपनिबद्धत्वाद्भावनीजातिमान्भवेत् ॥९.३१६
तदेवं वर्णिता द्व्यष्टप्रबन्धा भावनीयुताः ।
अथ द्वाविंशतिस्तारावलीजातिसमन्विताः ॥९.३१७
प्रबन्धाः पूर्वमुद्दिष्टास्तत्राप्यादौ प्रकीर्तिताः ।
एलाप्रबन्धस्तस्येह लक्ष्म सम्यक्प्रचक्ष्महे ॥९.३१८
एलायास्तावदुद्ग्राहे त्रयः पादाः प्रकीर्तिताः ।
तराद्यपादे प्रथमं द्वे खण्डे परिकल्पयेत् ॥९.३१९
तयोश्च खण्डयोर्धातुरेको मातुस्तु भिद्यते ।
धातुर्नाम स्वरः प्रोक्तो मातुरक्षरमुच्यते ॥९.३२०
एतश्च खण्डयुगलं सानुप्रासं प्रकल्पयेत् ।
वर्णसाम्यमनुप्रास इत्यनुप्रासलक्षणम् ॥९.३२१
ततः परं प्रयोगस्तु गमकालप्तिलक्षणः ।
किंचित्पदान्वितश्चान्ते कर्तव्यस्तदनन्तरम् ॥९.३२२
पल्लवाख्यानि गेयानि पदानि त्रीणि तत्र च ।
आद्ये विलम्बमानेन तृतीयं ध्रुतमानतः ॥९.३२३
अत्र खण्डद्वयं तारप्रथमं पदमुच्यते ।
ततः परं प्रयोगो यस्तद् द्वितीयं पदं स्मृतम् ॥९.३२४
तृतीयं च चतुर्थं च पञ्चमं च यथाक्रमम् ।
पदानि पल्लवाख्यानि भवन्ति त्रीण्यथः पुनः ॥९.३२५
पदानि पञ्च जातानि तदेतत्पदपञ्चकम् ।
उद्ग्राहः प्रथमः पादो भवतीत्यवधार्यताम् ॥९.३२६
एतत्प्रथमपादोक्तलक्षणेनैव कल्पयेत् ।
द्वितीयमपि चोद्ग्राहे पादं पञ्चपदात्मकम् ॥९.३२७
आद्यद्वितीययोरेतत्पादयोरेकधातुता ।
मातुस्तु भिन्न एवेति मतङ्गाद्याः प्रचक्षते ॥९.३२८
एवंलक्षण एव स्यात्तृतीयचरणोपि च ।
किं तु तत्र विशेषोस्ति कश्चित्तदभिदध्महे ॥९.३२९
आदौ खण्डद्वयं गीत्वा सानुप्रासैकधातुकम् ।
ततः केवलसंबुद्धिपदैरन्ते समन्वितम् ॥९.३३०
पूर्वपादद्वययुतप्रयोगापेक्षया पुनः ।
भिन्नधातुं प्रकुर्वीत प्रयोगमिति निर्णयः ॥९.३३१
सोमेश्वरादयस्त्वेके चतुर्धातुत्ववादिनः ।
एतेषु द्वादशपदेष्वेकादशपदात्मकम् ॥९.३३२
उद्ग्राहमुररीकृत्य पदं द्वादशकं पुनः ।
आहुर्मेलापकं तेन मतभेदोत्र विद्यते ॥९.३३३
एवमुद्ग्रागमेलापौ निबध्य तदनन्तरम् ।
ध्रुवं विरचयेत्सोपि त्रिपदात्मा प्रकीर्तितः ॥९.३३४
तत्राद्यं च द्वितीयं च पदं स्यान्मध्यमानतः ।
निबद्धं धातुनैकेन मातुभेदयुतं तथा ॥९.३३५
तृतीयं तु पदं पूर्वपदाभ्यां भिन्नधातुकम् ।
स्याद्विलम्बितमानं च त्रिष्वेतेषु पदेष्वपि ॥९.३३६
यत्र कुत्रापि कर्तव्यं नेतृनामाङ्कनं पुनः ।
एवं ध्रुवे त्रीणि पदान्युद्ग्राहे द्वादशेति च ॥९.३३७
योगे पञ्चदशाभूवन्पदानीत्यवधार्यताम् ।
गातृप्रबन्धनामाङ्कमाभोगमथ कल्पयेत् ॥९.३३८
आभोगः सर्व एवैष पदमेकमिति स्थितिः ।
तस्मादेलाप्रबन्धोयं जातो द्व्यष्द् तपदात्मकः ॥९.३३९
एवंविधं पुनर्गीत्वा प्रबन्धं सर्वमप्यथ ।
न्यासं कुर्याद् ध्रुवे तालनियमस्त्वथ कथ्यते ॥९.३४०
मट्ठद्वितीयकङ्कालप्रतितालेषु कश्चन ।
ताल एलाप्रबन्धेस्मिन्योजनीयो न चापरः ॥९.३४१
चतुर्णामपि तालानामेतेषां लक्षणं ब्रुवे ।
स्वरप्रकरणे पूर्वं मट्ठलक्षणमीरितम् ॥९.३४२
द्वितीयताले कथितं द्रुतद्वन्द्वं लघुद्वयम् ।
उक्तश्चतुर्धा कङ्कालः पूर्णः खण्डः समोसमः ॥९.३४३
चतुर्द्रुतौ गलौ पूर्णः खण्डो द्वौ च गुरुद्वयम् ।
समो गुरू द्वौ लघ्वन्तौ विषमो लाद् गुरुद्वयम् ॥९.३४४
लो द्रुतौ प्रतितालः स्यादित्येवं ताललक्षणम् ।
इत्युक्तस्तालनियमः प्रबन्धेस्मिन्ग्रहस्त्विह ॥९.३४५
अतीतो वानागतो व भवेदिच्छानुसारतः ।
तत्रातीतग्रहो नाम यत्र तालं विना पुरा ॥९.३४६
सकृद् गीत्वा तु गातव्यं तालं गृह्णाति चेत्पुनः ।
तथातीतग्रहः प्रोक्तोनागतग्रह उच्यते ॥९.३४७
यत्र गीतं विनैवादौ तालमादाय चेत्सकृत् ।
गेयं गायति सोयं स्यादनागत इति ग्रहः ॥९.३४८
एवमेलाप्रबन्धस्य प्रोक्तं सामान्यलक्षणम् ।
अत्र च द्व्यष्टसंख्यानां पदानां नामदेवताः ॥९.३४९
उक्ता रत्नाकरे तत्तु बोध्यं तत्रैव वर्तताम् ।
निरूप्यन्ते दश प्राणाः संप्रत्येलापदस्थिताः ॥९.३५०
समानो मधुरः सान्द्रः कान्तो दीप्तः समाहितः ।
अग्राह्यः सुकुमारश्च प्रसन्नौजस्विनाविति ॥९.३५१
दश प्रणाः समुद्दिष्टा द्व्यष्टसु स्युः पदेष्वपि ।
कथं ननु दश प्राणाः पदेषु द्व्यष्टसु स्थिताः ॥९.३५२
संख्याविरोध इति चेदत्रेदमभिधीयते ।
द्वयोस्त्रयाणमपिवा पदानामेक एव चेत् ॥९.३५३
प्राणः संयोज्यते कुत्र विरोधेनावरोधनम् ।
तथापि प्रथमे पादे प्रयोगात्मकमस्ति यत् ॥९.३५४
पदं द्वितीयं यदपि द्वितीयाङ्घ्रौ द्वितीयकम् ।
प्रयोगाख्यं पदं प्राणमेकमेव तयोर्द्वयोः ॥९.३५५
योजयेदेकधातुत्वात्समानं नाम नामतः ।
तया प्रथमपादस्थं यत्पल्लवपदत्रयम् ॥९.३५६
यच्च द्वितीयपादस्थं पल्लवाख्यं पदत्रयम् ।
षण्णामप्येकधातुत्वात्क्रमेणैव द्वयोर्द्वयोः ॥९.३५७
मधुराख्यं सान्द्रसंज्ञं कान्ताख्यं चैव योजयेत् ।
तथा पादत्रयस्थानं द्विखण्डात्मत्वमेयुषाम् ॥९.३५८
पदानमेकधातुत्वात्त्रयाणामपि तेष्वतः ।
एकः एव पुनः प्राणो दीप्तसंज्ञः प्रकीर्तितः ॥९.३५९
पदेष्वेकादशस्वेवं पञ्च प्राणास्तु योजिताः ।
एतेषु द्वादशाद्येषु पञ्चस्वथ यथाक्रमम् ॥९.३६०
समाहिताग्राम्यमुखान्प्राणान्पञ्चापि योजयेत् ।
एवमेलाप्रबन्धस्य द्व्यष्टसंख्यपदेष्वपि ॥९.३६१
प्राणा दश वसन्तीति कल्लिनाथेन दर्शितम् ।
कथं लक्षणमेतेषां प्राणानामभिधीयते ॥९.३६२
अल्पाक्षरोल्पस्वरश्च समान इति कथ्यते ।
अयं प्राणो भवत्याद्यद्वितीयाङ्घ्रिगयोर्द्वयोः ॥९.३६३
प्रयोगात्मकयोर्योज्यः पदयोरत एव हि ।
अल्पाक्षरत्वमेतस्य प्रयोगाश्रयणाद्भवेत् ॥९.३६४
नन्वक्षरविहीनत्वात्प्रयोगस्य कथं पुनः ।
अल्पाक्षरत्वमिति चेन्मा विस्मार्षीः पुरोदितम् ॥९.३६५
उक्तं ह्येतत्पुरैवाद्यद्वितीयाङ्घ्रिप्रयोगयोः ।
अन्ते किंचित्पदन्यासोप्यस्तीत्येतदनुस्मर ॥९.३६६
अथ द्वितीयप्राणस्य मधुराख्यस्य लक्षणम् ।
यः स्वल्पमूर्छनायुक्तः स प्राणो मधुरः स्मृतः ॥९.३६७
अल्पत्वं मूर्छनायास्तु तानीकरणतो भवेत् ।
तत्तानीकरणं यत्स्यादताने तानता पुनः ॥९.३६८
तानाद्यस्वरमुच्चार्यारोहे वाप्यवरोहके ।
क्रमान्मध्यस्वराणां च किंचित्संस्पर्शमात्रतः ॥९.३६९
अन्यस्वरोच्चारणं चेत्तत्तानीकरणं स्मृतम् ।
प्राणोयं मधुरस्त्वाद्यद्वितीयाङ्घ्रिगयोर्द्वयोः ॥९.३७०
पल्लवाख्येष्वादिमयोः पदयोर्योजयिष्यते ।
ततस्तृतीयप्राणस्य सान्द्रसंज्ञस्य लक्षणम् ॥९.३७१
यत्राक्षराणां नैबिड्यमल्पत्वं च स्वरावलेः ।
तारस्थानप्रतिष्ठो यः स सान्द्र इति कथ्यते ॥९.३७२
अत्राक्षराणां नैबिड्यं मात्रादिक्यकृतं विधुः ।
स्वराणां पुनरल्पत्वं धातोरल्पत्वतः स्मृतः ॥९.३७३
तरस्थानोत्थितस्याद्यद्वितीयचरणस्थयोः ।
द्वितीययोः पल्लवाख्यपदयोरुभयोरपि ॥९.३७४
स्वपूर्वपदतः किंचिदुच्चत्वेन निबन्धनम् ।
सान्द्रप्राणसमादेशात्कर्तव्यमिति सूचितम् ॥९.३७५
कन्तो नाम चतुर्थस्तु प्राणः कान्तध्वनिर्मतः ।
ध्वनेश्च कान्तता रक्तिविशेषसमवेतता ॥९.३७६
प्राणोयं कान्तनामाद्यद्वितीयचरणस्थयोः ।
अन्त्ययोः पल्लवाख्यानपदयोर्विनियुज्यते ॥९.३७७
दीप्तनादो भवेद्दीप्तनामा प्राणस्तु पञ्चमः ।
स्वरस्य दीप्तता नाम परिपूर्तिरिति स्मृता ॥९.३७८
अयमङ्घ्रित्रयेष्वेषु द्विखण्डात्मसु च त्रिषु ।
पदेषु योजनीयः स्यादित्याहुर्गीतकोविदाः ॥९.३७९
समाहिताख्यो यः प्राणः षष्ठस्तस्य तु लक्षणम् ।
स्थायिवर्णनिविष्टत्वमस्य तात्पर्यमुच्यते ॥९.३८०
तृतीयस्य तु पादस्य प्रयोगात्मकमस्ति यत् ।
पदमाद्यद्वितीयाङ्घ्रिप्रयोगाभ्यां विलक्षणम् ॥९.३८१
तत्रोचितस्वरांस्तारस्थायित्वेन प्रकल्प्य च ।
कृतायां गमकालप्तौ स्थायिस्थः स्यात्समाहितः ॥९.३८२
अथाग्राम्याभिधः प्राणः सप्तमस्तस्य लक्षणम् ।
अक्षराणां स्वराणामप्यावृत्त्याग्राम्य उच्यते ॥९.३८३
स्वराक्षराणामवृत्तिश्चक्रवालवदुच्यते ।
प्राणोयं ध्रुवखण्डस्य प्रथमे योज्यतां पदे ॥९.३८४
प्रसन्नो नाम नवमः प्राणस्तस्य तु लक्षणम् ।
यत्र तावत्पदानां स्याज्झटित्यर्थप्रबोधनम् ॥९.३८५
विविक्तरूपता मन्द्रस्थानादीनां स्वरावलेः ।
प्रसन्नो नवमः प्राणः कथिरो भरतादिभिः ॥९.३८६
ओजस्वी नाम दशमः प्राणस्तस्य तु लक्षणम् ।
यस्मिन्समासभूयस्त्वं स ओजस्वीति कथ्यते ॥९.३८७
कर्तव्यं तच्च भूयस्त्वं तानेषु च पदेषु च ।
अयमाभोगरूपेन्त्ये विनियोज्य पदे स्मृतः ॥९.३८८
एवमेलाप्रबन्धस्य द्व्यष्टसंख्यपदेष्वपि ।
निरूपिता दश प्राणा योजनीया इति स्थितिः ॥९.३८९
नो चेत्प्रबन्धपुरुषो निष्प्राणः किमु शोभते ।
तस्माद्वाग्गेयकारेण यथा प्राणा दशाप्यमी ॥९.३९०
एलापदनिविष्टाः स्युस्तथा यत्नो विधीयताम् ।
तादृगेव भवत्येला कर्तुर्नेतुश्च सौख्यदा ॥९.३९१
नो चेदनिष्टदेत्युक्तं मतङ्गेन महात्मना ।
एलैवं लक्षिता सेयं चतुर्धा परिकीर्तिता ॥९.३९२
गणैलाद्याथ मात्रैला वर्णैलाथ ततः परम् ।
देशैला चेति तत्रादौ गणैलायास्तु लक्षणम् ॥९.३९३
वक्तुं गणा निरूप्यन्ते समूहो गण उच्यते ।
स च द्वेधा वर्णगणो मात्रागण इति क्रमात् ॥९.३९४
वर्णोपि द्विविधः प्रोक्तो गुरुर्लघुरिति क्रमात् ।
तत्रानुस्वारसंयुक्तो विसर्गेण समन्वितः ॥९.३९५
व्यञ्जनान्तस्तथा दीर्घो युक्ताक्षरपरस्तथा ।
वर्णो यः स गुरुर्ज्ञेयस्तदन्यो लघुरुच्यते ॥९.३९६
सानुस्वारो यथा कं खं चं छमित्यादिको गुरुः ।
सविसर्गो यथा कः ख इत्यादिर्गुरुरुच्यते ॥९.३९७
व्यञ्जनान्तस्तदित्यत्र तवर्णो गुरुरुच्यते ।
दीर्घः काखादिको वर्णो युक्ताक्षरपरो यथा ॥९.३९८
सर्वेत्यत्र स इत्येष वर्णो गुरुरिति स्मृतः ।
पादान्तस्थो लघुर्वर्णो विकल्पेन गुरुर्भवेत् ॥९.३९९
गुरुर्द्विमात्रको ज्ञेयो लघुः स्यादेकमात्रकः ।
ऋजुत्वेन लघुर्लेख्यो वक्रत्वेन गुरुर्लिपौ ॥९.४००
जिह्वामूलीययोगे वाप्युपध्मानीयसंगतौ ।
रहयोगे लघुर्वर्णो विकल्पेन गुरुर्भवेत् ॥९.४०१
तेन युक्तपरत्वोत्थगुरुत्वस्यापवादनम् ।
यथा --- ’’तरुणं सर्षपशाकं नवोदनं पिच्छिलानि च दधीनि
अल्पव्ययेन सुन्दरि ग्राम्यजनो मृषमश्नाति ऽऽ
अत्र तावत्सुन्दरीति पदे रीत्येतदक्षरम् ॥९.४०२
युक्ताक्षरपरत्वेपि लघ्वेव भवति ध्रुवम् ।
ए औ इं हिं तु चत्वारो दीर्घत्वेपि विकल्पतः ॥९.४०३
लघवः स्युः पदान्तस्थाः प्राकृतादिष्विति स्थितिः ।
पदमध्येप्यपभ्रंशे हं हे ए ओइमित्यमी ॥९.४०४
९.४०१अब्॒ पञ्च वर्णा विकल्पेन लघवः स्युरिति स्थितिः ।
सानुस्वारत्वसंप्राप्तं गुरुत्वमिह बाध्यते ॥९.४०५
एवं निरूपिता वर्णास्तादृग्वर्णत्रयं पुनः ।
उक्तो वर्णगणः सोपि भवत्यष्द् तविधो यथा ॥९.४०६
मगणो यगणश्चैव रगणः सगणस्तथा ।
तगणो जगणश्चाथ भगणो नगणस्ततः ॥९.४०७
एवमष्टौ गणास्तत्र मगणस्त्रिगुरुर्यथा ।
कामाक्षीत्यादि यगणस्वरूपमथ कथ्यते ॥९.४०८
आदौ लघुर्गुरुद्वन्द्वमन्ते चेद्यगणो भवेत् ।
भवानीत्यत्र दृष्टान्तो रगणोथ निरूप्यते ॥९.४०९
आद्यन्तयोर्गुरुर्मध्ये लघुश्चेद्रगणो यथा ।
अम्बिकेत्यादि सगणस्वरूपमथ कथ्यते ॥९.४१०
आदौ लघुद्वयं पश्चाद् गुरुश्चेत्सगणो यथ ।
गिरिजा नगजेत्यादि तगणोथ निरूप्यते ॥९.४११
आदौ गुरुद्वयं पश्चाल्लघुश्चेत्तगणो यथा ।
गौरीशेत्यादि जगणस्वरूपमथ कथ्यते ॥९.४१२
आद्यन्तयोर्लघुर्मध्ये गुरुश्चेज्जगणो यथा ।
महेशेत्यादि तदनु भगणः प्रतिपाद्यते ॥९.४१३
गुरुरादौ लघुद्वन्द्वमन्ते चेत्भगणो यथा ।
शंकरेत्यादि नगणः स्मृतः सर्वलघुर्यथा ॥९.४१४
गिरिशेत्येवमष्टौ च गणः सम्यङ् निरूपिताः ।
अथैषां देवता भूमिजलाग्निमरुतोम्बरम् ॥९.४१५
सूर्यचन्द्रौ तथा स्वर्गः क्रमादेषां फलानि तु ।
श्रीवृद्धिनिधनस्थानभ्रंशनिर्धनतारुजः ॥९.४१६
कीर्त्तिमाउश्च शंसन्ति च्छन्दःशास्त्रविशारदाः ।
तस्मात्स्वस्य च वर्णस्य राजादेश्च सुखार्थिना ॥९.४१७
नित्यं वाग्गेयकारेण मगणो यगणस्तथा ।
भगणो नगणश्चेति गणाश्चत्वार एव हि ॥९.४१८
प्रयोक्तव्याः प्रबन्धादौ नान्य इत्यवधार्यताम् ।
दिङ्मात्रमुक्तमत्रान्यद् वृत्तरत्नाकरे स्फुटम् ॥९.४१९
अकाराद्यष्टवर्णानामुच्यते देवतादिकम् ।
सोमो भौमो बुधो जीवः शुकः सौरी रविस्तमः ॥९.४२०
क्रमादकचटानां तपयशानां च देवताः ।
द्वष्टस्वरा अकाराद्या अवर्गः परिकीर्तितः ॥९.४२१
कादिवर्गाः स्फुटाः पञ्च यवर्गस्तु यरौ लवौ ।
वर्णाः शषसहा ज्ञेयाः शवर्ग इति निर्णयः ॥९.४२२
वर्गाणां स्युः फलान्येषामायुः कीर्त्तिरसद्व्ययः ।
संपत्सुभगता कीर्त्तिमान्द्यं मृत्युश्च शून्यता ॥९.४२३
प्रयोगे श्लोकगीतादौ स्तुस्तस्योक्तानि सूरिभिः ।
एवं वर्णगणाः प्रोक्ता वक्ष्ये मात्रागणानथ ॥९.४२४
मात्रा कला लघुर्लश्चेत्येते पर्यायवाचकाः ।
ते च पञ्चविधाः प्रोक्ताश्छगणः पगणस्ततः ॥९.४२५
चगणस्तगणश्चैव दगणश्चेत्यनुक्रमात् ।
षण्मात्रश्छगणस्तत्र यथा गिरिशतनय ॥९.४२६
पगणः पञ्चमात्राकः स यथा गजवदन ।
चतुर्मात्रस्तु चगणो यथा पुरहरेत्ययम् ॥९.४२७
त्रिमात्रस्तगणः प्रोक्तो गिरिशेति निदर्शनम् ।
दगणस्तु द्विमात्रः स्याद्यथा हरशिवादिकः ॥९.४२८
अथान्येपि निरूप्यन्ते गणा मात्रागणाभिधाः ।
अत्युक्ता चैव मध्या च प्रतिष्ठा चेति विश्रुताः ॥९.४२९
छन्दोविशेषास्तेषं च च्छन्दःशास्तोक्तमात्रकाः ।
प्रस्तारे ये गणा जाता वृत्तभेदोपपादकाः ॥९.४३०
मात्रागणा इति प्रोक्तास्ते गणा भरतादिभिः ।
अत्युक्तायास्तु चत्वरो भेदास्तत्र प्रकीर्तिताः ॥९.४३१
चत्वारश्चापि ते भेदा ज्ञेया रतिगणा इति ।
किं तु तत्र लपूर्व ये तेष्वादावधिको लघुः ॥९.४३२
एवं मध्याभवा भेदा अष्टौ कामगणाः स्मृताः ।
तद्वत्कामगणा भेदाः प्रतिष्थायास्तु षोद् दश ॥९.४३३
एवं निरूपिता वर्णगणा मात्रागणास्तथा ।
तत्र वर्णगणैर्बद्धा गणैला परिकीर्तिता ॥९.४३४
सा भवेत्त्रिविधा शुद्धा संकीर्णा विकृता तथा ।
शुद्धा चतुर्विधा नादावती हंसावती तथा ॥९.४३५
नन्दावती च भद्रावत्येतासां लक्ष्म कथ्यते ।
पञ्चभिर्भगणैरन्ते नगणेन समन्वितः ॥९.४३६
मगणाद्यैर्वर्णगणैर्बद्धा नादावती स्मृता ।
गणानां नियमस्त्वाद्यपादे खण्डद्वये परम् ॥९.४३७
ततः परं त्विच्छयैव प्रयोक्तव्या गणा इह ।
अस्यां टक्काभिधो रागो मट्टतालश्च कीर्तितः ॥९.४३८
अथ हंसावतीं ब्रूमो यस्यां खण्डद्वयं पुनः ।
पञ्चभी रगणैरन्ते सगणेन युतैर्भवेत् ॥९.४३९
द्वितीयतालहिन्दोलरागाभ्यां सहितोप्ययम् ।
हंसावती गणानां च नियमोत्रापि पूर्ववत् ॥९.४४०
पदे खण्डद्वये ज्ञेयस्ततो नन्दावतीं ब्रुवे ।
पञ्चभिस्तगणैरन्ते जगणेन समन्वितैः ॥९.४४१
यस्याः खण्डद्वयं सेयं नन्दावत्यभिधीयते ।
तालोत्र प्रतितालाख्यो रागो मालवकैशिकः ॥९.४४२
गणानां नियमश्चात्र पदे खण्डद्वये परम् ।
अथ भद्रावतीं ब्रूमो यस्यां खण्डद्वयं पुनः ॥९.४४३
पञ्चभिर्मगणैरन्ते यगणेन युतैर्भवेत् ।
इति भद्रावती तस्यं तालः कङ्कालनामकः ॥९.४४४
रागस्तु कुकुभो नाम गणानां नियमोत्र च ।
द्रष्टव्यः पूर्ववच्छुद्धगणैला इति वर्णिताः ॥९.४४५
चतसृष्वपि चैतासु गणैलासु पुरोदितम् ।
एलाप्रबन्धसामान्यलक्षणं योज्यमिष्यते ॥९.४४६
विशेषमात्रमत्रोक्तं संकीर्णविकृताः पुनः ।
एलास्तु बहुशः सन्ति मतङ्गाद्यागमोदिताः ॥९.४४७
श्रीमता शार्ङ्गदेवेन संक्षिप्योक्तासु ताः पुनः ।
इदानीं नैव लक्ष्ये ताः संलक्ष्यन्तेपि कुत्रचित् ॥९.४४८
इत्यस्माभिर्विसृज्यैता मात्रैला प्रतिपाद्यते ।
मात्रागणैर्या च्छगणपगणाद्यैर्निबध्यते ॥९.४४९
सा मात्रैला तु तद्भेदा बहुधा मतभेदतः ।
तत्र विस्तरसंत्रस्तैरस्माभिरिह कथ्यते ॥९.४५०
रतिरेखाभिधानैका मात्रैला पार्वतीमता ।
तस्यां तावत्त्रिपादात्मन्युद्ग्राहे प्रथमाङ्घ्रिगाः ॥९.४५१
मात्रास्त्वेकादशैव स्युस्तथैवाङ्घ्रौ द्वितीयके ।
एकादशैव मात्राः स्युस्तृतीये तु दश स्मृताः ॥९.४५२
रतिलेखेति तामाह श्रीमहेश्वरवल्लभा ।
मात्रैलेत्थं निगदिता वर्णैलाद्य निरूप्यते ॥९.४५३
गणानमपि मात्राणां नियमेन विनैव या ।
विभज्यते सा वर्णैला चतुर्विंशतिधा च सा ॥९.४५४
षडक्षराङ्घ्रिखण्डादेरेकोनत्रिंशदक्षरम् ।
यावदेकैकवृद्धाः स्युश्चतुर्विंशतिरत्र तु ॥९.४५५
मट्टद्वितीयकङ्कालप्रतितालेषु कश्चन ।
तालः स्यादिति वर्णैला वर्णिताथ निरूप्यते ॥९.४५६
देशैला देशभाषाभिर्निबद्धाः परिकीर्तिताः ।
कर्णाटलाटगौलान्ध्रद्रविडानां प्रभेदतः ॥९.४५७
सा च पञ्चविधा प्रोक्ता तत्र कर्णाटभाषया ।
निबद्धा या भवेदेषा कर्णाटैलेति कथ्यते ॥९.४५८
लाटभाषानिबद्धा तु लाटैला परिकीर्तिता ।
गौडभाषाविरचिता गौडैला समुदाहृता ॥९.४५९
आन्ध्रभाषानिबद्धाः स्युरान्ध्रैला समुदीरिताः ।
द्राविड्या भाषया बद्धा द्राविडैलेति कथ्यते ॥९.४६०
एलाप्रबन्धसामान्यलक्षणं यदुदाहृतम् ।
तल्लक्षणयुतैवैला बद्धा देशीयभाषया ॥९.४६१
देशैलापदवाच्यत्वं भजतीत्यवधार्यताम् ।
कर्णाद् तैलादिमध्यान्तवर्णानुप्रासभासुरा ॥९.४६२
अन्त्यप्रासा तु लाटी स्याद् भूयो रसविराजिता ।
गमकप्रासनिर्मुक्ता गौडीत्वेकरसा मता ॥९.४६३
नानाप्रयोगरागांशरसभावोत्कटान्ध्रिका ।
भूरिभावरसोत्कर्षं द्राविडी प्रासवर्जिता ॥९.४६४
इत्थमेलात्र संक्षिप्य प्रोक्ता लक्ष्यज्ञसंमता ।
एलानां त्रिशती प्रोक्ता षद् त्पञ्चाशत्समन्विता ॥९.४६५
निर्युक्तोयं प्रबन्धः स्यात्तालादिनियमो यतः ।
त्रिधातुर्वा चतुर्धातुर्मेलापकविकल्पतः ॥९.४६६
पदतालाङ्गयुगलबद्धस्तारावलीयुतः ।
अथोद्देशक्रमप्राप्तढेङ्कीलक्षणमुच्यते ॥९.४६७
यतोद्ग्राहस्य पूर्वार्धं द्विवारं परिगीयते ।
उत्तरार्धं सकृच्चैव प्रयोगात्मा ततः परम् ॥९.४६८
मेलापकः स तु भवेन्न भवेद्वा विकल्पतः ।
एतावुद्ग्राहमेलापौ तालेन रहितौ स्मृतौ ॥९.४६९
अथ वा ढेङ्किकातालकङ्कालान्यतरान्वितौ ।
विलम्बितलयौ चैव कर्तव्याविति निर्णयः ॥९.४७०
लयान्तरेन्यतालेन ध्रुवाभोगौ ततस्तु तौ ।
ध्रुवस्त्रिखण्डस्तत्राद्ये खण्डे द्वे समधातुके ॥९.४७१
तृतीयं भिन्नधातु स्याद् द्विर्गेयस्तादृशो ध्रुवः ।
आभोगोथ सकृद्गेयः प्रबन्धं सकलं पुनः ॥९.४७२
गीत्वा भवेद् ध्रुवे न्यासो यस्यां सा ढेङ्किका स्मृता ।
रगणो ढेङ्किका कैश्चिदेषा प्रोक्ता तथा जनै ॥९.४७३
ढेङ्कितालस्य लक्ष्मेदं कङ्कालस्य तु लक्षणम् ।
उक्तश्चतुर्धा कङ्कालः पूर्णः खण्डः समोसमः ॥९.४७४
चतुर्द्रुती गलौ पूर्णः खण्डो द्वौ च गुरुद्वयम् ।
समो गुरू लघ्वन्तौ विषमो लाद् गुरुद्वयम् ॥९.४७५
चतुर्धा ढेङ्किका मुक्तावली स्याद् वृत्तबन्धिनी ।
युग्मिनी वृत्तमाला च तत्र वृत्तं न विद्यते ॥९.४७६
यस्यां मुक्तावली सा स्याद् वृत्तं यत्रैकमेव चेत् ।
सा वृत्तबन्धिनी यस्यां द्वे वृत्ते सा तु युग्मिनी ॥९.४७७
बहूनि यत्र वृत्तानि वृत्तमाला तु सा भवेत् ।
त्रिधा तिस्रो द्वितीयाद्या वर्णिका गणिका तथा ॥९.४७८
मात्रिका वर्णजैर्वृत्तैर्गणजैर्मात्रिकैरपि ।
दशापि स्युः पुनस्त्रेधा समालंकरणा यथा ॥९.४७९
विषमालंकृतिश्चित्रालंकृतिर्लक्षणानि तु ।
समालंकरसंख्या च विषमा मिश्रिता क्रमात् ॥९.४८०
निर्युक्तोयं प्रबन्धः स्याच्छन्दस्तालादियन्त्रणत् ।
त्रिधातुर्वा चतुर्धातुर्मेलापकविकल्पितः ॥९.४८१
पदतालाङ्गयुगलबद्धस्तारावलीयुतः ९.४८१ef