प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← ठायप्रकरणम् चतुर्दण्डीप्रकाशिका
गीतप्रकरणम्
वेङ्कटमखी
प्रबन्धप्रकरणम् →
एवं ठायप्रकरणे ठायाः सम्यङ् निरूपिताः ।
अष्टमेथ प्रकरणे गीतजातं निरूप्यते ॥८.१
ननु गीयत इत्येवं व्युत्पत्यालापठाययोः ।
प्रबन्धानां च गीतत्वमस्ति तत्किं निरूप्यते ॥८.२
इति चेदुच्यते गीतशब्दोयं योगतः पुनः ।
प्रबन्धालापठायानां वाचकः स्यात्तथाप्यसौ ॥८.३
रूढ्या सालगसूडाख्यगीतभेदैकवाचकः ।
अथः सालगसूडाख्यं गीतमत्र निरूप्यते ॥८.४
तत्र सालगसूडेतिशब्दस्यार्थः प्रदर्श्यते ।
सूड इत्येष देशीयशब्दो गीतकवाचकः ॥८.५
स च सूडो द्विधा शुद्धश्छायालग इति क्रमात् ।
तत्र ब्रूमः प्रकरणे शुद्धसूडोभिधास्यते ॥८.६
अथ च्छायालगः सूडश्छाया नाम समानता ।
शुद्धच्छाया शुद्धसाम्यं तां छायां लगतीत्ययम् ॥८.७
गच्छतीति यतस्तस्माच्छायालग इति स्मृतः ।
छायालगेति शब्दापभ्रंशः सालग इत्ययम् ॥८.८
शुद्धत्वं चात्र शास्त्रोक्तनियमेन समन्वयः ।
एवं सालगसूडेति शब्दस्यार्थः प्रदर्शितः ॥८.९
स च सालगसूडाख्यो ध्रुवादिः सप्तधा मतः ।
आद्यो ध्रुवस्ततो मट्टः प्रतिमट्टो निसारुकः ॥८.१०
अट्टतालस्ततो रास एकतालीति च क्रमत् ।
तत्रापि प्रथमोद्दिष्टध्रुवलक्षणमुच्यते ॥८.११
आदौ खण्डद्वयं कार्ये भिन्नमात्वेकधातुकम् ।
तत्खण्डद्वयमुद्ग्राहो विज्ञेयस्तदनन्तरम् ॥८.१२
उद्ग्राहस्वरतः किंचिदुच्चस्वरसमन्वितम् ।
खण्डं कुर्यादिदं खण्डत्रयं द्विर्गेयमिष्यते ॥८.१३
ततो द्विखण्ड आभोगः स्तुत्यनामाङ्कितः स्मृतः ।
उच्चस्वरैकखण्डः स्यादाभोग इति केचन ॥८.१४
उद्ग्राहस्याद्यखण्डे च न्यासो यत्र स तु ध्रुवः ।
तं च ध्रुवं द्व्यष्टविधं वदन्ति भरतादयः ॥८.१५
एकादशाक्षरात्खण्डादेकैकाक्षरवर्धितैः ।
खण्डैर्ध्रुवा द्व्यष्टविधाः षड्विंशत्यक्षरावधि ॥८.१६
जयन्तः शेखरोत्साहौ ततो मधुरनिर्मलौ ।
कुन्तलः कोमलश्चारो नन्दनश्चन्द्रशेखरः ॥८.१७
कामदो विजयाख्यश्च कंदर्पो जयमङ्गलः ।
तिलको ललितश्चेति संज्ञास्तेषां क्रमादिमाः ॥८.१८
आदितालेन शृङ्गारे जयन्तो गीयते बुधैः ।
शेखरो गीयते वीरे रसे निःसारुतालतः ॥८.१९
उत्साहः प्रतिमट्टेन हास्ये तालेन गीयते ।
मधुरो भोगदो गेयः करुणे हयलीलया ॥८.२०
क्रीडातालेन शृङ्गारे गीयते निर्मलो ध्रुवः ।
लघुशेखरतालेन कुन्तलो गीयतेद्भुते ॥८.२१
केरलो विप्रलम्भे च झोम्पतालेन गीयते ।
हर्षदो गीयते चारो वीरे निःसालुतारतः ॥८.२२
नन्दनो वीरशृङ्गारे त्वेकतालेन गीयते ।
वीरे हास्ये च शृङ्गारे प्रतिमट्टेन गीयते ॥८.२३
अभीष्टफलदः श्रोतृगातृऋणां चन्द्रशेखरः ।
प्रतिमट्टेन शृङ्गारे गातव्यः कामदध्रुवः ॥८.२४
हास्ये द्वितीयतालेन गायन्ति विजयध्रुवम् ।
कंदर्पो हास्यशृङ्गारकरुणेष्वादितालतः ॥८.२५
क्रीडातालेन शृङ्गारे गातव्यो जयमङ्गलः ।
तिलको वीरशृङ्गारे त्वेकताल्या प्रगीयते ॥८.२६
प्रतिमट्टेन शृङ्गारे गीयते ललितध्रुवः ।
स्याद्वर्णनियमः सर्वखण्डे खण्डद्वये यथा ॥८.२७
इति ध्रुवं निरूप्याथ मट्टलक्षणमुच्यते ।
यतिद्वयं वैकयतिर्यत्रोद्ग्राहाख्यखण्डके ॥८.२८
ध्रुवखण्डं ततस्तच्च द्विवारं गेय इष्यते ।
तद् गीत्वा ध्रुवमागत्य चाभोगो गीयते सकृत् ॥८.२९
ध्रुवे न्यासस्ततः प्रोक्तः स मट्टो मट्टतालकः ।
जयप्रियो मङ्गलश्च सुन्दरो वल्लभस्तथा ॥८.३०
कलापः कमलश्चेति षड् भेदा मट्टके मताः ।
षट्प्रकारो मट्टतालस्तेन गीतिश्च विद्यते ॥८.३१
वीरे जयप्रियो गेयो मट्टेन जगणात्मना ।
आद्यन्तयोर्लघुर्मध्ये गुरुश्चेज्जगणः स्मृतः ॥८.३२
गेयो भगणमट्टेन शृङ्गारे मङ्गलाभिधः ।
आदौ गुरुर्लघुद्वन्द्वं पश्चाच्चेद्भगणः स्मृतः ॥८.३३
युक्तः सगणमट्टेन शृङ्गारे सुन्दरो मतः ।
आदौ लघुद्वयं चान्ते गुरुश्चेत्सगणो मतः ॥८.३४
ज्ञेयो रगणमट्टेन वल्लभः करुणे रसे ।
आद्यन्तयोर्गुरुर्मध्ये लघुश्चेद्रगणो मतः ॥८.३५
विरामान्तेन नगणो मट्टतालेन गीयते ।
हास्ये रसे कलापाख्यः कमलस्त्वद्भुते रसे ॥८.३६
विरामान्तद्रुतद्वन्द्वोपरि लघ्वात्तमट्टतः ।
नगणस्त्रिलघुः प्रोक्त इति मट्टो निरूपितः ॥८.३७
अथोद्देशक्रमेणैव प्रतिमट्टो निरूप्यते ।
मट्टवत्प्रतिमट्टस्य लक्ष्मोद्ग्राहादिके मतम् ॥८.३८
प्रतिमट्टाभिधस्तालविशेषोत्र प्रकीर्तितः ।
प्रतिमट्टश्चतुर्धा स्यादमरस्तारसंज्ञितः ॥८.३९
विचारः कुन्तनामा चेत्येतेषां लक्षणं ब्रुवे ।
अमरो गुरुणैकेन शृङ्गारे गीयते रसे ॥८.४०
विरामान्तद्रुतद्वन्द्वाल्लघुद्वन्द्वेन गीयते ।
ताराख्यः प्रतिमट्टोसौ रसयोर्वीररौद्रयोः ॥८.४१
लघुत्रयाद्विरामान्ताद्विचारः करुणे भवेत् ।
विराममध्यकलघुत्रयात्कुन्तोद्भुते स्मृतः ॥८.४२
प्रतिमट्टं निरूप्यैवं निःसारोर्लक्षणं ब्रुवे ।
बद्धा निःसारुतालेन निःसारुरिति कीर्तिता ॥८.४३
वैकुन्दानन्दकान्तारसमरा वाञ्छितस्तथा ।
विशालश्चेति निःसारुगीतभेदा षद् दीरिताः ॥८.४४
द्रुतद्वन्द्वोपरि लघुद्वन्द्वाद्वैकुन्द उच्यते ।
भवेदानन्द आनन्दो विरामान्तद्रुतद्वयात् ॥८.४५
विप्रलम्भे तु कान्तारो लघुन गुरुणा स्मृतः ।
लघुद्वयाद्विरामान्तात्समरो नाम कीर्तितः ॥८.४६
लघुद्वयाद्द्रुतद्वन्द्वाद्वाञ्छितः कथ्यते बुधैः ।
लघुद्रुतद्वये पुनर्लघुभिः स्याद्विशालकः ॥८.४७
निःसारुकं निरूप्यैवमट्टतालोभिधीयते ।
मट्टतालेन संयुक्तमट्टतालं प्रचक्षते ॥८.४८
निःशङ्कः शङ्खशीलौ च चारोथ मकरन्दकः ।
विजयश्चेति षड्भेदानट्टताले प्रचक्षते ॥८.४९
लगुरुभ्यां द्रुतद्वन्द्वान्निःशङ्को विस्मये भवेत् ।
लघोर्द्रुतद्वयेन स्याच्छङ्खः शृङ्गारवीरयोः ॥८.५०
शान्ते शीलो विरामान्ताद्द्रुतद्वन्द्वाल्लघुर्भवेत् ।
द्रुतद्वन्द्वोपरि लघुगुरुभ्यां चार ईरितः ॥८.५१
मकरन्दो द्रुतद्वन्द्वानन्तरं गुरुणा स्मृतः ।
विजयस्तु द्रुतद्वन्द्वानन्तरं लघुना स्मृतः ॥८.५२
इत्यट्टतालः कथितो रासकोथ निरूप्यते ।
निबद्धो रासतालेन रासकः स चतुर्विधः ॥८.५३
विनादो वरदो नन्दः कम्बुकश्चेत्यनुक्रमात् ।
आलापान्ताद् ध्रुवपदाद्विनोदः कौतुके स्मृतः ॥८.५४
ध्रुवादालापमध्यात्तु वरदो देवतास्मृतौ ।
खण्डमाद्यं द्विखण्डस्योद्ग्राहस्यालापनिर्मितम् ॥८.५५
यस्यासौ रासको नन्दो गीयतेद्भुत एव सः ।
आलापादेर्ध्रुवपदात्कम्बुजः करुणे भवेत् ॥८.५६
सर्वेषु रासकेष्वेषु द्विखण्डोद्ग्राहकल्पना ।
इत्युक्त्वा रासकं गीतमेकताली निरूप्यते ॥८.५७
एकताली भवेदेकताल्या सा च त्रिधा स्मृता ।
रमा च चन्द्रिका तद्वद्विपुलेत्यथ लक्षणम् ॥८.५८
सकृद्द्वियतिरुद्ग्राहोन्तरस्त्वक्षरनिर्मितः ।
यस्यामसौ रमा नाम प्रथमो भेद इष्यते ॥८.५९
उद्ग्राहो द्विदलो यस्यामालापरचितोन्तरः ।
एकताली चन्द्रिका सा द्वितीयो भेद इष्यते ॥८.६०
आलापपूर्वकोद्ग्राहा विपुलाख्यैकतालिका ।
आलापी गमकालप्तिरक्षरैर्वर्जिता मता ॥८.६१
सप्तसालगसूडानामिति लक्षणमीरितम् ८.६१ef
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षितनागमाम्बिकावरद्वितीयनन्दनस्य
साग्निचित्यसर्वक्रतुयाजियज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युतविजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य
कृतौ चतुर्दण्दीप्रकाशिकायां अष्टमं गीतप्रकरणं संपूर्णम्