प्रमुखा विकल्पसूचिः उद्घाट्यताम्
चतुर्दण्डीप्रकाशिका
वीणाप्रकरणम्
वेङ्कटमखी
श्रुतिप्रकरणम् →
चतुर्णां पुरुषार्थानां त्यागं यस्मात्करोत्यतः ।
त्यागराज इति ख्यातं सोमास्कन्दमुपास्महे ॥१.१
संगीतशास्त्रं विततं समालोड्य धिया स्वयम् ।
विधत्ते वेङ्कटमखी चतुर्दण्डीप्रकाशिकाम् ॥१.२
अस्यां वाग्गेयकारैकसंजीवनसुधानिधौ ।
आद्यं वीणाप्रकरणं श्रुतिप्रकरणं ततः ॥१.३
स्वरप्रकरणं पश्चान्मेलप्रकरणं ततः ।
ततो रागप्रकरणालापप्रकरणे क्रमात् ॥१.४
ठायप्रकरणं चाथ गीतप्रकरणं ततः ।
प्रबन्धानां प्रकरणं तालप्रकरणं ततः ॥१.५
दशप्रकरणोपेता कृतिर्विद्वदलंकृतिः ।
तत्रापि प्रथमोद्दिष्टं वीणालक्षणमुच्यते ॥१.६
सा च वीणा त्रिभेदेति लक्षणज्ञाः प्रचक्षते ।
शुधमेलाख्यवीणाद्या द्वितीया मध्यमेलका ॥१.७
तृतीया रघुनाथेन्द्रमेलवीणा प्रकीर्तिता ।
प्रत्येकमेतास्तिस्रोपि वीणाः स्युर्द्विविधा मताः ॥१.८
एकैकरागसंबन्धिस्वराणां मेलनं यथा ।
मध्ये तारे च सा त्वेकरागमेलाभिधा स्मृता ॥१.९
मध्ये तारे च सकलैः स्वरैर्युक्ता तु या भवेत् ।
सा सर्वरागमेलाख्या वीणेति स्मर्यते परा ॥१.१०
मध्यमेलाख्यवीणायां तृतीयो भेद इष्यते ।
पूर्वतन्त्रीत्रयं त्यक्त्वा षड्जयुक्तां चतुर्थिकाम् ॥१.११
तन्त्रीं त्रिस्थानसारीभिर्योजयेत्सैकतन्त्रिका ।
किंचिद्दीर्घः प्रवालः स्यादस्यां त्रिस्थानशुद्धये ॥१.१२
तत्रादौ शुद्धमेलाख्यवीणाया लक्ष्म चक्ष्महे ।
लक्ष्यज्ञेन प्रवीणेन निर्मितायां तु शिल्पिना ॥१.१३
वीणायामुपरिस्थाने चतुस्तन्त्रीः प्रसारयेत् ।
पित्तलारचिते चाद्यद्वितीये लोहजे परे ॥१.१४
पार्श्वोपरिस्थतन्त्रीणां वामे चतसृणामपि ।
आद्यायां मन्द्रषड्जाख्यं स्वरं तन्त्र्यां नियोजयेत् ॥१.१५
ततः पञ्चमनामानां द्वितीयायां निवेशयेत् ।
तृतीयायां तन्त्रिकायां मध्यषड्जं निवेशयेत् ॥१.१६
मध्यमध्यमनामानां तुरीयायां निवेशयेत् ।
तिसृणां पार्श्वतन्त्रीणां स्वरयोजनमुच्यते ॥१.१७
आद्या टीप्याभिधा तारषड्जतुल्यध्वनिर्भवेत् ।
द्वितीया तन्त्रिका ज्ञेया मध्यपञ्चमसंमिता ॥१.१८
तृतीया मध्यषड्जेन संमिता झल्लिकाभिधा ।
तिसृणामपि चैतासां श्रुतिसंज्ञा प्रकीर्तिता ॥१.१९
पर्वणां संनिवेशोथ वक्ष्यते लक्ष्यसंमतः ।
मेरोः पुरस्तात्पर्वाणि षट् क्रमेण निवेशयेत् ॥१.२०
षट्सु तेष्वाद्यया तन्त्र्या मन्द्रषड्जाभिधानया ।
क्रमेण शुद्धरिषभः शुद्धगांधारकस्तथा ॥१.२१
साधारणाख्यगांधारो गांधारोन्तरसंज्ञकः ।
शुद्धमध्यमनामा च वरालीमध्यमस्तथा ॥१.२२
इति स्वराः प्रजायन्ते तन्त्र्या चाथ द्वितीयया ।
मन्द्रपञ्चमनादिन्या षट्सु तेष्वेव पर्वसु ॥१.२३
शुद्धश्च धैवतः शुद्धो निषादश्च ततः परम् ।
कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ॥१.२४
षड्जर्षभौ च जायन्ते व्यक्तमेते स्वराः क्रमात् ।
मध्यषड्जनिनादिन्या तन्त्र्या चाथ तृतीयया ॥१.२५
सर्वेष्वेतेषु ये जातास्तान्स्वरान्कथयाम्यहम् ।
शुद्धावृषभगांधारौ तथा साधारणाभिधः ॥१.२६
गांधारोन्तरसंज्ञश्च शुद्धमध्यम एव च ।
वरालीमध्यमश्चेति जायन्ते क्रमशः स्वराः ॥१.२७
मध्यमध्यमनादिन्या तन्त्र्या चाथ तुरीयया ।
षट्सु पर्वसु चैतेषु स्वरान्समभिदध्महे ॥१.२८
वरालीमध्यमः पूर्वः पञ्चमः शुद्धधैवतः ।
ततः शुद्धनिषादश्च कैशिक्याख्यनिषादकः ॥१.२९
काकल्याख्यनिषादश्चेत्येते स्युः क्रमशः स्वराः ।
अस्यां तुरीयतन्त्र्यां यः काकली षष्ठपर्वजः ॥१.३०
तदग्रे सप्त पर्वाणि यथायोगं निवेशयेत् ।
तेषां प्रवाले दीर्घाणि त्रीणि पर्वाणि विन्यसेत् ॥१.३१
सरिगाख्यास्त्रयस्तत्र प्रजयन्ते स्वराः क्रमात् ।
पीठे ह्रस्वाणि पर्वाणि चत्वारि विनिवेशयेत् ॥१.३२
एतेषु मपधन्याख्याश्चत्वारः स्युः स्वराः क्रमात् ।
शुद्धमध्यमदं ह्रस्वं पर्व पीठे यदा भवेत् ॥१.३३
तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् ।
एकं सर्वोत्तरं ह्रस्वं पर्व पीठे निवेशयेत् ॥१.३४
तत्रातितारषड्जाख्यो द्वाविंशोपि स्वरो भवेत् ।
लक्ष्यज्ञैर्गृह्यते सोयं रक्तिलाभैकलोभतः ॥१.३५
शुद्धमेलाख्यवीणायामेतत्पर्वाष्टके पुनः ।
द्वौ षड्जौ पञ्चमश्चेति ध्रुवं पर्वत्रयं सदा ॥१.३६
अन्यानि पञ्च पर्वाणि तत्तद्रागानुसारतः ।
क्रमाद्रिगमधन्याख्यस्वरोत्पादनसिद्धये ॥१.३७
उत्पाद्योत्पाद्य वेश्यानि यथायोगं विचक्षणैः ।
सर्वाण्याहृत्य दीर्घाणि नव ह्रस्वानि पञ्च च ॥१.३८
एषैकरागमेलाख्यवीणैवं सति जायते ।
अस्यां तुरीयतन्त्र्यां यः काकली षष्थपर्वजः ॥१.३९
तदग्रे शुद्धविकृतस्वराणां द्वादशात्मनाम् ।
सिद्ध्यै द्वादश पर्वाणि विनिवेश्यानि वैणिकैः ॥१.४०
अतिताराख्यषड्जार्थं ह्रस्वं चान्यत्त्रयोदशम् ।
तेषु प्रवाले दीर्घाणि पञ्च पर्वाणि विन्यसेत् ॥१.४१
अष्ट पर्वाणि पीठे तु ह्रस्वानि विनिवेशयेत् ।
अस्यां दीर्घाणि पर्वाणि मिलित्वैकादशाभवन् ॥१.४२
अष्टौ ह्रस्वानि पर्वाणि समजायन्त तत्र तु ।
तत्सर्वरागमेलाख्यवीणैवं सति जायते ॥१.४३
लक्षितैवं शुधमेलवीणा भेदद्वयान्विता ।
एतस्यामेव वीणायां स्वराणमेकविंशतेः ॥१.४४
निरूपयामः स्थानानि स्वरांस्त्रेधा विभज्य च ।
तत्रोपरि स्थितानां तु वामे चतसृणामपि ॥१.४५
आद्यया मन्द्रषड्जाख्यतन्त्र्या तावच्चतुःस्वराः ।
संग्राह्याः षड्जरिषभौ तथा गांधारमध्यमौ ॥१.४६
पञ्चमाद्या न गृह्यन्ते तस्यां जाता अपि स्वराः ।
मन्द्रपञ्चमनामा यो द्वितीयायां निवेशितः ॥१.४७
तस्यां त्रयः स्वरा ग्राह्याः पञ्चमो धैवतश्च निः ।
षद्जादयो न गृह्यन्ते जाता पति ततः परम् ॥१.४८
तदेवं मन्द्रके स्थाने स्वराः सप्त प्रदर्शिताः ।
अथ मध्यस्थानके तु तृतीयायां त्रयः स्वराः ॥१.४९
तुरीयायां तु चत्वारः सत्येवं स्थानगाः स्वराः ।
तत्र स्युर्मध्यषड्जायां मध्यषद्द्जादयस्त्रयः ॥१.५०
जाता अपि न गृह्यन्ते तदूर्ध्वं स्थानसिद्धये ।
मध्यमध्यमनादिन्यां तुरीयायामपि स्वराः ॥१.५१
चत्वार एव गृह्यन्ते मपधन्यभिधाः स्वराः ।
मध्यस्थानगता एवं स्वराः सप्त प्रदर्शिताः ॥१.५२
तस्यामेव तुरीयायां मध्यस्थाननिषादतः ।
अग्रे षड्जादयः सप्त तारस्थानगताः स्वराः ॥१.५३
संग्राह्या इति सप्तोक्तास्तारस्थानगताः स्वराः ।
तन्मन्द्रमध्यताराख्यस्थानानां त्रितये स्वराः ॥१.५४
प्रतिस्थानं सप्तसप्तेत्येकविंशतिरीरिताः ।
द्वाविंशमतिताराख्यं चतुर्थमपि षड्जकम् ॥१.५५
लक्ष्यज्ञाः परिगृह्णन्ति रक्तिलाभैकलोभतः ।
स्थानप्रसङ्गे बैकाररामो बभ्राम तद्यथा ॥१.५६
उपरिस्थचतुस्तन्त्रीष्वाद्यायां विनिवेशिते ।
अनुमन्द्राख्यषड्जेस्मिन्स्वराः सरिगमाभिधाः ॥१.५७
चत्वारः समुपादेयास्त्वनुमन्द्राख्यपञ्चमः ।
द्वितीयायां निवेश्योत्र पधनीति त्रयः स्वरः ॥१.५८
ग्राह्यास्ततोनुमन्द्राख्यस्थानगाः सप्त दर्शिताः ।
स्वरास्तन्त्र्यां तृतीयायां मन्द्रषड्जो निवेश्यते ॥१.५९
तस्यां सरिगनामानां संगृह्यन्त त्रयः स्वराः ।
तुरीयायां तन्त्रिकायां निवेश्यो मन्द्रमध्यमः ॥१.६०
तस्यां तु मपधन्याख्याः संगृह्यन्ते चतुः स्वराः ।
मन्द्रस्थानस्वराः सप्त तदेवं दर्शिता इति ॥१.६१
नैतत्संगच्छते मन्द्रमध्यताराभिधानि हि ।
त्रिस्थानानीति सकलसंगीतिकमतस्थितिः ॥१.६२
आद्यद्वितीययोस्तन्त्र्योः स्वराः सप्त त्वयेरिताः ।
अनुमन्द्राभिधे स्थाने तृतीयकतुरीययोः ॥१.६३
मन्द्रस्थानगताः सप्त स्वराश्च परिकल्पिताः ।
तत्पुरोवर्तिनः सप्त स्वरास्तावदमी पुनः ॥१.६४
मध्यस्थानगताः किं वा तारस्थानगता उत ।
न तावदाद्यस्ताराख्यस्थानभङ्गप्रसङ्गतः ॥१.६५
न द्वितीयोपि मध्याख्यस्थानाभावे कथं पुनः ।
तारस्थानं प्रजायेतानुपनीतविवाहवत् ॥१.६६
तस्मादस्माभिरुक्तैव रीतिः स्थानविभाजने ।
मन्द्रादिष्वनुमन्द्रादिव्यवहारस्तु लौकिकः ॥१.६७
गतानुगतिकन्यायाद्भ्रान्तिमात्रविजृम्भितः ।
लक्षितेयं शुद्धमेलवीणा लक्ष्यानुसारतः ॥१.६८
अथोच्यते मध्यमेलवीणाया लक्षणं मया ।
तन्त्र्याद्या चानुमन्द्राख्यपञ्चमेन युता यदि ॥१.६९
द्वितीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता ।
मन्द्रपञ्चमसंयुक्ता तृतीया यदि तन्त्रिका ॥१.७०
तुरीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता ।
तथा भवेन्मध्यमेलवीणा पार्श्वे त्रितन्त्रिका ॥१.७१
तिसृणां पार्श्वतन्त्रीणां वक्ष्येथ स्वरयोजनम् ।
आद्या टीप्यभिधा तारषड्जतुल्यध्वनिर्भवेत् ॥१.७२
द्वितीया तन्त्रिका ज्ञेया मध्यपञ्चमसंमिता ।
तृतीया मध्यषड्जेन संमिता झल्लिकाभिधा ॥१.७३
इत्येवं मध्यमेलाख्यवादित्रस्वरयोजनम् ।
अथास्याः पर्वसंदेशं वक्ष्ये लक्ष्यैकसंमतम् ॥१.७४
मेरोः पुरस्तात्पर्वाणि षडस्यामपि विन्यसेत् ।
तन्त्रीचतुष्टये चैवं प्रत्येकं षट्सु पर्वसु ॥१.७५
ये स्वराः संप्रसूयन्ते क्रमशास्तान्प्रचक्ष्महे ।
आद्यतन्त्र्यानुमन्द्राख्यपञ्चमाञ्चितया क्रमात् ॥१.७६
शुद्धश्च धैवतः शुद्धो निषादश्च ततः परम् ।
कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ॥१.७७
षड्जर्षभौ च जायन्ते षट्सु पर्वसु षट् क्रमात् ।
तन्त्र्या द्वितीयया मन्द्रषड्जगर्जितया पुनः ॥१.७८
शुद्धश्च रिषभः शुद्धगांधाराख्यः स्वरस्ततः ।
साधारणाख्यगांधारो गांधारोन्तरसंज्ञकः ॥१.७९
शुद्धमध्यमनामा च वरालीमध्यमस्ततः ।
क्रमादमी षट् स्वराः स्युः षट्सु तेष्वेव पर्वसु ॥१.८०
मन्द्रपञ्चमशोभिन्या तन्त्र्या चाथ तृतीयया ।
शुधश्च धैवतः शुद्धनिषादश्च ततः परम् ॥१.८१
कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ।
षड्जः शुद्धर्षभश्चेति स्वरा षट्सु च पर्वसु ॥१.८२
१.८३अब् तन्त्र्या तुरीयया मध्यषड्जगर्जितया पुनः
शुद्धश्च र्षभः शुद्धगांधाराख्यः स्वरस्ततः ॥१.८३
साधारणख्यगांधारो गांधारोन्तरसंज्ञकः ।
शुद्धमध्यमनामा च वरालीमध्यमस्ततः ॥१.८४
एते स्वराः प्रजायन्ते षट्सु तेष्वेव पर्वसु ।
वरालीमध्यमस्याग्रे त्रीणि पर्वाणि विन्यसेत् ॥१.८५
पर्वसु त्रिषु चैतेषु तन्त्र्या तावत्तुरीयया ।
क्रमेण संप्रसूयन्ते पधनीति त्रयः स्वराः ॥१.८६
तदूर्ध्वं सप्त पर्वाणि विनिवेश्यानि तेष्वथ ।
आद्यं तु दीर्घपर्वं स्यात्प्रवाले तारषड्जकम् ॥१.८७
रिगादिषट्स्वरोत्पत्त्यै ह्रस्वपर्वाणि षट् पुनः ।
पीठे संवेशनीयानि तदग्रे पर्व सप्तमम् ॥१.८८
॒ अतिताराख्यषड्जस्य स्थितये विनिवेशयेत् ।
शुद्धर्षभकरं ह्रस्वं पर्व पीठे यदा भवेत् ॥१.८९
॒ तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् ।
मेरोः परस्ताद्यत्पर्व सप्तमं पञ्चमाभिधम् ॥१.९०
अनेन सह जातानि पर्वाण्येकादश क्रमात् ।
एतेषु तारषड्जातितारषड्जाख्यपर्वणी ॥१.९१
द्वे पर्वणी पञ्चमयोश्चत्वारि स्युर्ध्रुवाणि हि ।
अन्यानि सप्त पर्वाणि तत्तद्रागानुसारतः ॥१.९२
उत्पाद्योत्पाद्य वेश्यनि सकलस्वरसिद्धये ।
अस्यां दीर्घाणि पर्वाणि दश ह्रस्वानि सप्त च ॥१.९३
एषैकरागमेलाख्यवीणैवं सति जायते ।
प्रवाले दीर्घपर्वाणि वेश्यानि द्वादश क्रमात् ॥१.९४
एकादश ह्रस्वपर्वाण्यथ पीठे निवेशयेत् ।
सर्वस्थानेषु सकलस्वराणां सिद्धये यदि ॥१.९५
तत्सर्वरागमेलाख्यवीणैवं सति जायते ।
न कैशिकीनिषदोस्यामस्ति पीठस्थपर्वसु ॥१.९६
वादयन्ति हि तत्स्थाने काकलीमेव वैणिकाः ।
पीठेपि केचित्कैशिक्याः पर्व ह्रस्वं प्रकुर्वते ॥१.९७
पीठे द्वादश पर्वाणि तेन जातानि तन्मते ।
लक्षितैवं मध्यमेलवीणा भेदद्वयान्विता ॥१.९८
एतस्यामपि वीणायां स्वराणामेकविंशतेः ।
शुद्धायामिव मन्द्रादिस्थाननीतिविनिश्चयः ॥१.९९
प्रथमादिषु तन्त्रीषु तद्वदित्येव निश्चयः ।
तन्त्रीराद्यानुमन्द्राख्यपञ्चमेन समन्विता ॥१.१००
मध्यमेलाख्यवीणायां तिस्रः स्थानविभाजने ।
वरास्तद्रक्तिलाभाय तां निबध्नन्ति वैणिकाः ॥१.१०१
मन्द्रषड्जादिकास्वेव तन्त्रिकासु तिसृष्वतः ।
स्वरान्स्थानविभागेन दर्शयाम्येकविंशतिम् ॥१.१०२
तत्र तन्त्र्यां द्वितीयायां मन्द्रषड्जो निवेश्यते ।
तस्यां ग्राह्याः सरिगमाश्चत्वारो न पधादयः ॥१.१०३
मन्द्रपञ्चमनामा यस्तृतीयायां निवेशितः ।
तस्यां पधनिनामानो ग्राह्या न सरिगादयः ॥१.१०४
मन्द्रस्थानस्वराः सप्त तदेवं संप्रदर्शिताः ।
मध्यषड्जसमेतायां तुर्यतन्त्र्यामथ स्वराः ॥१.१०५
सप्त ग्राह्याः सरिगमपधनीति क्रमादमी ।
मध्यस्थानगता एते सप्त संदर्शिताः स्वराः ॥१.१०६
प्रवालस्थान्तिमस्थूलपर्वप्रभृतिषु स्वराः ।
ग्राह्याः षड्जादयः सप्त पीठस्तह्रस्वपर्वसु ॥१.१०७
तारस्थानगता एवं स्वराः सप्त निदर्शिताः ।
एकविंशतिरित्युक्ताः स्वराः स्थानत्रये स्फुटम् ॥१.१०८
एतेषु मन्द्रषड्जस्य ये स्वराः स्युरधस्तनाः ।
तेनुमन्द्राभिधस्थानस्वरा इति विनिर्णयः १०९ ॥१.१०९
येतितारस्थषड्जस्य स्वरस्याग्रे व्यवस्थिताः ।
तेतितारस्वरा ज्ञेया इति सर्वं समज्जसम् ॥१.११०
अत्रापि स्थानगणने रामो बभ्राम तद्यथा ।
तन्त्रीराद्यानुमन्द्राख्यपञ्चमेन युता यदि ॥१.१११
द्वितीया मन्द्रषड्जेन तन्त्रिका संयुता यदि ।
मन्द्रपञ्चमसंयुक्ता तृतीया तन्त्रिका यदि ॥१.११२
तुरीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता ।
तदा भवेन्मध्यमेलवीणेत्येतदसंगतम् ॥१.११३
दिवीयायां तन्त्रिकायां मन्द्रषड्जो निवेशितः ।
पुनः कथं तुरीयायां मन्द्रषड्जो निवेश्यते ॥१.११४
उच्चोच्चतरनादिन्यश्चतस्रः खलु तन्त्रिकाः ।
द्वितीयतुर्ययोस्तासु द्वयोस्तन्त्रिकयोरपि ॥१.११५
मन्द्रषड्जाभिधस्यैकस्वरस्य विनिवेशनम् ।
अयुक्तमिति नैतत्किं पशुपालोपि बुध्यते ॥१.११६
तस्मादस्माभिरुक्तेन वर्त्मनैव विचक्षणैः ।
ज्ञातव्यं मध्यमेलायां तन्त्रीषु स्वरयोजनम् ॥१.११७
स्थानत्रयस्वराश्चोक्तवर्त्मना त्वेकविंशतिः ।
एकविंशतिसंख्याकस्वरेष्वेतेषु वादकैः ॥१.११८
गायकैश्च चतुर्दण्ड्यां ग्राह्याः सप्तदशैव तु ।
तदा हि वादकाः सप्त मध्यस्थानगतान्स्वरान् ॥१.११९
तारस्थानगतान्सप्त षड्जमप्यतितारगम् ।
धनी च मन्द्रस्थानस्थावेवं सप्तदश स्वरान् ॥१.१२०
समादाय चतुर्दण्डीवादनं कुर्वतेखिलाः ।
अयं च सारणीमार्गो वैणिकैः परिकल्पितः ॥१.१२१
मध्यस्थानस्थयोर्धन्योर्मध्ये त्वन्यतरः स्वरः ।
गृह्यते सारणीमार्गे चतुर्दण्डीप्रसिद्धये ॥१.१२२
प्रायशस्तेन संजाताः षोडशैव स्वराः खलु तथापि ।
मन्द्रस्थानस्थधन्याख्यस्वरयोर्द्वयोः ॥१.१२३
क्वचित्क्वचिदुपादानात्स्वराः सप्तदशेरिताः ।
गायकास्तु स्वरान्सप्त मन्द्रस्थानसमुद्भवान् ॥१.१२४
मध्यस्थानस्वरान्सप्त तारषड्जं तथा परम् ।
धनी चैवानुमन्द्रस्थावेवं सप्तदश स्वरान् ॥१.१२५
समादाय चतुर्दण्डीगानं सर्वेपि कुर्वते ।
अत्रापि चानुमन्द्रस्थधन्याख्यस्वरयोर्द्वयोः ॥१.१२६
सारणीमार्गसंबन्धी स्वरोन्यतर ईरितः ।
क्वाचित्कतामभिप्रेत्य स्वराः सप्तदशेरिताः ॥१.१२७
एतेषामग्रतो ये स्युः स्वरा ये चाप्यधस्तनाः ।
क्वचित्गीतप्रबन्धादौ दृश्यन्ते ते स्वराः खलु ॥१.१२८
तत्पुनः संप्रदायज्ञैस्तानप्पाद्यैरनादृतम् ।
यद्येवं मध्यताराख्यस्थानगैरेव तु स्वरैः ॥१.१२९
निर्वाहः स्याच्चतुर्दण्ड्यां मन्द्रस्थानं वृथा भवेत् ।
इत्याशङ्कयैव मन्द्राख्यस्थानसाफल्यसिद्धये ॥१.१३०
पक्कसारणिमार्गोयं वैणिकैः परिगृह्यते ।
पक्कसारणिमार्गस्तु लक्ष्यतामिति चेच्छृणु ॥१.१३१
शुद्धमेलाख्यवीणायां पक्कसारणिवर्त्मनि ।
ये गृह्यन्ते विकल्पेन तान्स्वरनभिदध्महे ॥१.१३२
मन्द्रस्थानजुषां सप्तस्वराणां गणनाविधौ ।
आद्यतन्त्र्या ग्रहीतव्याः स्वराः सरिगमाभिधाध् ॥१.१३३
चत्वार एव षड्जाद्याः पञ्चमादिर्न गृह्यते ।
पक्कसारणिमार्गे तु तया तन्त्र्याद्यया पुनः ॥१.१३४
विकल्पेन ग्रहीतव्यः पञ्चमः शुद्धधैवतः ।
अथ द्वितीयया मन्द्रपञ्चमस्वरयुक्तया ॥१.१३५
ग्राह्याः पधनिनामानः स्वरा च सरिगादयः ।
पक्कसारणिमार्गे तु तया तन्त्र्या द्वितीयया ॥१.१३६
उपादेया विकल्पेन मध्यस्थानसमुद्भवाः ।
षड्जः शुद्धर्षभश्चैव शुद्धगांधार इत्यपि ॥१.१३७
तन्त्र्या तृतीयया चाथ मध्यषड्जेन युक्तया ।
मध्यस्थानस्वराणां तु गणने सरिगाभिधाः ॥१.१३८
त्रय एव स्वरा ग्राह्या न पुनर्मध्यमादयः ।
पक्कसारणिमार्गे तु तया तन्त्र्या तृतीयया ॥१.१३९
शुद्धमध्यमसंज्ञश्च वरालीमध्यमस्तथा ।
पञ्चमश्चेति संग्राह्या विकल्पेन त्रयः स्वराः ॥१.१४०
मध्यस्थानसमुद्भूता इत्यस्माभिर्विनिश्चितम् ।
शुद्धमेलाख्यवीणायां पक्कसारणिवर्त्मनि ॥१.१४१
निर्वाहकाश्चतुर्दण्ड्याः स्वराः पञ्चदशैव तु ।
अनुमन्द्रस्तयोर्धन्योः स्थाने स्यान्मध्यषड्जकः ॥१.१४२
इत्येवं शुद्धमेलायां पक्कसारणिवादने ।
ये गृह्यन्ते विकल्पेन स्वरास्ते संप्रदर्शिताः ॥१.१४३
अथातो मध्यमेलाख्यवीणायामभिदध्महे ।
वादने पक्कसारण्या ये स्वरास्तान्विकल्पितान् ॥१.१४४
मन्द्रस्थानजुषां सप्तस्वराणां गणनाविधौ ।
आद्यतन्त्रिकया ग्राह्याः स्वराः सरिगमाभिधाः ॥१.१४५
चत्वार एव न पुनः पञ्चमाद्यास्तदुद्भवाः ।
पक्कसारणिमार्गे तु ते गृह्यन्ते विकल्पिताः ॥१.१४६
मन्द्रपञ्चमशोभिन्या तन्त्र्या चाथ द्वितीयया ।
पधनीति स्वरा ग्राह्यास्त्रयो न सरिगादयः ॥१.१४७
पक्कसारणिमार्गे तु ते गृह्यन्ते विकल्पिताः ।
ततश्च मध्यमेलायां पक्कसारणिवर्त्मनि ॥१.१४८
ग्राह्या मन्द्रस्वराः सप्त सप्त मध्यस्वरास्तथा ।
तरषड्जोनुमन्द्रस्थौ धनी सप्तदश स्वराः ॥१.१४९
गृह्यन्ते पक्कसारण्यां गाने दण्ड्यामिव स्फुटम् ।
कर्णाटान्ध्रतुरुष्कादिपदगानेषु संग्रहम् ॥१.१५०
तारस्थानरिगादीनां कुर्वते खलु गायकाः ।
गाने च वादने चैव स्वराणामेकविंशतेः ॥१.१५१
विनियोगप्रकारस्तु विविच्य परिदर्शितः ।
लक्षितैवं मध्यमेलवीणा लक्ष्यानुसारतः ॥१.१५२
ततोनु रघुनाथेन्द्रमेलवीणा निरूप्यते ।
तल्लक्षणं तु संगीतसुधानिधिरिति श्रुते ॥१.१५३
चेव्वयाच्युतभूपालरघुनाथनृपाङ्किते ।
अस्मत्तातकृते ग्रन्थे प्रोक्तं श्लोकाल्द्{ं लिखामि तान् ॥१.१५४
" पूर्वोक्तवीणाद्वय एव मध्यमेलाख्यवीणा खलु या च तस्याम्
तन्त्रीसमेतश्रुतिपञ्चमां च तथैव मन्द्रस्थितपञ्चमां च
तदाद्यतन्त्रीमपि पञ्चमेनानुमन्द्रपूर्वेण विराजमानाम्
विधाय तिस्रोपि समाननादास्तन्त्रीः सहाधस्तनमध्यमेन
आद्यं स्वरं पञ्चममेव कृत्वा वाद्येत वीणा यदि वैणिकेन
एषाच्युतश्रीरघुनाथभूपमेलाख्यवीणा कथिता तृतीया "
आद्यं स्वरं पञ्चममित्यस्यार्थः कथ्यते मया ।
मध्यमेलाख्यवीणास्थं मध्यषड्जाभिधं स्वरम् ॥१.१५५
आद्यं केवलसारिण्या जातं कृत्वाथ पञ्चमम् ।
वादयेत तथा मध्यमेलवीणास्थमध्यमः ॥१.१५६
रघुनाथेन्द्रवीणायां षड्जः संपद्यते ततः ।
तथापि वादनं कुर्युर्वीणायां वैणिका इति ॥१.१५७
यत्सर्वरागमेलैकरागमेलेति चेरितम् ।
द्वैविध्यं मध्यमेलायामस्यामपि तदूह्यताम् ॥१.१५८
तदेवं रघुनाथेन्द्रमेलवीणा निरूपिता ।
एवं त्रिविधवीणानां स्वरूपं च निरूपितम् ॥१.१५९
अथास्मत्कल्पितं वीणाद्वयं संदर्शयामहे ।
निरूपितायां वीणायामुपरि द्वे प्रसारयेत् ॥१.१६०
तन्त्रिके पित्तलमयी त्वाद्या लोहमयी परा ।
आद्यायां तन्त्रिकायां तु मन्द्रषड्जं प्रयोजयेत् ॥१.१६१
तस्यां सरिगनामानः संगृह्यन्ते त्रयः स्वराः ।
तन्त्रिकायां द्वितीयस्यां योजयेन्मन्द्रमध्यमम् ॥१.१६२
तन्त्रीरियं द्वितीयैव शिष्टैस्त्रिस्थानपर्वभिः ।
योजनीया भवेन्मन्द्रवरालीमध्यमादिभिः ॥१.१६३
एषा द्वितन्त्रिका वीणा वेङ्कटाध्वरिकल्पिता ।
एकतन्त्र्याख्यवीणायां यादृशं पूर्वमीरितम् ॥१.१६४
परिमाणं प्रवालस्य तादृशं चात्र कीर्तितम् ।
पूर्ववच्छ्रुतितन्त्रीषु स्वरसंयोजनादिकम् ॥१.१६५
अस्यमेव द्वितन्त्र्याख्यवीणायामुपरिस्थयोः ।
तन्त्र्योः प्रथमतन्त्र्यां हि मन्द्रषड्जो निवेशितः ॥१.१६६
तस्यां सरिगमाभिख्याञ्शृणुयाम चतुःस्वरान् ।
तन्त्रिकायां द्वितीयस्यां योजयेन्मन्द्रपञ्चमम् ॥१.१६७
द्रष्टव्यमवशिष्टं तु पूर्ववत्सर्वमत्र च ।
द्वितन्त्रिका च वीणैवं वेङ्कटाध्वरिकल्पिता ॥१.१६८
तदेवमेकतन्त्र्येका द्वितन्त्र्यौ द्वे ततः परम् ।
शुद्धमेलाह्वयैकाथ मध्यमेलाभिधा परा ॥१.१६९
तृतीया रघुनाथेन्द्रमेलाख्या परिकीर्तिता ।
आहत्य षड्विधा वीणा जाता सामन्यतः पुनः ॥१.१७०
तत्सर्वरागमेलैकरागमेलत्वभेदतः ।
प्रत्येकं द्विविधा तस्माद्वीणा द्वादश कीर्तिताः ॥१.१७१
एकतन्त्रीद्वितन्त्र्यादिव्यवहारस्त्वसौ पुनः ।
ऊर्ध्वतन्त्रीरपेक्ष्यैव न तिस्रः श्रुतितन्त्रिकाः ॥१.१७२
द्वादशेति कथं भेदाः स्फुटं निर्धार्यते त्वया ।
शुद्धमेलामध्यमेलारघुनाथेन्द्रमेलकाः ॥१.१७३
इति वीणात्रयेप्यस्मिन्मन्द्रपञ्चमसंगताः ।
तन्त्रिकाः सन्ति यास्तिस्रस्तासु मध्यस्थमध्यमाम् ॥१.१७४
निवेश्य वीणात्रितयं शक्यं कल्पयितुं पुनः ।
तिसृणामपि वीणानं भवेद्भेदत्रयं पुनः ॥१.१७५
सर्वरागैकरागत्वभेदस्यैवाथ योजने ।
षड् वीणाः साकमेताभिर्भवन्त्यष्द् तादशेति चेत् ॥१.१७६
सत्यमेवं भवन्त्येताः षड् वीणाः स्युर्न रक्तिदाः ।
ततो वीणा द्वादशैवेत्यस्माकं जयदुन्दुभिः ॥१.१७७
द्वादशस्वपि वीणासु भिद्यन्ते याः खलूपरि ।
तन्त्रिकास्तासु सर्वासु चतुःश्रुतिकतां गताः ॥१.१७८
निवेश्यन्ते स्वराः षड्जशुद्धमध्यमपञ्चमाः ।
नापरे संभवन्त्यर्हा विनिवेशयितुं स्वराः ॥१.१७९
तथात्वे नैव लभ्येत स्थानत्रितयसंभवः १.१७९ef
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षितनागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि
-यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युतविजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायामाद्यं
वीणाप्रकरणं संपूर्णम्