प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← वीणाप्रकरणम् चतुर्दण्डीप्रकाशिका
श्रुतिप्रकरणम्
वेङ्कटमखी
स्वरप्रकरणम् →
आद्यप्रकरणे वीणां सप्रपञ्चं निरूपिता ।
तत्तन्त्रीषु निरूप्यन्ते श्रुतयोथ विभागशः ॥२.१
श्रुतिर्नाम भवेन्नादविशेषः स्वरकारणम् ।
ननु नास्ति स्वरश्रुत्योर्भेदो नादैकरूपयोः ॥२.२
विद्यते परिणामत्वपरिणामित्वसंभवः ।
अस्ति भेदस्तयोर्यद्वत्स्वर्णटङ्ककिरीटयोः ॥२.३
द्वाविंशतिरिति प्रोक्ताः श्रुतयो भरतादिभिः ।
ताश्च वीणाप्रसिद्देषु सुस्पष्टं विभजामहे ॥२.४
स्वरेषु शुद्धविकृतभेदाभ्यां द्वादशात्मसु ।
तथा हि शुद्धरिषभे श्रुतयस्तिस्र ईरिताः ॥२.५
ततोपि शुद्धगांधारे श्रुती द्वे समुदाहृते ।
चतस्रः श्रुतयः शुद्धमध्यमे समुदाहृताः ॥२.६
स्यात्साधारणगांधारस्तस्याद्यां श्रुतिमाश्रितः ।
तस्यैव समुपादाय द्वितीयकतृतीयके ॥२.७
श्रुतौ द्विश्रुतिकः प्रोक्तो गांधारोन्तरनामकः ।
दत्वा साधारणाख्याय गांधारायादिमां श्रुतिम् ॥२.८
द्वितीयां च तृतीयां चान्तरगांधरसंज्ञिने ।
तत्रैकश्रुतिको जातो मध्यमोयं चतुःश्रुतिः ॥२.९
चतस्रः श्रुतयः प्रोक्ताः पञ्चमे गीतवेदिभिः ।
आदायाद्यां द्वितीयां च तृतीयामपि तच्छ्रुतिम् ॥२.१०
वरालीमध्यमः प्रोक्तः श्रुतित्रयसमन्वितः ।
वरलीमध्यमाय त्रिश्रुतिर्दत्वा तु पञ्चमः ॥२.११
श्रुत्यैकया युतो जातो भवन्नपि चतुःश्रुतिः ।
तिस्रः संगीतिकैः प्रोक्ताः श्रुतयः शुद्धधैवते ॥२.१२
स्वरे शुद्धनिषादाख्ये द्वे श्रुती समुदाहृते ।
चतस्रः श्रुतयः षड्जे तस्यादायादिमां श्रुतिम् ॥२.१३
कैशिक्याख्यनिषादोयमेकश्रुतिरुदाहृतः ।
द्वितीयकतृतीयाभ्यं तच्छ्रुतिभ्यां समन्वितः ॥२.१४
काकल्याख्यनिषादोयं द्विश्रुतिः कथ्यते बुधैः ।
तत्कैशिकनिषादाय श्रुतिमेकां श्रुतिद्वयीम् ॥२.१५
काकल्यै च प्रदायास्ते षड्ज एकश्रुतिः स्वयम् ।
द्वाविंशतिर्विभज्यैवं श्रुतयो दर्शिता मया ॥२.१६
ता एताः श्रुतिवीणायां प्रकाशन्ते पृथक्तया ।
श्रुतिवीणाप्रकारस्तु वर्ण्यतामिति चेत्तथा ॥२.१७
मध्यमेलाख्यवीणायां तत्स्वरूपं निरूप्यते ।
विहाय शुधमेलाख्यां वीणां किमिति कथ्यते ॥२.१८
मध्यमेलाख्यवीणायां श्रुतिवीणेति तच्छृणु ।
शुद्धमेलाख्यवीणायां श्रुतिवीणानिरूपणम् ॥२.१९
मन्द्रस्थानेथ वा मध्ये तारस्थानेथ वा भवेत् ।
न तावन्मन्द्रके स्थाने श्रुतिवीणानिरूपणम् ॥२.२०
युज्यते तत्र सकलस्वराणामप्यसंभवात् ।
न ह्येकतन्त्र्युपारूढा दृश्यन्ते द्वादश स्वराः ॥२.२१
शुद्धमेलाख्यवीणायां मन्द्रस्थानेत एव हि ।
मध्यस्थानेपि युक्तं न श्रुतिवीणानिरूपणम् ॥२.२२
तारस्थाने त्वेकतन्त्र्यारूढाः स्युर्द्वादश स्वराः ।
तथापि पर्वणां तत्र क्षेत्रसंकोचतः पुनः ॥२.२३
नावकाशोस्ति तन्मध्ये श्रुतियोजकपर्वणाम् २.२४च्द्॒ ।
तदेवं शुद्धमेलायां श्रुतिवीणातिदुर्घटा ॥२.२४
तथैव रघुनथेन्द्रवीणायामपि दुर्घटा ।
परं तु मध्यमेलाख्यवीणायां सुगमा भवेत् ॥२.२५
श्रुतिवीणा ततोस्माभिस्तस्यामेव प्रदर्श्यते ।
मध्यमेलाख्यवीणायां मध्यस्थानस्थपर्वसु ॥२.२६
द्वादशस्वपि चैतेषु श्रुतिव्यञ्जकपर्वणाम् ।
विनिवेशक्रमं ब्रूमः श्रुतिभेदैकबोधकम् ॥२.२७
मेरूपकण्ठगं शुद्धर्षभक्षेत्रान्तरं त्रिधा ।
विभज्यर्षभपर्वादौ दृश्यमानं विनान्तरे ॥२.२८
पर्वद्वयनिवेशे स्युस्तिस्रोपि श्रुतयः स्फुटाः ।
शुद्धर्षभे तथा शुद्धगांधारक्षेत्रकं द्विधा ॥२.२९
विभज्याथ यथावस्थं पर्वं गांधारभासकम् ।
व्यपेक्ष्य मध्ये पर्वैकं यदा परिनिवेश्यत ॥२.३०
गांधारस्य तदानीं स्याच्छ्रुतिद्वयमतिस्फुटम् ।
मध्यमस्य स्वरस्योक्ताश्चतस्रः श्रुतयः स्फुटाः ॥२.३१
तत्र सादारणे स्पष्टा गांधारे श्रुतिरेकिका ।
अन्तराख्यानगांधारक्षेत्रं द्वेधा विभज्य तु ॥२.३२
एकस्य पर्वणो मध्ये तयोर्यदि निवेशनम् ।
जायतेन्तरगांधारे श्रुतिद्वयमतिस्फुटम् ॥२.३३
मध्यमे श्रुतिरेकेति स्पष्टं श्रुतिचतुष्टयम् ।
चतुःश्रुतिः पञ्चमोस्य श्रुतित्रयमुपाश्रितः ॥२.३४
वरालीमध्यमः पूर्वमाख्यातं खलु तद्यथा ।
वरालीमध्यमं त्रेधा विभज्याथ यथास्थितम् ॥२.३५
वरालीमध्यमं पर्व व्यपेक्ष्य तु तदन्तरे ।
पर्वद्वयनिवेशे स्याच्छ्रुतिद्वयमतिस्फुटम् ॥२.३६
श्रुतिरेका स्फुटा स्वस्मिन्मिलित्वा तेन पञ्चमे ।
चतस्रः श्रुतयः स्पष्टा धैवतस्त्रिश्रुतिर्यथा ॥२.३७
विभाज्य त्रिविधं शुद्धधैवतक्षेत्रमप्यथ ।
दृग्गोचरीभवच्छुद्धधैवतद्योति पर्व तत् ॥२.३८
द्वित्वा पर्वद्वयन्यासे श्रुतिर्त्रयमतिस्फुटम् ।
क्षेत्रं शुद्धनिषादस्य विभज्य द्विविधं तथा ॥२.३९
दृष्टं शुद्धनिषादस्य पर्व हित्वा तदन्तरे ।
यद्येवं पर्व तर्हि स्याच्छ्रुतिद्वयमतिस्फुटम् ॥२.४०
चतस्रः श्रुतयः षड्जे प्रागुक्ताः खलु तद्यथा ।
कैशिक्याख्यनिषादे हि तस्यैका दृश्यते श्रुतिः ॥२.४१
काकल्याख्यनिषादं तु द्वेधाकृत्य तदन्तरे ।
जायते पर्वविन्यासे स्पष्टं तस्य श्रुतिद्वयम् ॥२.४२
स्वस्यैका श्रुतिराहत्य षड्जे श्रुतिचतुष्टयम् ।
इत्येवं मध्यमेलायां श्रुतिवीणाप्रकारतः ॥२.४३
द्वाविंशतिश्रुतीनां च विभागक्रम ईरितः ।
नन्वाद्यं षड्जमुत्सृज्य रिषभादितया त्वया ॥२.४४
किमर्तं श्रुतिवीणार्थं पर्वन्यासः प्रदर्शितः ।
उच्यते नास्ति षड्जस्य पर्व यस्मादयं पुनः ॥२.४५
जातः केवलसारण्या पर्वस्पर्शनमन्तरा ।
न शक्याः श्रुतयो बोद्धुं स्वरे पर्वविनाकृते ॥२.४६
ज्ञेयास्ताः खलु पर्वान्तः श्रुतिपर्वनिवेशनात् ।
तस्मादाद्यमपि त्यक्त्वा षड्जं पर्वविवर्जितम् ॥२.४७
रिषभादितया प्रोक्तं श्रुतिपर्वनिवेशनम् ।
यदि षड्जादिमत्वेन श्रुतिवीणाप्रदर्शनम् ॥२.४८
अपेक्षितं स्यात्कस्यापि तदुपायः प्रकाश्यते ।
मध्यमेलाख्यवीणायां श्रुतिवीणाप्रकाशनम् ॥२.४९
कर्तुं षड्जादिमत्वेन ब्रह्मणापि न शक्यते ।
न ह्येकतन्त्र्युपारूढाः स्वरा द्वादश मन्द्रके ॥२.५०
स्थाने स्युर्मध्यमेलायां तारस्थाने तु यद्यपि ।
सन्त्येकतन्त्र्युपारूढाः स्वराः सर्वेपि किं पुनः ॥२.५१
तत्रत्यपर्वणां तावत्क्षेत्रसंकोचतः पुनः ।
नावकाशोस्ति तन्मध्ये श्रुतिज्ञापकपर्वणाम् ॥२.५२
रिषभादितया तस्माद्दीर्घेषु द्वादशस्वपि ।
पर्वसु श्रुतिवीणेयं वेङ्कटाध्वरिणेरिता ॥२.५३
ततः षड्जादिमत्वेन श्रुतिवीणाप्रकाशनम् ।
शुद्धमेलाख्यवीणायां तारस्थाने कथंचन ॥२.५४
तारषड्जादिमत्वेन तदाद्यश्रुतिशालिनम् ।
आरभ्य कैशिकीसंज्ञनिषादं द्वादशस्वपि ॥२.५५
स्वरेषु पूर्वमित्येव श्रुतिपर्वाणि विन्यसेत् ।
अत्रापि क्षेत्रसंकोचान्मह्यमेतन्न रोचते ॥२.५६
भासते श्रुतिरित्यादि स्वरालीत्रिपुटादिषु ।
अहमेव श्रुतिर्वेदेत्याह गोपालनायकः ॥२.५७
अद्यप्रभृति ताः सर्वे श्रुतीर्जानन्तु पण्दिताः ।
इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षितनागमाम्बिकावरद्वितीयनन्दनस्य
साग्निचित्यसर्वक्रतुयाजियज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युतविजयराघवभूपालप्रेरितस्य
वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायां द्वितीयं श्रुतिप्रकरणं संपूर्णम्