चन्द्रालोकः
प्रथमो मयूखः
जयदेवः
द्वितीयो मयूखः →

उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्कैरव-ध्वंसं हस्तयते च या सुमनसां उल्लासिनी मानसे ।
धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ।। १.१ ।।


हं हो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान्रे रे स्वैरिणि निर्विचारकविते मास्मत्प्रकाशीभव ।
उल्लासाय विचारवीचिनिचयालङ्कारवारां निधेश्चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती ।। १.२ ।।


युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वत-क्षीराम्भोधिरगाधतां उपदधत्सेव्यः समाश्रीयताम् ।
श्रीरस्मादुपदेशकौशलमयं पीयूषं अस्माज्जगज्जाग्रद्भासुरपद्मकेशरयशःशीतांशुरस्माद्बुधाः ।। १.३ ।।

तं पूर्वाचार्यसूर्योक्ति-ज्योतिः स्तोमोद्गमं स्तुमः ।
यं प्रस्तूय प्रकाशन्ते मद्गुणास्त्रसरेणवः ।। १.४ ।।


नाशङ्कनीयं एतेषां मतं एतेन दूष्यते ।
किं तु चक्षुर्मृगाक्षीणां कज्जलेनेव भूष्यते ।। १.५ ।।

प्रतिभैव श्रुताभ्यास-सहिता कवितां प्रति ।
हेतुर्मृदम्बुसम्बद्धा बीजमाला लतामिव ।। १.६ ।।

निर्दोषा लक्षणवती सरीतिर्गुणभूषणा ।
सालंकाररसानेक-वृत्तिर्वाक्काव्यनामभाक् ।। १.७ ।।

अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृती ।
असौ न मन्यते कस्मादनुष्णं अनलं कृती ।। १.८ ।।

विभक्त्युत्पत्तये योग्यः शास्त्रीयः शब्द इष्यते ।
रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस्त्रिधा ।। १.९ ।।

अव्यक्तयोगनिर्योग-योगाभासैस्त्रिधादिमः ।
ते च वृक्षादिभूवादि-मण्डपाद्या यथाक्रमम् ।। १.१० ।।

शुद्धतन्मूलसंभिन्न-प्रभेदैर्यौगिकस्त्रिधा ।
ते च भ्रान्तिस्फुरत्कान्ति-कौन्तेयादिस्वरूपिणः ।। १.११ ।।

तन्मिश्रोऽन्योन्यसामान्य-विशेषपरिवर्तनात् ।
नीरधिः पङ्कजं सौधः सागरो भूरुहः शशी ।। १.१२ ।।

क्षीरनीरधिराकाश-पङ्कजं तेन सिद्धयति ।
विभक्त्यन्तं पदं वाक्यं तद्व्यूहोऽर्थसमाप्तितः ।। १.१३ ।।

युक्तार्थतां तां च विना खण्डवाक्यं स इष्यते ।
वाक्यं च खण्डवाक्यं च पदं एकं अपि क्वचित् ।। १.१४ ।।

धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा ।
वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् ।। १.१५ ।।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
अनेनासावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। १.१६ ।।