प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रथमो मयूखः चन्द्रालोकः
द्वितीयो मयूखः
जयदेवः
तृतीयो मयूखः →


स्याच्चेतो विशता येन सक्षता रमणीयता ।
शब्देऽर्थे च कृतोन्मेषं दोषं उद्घोषयन्ति तम् ।। २.१ ।।

भवेच्छ्रुतिकटुर्वर्णः श्रवणोद्वेजने पटुः ।
संविद्रते व्याकरण-विरुद्धं च्युतसंस्कृति ।। २.२ ।।

अप्रयुक्तं दैवतादि-शब्दे पुंल्लिङ्गतादिकम् ।
असमर्थं तु हन्त्यादेः प्रयोगो गमनादिषु ।। २.३ ।।

स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः ।
निहतार्थं लोहितादौ शोणितादिप्रयोगतः ।। २.४ ।।

व्यनक्त्यनुचितार्थं यत्पदं आहुस्तदेव तत् ।
इयं अद्भुतशाख्यग्र-केलिकौतुकवानरी ।। २.५ ।।

निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ।
अर्थे विदधदित्यादौ दधदाद्यं अवाचकम् ।। २.६ ।।

धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः ।
एकाक्षरं विना भूभ्रू-क्ष्मादिकं खतलादिवत् ।। २.७ ।।

अश्लीलं त्रिविधं व्रीडा-जुगुप्सामङ्गलात्मना ।
आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम् ।। २.८ ।।

स्याद्द्व्यर्थं इह सन्दिग्धं नद्यां यान्ति पतत्रिणः ।
स्यादप्रतीतं शास्त्रैक-गम्यं वीतानुमादिवत् ।। २.९ ।।

शिथिलं शयने लिल्ये मच्चितं ते शशिश्रियि ।
मस्तपिष्टकटीलोष्ट-गल्लादि ग्राम्यं उच्यते ।। २.१० ।।

नेयार्थं लक्षणात्यन्त-प्रसरादमनोहरम् ।
हिमांशोर्हारधिक्कार-जागरे यामिकाः कराः ।। २.११ ।।

क्लिष्टं अर्थो यदीयोऽर्थ-श्रेणिनिःश्रेणिं ऋच्छति ।
हरिप्रियापितृवधू-प्रवाहप्रतिमं वचः ।। २.१२ ।।
अविमृष्टविधेयांशः समासपिहिते विधौ ।
विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ।। २.१३ ।।

अपराधीन इत्यादि विरुद्धमतिकृन्मतम् ।
अन्यसङ्गतं उत्तुङ्ग-हारशोभिपयोधरौ ।। २.१४ ।।

रसाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः ।
न मां अङ्गद जानासि रावणं रणदारुणम् ।। २.१५ ।।

यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा ।
कुसन्धिः पटवागच्छ विसन्धिर्नृपती इमौ ।। २.१६ ।।

हतवृत्तं अनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् ।
विशाललोचने! पश्याम्बरं तारातरङ्गितम् ।। २.१७ ।।

न्यूनं त्वत्खड्गसंभूत-यशःपुष्पं नभस्तटम् ।
अधिकं भवतः शत्रून्दशत्यसिलताफणी ।। २.१८ ।।

कथितं पुनरुक्ता वाक्श्यामाब्जश्यामलोचना ।
विकृतं दूरविवृतैरैयरुः कुञ्जराः पुरम् ।। २.१९ ।।

पतत्प्रकर्षं हीनानु-प्रासादित्वे यथोत्तरम् ।
गम्भीरारम्भदम्भोलि-पाणिरेषः समागतः ।। २.२० ।।

समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् ।
नेत्रानन्दी तुषारांशुरुदेत्यम्बुधिबान्धवः ।। २.२१ ।।

अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् ।
मोघारम्भं स्तुमः शम्भुं अर्धरम्भोरुविग्रहम् ।। २.२२ ।।

अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः ।
येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ।। २.२३ ।।

द्विषां सम्पदं आच्छिद्य यः शत्रून्समपूरयत् ।
अस्थानस्थसमासं न विद्वज्जनमनोरमम् ।। २.२४ ।।

मिथः पृथग्वाक्यपदैः संकीर्णं यत्तदेव तत् ।
वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते ।। २.२५ ।।
ब्रह्माण्डं त्वद्यशःपूर-गर्भितं भूमिभूषण ।
आकर्णय पयःपूर्ण-सुवर्णकलशायते ।। २.२६ ।।

भग्नप्रक्रमं आरब्ध-शब्दनिर्वाहहीनता ।
अक्रमः कृष्ण पूज्यन्ते त्वां अनभ्यर्च्य देवताः ।। २.२७ ।।

अमतार्थान्तरं मुख्येऽमुख्येनार्थे विरोधकृत् ।
त्यक्तहारं उरःकृत्वा शोकेनालिङ्गिताङ्गना ।। २.२८ ।।

अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् ।
विशन्ति हृदयं कान्ता-कटाक्षाः खञ्जनत्विषः ।। २.२९ ।।

कष्टः स्पष्टावबोधार्थं अक्षमो वाच्यसन्निभः ।
व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः ।। २.३० ।।

सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते ।
कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः ।। २.३१ ।।

दुष्क्रमग्राम्यसन्दिग्धास्त्रयो दोषाः क्रमादमी ।
त्वद्भक्तः कृष्ण! गच्छेयं नरकं स्वर्गं एव वा ।। २.३२ ।।

एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् ।
ब्रूत किं सेव्यतां चन्द्र-मुखीचन्द्रकिरीटयोः ।। २.३३ ।।

अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा ।
प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम् ।। २.३४ ।।

न्यस्तेयं पश्य कन्दर्प-प्रतापधवलद्युतिः ।
केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् ।। २.३५ ।।

सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा ।
विशेषपरिवृत्तिः स्याद्वनिता मम चेतसि ।। २.३६ ।।

तथा सहचराचारु-विरुद्धान्योन्यसंगती ।
ध्वाङ्क्षाः सन्तश्च तनयं स्वं परं च न जानते ।। २.३७ ।।

सरोजनेत्र पुत्रस्य मुखेन्दुं अवलोकय ।
पालयिष्यति ते गोत्रं असौ नरपुरन्दरः ।। २.३८ ।।
पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके ।
यथानुसारं अभ्यूहेद्दोषान्शब्दार्थसंभवान् ।। २.३९ ।।

दोषं आपतितं स्वान्ते प्रसरन्तं विशृङ्खलम् ।
निवारयति यस्त्रेधा दोषाङ्कुशं उशन्ति तम् ।। २.४० ।।

दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति ।
भवन्तं अथवा दोषं नयत्यत्याज्यतामसौ ।। २.४१ ।।

मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः ।
अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ।। २.४२ ।।

तव दुग्धाब्धिसंभूतेः कथं जाता कलाङ्किता ।
कवीनां समयाद्विद्या-विरुद्धोऽदोषतां गतः ।। २.४३ ।।

दधार गौरी हृदये देवं हिमकराङ्कितम् ।
अत्र श्लेषोदयान्नैव त्याज्यं हीति निरर्थकम् ।। २.४४ ।।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
द्वितीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। २.४५ ।।