प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पञ्चमो मयूखः चन्द्रालोकः
षष्ठो मयूखः
जयदेवः
सप्तमो मयूखः →

आलम्बनोद्दीपनात्मा विभावः कारणं द्विधा ।
कार्योऽनुभावो भावश्च सहायो व्यभिचार्यपि ।। ६.१ ।।

गलद्वेद्यान्तरोद्भेदो हृदयेष्वजडात्मनाम् ।
मिलन्मलयजालेप इवाह्लादं विकासयन् ।। ६.२ ।।

काव्ये नाट्ये च कार्ये च विभावाद्यैर्विभावितः ।
आस्वाद्यमानैकतनुः स्थायी भावो रसः स्मृतः ।। ६.३ ।।

रत्याख्यस्थायिभावात्मा वल्लभादिविभावितः ।
आलस्येर्ष्याजुगुप्साभ्यो विना संचारिभिर्युतः ।। ६.४ ।।

अनुभावैः कटाक्षाद्यैरुन्मादाद्यैर्यथाक्रमम् ।
सम्भोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ।। ६.५ ।।

हासस्थायी रसो हास्यो विभावद्यैर्यथाक्रमम् ।
वैरूप्यफुल्लगण्डत्वावहित्थाद्यैः समन्वितः ।। ६.६ ।।

अभीष्टविप्रयोगाश्रु-पातग्लान्यादिभिः क्रमात् ।
विभावाद्यैर्युतः शोक-स्थायी स्यात्करुणो रसः ।। ६.७ ।।

क्रोधस्थायी रसो रौद्रो विभावाद्यैः समन्वितः ।
मात्सर्यहस्तनिष्पेष-संमोहाद्यैर्यथाक्रमम् ।। ६.८ ।।

उत्साहाख्यस्थायिभावः प्रभावादिविभावभूः ।
वीरोऽनुभावैः स्थैर्याद्यैर्भावैर्गर्वादिभिर्युतः ।। ६.९ ।।

व्याघ्रादिभिर्विभावैस्तु वेपिताद्यनुभावभृत् ।
भावैर्मोहादिभिर्युक्तो भयस्थायी भयानकः ।। ६.१० ।।

स्थायी जुगुप्सा बीभत्सो विभावाद्या यथाक्रमम् ।
अनिष्टेक्षणनिष्ठीव-मोहाद्या यत्र संमताः ।। ६.११ ।।

अद्भुतो विस्मयस्थायी मायादिकविभावभूः ।
रोमाञ्चाद्यनुभावोऽयं स्तम्भादिव्यभिचारिकः ।। ६.१२ ।।

निर्वेदस्थायिकः शान्तः सत्सङ्गादिविभावभूः ।
क्षमादिकानुभावोऽयं स्तम्भादिव्यभिचारिकः ।। ६.१३ ।।

रतिर्देवादिविषया सन्ति च व्यभिचारिणः ।
वेद्यमाना निगद्यन्ते भावाः साहित्यवेदिभिः ।। ६.१४ ।।

निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ।। ६.१५ ।।

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ।। ६.१६ ।।

सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थं अथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणं एव च ।। ६.१७ ।।

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदिमे भावाः समाख्यातास्तु नामतः ।। ६.१८ ।।

सर्वसाधारणप्रेम-प्रश्रयादिस्वरूपया ।
अनौचित्या रसाभासा भावाभासाश्च कीर्तिताः ।। ६.१९ ।।

भावस्य शान्तिरुदयः सन्धिः शबलता तथा ।
काव्यस्य काञ्चनस्येव कुङ्कुमं कान्तिसंपदे ।। ६.२० ।।

आतुर्यं आसप्तमं च यथेष्टैरष्टमादिभिः ।
समासः स्यात्पदैर्न स्यात्समासः सर्वथापि च ।। ६.२१ ।।

पाञ्चालिकी च लाटीया गौडीया च यथारसम् ।
वैदर्भी च यथासंख्यं चतस्रो रीतयः स्मृताः ।। ६.२२ ।।

मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः ।
लकारश्च लसंयुक्तो ह्रस्वव्यवहितौ रणौ ।। ६.२३ ।।

रेफाक्रान्ता वर्ग्ययणाष्टवर्गात्पञ्चमादृते ।
कपाक्रान्तस्तवर्गः स्यात्प्रौढायां च कमूर्धता ।। ६.२४ ।।

सर्वैरूर्ध्वैः सकारस्य सर्वै रेफस्य सर्वथा ।
रहोर्द्वेधा तु संयोगः परुषायां शषौ स्वतः ।। ६.२५ ।।

लकारोऽन्यैरसंयुक्तो लघवो घभधा रसौ ।
ललितायां तथा शेषा भद्रायां इति वृत्तयः ।। ६.२६ ।।

अङ्गभङ्गोल्लसल्लीला तरुणी स्मरतोरणम् ।
तर्ककर्कशपूर्णोक्ति-प्राप्तोत्कटधियां वृथा ।। ६.२७ ।।

वीप्सोत्सर्पन्मुखाग्रार्द्रं बर्ही जह्रे कृशस्तृषम् ।
ललना रभसं धत्ते घनाटोपे महीयसि ।। ६.२८ ।।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति ऋतुसंख्यः ।। ६.२९ ।।