चन्द्रालोकः/पञ्चमो मयूखः
← चतुर्थो मयूखः | चन्द्रालोकः पञ्चमो मयूखः जयदेवः |
षष्ठो मयूखः → |
शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा ।
हारादिवदलङ्कारः सन्निवेशो मनोहरः ।। ५.१ ।।
स्वरव्यञ्जनसंदोह-व्यूहामन्दोहदोहदा ।
गौर्जगज्जाग्रदुत्सेका छेकानुप्रासभासुरा ।। ५.२ ।।
आवृत्तवर्णसम्पूर्णं वृत्त्यनुप्रासवद्वचः ।
अमन्दानन्दसन्दोह-स्वच्छन्दास्पदमन्दिरम् ।। ५.३ ।।
लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता ।
यत्र स्यान्न पुनः शत्रोर्गर्जितं तज्जितं जितम् ।। ५.४ ।।
श्लोकस्यार्धे तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा ।
तदा मता मतिमतां स्फुटानुप्रासता सताम् ।। ५.५ ।।
उपमेयोपमानादावर्थानुप्रास इष्यते ।
चन्दनं खलु गोविन्द-चरणद्वन्द्ववन्दनम् ।। ५.६ ।।
पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् ।
अंशुकान्तं शशी कुर्वन्नम्बरान्तं उपैत्यसौ ।। ५.७ ।।
आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः ।
यमकं प्रथमा धुर्य-माधुर्यवचसो विदुः ।। ५.८ ।।
काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते ।
तेष्वाद्यं उच्यते श्लोक-द्वयीसज्जनरञ्जिका ।। ५.९ ।।
कामिनीव भवेत्खड्ग-लेखा चारुकरालिका ।
काश्मीरसेका रक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता ।। ५.१० ।।
उपमा यत्र सादृश्य-लक्ष्मीरुल्लसति द्वयोः ।
हृदये खेलतोरुच्चैस्तन्वङ्गीस्तनयोरिव ।। ५.११ ।।
उपमानोपमेयत्वे यत्रैकस्यैव जागृतः ।
इन्दुरिन्दुरिवेत्यादौ भवेदेवं अनन्वयः ।। ५.१२ ।।
पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता ।
धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ।। ५.१३ ।।
विख्यातस्योपमानस्य यत्र स्यादुपमेयता ।
इन्दुर्मुखं इवेत्यादौ स्यात्प्रतीपोपमा तदा ।। ५.१४ ।।
उपमाने तु लीलादि-पदाढ्ये ललितोपमा ।
त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ।। ५.१५ ।।
अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा ।
श्रितोऽस्मि चरणौ विष्णोर्भृङ्गस्तामरसं यथा ।। ५.१६ ।।
स्यात्संपूर्णोपमा यत्र द्वयोरपि विधेयता ।
पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे ।। ५.१७ ।।
यत्रोपमानचित्रेण सर्वथाप्युपरज्यते ।
उपमेयमयी भित्तिस्तत्र रूपकं इष्यते ।। ५.१८ ।।
समानधर्मयुक्साध्या-रोपात्सोपाधिरूपकम् ।
उत्सिक्तक्षितिभृल्लक्ष्य-पक्षच्छेदपुरन्दरः ।। ५.१९ ।।
पृथक्कथितसादृश्यं दृश्यं सादृश्यरूपकम् ।
उल्लसत्पञ्चशाखस्ते राजते भुजभूरुहः ।। ५.२० ।।
स्यादङ्गयष्टिरित्येवं-विधं आभासरूपकम् ।
अङ्गयष्टिधनुर्वल्लीत्य्-आदि रूपितरूपकम् ।। ५.२१ ।।
परिणामोऽनयोर्यस्मिन्नभेदः पर्यवस्यति ।
कान्तेन पृष्टा रहसि मौनं एवोत्तरं ददौ ।। ५.२२ ।।
बहुभिर्बहुधोल्लेखादेकस्योल्लेखिता मता ।
स्त्रीभिः कामः प्रियैश्चन्द्रः कालः शत्रुभिरैक्षि सः ।। ५.२३ ।।
अतथ्यं आरोपयितुं तथ्यापास्तिरपह्नुतिः ।
नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ।। ५.२४ ।।
पर्यस्तापह्नुतिर्यत्र धर्ममात्रं निषिध्यते ।
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ।। ५.२५ ।।
भ्रान्तापह्नुतिरन्यस्य शङ्कया तथ्यनिर्णये ।
तापं तनोति सोत्कम्पं ज्वरः किं न सखि स्मरः ।। ५.२६ ।।
छेकापह्नुतिरन्यस्य शङ्कया तथ्यनिह्नवे ।
प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ।। ५.२७ ।।
कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः ।
निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ।। ५.२८ ।।
उत्प्रेक्षोन्नीयते यत्र हेत्वादिर्निह्नुतिं विना ।
त्वन्मुखश्रीकृते नूनं पद्मैर्वैरायते शशी ।। ५.२९ ।।
इवादिकपदाभावे गूढोत्प्रेक्षां प्रचक्षते ।
यत्कीर्तिर्विभ्रमश्रान्ता विवेश स्वर्गनिम्नगाम् ।। ५.३० ।।
स्यात्स्मृतिभ्रान्तिसंदेहैस्तदेवालंकृतित्रयम् ।
पङ्कजं पश्यतस्तस्या मुखं मे गाहते मनः ।। ५.३१ ।।
अयं प्रमत्तमधुपस्त्वन्मुखं वेद पङ्कजम् ।
पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः ।। ५.३२ ।।
मीलितं बहुसादृश्याद्भेदवच्चेन्न लक्ष्यते ।
रसो नालक्षि लाक्षायाश्चरणे सहजारुणे ।। ५.३३ ।।
सामान्यं यदि सादृश्याद्भेद एव न लक्ष्यते ।
पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ।। ५.३४ ।।
हेतोः कुतोऽपि वैशिष्ट्यात्स्फूर्तिरुन्मीलितं मतम् ।
लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च ।। ५.३५ ।।
अनुमानं च कार्यादेः कारणाद्यवधारणम् ।
अस्ति किञ्चिद्यदनया मां विलोक्य स्मितं मनाक् ।। ५.३६ ।।
अर्थापत्तिः स्वयं सिध्येत्पदार्थान्तरवर्णनम् ।
स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ।। ५.३७ ।।
स्यात्काव्यलिङ्गं वागर्थो नूतनार्थसमर्थकः ।
जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः ।। ५.३८ ।।
अलङ्कारः परिकरः साभिप्राये विशेषणे ।
सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ।। ५.३९ ।।
साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः ।
चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ।। ५.४० ।।
अक्रमातिशयोक्तिश्चेद्युगपत्कार्यकारणे ।
आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते ।। ५.४१ ।।
अत्यन्तातिशयोक्तिस्तत्-पौर्वापर्यव्यतिक्रमे ।
अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ।। ५.४२ ।।
चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे ।
यामीति प्रियपृष्टाया वलयोऽभवदूर्मिका ।। ५.४३ ।।
सम्बन्धातिशयोक्तिः स्यात्तदभावेऽपि तद्वचः ।
पश्य सौधाग्रसंसक्तं विभाति विधुमण्डलम् ।। ५.४४ ।।
भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते ।
अहो अन्यैव लावण्य-लीला बालाकुचस्थले ।। ५.४५ ।।
रूपकातिशयोक्तिश्चेद्रूप्यं रूपकमध्यगम् ।
पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ।। ५.४६ ।।
प्रौढोक्तिस्तदशक्तस्य तच्छक्तत्वावकल्पनम् ।
कलिन्दजातीररुहाः श्यामलाः सरलद्रुमाः ।। ५.४७ ।।
सम्भावनं यदीत्थं स्यादित्यूहोन्यप्रसिद्धये ।
सिक्तं स्फटिककुम्भान्तः-स्थितिश्वेतीकृतैर्जलैः ।
मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः ।। ५.४८ ।।
वाञ्छितादधिकप्राप्तिरयत्नेन प्रहर्षणम् ।
दीपं उद्द्योतयेद्यावत्तावदभ्युदितो रविः ।। ५.४९ ।।
इष्यमाणविरुद्धार्थ-सम्प्राप्तिस्तु विषादनम् ।
दीपं उद्द्योतयेद्यावत्तावन्निर्वाण एव सः ।। ५.५० ।।
क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता ।
सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च ।
प्राचीनाचलचूडाग्र-चुम्बिबिम्बे सुधाकरे ।। ५.५१ ।।
प्रस्तुताप्रस्तुतानां च तुल्यत्वे दीपकं मतम् ।
मेधां बुधः सुधां इन्दुर्बिभर्ति वसुधां भवान् ।। ५.५२ ।।
आवृत्ते दीपकपदे भवेदावृत्तिदीपकम् ।
दीप्त्याग्निर्भाति भातीन्दुः कान्त्या भाति रविस्त्विषा ।। ५.५३ ।।
वाक्ययोरर्थसामान्ये प्रतिवस्तूपमा मता ।
तापेन भ्राजते सूरः शूरश्चापेन राजते ।। ५.५४ ।।
चेद्बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः ।
स्यान्मल्लप्रतिमल्लत्वे सङ्ग्रामोद्धामहुंकृतिः ।। ५.५५ ।।
दृष्टान्तश्चेद्भवन्मूर्तिस्तन्मृष्टा दैवदुर्लिपिः ।
जाता चेत्प्राक्प्रभा भानोस्तर्हि याता विभावरी ।। ५.५६ ।।
वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।
या दातुः सौम्यता सेयं सुधांशोरकलङ्कता ।। ५.५७ ।।
व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः ।। ५.५८ ।।
सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः ।
दिगन्तं अगमद्यस्य कीर्तिः प्रत्यर्थिभिः सह ।। ५.५९ ।।
विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनं उच्यते ।
विद्या हृद्यापि सावद्या बिना विनयसम्पदम् ।। ५.६० ।।
समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।
अयं ऐन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ।। ५.६१ ।।
खण्डश्लेषः पदानां चेदेकैकं पृथगर्थता ।
उच्छलद्भूरिकीलालः शुशुभे वाहिनीपतिः ।। ५.६२ ।।
भङ्गश्लेषः पदस्तोमस्यैव चेत्पृथगर्थता ।
अजरामरता कस्य नायोध्येव पुरी प्रिया ।। ५.६३ ।।
अर्थश्लेषोऽर्थमात्रस्य यद्यनेकार्थसंश्रयः ।
कुटिलाः श्यामला दीर्घा कटाक्षाः कुन्तलाश्च ते ।। ५.६४ ।।
अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुतानुगा ।
कार्यकारणसामान्य-विशेषादेरसौ मता ।। ५.६५ ।।
कमलैः कमलावासैः किं किं नासादि सुन्दरम् ।
अप्यम्बुधेः परं पारं प्रयान्ति व्यवसायिनः ।। ५.६६ ।।
भवेदर्थान्तरन्यसोऽनुषक्तार्थान्तराभिधा ।
हनूमानब्धिं अतरद्दुष्करं किं महात्मनाम् ।। ५.६७ ।।
यस्मिन्विशेषसामान्य-विशेषाः स विकस्वरः ।
स न जिग्ये महान्तो हि दुर्धर्षाः क्ष्माधरा इव ।। ५.६८ ।।
कार्याद्यैः प्रस्तुतैरुक्तैः पर्यायोक्तिं प्रचक्षते ।
तृणान्यङ्कुरयामास विपक्षनृपसद्मसु ।। ५.६९ ।।
उक्तिर्व्याजस्तुतिर्निन्दा-स्तुतिभ्यां स्तुतिनिन्दयोः ।
कस्ते विवेको नयसि स्वर्गं पातकिनोऽपि यत् ।। ५.७० ।।
आक्षेपस्तु प्रयुक्तस्य प्रतिषेधो विचारणात् ।
चन्द्र संदर्शयात्मानं अथवास्ति प्रियामुखम् ।। ५.७१ ।।
गूढाक्षेपो विधौ व्यक्ते निषेधे चास्फुटे सति ।
हर सीतां सुखं, किं तु चिन्तयान्तकढौकनम् ।। ५.७२ ।।
विरोधोऽनुपपत्तिश्चेद्गुणद्रव्यक्रियादिषु ।
अमन्दचन्दनस्यन्दः स्वच्छन्दं दन्दहीति माम् ।। ५.७३ ।।
श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता ।
अप्यन्धकारिणानेन जगदेतत्प्रकाशते ।। ५.७४ ।।
असंभवोऽर्थनिष्पत्तावसंभाव्यत्ववर्णनम् ।
को वेद गोपशिशुकः शैलं उत्पाटयिष्यति ।। ५.७५ ।।
विभावना विनापि स्यात्कारणं कार्यजन्म चेत् ।
पश्य लाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ।। ५.७६ ।।
विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे ।
नमन्तं अपि धीमन्तं न लङ्घयति कश्चन ।। ५.७७ ।।
आख्याते भिन्नदेशत्वे कार्यहेत्वोरसंगतिः ।
त्वद्भक्तानां नमत्यङ्गं भङ्गं एति भवक्लमः ।। ५.७८ ।।
विषमं यद्यनौचित्यादनेकान्वयकल्पनम् ।
क्वातितीव्रविषाः सर्पाः क्वासौ चन्दनभूरुहः ।। ५.७९ ।।
समं औचित्यतोऽनेक-वस्तुसम्बन्धवर्णनम् ।
अनुरूपं कृतं सद्म हारेण कुचमण्डलम् ।। ५.८० ।।
विचित्रं चेत्प्रयत्नः स्याद्विपरीतफलप्रदः ।
नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम् ।। ५.८१ ।।
अधिकं बोध्यं आधारादाधेयाधिकवर्णनम् ।
यया व्याप्तं जगत्तस्यां वाचि मान्ति न ते गुणाः ।। ५.८२ ।।
अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् ।
त्रियामा शशिना भाति शशी भाति त्रियामया ।। ५.८३ ।।
विशेषः ख्यातं आधारं विनाप्याधेयवर्णनम् ।
गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ।। ५.८४ ।।
स्याद्व्याघातोऽन्यथाकारि वस्त्वन्यक्रियं उच्यते ।
यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ।। ५.८५ ।।
गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः ।
नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ।। ५.८६ ।।
गृहीतमुक्तरीत्यर्थ-श्रेणिरेकावली मता ।
नेत्रे कर्णान्तविश्रान्ते कर्णौ दोर्मूलदोलिनौ ।। ५.८७ ।।
दीपकैकावलीयोगान्मालादीपकं उच्यते ।
स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ।। ५.८८ ।।
सारो नाम पदोत्कर्षः सारताया यथोत्तरम् ।
सारं सारस्वतं तत्र काव्यं तत्र शिवस्तवः ।। ५.८९ ।।
उदारसारश्चेद्भाति भिन्नोऽभिन्नतया गुणः ।
मधुरं मधु पीयूषं तस्मात्तस्मात्कवेर्वचः ।। ५.९० ।।
यथासंख्यं द्विधार्थाश्चेत्क्रमादेकैकमन्विताः ।
शत्रुं मित्रं द्विषत्पक्षं जय रञ्जय भञ्जय ।। ५.९१ ।।
पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः ।
पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ।। ५.९२ ।।
परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः ।
जग्राहैकं शरं मुक्त्वा कटाक्षान्शत्रुयोषिताम् ।। ५.९३ ।।
परिसंख्या निषिध्यैकं अन्यस्मिन्वस्तुयन्त्रणम् ।
स्नेहक्षयः प्रदीपेषु स्वान्तेषु न नतभ्रुवाम् ।। ५.९४ ।।
विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः ।
कान्ताचित्तेऽधरे वापि कुरु त्वं वीतरागताम् ।। ५.९५ ।।
भूयसां एकसम्बन्ध-भाजां गुम्फः समुच्चयः ।
नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ।। ५.९६ ।।
समाधिः कार्यसौकर्यं कारणान्तरसन्निधेः ।
उत्कण्ठितां च कलयन्जगामास्तं च भानुमान् ।। ५.९७ ।।
प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः ।
जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यां अधःकृतौ ।। ५.९८ ।।
प्रतीपं उपमानस्य हीनत्वं उपमेयतः ।
दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ।। ५.९९ ।।
उल्लासोऽन्यमहिम्ना चेद्दोषो ह्यन्यत्र वर्ण्यते ।
तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ।। ५.१०० ।।
तद्गुणः स्वगुणत्यागादन्यतः स्वगुणोदयः ।
पद्मरागारुणं नासा-मौक्तिकं तेऽधरश्रितम् ।। ५.१०१ ।।
पुनः स्वगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता ।
हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ।। ५.१०२ ।।
यद्वस्तुनोऽन्यथा रूपं तथा स्यात्पूर्वरूपता ।
दीपे निर्वापिते ह्यासीत्काञ्चीरत्नैरहर्महः ।। ५.१०३ ।।
सङ्गतान्यगुणानङ्गी-कारं आहुरतद्गुणम् ।
विशन्नपि रवेर्मध्यं शीत एव सदा शशी ।। ५.१०४ ।।
प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः परसन्निधेः ।
कर्णोत्पलानि दधते कटाक्षैरपि नीलताम् ।। ५.१०५ ।।
अवज्ञा वर्ण्यते वस्तु गुणदोषाक्षमं यदि ।
म्लायन्ति यदि पद्मानि का हानिरमृतद्युतेः ।। ५.१०६ ।।
प्रश्नोत्तरं क्रमेणोक्तौ स्यूतं उत्तरं उत्तरम् ।
यत्रासौ वेतसी पान्थ तत्रासौ सुतरा सरित् ।। ५.१०७ ।।
पिहितं परवृत्तान्त-ज्ञातुरन्यस्य चेष्टितम् ।
प्रिये गृहागते प्रातः कान्ता तल्पं अकल्पयत् ।। ५.१०८ ।।
व्याजोक्तिः शङ्कमानस्य छद्मना वस्तुगोपनम् ।
सखि पश्य गृहाराम-परागैरस्मि धूसरा ।। ५.१०९ ।।
वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् ।
मुञ्च मानं दिनं प्राप्तं मन्द नन्दी हरान्तिके ।। ५.११० ।।
स्वाभावोक्तिः स्वभावस्य जात्यादिषु च वर्णनम् ।
कुरङ्गैरुत्तरङ्गाक्षि स्तब्धकर्णैरुदीक्ष्यते ।। ५.१११ ।।
भाविकं भूतभाव्यर्थ-साक्षाद्दर्शनवर्णनम् ।
अलं विलोकयाद्यापि युद्ध्यन्तेऽत्र सुरासुराः ।। ५.११२ ।।
देशात्मविप्रकृष्टस्य दर्शनं भाविकच्छविः ।
त्वं वसन्हृदये तस्याः साक्षात्पञ्चेषुरीक्ष्यसे ।। ५.११३ ।।
उदात्तं ऋद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् ।
सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः ।। ५.११४ ।।
अत्युक्तिरद्भुतातथ्य-शौर्यौदार्यादिवर्णनम् ।
त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ।। ५.११५ ।।
रसभावतदाभास-भावशान्तिनिबन्धनाः ।
रसवत्प्रेयऊर्जस्वि-समाहितमयाभिधाः ।। ५.११६ ।।
भावानामुदयः सन्धिः शबलत्वं इति त्रयः ।
अलङ्कारानिमान्सप्त केचिदाहुर्मनीषिणः ।। ५.११७ ।।
शुद्धिरेकप्रधानत्वं तथा संसृष्टिसंकरौ ।
एतेषां एव विन्यासान्नालङ्कारान्तराण्यमी ।। ५.११८ ।।
सर्वेषां च प्रतिद्वन्द्व-प्रतिच्छन्दभिदाभृताम् ।
उपाधिः क्वचिदुद्भिन्नः स्यादन्यत्रापि संभवात् ।। ५.११९ ।।
माला परंपरा चैषां भूयसां अनुकूलके ।
मनुष्ये भवतः क्वापि ह्यलङ्काराङ्गतां गते ।। ५.१२० ।।
शब्दे पदार्थे वाक्यार्थे वाक्यार्थस्तबके तथा ।
एते भवन्ति विन्यासाः स्वभावातिशयात्मकाः ।। ५.१२१ ।।
कस्याप्यतिशयस्योक्तेरित्यन्वर्थविचारणात् ।
प्रायेणामी ह्यलंकारा भिन्ना नातिशयोक्तितः ।। ५.१२२ ।।
अलंकारप्रधानेषु दधानेष्वपि साम्यताम् ।
वैलक्षण्यं प्रतिव्यक्ति प्रतिभाति मुखेष्विव ।। ५.१२३ ।।
अलंकारेषु तथ्येषु यद्यनास्था मनीषिणाम् ।
तदर्वाचीनभेदेषु नाम्नां नाम्नाय इष्यताम् ।। ५.१२४ ।।
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
चतुर्थः सैकोयं सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। ५.१२५ ।।