प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सुभाषितरत्नकोशः/४१ चाटुव्रज्या

< सुभाषितरत्नकोशः(चाटुव्रज्या (सुभाषितरत्नकोशः) इत्यस्मात् पुनर्निर्दिष्टम्)
← ४० अर्थान्तरन्यासव्रज्या सुभाषितरत्नकोशः
४१ चाटुव्रज्या
विद्याकरः
४२ निर्वेदव्रज्या →

ततश्चाटुव्रज्या|| ४१

देव त्वद्विजयप्रयाणसमये काम्बोजवाहावली- विङ्खोल्लेखविसर्पिणि क्षितिरजःपूरे वियच् चुम्बति /
भानोर् वाजिभिर् अङ्गरूषणरसास्वादः समासादितो लब्धः किं च नभस्तलामरधुनीपङ्केरुहैर् अन्वयः ४१.१ (१३८१)

त्वद्यन्त्राणां प्रयाणेष्व् अनवरतवलत्कर्णतालप्रकीर्णैर् आकीर्णे व्योम्नि सर्पसमदगजघटाकुम्भसिन्दूरपूरैः /
बिभ्राणाः पारिभद्रद्रुमकुसुमरुचो रश्मयः पत्युर् अह्नां मध्याह्ने ऽप्य् अस्तसंध्याभ्रमचकितदृशश् चक्रिरे चक्रवाकान् ४१.२ (१३८२)

स्फीतो धाम्ना समरविजयी श्रीकटाक्षप्रदीर्घः स्निग्धश्यामः कुवलयरुचिर् युद्धमल्ल त्वदीयः /
वर्षे ऽमुष्मिन् प्रतिनृपयशःपूरगौरे परीक्षा- क्षीरन्यस्तं तुलयति महानीलरत्नं कृपाणः ४१.३ (१३८३)

दिग्दन्तिनः स्वकरपुष्करलेखनीभिर् गण्डस्थलान् मदमसिं मुहुर् आददानाः /
श्रीचन्द्रदेव तव तोयनिधितीरताडीपत्रोदरेषु विजयस्तुतिम् आलिखन्ति ४१.४ (१३८४)
अभिनन्दस्य

सत्सु रक्तो द्विषां कालः पीतः स्त्रीणां विलोचनैः /
शुभ्रकीर्त्यासि तत् सत्यं चतुर्वर्णाश्रमो भवान् ४१.५ (१३८५)
अचलस्य

न जनयसि कंसहर्षं वहसि शरीरं यशोदया जुष्टम् /
त्यजसि न सत्योन्मुखताम् इति सत्यं वासुदेवो ऽसि ४१.६ (१३८६)
भद्रस्य

न लोपो वर्णानां न खलु परतः प्रत्ययविधिर् विकारो नास्त्य् एव क्वचिद् अपि न भग्नाः प्रकृतयः /
गुणो वा वृद्धिर् वा सततम् उपकाराय जगतां मुनेर् दाक्षीपुत्राद् अपि तव समर्थः पदविधिः ४१.७ (१३८७)
पाणिनेः

सत्यं त्वद्गुणकीर्तनेन सुखयत्य् आखण्डलं नारदः किं तु श्रोत्रकटु क्वणन्ति मधुपास् तत्पारिजातस्रजाम् /
वार्यन्ते यदि चाप्सरःपरिषदा ते चामराडम्बरैर् उद्वेल्लद्भुजवल्लिकङ्कणझणत्कारस् तदा दुःसहः ४१.८ (१३८८)
मधुकूटस्य

यस्य द्वीपं धरित्री स च जलधिर् अभूद् यस्य गण्डूषतोयं तस्याश्चर्यैकमूर्तेर् अपि नभसि वपुर् यत्र दुर्लक्षम् आसीत् /
तत् पीतं त्वद्यशोभिस् त्रिभुवनम् अभजंस् तानि विश्रामहेतोस् तच् चान्तः कैटभारेः स च तव हृदये वन्दनीयस् त्वम् एकः ४१.९ (१३८९)
तथागतदासस्य

कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः /
तत्सौधानां परिसरभुवि त्वत्प्रसादाद् इदानीं क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ४१.१० (१३९०)
शुभाङ्गस्य

लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति /
यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि ४१.११ (१३९१)
अभिनन्दस्य

त्वं चेन् नाथ कलानिधिः शशधरस् तत् तोयनाथा वयं मर्यादानिधिर् अम्भसां पतिर् अथ त्वं चेद् वयं वारिदाः /
सर्वाशापरिपूरको जलधरस् त्वं चेद् वयं भूरुहः सन्मार्ग्वस्थितिसुन्दरस् त्वम् इह चेच् छाखी वयं चाध्वगाः ४१.१२ (१३९२)

पदहीनान् बिलवसतीन् भुजगान् इव जातभोगसंकोचान् /
व्यथयति मन्त्राक्षरम् इव नाम तवारीन् वनेचरैर् गीतम् ४१.१३ (१३९३)

येषां वेश्मसु कम्बुकर्परचलत्तर्कुध्वनिर् दुःश्रवः प्राग् आसीन् नरनाथ सम्प्रति पुनस् तेषां तवानुग्रहात् /
षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कण- श्रेणीनिस्वनमांसलः कलगिरां वीणारवः श्रूयते ४१.१४ (१३९४)

नाथ त्वाम् अनुयाचे प्रसीद विजहीहि सङ्गरारम्भम् /
उन्नतिभाजः सम्प्रति सन्ति विपक्षाः परं गिरयः ४१.१५ (१३९५)

देव स्वस्तुतिर् अस्तु नाम हृदि नः सर्वे वसन्त्य् आगमास् तीर्थं न क्वचिद् ईदृग् अत्रभवती त्वत्खड्गधारा यथा /
याम् एकः स्वशरीरशुद्धिरसिको मूर्धि प्रतीच्छन् रिपुर् द्वैविध्याद् अनु पञ्चतां तदनु च त्रैदश्यम् आप क्षणात् ४१.१६ (१३९६)
रथाङ्गस्य

मत्पर्यन्तवसुंधराविजयिने मुक्तादि रत्नं मया सर्वं ढौकितम् एव तुभ्यम् अधुना जातो ऽस्मि निष्किंचनः /
इत्य् उल्लासितवीचिबाहुर् उदयन्मार्तण्डबिम्बच्छलात् प्रातस् तप्तकुठारम् एष वहते देव त्वदग्रे ऽम्बुधिः ४१.१७ (१३९७)
वसुकल्पस्य

संदिष्टं मरुभूमिभूरुहचयैर् भूपाल भूयाद् भवान् निर्जेता नवखण्डमण्डलभुवो ये त्वत्प्रसादाद् वयम् /
प्रत्यासन्नविपन्नवारडवधूनेत्रप्रणालीगलद्- बाष्पाम्भःप्लवपङ्कपिच्छलतलाः श्रीमुञ्ज मोदामहे ४१.१८ (१३९८)

तन्वीम् उज्झितभूषणां कलगिरं सीत्कारम् आतन्वतीं वेपन्तीं व्रणिताधरां विवसनां रोमोद्गमं बिभ्रतीम् /
हेमन्ते हिमशीतमारुतभयाद् आश्लिष्य दोर्भ्यां तनुं स्वां मूर्तिं दयिताम् इवातिरसिकां त्वद्विद्विषः शेरते ४१.१९ (१३९९)

भूसम्पर्करजोनिपातमलिनाः स्वस्माद् गृहात् प्रच्युताः सामान्यैर् अपि जन्तुभिः करतलैर् निःशङ्कम् आलिङ्गिताः /
निर्लग्नाः क्वचिद् एकताम् उपगता बद्धाः क्वचिन् मोचिता अक्षाणाम् इव शारयः प्रतिगृहं भ्रान्तास् तवारिस्त्रियः ४१.२० (१४००)

वर्षासम्भृतपीतिसारम् अवशं स्तब्धाङ्घ्रिहस्तद्वयं भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितम् /
मुग्धा व्याधवधुस् तवारिनगरे शून्ये चिरात् सम्प्रति स्वऋनोपस्कृतिमुष्टिसायकधिया साकूतम् आदित्सति ४१.२१ (१४०१)

पर्यङ्कः शिथिलीकृतो न भवता सिंहासनान् नोत्थितं न क्रोधानलधूमराजिर् इव च भ्रूवल्लिर् उल्लासिता /
राज्ञां त्वच्चरणारविन्दम् अथ च श्रीचन्द्र पुष्पन्त्य् अमूश् चञ्चच्चारुमरीचिसंचयमुचां चूडामणीनां रुचः ४१.२२ (१४०२)
सुविनीतस्य

द्वारं खड्गिभिर् आवृतं बहिर् अपि प्रक्लिन्नगण्डैर् गजैर् अन्तः कञ्चुकिभिः स्फुरन्मणिधरैर् अध्यासिता भूमयः /
आक्रान्तं महिषीभिर् एव शयनं त्वद्विद्विषां मन्दिरे राजन् सैव चिरन्तनप्रणयिनीशून्ये ऽपि राज्यस्थितिः ४१.२३ (१४०३)
विजयपालस्य

अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन् मन्यसे तद् ब्रूमो ऽद्भुतकीर्तनेषु रसना केषां न कण्डूयते /
देव त्वद्विजयप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस् ततो रिपुवधूबाष्पाम्बुभिः पूरिताः ४१.२४ (१४०४)

ताडीताडङ्कमात्राभरणपरिणतीन्य् उल्लसत्सिन्दुवार- स्रग्दामानि द्विषां वो घनजघनजरद्भूरिभूर्जांशुकानि /
विन्ध्यस्कन्धेषु धातुद्रवरचितकुचप्रान्तपत्राङ्कुराणि क्रीडन्ति क्रोडलग्नैः कपिशिशुभिर् अविश्रान्तम् अन्तःपुराणि ४१.२५ (१४०५)

त्वन्नासीरविसारिवारणभरभ्रश्यन्महीयन्त्रणाद् अन्तःखिन्नभुजङ्गभोगविगलल्लालाभिर् आसीन् नदी /
किं चास्यां जलकेलिलालसवलन्नागाङ्गनानां फण- श्रेणीभिर् मणिकेशराभिर् अभवत् सम्भूतिर् अम्भोरुहाम् ४१.२६ (१४०६)
गङ्गाधरस्य

संग्रामाङ्गणसंगतेन भवता चापे समारोपिते देवाकर्णय येन येन महसा यद् यत् समासादितम् /
कोदण्डेन शराः शरई रिपुशिरस् तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिर् अनघा कीर्त्या च लोकत्रयम् ४१.२७ (१४०७)
संग्रामाङ्गणस्य

शरैर् व्यर्थं नाथ त्रिभुवनजयारम्भचतुरैस् तव ज्यानिर्घोषं नृपतिर् इह को नाम सहते /
यम् उच्चैर् आकर्ण्य त्रिदशपतिर् अप्य् आहवभिया ह्रिया पार्श्वं पश्यन् निभृतनिभृतं मुञ्चति धनुः ४१.२८ (१४०८)
नाहिल्लस्य

ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेर् आरात् सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले /
प्रातर् निद्राविनोदक्रमजनितमुखोन्मीलितं चक्षुर् एकं व्याधाः पालालभस्मस्थितदहनकणाकारम् आलोकयन्ति ४१.२९ (१४०९)

ते कौपीनधनास् त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति वाजिनिवहास् तैर् एव लब्धा क्षितिः /
तैर् एतत् समलंकृतं निजकुलं किं वा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ४१.३० (१४१०)
जयादित्यस्य

दत्तेन्द्राभयविभ्रमाद्भुतभुजासम्भारगम्भीरया त्वद्वृत्त्या शिथिलीकृतस् त्रिभुवनत्राणाय नारायणः /
अन्तस्तोषतुषारसौरभमयश्वासानिलापूरण- प्राणोत्तुङ्गभुजङ्गतल्पम् अधुना भद्रेण निद्रायते ४१.३१ (१४११)

वत्से माधवि तात चम्पक शिशो माकन्द कौन्ति प्रिये हा मातर् मदयन्ति हा कुरबक भ्रातः स्वसर् मालति /
इत्य् एवं रिपुमन्दिरेषु भवतः शृण्वन्ति नक्तंचरा गोलाङ्गूलविमर्दसम्भ्रमवशाद् उद्यानदेवीगिरः ४१.३२ (१४१२)
शुभाङ्गस्य

वज्रिन् वज्रम् इदं जहीहि भगवन् ईश त्रिशूलेन किं विष्णो त्वं च विमुञ्च चक्रम् अमराः सर्वे त्यजन्त्व् आयुधम् /
अद्यायं परचक्रभूमनृपतेर् वोढुं त्रिलोकीधुरं प्रौढारातिघटाविघट्टनपटुर् दोर्दण्ड एवोद्यतः ४१.३३ (१४१३)

बाणास् ते परचक्रविक्रमकलावैलक्ष्यदिक्षागुरोर् वीक्षन्ते मिहिरांशुमांसलरुचः क्षिप्ताः प्रतिद्वेषिणः /
हस्ताहल्लितहारवल्लितरला युद्धाङ्गणालोकन- क्रीडालोलदिगङ्गनासमुदयोन्मुक्ताः कटाक्षा इव ४१.३४ (१४१४)
मञ्जुश्रीमित्रस्य

मन्दोद्वृन्तैः शिरोभिर् मणिभरगुरुभिः प्रौढरोमाञ्चदण्ड- स्फायन्निर्मोकसंधिप्रसरदविगलत्संमदस्वेदपूराः /
जिह्वायुग्माभिपूर्णानन्दविषमसमुद्गीर्णवर्णाभिरामं वेलाशैलाङ्कभाजो भुजगयुवतयस् त्वद्गुणान् उद्गृणन्ति ४१.३५ (१४१५)
मुरारेः

जीयासुः कलिकालकर्णकजगद्दारिद्र्यदारूदर- व्याघूर्णद्घुणचूर्णलङ्गिमजुषस् त्वत्पादयोः पांसवः /
लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्- भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीवालिकाः ४१.३६ (१४१६)
वल्लणस्य

पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान् महति समरे शत्रुघ्नस् त्वं सदैव युधिष्ठिरः /
इति सुचरितैर् बिभ्रद् रूपं चिरंतनभूभुजां कथम् असि न मांधाता देव त्रिलोकविजय्य् अपि ४१.३७ (१४१७)

प्रभुर् असि वयं मालाकारव्रतव्यवसायिनो वचनकुसुमं तेनास्माभिस् तवादरढौकितम् /
यदि तद् अगुणं कण्ठे मा धास् तथोरसि मा कृथा नवम् इति कियत् कर्णे धेहि क्षणं फलतु श्रमः ४१.३८ (१४१८)

भयम् एकम् अनेकेभ्यः शत्रुभ्यो युगपत् सदा /
ददाति तच् च तेनास्ति राजंश् चित्रम् इदं महत् ४१.३९ (१४१९)

सर्वदा सर्वदो ऽसीति मिथ्या संस्तूयसे बुधैः /
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ४१.४० (१४२०)

अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः /
मार्गणौघः समायाति गुणो याति दिगन्तरम् ४१.४१ (१४२१)

सालकाननयोगे ऽपि सालकाननवर्जिता /
हारावरुद्धकण्ठापि विहारारिवधूस् तव ४१.४२ (१४२२)
अमी वीर्यमित्रस्य

कर्षद्भिः सिचयाञ्चलान् अतिरसात् कुर्वद्भिर् आलिङ्गनम् / गृह्णानैः कचम् आलिखद्भिर् अधरं विद्रावयद्भिः कुचौ /
प्रत्यक्षे ऽपि कलिङ्गमण्डलपतेर् अन्तःपुराणाम् अहो धिक् कष्टं विटपैर् विटैर् इव वने किं नाम नाचेष्टितम् ४१.४३ (१४२३)
वसुकल्पस्य

गम्भीरनीरसरसीर् अपि पङ्कशेषाः कुर्वन्ति ये दिनकरस्य करास् त एव /
स्त्वद्वीरवैरिवनितानयनाम्बुलेश- शोषे कथं प्रतिहता इति मे वितर्कः ४१.४४ (१४२४)

त्वत्सैन्यग्लपितस्य पन्नगपतेर् अच्छिन्नधाराक्रमं विस्फारायतशालिनि प्रतिफणं फेलाम्भसि भ्रश्यति /
देव क्ष्मावलयप्रभो फणिकुलैः प्रव्यक्तम् एकोत्तर- स्थूलस्तम्भसहस्रधारितम् इव क्ष्माचक्रम् आलोक्यते ४१.४५ (१४२५)

शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः सिन्धून् धूलिभरेण कर्दमयितुं तैर् एव रोद्धुं नभः /
नासीरे च मुहुर् मुहुश् चल चलेत्य् आलापकोलाहलान् कर्तुं नाथ वरूथिनीयम् अवनीं जेतुं पुनस् त्वद्भुजौ ४१.४६ (१४२६)
वसुकल्पस्य

देव त्वत्सैन्यभाराद् अवनिम् अवनतां धर्तुम् उत्तब्धदेहः स्फूत्कारक्ष्वेडमीलत्फणशतनिपतत्पीनलालाप्रवाहः /
दृष्टः प्रारोहशाली वट इव फलितो रक्तमूर्धन्यरत्नः कूर्मेणोद्धृत्य कण्ठं निजविपुलवपुश् चत्वरे सर्पराजः ४१.४७ (१४२७)

अम्भः कर्दमताम् उपैति सहसा पङ्कद्रवः पांशुतां पांशुर् वारणकर्णतालपवनैर् दिक्प्रान्तनीहारताम् /
निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् ४१.४८ (१४२८)
महोदधेः

असिन्दूरेण सीमन्तो मा भून् नो योषिताम् इति /
अतः परिहरन्त्य् आजा- वसिं दूरेण ते ऽरयः ४१.४९ (१४२९)

देव त्वं किल कुन्तलग्रहरुचिः काञ्चीम् अपासारयन् क्षिप्रं क्षिप्रकरस् ततः प्रहणनं प्रारब्धम् अङ्गेष्व् अपि /
इत्य् आकूतजुषस् तव स्तवकृता वैतालिकेनोदिते लज्जन्ते प्रमदाः परस्परम् अभिप्रेक्ष्यारयो बिभ्यति ४१.५० (१४३०)

भीमे प्रस्थानभाजि स्फुरदसिजलदापह्नुतद्वेषिवह्नौ गृह्णीताह्नाय सर्वे भुवि भुवनभुजश् चामरं वा दिशो वा /
नैवं चेद् वस् तदानीं प्रधनधृतधनुर् मुक्तरावर्णविद्धं गृध्रा मूर्धानम् ऊर्ध्वं नभसि रभसिनो लाघवेनोद्धरन्ति ४१.५१ (१४३१)
वसुकल्पस्य

भवान् ईहितकृन् नित्यं त्वं हिमानीगिरिस्थितः /
अतः शंकर एवासि सदा स्कन्दः परं न ते ४१.५२ (१४३२)

आबाल्याधिगमान् मयैव गमितः कोटिं पराम् उन्नतेर् अस्मत्संकथयैव पार्थिवसुतः सम्प्रत्य् अयं लज्जते /
इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बो ऽम्बुधेः प्राप्तस् तीरतपोवनानि भवतो वृद्धो गुणानां गणः ४१.५३ (१४३३)

स्तनयुगम् अश्रुस्नातं समीपतरवर्तिहृदयशोकाग्नेः /
चरति विमुक्ताहारं व्रतम् इव भवतो रिपुस्त्रीणाम् ४१.५४ (१४३४)

संकल्पे ऽङ्कुरितं द्विपत्रितम् अथ प्रस्थानवेलागमे मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैर् उद्गतम् /
प्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेणाद्य मे ४१.५५ (१४३५)

भूतिविभूषितदेहाः कान्तारागेण लब्धमहिमानः /
त्रिकलिङ्गन्यस्तकरा भवदरयस् त्वत्समा जाताः ४१.५६ (१४३६)

जाने विक्रमवर्धन त्वयि धनं विश्राणयत्य् अर्थिनां भावी शोण इवोपलैर् उपचितो रत्नैर् अगाधो ऽम्बुधिः /
तत् पश्यामि च रोहणो मणिभरैर् आध्मायमानोदरः पाकोत्पीडितदाडिमीफलदशां कैश्चिद् दिनैर् यास्यति ४१.५७ (१४३७)

एकस् त्रिधा हृदि सदा वससि स्म चित्रं यो विद्विषां च विदुषां च मृगीदृशां च /
तापं च संमदरसं च रतिं च तन्वञ् शौर्योष्मणा च विनयेन च लीलया च ४१.५८ (१४३८)

देव त्वाम् अहम् अर्थये चिरम् असौ वर्षागमो निर्गतस् तीर्थं तीर्थम् इतस् ततो विचरितुं चेतो ऽधुना धावति /
तद् विश्रामय वीर वीर्यनिबिडज्याबन्धनात् कार्मुकं मा भूद् वैरिवधूविलोचनजलैर् मार्गक्रमो दुर्गमः ४१.५९ (१४३९)

द्विरूपा समरे राजन्न् एकैवासिलतावधूः /
दारिकारिकरीन्द्राणां सुभटानां च कुट्टनी ४१.६० (१४४०)

आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं ग्रीवां प्रत्यवलम्ब्य सम्भ्रमबलैर् आहन्यमानः करैः /
सुप्तस्याद्रिनदिनिकुञ्जगहने मत्तः पयोदानिलैः कर्णान्ते मशकः किम् अप्य् अरिवधूसार्थस्य ते जल्पति ४१.६१ (१४४१)

लम्बमाननयनाम्बुबिन्दवः कन्दरासु गहनासु भूभृताम् /
आकपोलतललोलकुन्तलाः संचरन्ति तव वैरियोषितः ४१.६२ (१४४२)

मा ते भवतु शत्रूणां या श्रुतिः श्रूयते क्विपः /
सार्धं बन्धुभिर् अङ्गस्य या परस्मैपदे सिचि ४१.६३ (१४४३)

तत् कल्पद्रुमपुष्पसंस्तरिरजस् तत् कामधेनोः पयस् तं च त्र्यम्बकनेत्रदग्धवपुषः पुष्पायुधस्यानलम् /
पद्मायाः श्वसितानिलानि च शरत्कालस्य तच् च स्फुटं व्योमादाय विनिर्मितो ऽसि विधिना काम्बोज तुभ्यं नमः ४१.६४ (१४४४)
वसुकल्पस्य

द्विषो भवन्ति वीरेन्द्र मुखे न तव संमुखाः /
भवद्भुजबलप्रौढि- परित्याजितहेतयः ४१.६५ (१४४५)

क्षिप्तः क्षीरगृहे न दुग्धजलधिः कोषे न हेमाचलो दिक्पाला अपि पालिपालनविधव् आनीय नारोपिताः /
नो वा दिक्करिनः क्वणन्मधुलिहः पर्यायपर्याणन- क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग्जये ४१.६६ (१४४६)
दक्षस्य

वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्मभिर् धूलीभिः पिहिते विहायसि भवत्प्रस्थानकालोत्सवे /
दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली दीर्घायुःकृतवासरः प्रतिदिशं व्यस्तो रविस् ताम्यति ४१.६७ (१४४७)

दातैष विश्वविदितः किम् अयं ददाति सर्वाहितानि जगते ननु वार्तम् एतत् /
अस्योदयात् प्रभृति वाञ्छति दानपात्रं चिन्तामणिर् यदि ददाति ददातु तावत् ४१.६८ (१४४८)
अङ्कोकस्य

पूर्णे ऽग्रे कलशो विलासवनिताः स्मेराननाः कन्यका दानक्लिन्नकपोलपद्धतिर् इभो गौरद्युतिर् गोवृषः /
क्षीरक्ष्मारुहि वायसो मधुरवाग् वामा शिवेति ध्रुवं त्वां प्रत्य् उच्चलतां नरेन्द्रतिलक प्रादुर्भवन्त्य् अर्थिनाम् ४१.६९ (१४४९)

यतो यतो नृप नखपृष्ठपाटलं विलोचनं चलति तव प्रसीदतः /
ततस् ततो नलिनवनाधिवासिनी तदीप्सया किल कमलानुधावति ४१.७० (१४५०)
परमेश्वरस्य

रुदितं वनेचरैर् अपि विन्ध्याद्रिनिवासिभिस् तवारिशिशौ /
वनमानुषीषु हस्तं फलहस्तासु प्रसारयति ४१.७१ (१४५१)

आबद्धभीमभृकुटीस्थपुटं ललाटं बिभ्रत् पराङ्मुखरिपोर् विधुताधरोष्ठः /
आत्मैव सङ्गरमुखे निजमण्डलाग्र- च्छायाछलाद् अभिमुखस् तव देव जातः ४१.७२ (१४५२)

निजगृहमयूरनामभिर् आहूतानागतेषु वनशिखिषु /
बालतनयेन रुदता त्वदरिवधूर् रोदिता दीर्घम् ४१.७३ (१४५३)
योगेश्वरस्य

ये तृष्णार्तैर् अधिकम् अनिशं भुज्यमानाः प्रसन्ना अन्तर्भूता झटिति गुणिनो यत्र पूर्णा भवन्ति /
नम्रीभूतैः फलम् अभिनवं प्राप्यते यद्य् अवश्यं तत् किं कूपाः सुकृतघटितास् त्वादृशा वा पुमांसः ४१.७४ (१४५४)
अमरदत्तस्य

भ्रान्तं येन चतुर्भिर् एव चरणैः सत्याभिधाने युगे त्रेतायां त्रिभिर् अङ्घ्रिभिः कथम् अपि द्वाभ्यां ततो द्वापरे /
न स्यात् त्वं यदि देव पुद्गलगुडः काले कलऊत्कले सो ऽयं पङ्गुर् अवस्थितैकचरणो धर्मः कथं भ्राम्यति ४१.७५ (१४५५)
चित्तूकस्य

त्वं धर्मभूस् त्वम् इह संगरमूर्ध्नि भीमः कीर्त्यार्जुनो ऽसि नकुलेन तवोपमास्ति /
तुल्यस् त्वया यदि परं सहदेव एव दुःशासनस् तव पुनर् ननु को ऽपि शत्रुः ४१.७६ (१४५६)
हलायुधस्य

कूर्मः पादो ऽत्र यष्टिर् भुजगपतिर् असौ भाजनं भूतधात्री तैलोत्पूरः समुद्राः कनकगिरिर् अयं वृत्तवर्तिप्ररोहः /
अर्चिस् तिग्मांशुरोचिर् गगनमलिनिमा कज्जलं दह्यमाना शत्रुश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपः ४१.७७ (१४५७)
खिपाकस्य

अन्तःखेदम् इवोद्वहन् यद् अनिशं रत्नाकरो घूर्णते यच् च ध्यानम् इवास्थितो न कनकक्षोणीधरः स्यन्दते /
जाने दानविलास दानरभसं शौर्यं च ते शुश्रुवान् एको मन्थविघट्टनास् तदपरष् टङ्काहतीः शङ्कते ४१.७८ (१४५८)
वाक्कूटस्य

मया तावद् दृष्टो न खलु कलिकन्दर्पनृपतेर् गुणैस् तुल्यः को ऽपि क्वचिद् अपि किम् अश्रावि भवता /
इति प्रश्नश्रद्धाकुलितम् इव कर्णान्तिकम् अगान् मृगाक्षीणां चक्षुश् चटुलतरतारान्ततरलम् ४१.७९ (१४५९)
वसुकल्पस्य

न दीनस् त्वं पुण्यप्रभवरमणीनां विलसितैर् विराजच्छुद्धान्तस् त्वम् अहिमकरप्रौढमहिमा /
क्वचिन् न क्रोधस् ते स्वपदजितदेवस् त्वम् उदधेर् अभिन्नो ऽपि स्वामिन् न किम् असि समुद्रः स्वविषये ४१.८० (१४६०)

इति चाटुव्रज्या समाप्ता||