← ४१ चाटुव्रज्या सुभाषितरत्नकोशः
४२ निर्वेदव्रज्या
विद्याकरः
४३ वार्धक्यव्रज्या →

ततो निर्वेदव्रज्या

धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम् आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कम् अङ्कस्थिताः /
अस्माकं तु मनोरथोपरचितप्रासादवापीतट- क्रीडाकाननकेलिमण्डपसदाम् आयुः परं क्षीयते ४२.१ (१४६१)

आस्वाद्य स्वयम् एव वच्मि महतीर् मर्मच्छिदो वेदना मा भूत् कस्यचिद् अप्य् अयं परिभवो याञ्छेति संसारिणः /
पश्य भ्रातर् इयं हि गौरवजराधिक्कारकेलिस्थली मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः ४२.२ (१४६२)

पश्य गोभट किं कुर्मः कर्मणां गतिर् ईदृशी /
दुषेर् धातोर् इवास्माकं दोषनिष्पत्तये गुणः ४२.३ (१४६३)

अनादृत्यौचित्यं ह्रियम् अविगणय्यातिमहतीं यद् एतस्याप्य् अर्थे धनलवदुराशातरलिताः /
अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां मुखानि प्रेक्ष्यन्ते धिग् इदम् अतिदुष्पूरम् उदरम् ४२.४ (१४६४)

जातिर् यातु रसातलं गुणगणस् तस्याप्य् अधो गच्छतु शीलं शैलतटात् पताव् अभिजनः संदह्यतां वह्निना /
शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलं येनैकेन विना गुणास् तृणलवप्रायाः समस्ता इमे ४२.५ (१४६५)

निष्कन्दाः किम् उ कन्दरोदरभुवः क्षीणास् तरूणां त्वचः किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः /
प्रत्युत्थानम् इतस् ततः प्रतिदिनं कुर्वद्भीर् उद्गीतिभिर् यद् धारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिर् अप्य् आस्यते ४२.६ (१४६६)

अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर् विगलितविवेकैर् व्यवसितम् /
यदीशानाम् अग्रे द्रविणकणमोहान्धमनसां कृतं वीतव्रीडैर् निजगुणकथापातकम् अपि ४२.७ (१४६७)

यद् एते साधूनाम् उपरि विमुखाः सन्ति धनिनो न चैषावज्ञैषाम् अपि तु निजवित्तव्ययभयम् /
अतः खेदो नास्मिन्न् अपरम् अनुकम्पैव भवति स्वमांसत्रस्तेभ्यः क इव हरिणेभ्यः परिभवः ४२.८ (१४६८)

नो बद्धं शरदिन्दुधामधवलं पाणौ मुहुः कङ्कणं व्रीडामन्थरकोमलं नववधूवक्त्रं च नास्वादितम् /
नीतं नैव यशः सुरेन्द्रभवनं शस्त्रेण शास्त्रेण वा कालो जीर्णमठेषु धृष्टपिशुनैश् छात्रैः सह प्रेरितः ४२.९ (१४६९)

वयम् अकुशलाः कर्णोपान्ते निवेशयितुं मुखं कृतकचरितैर् भर्तुश् चेतो न वञ्चयितुं क्षमाः /
प्रियम् अपि वचो मिथ्या वक्तुं जडैर् न च शिक्षितं क इव हि गुणो यो ऽस्मान् कुर्यान् नरेश्वरवल्लभान् ४२.१० (१४७०)

खलोल्लापाः सोढाः कथम् अपि पराराधनपरैर् निगृह्यान्तर् दुःखं हसितम् अपि शून्येन मनसा /
कृतो वित्तस्तम्भप्रतिहतधियाम् अञ्जलिर् अपि त्वम् आशे मोघाशे किम् अपरम् अतो नर्तयसि माम् ४२.११ (१४७१)

जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया वचो वैदेहीति प्रतिदिशम् उदश्रु प्रलपितम् /
कृता लङ्गाभर्तुर् वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्व् अधिगता ४२.१२ (१४७२)

सृजति तावद् अशेषगुणालयं पुरुषरत्नम् अलंकरणं भुवः /
तदनु तत् क्षणभङ्गि करोति चेद् अहह कष्टम् अपण्डितता विधेः ४२.१३ (१४७३)

सत्पुरुषपक्षपातिनि भगवति भवितव्यते नमस् तुभ्यम् /
या त्वं स्वयम् अकृतज्ञं जडम् अकुलीनं न संस्पृशति ४२.१४ (१४७४)

दाता बलिः प्रार्थयिता च विष्णुर् दानं मही वाजिमखस्य कालः /
नमो ऽस्तु तस्यै भवितव्यतायै यस्याः फलं बन्धनम् एव जातम् ४२.१५ (१४७५)

प्रिया दुहितरो धातुर् विपदः प्रतिभान्ति नः /
गुणवत्यः कुलीनेभ्यो दीयन्ते कथम् अन्यथा ४२.१६ (१४७६)

भद्रे वाणि विधेहि तावद् अमलां वर्णानुपूर्वीं मुखे चेतः स्वास्थ्यम् उपेहि गच्छ गुरुते यत्र स्थिता मानिनः /
लज्जे तिष्ठ पराङ्मुखी क्षणम् इतस् तृष्णु पुरः स्थीयतां पापो यावद् अहं ब्रवीमि धनिने देहीति दीनं वचः ४२.१७ (१४७७)

प्रियां हित्वा बालाम् अभिनवविसालव्यसनिनीम् अधीते भिक्षाभुग् भुवम् अधिशयानश् चिरतरम् /
अपि ज्ञात्वा शास्त्रं कटकम् अटतो जीर्यति वपुस् ततो रे पाण्डित्यं यद् इह न सुखं नो ऽपि च तपः ४२.१८ (१४७८)

विद्यालते तपस्विनि विकसितसितकुसुमवाक्यसम्पन्ने /
विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च ४२.१९ (१४७९)

उन्मादगद्गदगिरो मदविह्वलाक्ष्या भ्रश्यन्निजप्रकृतयः कृतम् अस्मरन्तः /
ऐश्वर्यसीधुरसपानविघूर्णमानाः के नाम न प्रतिपदं पुरुषाः स्खलन्ति ४२.२० (१४८०)

स्वल्पद्रविणकणा वयम् अमी च गुणिनो दरिद्रति सहस्रम् /
दानव्यसनलवो हृदि धिग् धातः किं विडम्बयसि ४२.२१ (१४८१)

विद्यावान् अपि जन्मवान् अपि तथा युक्तो ऽपि चान्यैर् गुणैर् यन् नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता /
एतावत् तु हृदि व्यथां वितनुते यत् प्राक्तनैः कर्मभिर् लक्ष्मीं प्राप्य जडो ऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते ४२.२२ (१४८२)

ईश्वरगृहम् इदम् अत्र हि विषं च वृषभश् च भस्म चाद्रियते /
यस् तु न विषं न वृषभो न भस्म तस्यात्र का गणना ४२.२३ (१४८३)

कामघ्नाद् विषसदृशो भूत्यवलिप्ताद् भुजङ्गसङ्गरुचेः /
को भृङ्गीव न शुष्यति वाञ्छ न फलम् ईश्वराद् अगुणात् ४२.२४ (१४८४)

अपि वज्रेण संघर्षम् अपि पद्भ्यां पराभवम् /
सहन्ते गुणलोभेन त एव मणयो यदि ४२.२५ (१४८५)

लभन्ते कथम् उत्थानम् अस्थानं गुणिनो गताः /
दृष्टः किं क्वापि केनापि कर्दमात् कन्दुकोद्गमः ४२.२६ (१४८६)

हृत्पट्टके यद् यद् अहं लिखामि तत् तद् विधिर् लुम्पति सावधानः /
भूयोविलोपान् मसृणे त्व् इदानीं रेखापि नोदेति मनोरथस्य ४२.२७ (१४८७)

कुर्यान् न किं धनवतः स्वजनस्य वार्ता किं तत्क्रिया नयनयोर् न धृतिं विदध्यात् /
माम् एष याचितुम् उपागत इत्य् असत्य- सम्भावनाविकलम् अस्य न चेन् मनः स्यात् ४२.२८ (१४८८)

अस्मादृशां नूनम् अपुण्यभाजां न स्वोपयोगी न परोपयोगी /
सन्न् अप्य् असद्रूपतयैव वेद्यो दारिद्र्यमुद्रो गुणरत्नकोषः ४२.२९ (१४८९)

तावत् कथं कथय यासि गृहं परस्य तत्रापि चाटुशतम् आरभसे कथं च /
स्वं वर्णयस्य् अथ कथं कुलपुत्र मानी हा मुग्ध दग्धजठरेण विडम्बितो ऽसि ४२.३० (१४९०)

सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः /
सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये ४२.३१ (१४९१)
सुबन्धोः
उचितकर्म तनोति न सम्पदाम् इतरद् अप्य् असद् एव विवेकिनाम् /
इति निरस्तसमस्तसुखान्वयः कथम् अतो न विषीदतु पण्डितः ४२.३२ (१४९२)

छित्वा पाशम् अपास्य कूटरचनां भङ्क्त्वा बलाद् वागुरां पर्यस्ताग्निशिखाकलापजटिलान् निःसृत्य दूरं वनात् /
व्याधानां शरगोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः कूपान्तःपतितः करोति विगुणे किं वा विधौ पौरुषम् ४२.३३ (१४९३)

कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्नसुलभेन /
विदधति धनिषु न दैन्त्यं ते किल पशवो वयं सुधियः ४२.३४ (१४९४)

वसुमति वसुमति बन्धौ धनलवलोभेन ये निषीदन्ति /
तांश् च तृणान् इव दधती कलयसि वद गौरवं कस्य ४२.३५ (१४९५)

कपोलेभ्यो बद्धः कथम् अखिलविश्वप्रभुर् असाव् अनार्यैर् अस्माभिः परम् इयम् अपूर्वैव रचना /
यद् इन्दोः पीयूषद्रवमयमयूखोत्करकिरः कलङ्को रत्नं तु प्रतिफणम् अनर्घं विषभृताम् ४२.३६ (१४९६)
वित्तोकस्य

सर्वः प्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति /
उत्तीर्णस् तु ततो धनार्थम् अपरां भूयो विशत्य् आपदं प्राणानां च धनस्य चायम् अधियाम् अन्योन्यहेतुः पणः ४२.३७ (१४९७)

नो मेघायितम् अर्थवारिविरहक्लिष्टे ऽर्थशस्ये मया नोद्वृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् /
नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं मातुः केवलम् एव यौवनवनच्छेदे कुठारायितम् ४२.३८ (१४९८)
भर्तृहरेः

ये कारुण्यपरिग्रहाद् अपणितस्वार्थाः परार्थान् प्रति प्राणैर् अप्य् उपकुर्वते व्यसनिनस् ते साधवो दूरतः /
विद्वेषानुगमाद् अनर्जितकृपो रूक्षो जनो वर्तते चक्षुः संहर बाष्पवेगम् अधुना कस्याग्रतो रुद्यते ४२.३९ (१४९९)
मातृगुप्तस्य

नरेन्द्रैः श्रीचन्द्रप्रभृतिभिर् अतीतं सहृदयैर् अतिक्रान्तं तैस् तैः कविभिर् अभिनन्दादिभिर् अपि /
इदानीं वाक् तूष्णीं भव किम् उ मुधैव प्रलपसि क्व पूजासम्भारः क्व च तव गुणोल्लासरभसः ४२.४० (१५००)
वाक्कूटस्य

सुधासूतिः क्षीणो गणपतिर् असाव् एकदशनः पदभ्रष्टा देवी सरिद् अपि सुराणां भगवती /
द्विजिह्वाद् अन्येषां क्व ननु गुणिनाम् ईश्वरजुषां त्वया दृष्टो भोगः किम् इह विफलं क्लिश्यसि मनः ४२.४१ (१५०१)

गच्छ त्रपे विरम धैर्य धियः किम् अत्र मिथ्या विडम्बयसि किं पुरुषाभिमान /
प्रध्वस्तसर्वगुणम् अर्जितदोषसैन्यं दैन्यं यद् आदिशति तद् वयम् आचरामः ४२.४२ (१५०२)

निरानन्दा दारा व्यसनविधुरो बान्धवजनो जनीभूतं मित्रं धनविरहदीनः परिजनः /
असंतुष्टं चेतः कुलिशकठिनं जीवितम् इदं विधिर् वामारम्भस् तद् अपि च मनो वाञ्छति सुखम् ४२.४३ (१५०३)

दुर्वासो मलिनाङ्गयष्टिर् अबला दृष्टो जनः स्वे गृहे नीचात् कर्णकटु श्रुतं धनम् अदाद् आरुढगर्वं वचः /
अन्यो मन्दिरम् आगतः परिचयाद् अप्राप्तकामो गतः खिन्नाः स्मः स्वपरोपकारकरणक्लीबां वहन्तस् तनुम् ४२.४४ (१५०४)

क्व पङ्कः क्वाम्भोजं क्वणदलिकुलालापमधुरं शिरो रौद्रं क्वाहेः स्फुरदुरुमयूखः क्व च मणिः /
कलिः क्वायं पापः क्व च गुणनिधेर् जन्म भवतो विधिः सत्यं सत्यं सदृशविनियोगेष्व् अकुशलः ४२.४५ (१५०५)

नमस्यः प्रज्ञावान् परिकलितलोकत्रयगतिः सुखी मूर्खः सो ऽपि स्वगतमहिमाद्वैतहृदयः /
अयं मा भूत् कश्चित् प्रतनुमतिकिर्मीरितमनः- समाधानोन्मीलत्सदसदितिसंदेहविधुरः ४२.४६ (१५०६)
वल्लणस्य

अस्माभिश् चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं भ्राम्यद्भिर् न स को ऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः /
यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा संजल्प्य क्षणम् एकम् अर्धम् अथवा निःश्वस्य विश्राम्यते ४२.४७ (१५०७)

इतो दावज्वालः स्थलभुव इतो जालजटिला इतो व्याधो धावत्य् अयम् अनुपदं वक्रितधनुः /
इतो ऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृतमुखः क्व यायात् किं कुर्यान् मृगशिशुर् अयं दैववशगः ४२.४८ (१५०८)

केनेयं श्रीर् व्यसनरुचिना शोण विश्राणिता ते जाने जानुद्वयसजल एवाभिरामस् त्वम् आसीः /
वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः कस्येदानीं कलुषसलिलः कूलभेदी प्रियो ऽसि ४२.४९ (१५०९)
शतानन्दस्य

सिन्धोर् अर्णः स्थगितगगनाभोगपातालकुक्षः पोतोपाया इह हि बहवो लङ्घनाय क्षमन्ते /
आहो रिक्तः कथम् अपि भवेद् एष दैवात् तदानीं को नाम स्याद् अतटकुहरालोकनैर् यस्य कल्पः ४२.५० (१५१०)
केशटस्य

दैवे समर्प्य चिरसंचितमोहभारं स्वस्थाः सुखं वसत किं परयाचनाभिः /
मेरुं प्रदक्षिणयतो ऽपि दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिद् अष्टौ ४२.५१ (१५११)

अर्थो न सम्भृतः कश्चिन् न विद्या काचिद् अर्जिता /
न तपः संचितं किंचिद् गतं च सकलं वयः ४२.५२ (१५१२)

आजन्मानुगते ऽप्य् अस्मिन् नाले विमुखम् अम्बुजम् /
प्रायेण गुणपूर्णेषु रीतिर् लक्ष्मीवताम् इयम् ४२.५३ (१५१३)
सरोकस्य

दृष्टा साथ कुपीटयोनिमहसा लेलिह्यमानाकृतिः पुष्पोन्मेषवती च किंशुकलता नीतावनीं वायुना /
रम्भे नोपरि पद्मयोर् बिसलते नाग्रस्फुरत्पल्लवे सौवर्णौ न घटौ न नूतनघनासन्नः शशी पार्वणः ४२.५४ (१५१४)
शशीकरस्य

तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तरः स्नानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता /
दुग्धा सेयम् अचेतनेन जरती दुग्धस्यता गर्दभी कष्टं यत् खलु दीर्घया धनतृषा नीचो जनः सेवितः ४२.५५ (१५१५)
जोयीकस्य

रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु भ्राता सुधारसमयः पतिर् आद्यदेवः /
केनापरेण कमले वद शिशिक्षितासि शारङ्गशृङ्गकुटिलानि विचेष्टितानि ४२.५६ (१५१६)

अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये /
नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च ४२.५७ (१५१७)

इति निर्वेदव्रज्या|| ४२