← प्रथमः भागः चित्रप्रभा
द्वितीयः भागः
[[लेखकः :|]]
तृतीयः भागः →

chitraprabha continue to june
अत्रेदं बोध्यम्।। तस्य भाव इति सूत्रे भवत्यनेन शब्दस्य प्रवृत्तिरिति व्युत्पत्त्या भावशब्देन करणसाधनेन प्रवृत्तिनिमित्तमुच्यते।। चतुर्विधाश्च भावप्रत्ययविषयाश्शब्दाः, जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाश्च।। तत्र जातिगुणक्रियाभिरर्थविशेषे प्रवर्तमानेभ्यो जातिगुणक्रियाशब्देभ्यो विधीयमानानां भावप्रत्ययानां प्रवृत्तिनिमित्तभूता जात्यादय एव वाच्याः।। यदृच्छाशब्दानां तु जात्यादिविलक्षणं सङ्केतसहकृतं स्वरूपमेव तत्तदर्थविशेषे प्रवृत्तौ निमित्तमतस्तदेव तत्र भावप्रत्ययार्थः।। नन्वेवं गोत्वमित्यादौ गोत्वविशिष्टनिष्ठं गोत्वमित्यादिरर्थस्स्यात्, स चायुक्तः।। तद्धर्मविशिष्टे तद्धर्मान्वयवत् तद्धर्मविशिष्टस्य तद्धर्मान्वयस्याप्यव्युत्पन्नत्वात्।। अत एव कर्म गच्छतीत्यादिको न प्रयोग इति चेन्मैवम्।। गोत्वादिशब्देषु भावप्रत्ययेन प्रतीयमानो जात्यादिर्न तद्‌रूपेणाभिधाविषयः।। किंतु जातित्वादिना धर्मत्वेन वा, प्रकृत्यर्थस्य च तत्र स्वेतरावृत्तित्वावच्छिन्नसकलस्ववृत्तित्वसंबन्धेनान्वयः।। तथा च गोत्वमित्यादितो गवेतरावृत्तित्वावच्छिन्नसकलगवीनिरूपितवृत्तित्ववती जातिः तथाभूतसकलगवीनिरूपितवृत्तित्वविशिष्टो धर्म इत्येवंरीत्या वा बोधे फलविधया विशेषरूपेण जातीनां भानमित्यभ्युपगमात्।। इत्थं च संज्ञाशब्दानां तत्तच्छब्दस्वरूपप्रकारकस्वार्थपरत्वस्य निर्विवादतया सस्थानशब्दोत्तरभावप्रत्ययेन सस्थानशब्दस्य स्वरूपेण प्रतिपादनासंभवेऽपि शब्दत्वेन तत्तप्रतिपाद्ये स्वेतरासङ्केतितत्वविशिष्टस्वसङ्केतितत्वसंबन्धेन प्रकृतिभूतसस्थानशब्दार्थान्वये सस्थानशब्द एव फलविधया पर्यवस्यतीति।।
नन्वेवं सस्थानत्वशब्दार्थतया पर्यवसन्नस्य सस्थानशब्दस्य प्रकृतवाक्यार्थाननुगुणत्वात् वार्तिकासाङ्गत्यमत आह।। लक्ष्यत इति।।
केचित्तु भावप्रत्ययविषये प्रकृतीनां शब्दपरत्वं भावप्रत्ययासमभिव्याहृतप्रकृत्यर्थे प्रकारतया भासमानो धर्मो भाव इति स एव त्वतलाद्यर्थः।। तत्र च प्रकृत्यर्थशब्दस्य स्वजन्यबोधीयप्रकारतासंबन्धेनात्वयः।। कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति सिद्धान्तात्, पाचकत्वमौपगवत्वं राजपुरुषत्वमित्यादौ प्रकृत्यर्थशब्दानां त्वतलाद्यर्थे संबन्धे स्वजन्यबोधीयसंसर्गत्वेनान्वयः।। संज्ञाशब्देषु सङ्केतितार्थस्यैकस्यैव विषयताद्वयेन भानमित्यर्थ एव त्वतलाद्यर्थः।। प्रकृत्यर्थस्य शब्दस्य स्वजन्यवोधीयप्रकारत्वेनैवान्वयः।। स्पष्टं चेदं भाष्ये।। एवं च वाच्यवृत्त्यैव सस्थानत्वशब्देन जिह्वामूलीयरूपार्थप्रतिपत्तौ लक्षणाश्रयणं नोपयुच्यत इत्याहुः।।[टि- आहुरिति।। इदं प्राचामनुरोधेन। मूलग्रन्थोऽपि दीक्षितानुरोध्येव। तेषां प्रकृतिजन्यबोधे प्रकारतया भासमानः प्रवृत्तिनिमित्तभूतो यः स एव भावप्रत्ययार्थ इत्यभिमानः।
उपाध्यायानुयायिनसु संज्ञाशब्देभ्यो भावप्रत्ययोपपादकस्य ``यद्वा सर्वे भावाः स्वेनार्थेन भवन्ति, स तेषां भावः इति भाष्यग्रन्थस्य पर्यालोचनायां पूर्वोक्तमसंगतमेव। तथाहि।। अनेन भाष्येण अत्नत्यभावशब्दः करणसाधन इति प्रतीयते। शब्दप्रयोगकारणं चार्थ एव। स च द्विविधः वाच्यः प्रवृत्तिनिमित्तभूतश्चेति। गवादिशब्देभ्योऽर्थपरेभ्य एव प्रवृत्तिनिमित्तभूतार्थे भावप्रत्ययः। संज्ञाशब्देषु आनन्त्यादिदोषाभावेनातिरिक्तप्रवृत्तिनिमित्ताभावेन व्यक्तिरेव वाच्येति सैव भावप्रत्ययार्थः। तत्र प्रकृत्यर्थातिरिक्तार्थस्यासम्भवादनुपपत्त्या प्रकृतेर्लक्षणया शब्दपरता। तादृशशब्दस्य स्वजन्यबोधविषयत्वसम्बन्धेन भावप्रत्ययार्थेऽन्वयः। एवं च कुशब्दकुत्वशब्दौ पर्यायौ। अनयोः पर्यायता च वृद्धिसूत्रे भाष्ये ``कुत्वं कस्मान्न भवति, चोः कुः पदस्ये त्यनेन सूचिता। अनियतार्थबोधकभपदादिशब्देषु व्यक्तिमात्रस्य वाच्यतायामानन्त्यादिदोषप्रसक्त्या तत्नानुगमार्थं शब्दरूपं प्रवृत्तिनिमित्तमाश्रयणीयमिति तत्र तदेव भावप्रत्ययार्थः। अत एव तत्नैव भाष्ये भात्वात्, कथं भसंज्ञा इति संज्ञाशब्दघटितनिर्देशः संगच्छते। अनेन भाष्येण भत्वभसंज्ञापदयोः पर्यायत्वं स्फुटमेव। स्वष्टं चेदं ``ऋलृक्‌ सूत्रे भाष्यप्रदीपोद्योते। तद्धितार्थवादादौ मञ्जूषायां च स्फुटीकृतं चेदं परेत्वित्यादिना। नामार्थवादे मञ्जूषायां प्राचीनमतमुपन्यस्य यद्वेत्यादिना एतदर्थस्य प्रतिपादनेन ``यद्वा सर्वे भावाः इत्यादिभाष्याभिप्रेतार्थोऽयमेवेति सूचितम्। तत्र यद्वाशब्दस्तत्सूचनप्रयोजनकोऽपि। अन्यथा अन्यत्रेव परेत्वित्यादि ब्रूयात्। एवं च सस्थानत्वादिशब्देष्वनुपपत्त्या प्रकृतेश्शब्दलक्षकत्वाङ्गीकारेऽपि सर्वत्र तथाङ्गीकारोऽनुचितः। मानाभावदित्यप्ययत्र विस्तर इत्याहुः।]
निष्टापत्तिमिति।। आर्धधातुकेष्वेव ख्शादिप्रयोग इति प्रतिपादनेनान्यत्र तत्प्रयोगस्यानिष्ठत्वं मन्यमानो माधवस्सार्वधातुके ख्शादिप्रयोगस्य कथमिष्टापत्तिं कुर्यादित्याशयः।। रुत्वमिति।। गणेषु प्रातिपदिकपाठस्यैव शैलीसिद्धत्वादेकवचनान्तत्वेन पाठस्य विवक्षार्थत्वात्तत्प्राप्तिसम्पादकोऽत्र कबभाव इत्याश्यः।। नमःख्यातिनिःख्यातीति।। सार्वधातुके ख्शादित्वाभावार्च्छपरे इत्यस्याप्राप्त्या नमःख्यातीत्यादौ जिह्वामूलीयो निःख्यातीत्यादौ इदुदुपधस्येति सर्पिः ख्यातीत्यादाविसुसोः सामर्थ्य इति षत्वं च स्यादिति भावः।।
अभिमान इति।। औपदेशिकं ङित्वमात्मनेपदप्रवृत्तौ निमित्तं, तच्च नामधातुत्वेपि आनुपूर्व्यन्तराघटितत्वादक्षतमेवेत्याचारक्विबन्तादात्मनेपदाभावे वीजं त्राहीति प्रयोगं परिकल्प्य आत्मनेपदिभ्योऽपि परस्मैपदं साधयामीति क्वाचित्कत्राहीतिप्रयोगावष्टब्धो दुराग्रह एवेति तदर्थः।। वस्तुतः पुराणस्थमुनिप्रयोगोप्ययमन्यथासिद्ध इति निर्बीज एवायमभिमान इत्याह।। आर्षं तदिति।। युक्तं चैतत्। रक्षणविषयकप्रार्थनामपेक्ष्य रक्षकतुल्याचारप्रार्थनायां स्वारस्यविरहात्।। नान्तत्वासम्भवादिति।। ननु न ङिसम्बुध्योरिति निषेधेन नलोपाभावे हे प्रशान् तनोथीत्यादौ शानधातुप्रकृतिकस्यापि क्विबन्तस्य संभवत्येव नान्तत्वमित्ययुक्तमेवेदमिति चेन्मैवम्।। सूत्रे अप्रशानित्यनेन शाम्यतिप्रकृतिकक्विबन्तपर्युदासे तद्भिन्नस्य लाक्षणिकनान्तस्यैव ग्रहणं स्यादित्यलाक्षणिकनान्तस्यापि संग्रहाय न इत्यावश्यकं, शानधातुप्रकृतिकस्यापि प्रशान्शब्दस्य सत्त्वे तु तन्त्रेण द्वयोरपि ग्रहणप्रसक्त्या तद्भिन्नस्य लाक्षणिकालाक्षणिकसाधारण्येन नान्तग्रहणस्योपपन्नतया न इत्यस्य वैयर्थ्यापत्त्या शानधातुप्रकृतिकस्य तस्यानभिधानमित्याशयात्।। न च शाम्यतिप्रकृतिकस्य तस्य ग्रहणे पर्युदासेन लाक्षणिकनकारान्तस्यैव ग्रहणप्रसक्तिवारणाय यथा न इत्यस्य सार्थक्यं तथा शानधातुप्रकृतिकस्य तस्य ग्रहणे निरुक्तरीत्या लक्षणानधीनस्यैव तस्य ग्रहणप्रसक्तिवारणाय न इत्यस्य सार्थकत्वाच्छाम्यतिप्रकृतिकस्यैव तस्यानभिधानं किं न स्यादिति वाच्यम्।. व्याससमासादिसाधारणतया बहुप्रयोगविविषयस्य शाम्यतिप्रकृतिकस्य तस्यानभिधानकल्पनापेक्षया सम्बोधनविभक्त्यन्तमात्रविषयस्य शानधातुप्रकृतिकस्यैव तस्यानभिधानकल्पनं श्रेय इत्याशयात्।। तदेतत्‌सर्वमभिप्रेत्य शङ्कते।। न चेति।।
न तु तयोर्विधेयत्वमिति।। अकारयोरित्संज्ञया निवृत्तावपि ककारपकारयोर्विधेयघटकत्वे कःखनति कःफलतीत्यादिषु नित्यं द्वित्वश्रवणापत्तावनिष्टप्रसङ्ग इति भावः।। लक्षणेति।। यद्यपि न विधौ परश्शब्दार्थ इति विधेयबोधके पदे लक्षणाया अनौचित्यादिदमयुक्तं, तथापि जिह्वामूलीयोपध्मानीययोर्वर्णान्तरसहायमन्तरेणोच्चारणासंभवात्तदुपपत्तये परिगृहीतयोस्तयोर्भङ्ग्यन्तरेण निवृत्त्ययोगादगत्या लक्षणा विधेयविषयेऽपि स्वीक्रियते, शक्त्यधीनस्य स्वरूपविधेर्बाधितात्वादित्याशयः, तदाह।। व्याख्यानादिति।।
ननु जिह्वामूलीयोपध्मानीययोर्विकल्पेन विधाने पक्षे विसर्ग एव तिष्ठतीति कोऽसौ बकबन्धनप्रयास इत्याशङ्क्य मूले जिह्वामूलीयोपध्मानीययोरभावपक्षे विसर्जनीयस्य स इति सत्वप्रसङ्गादयं परिक्लेश इत्युक्तम्।। तत्रानेन विसर्गे कुतो न तत्‌प्रवृत्तिरित्युद्भाव्य समाधत्ते।। चानुकृष्ट इति।। अपवाद इति।। अतो नासिद्धत्वमिति भावः।।
सा प्रवर्तत एवेति।। अत्र यद्वक्तव्यं तदन्यत्र प्रपञ्चितम्।। ननु पदान्ताद्वेत्यस्य वैकल्पिकत्वात्तुगभावघटित एवायं सूत्रप्रयोग इति कुतो न कल्प्यते तत्राह।। वैकल्पिकेष्विति।। समानेप्यर्थप्रत्यये परमधार्मिको भागवान् पाणिनिरधिकफलसम्पादकं सतुक्कप्रयोगमपहाय कथं तुग्रहितं प्रयुञ्जीतेत्याशय इत्यलम्।।
।। इति हल्‌सन्धिः ।।

अथ विसर्गसन्धिः।

ननु शर्परे नेति न्यासे कुप्वोरिति सूत्रे चकारबलेन प्रार्थ्यमानस्य पाक्षिकविसर्गस्य दौर्लभ्यापत्तिरत आह।। नेत्येवानुक्रष्टव्यमिति।। विसर्गस्य कवर्गपवर्गयोः परतो जिह्वामूलीयोपध्मानीयौ भवतस्सकारश्च नेत्यर्थे सामर्थ्यात्ताभ्यां पर्यायेण सत्वनिषेधे पाक्षिको विसर्गः फलतीत्याशयः।। सत्वनिषेधे इति।। शर्परे नेत्यनेन कुप्वोरित्यस्यासिद्धत्वात् सत्वस्यैव निषेधे इत्यर्थः।। नन्वत्रापि न्यासे कुप्वोरित्यत्र चकारानुकृष्टनिषेधारम्भसामर्थ्यात् सत्वनिषेधविषये जिह्वामूलीयोपद्मानीययोः प्रवृत्त्ययोगात्कथं वासः क्षौमद्भिः प्सातमित्यादौ तत्प्रवृत्त्यापत्तिरिति चेन्मैवम्।। अशर्परकवर्गपवर्गपरत्वे कः करोतीत्यादौ चरितार्थस्य कुप्वोरिति सूत्रबोधितनिषेधस्य कवर्गपवर्गातिरिक्तशर्परत्वे कः त्सरुरित्यादौ कृतार्थस्य शर्परे नेत्यस्य च वासः क्षौमद्भिः प्सातमित्यादौ प्रसङ्गे कुप्वोरित्यस्यासिद्धत्वेन शर्पर इत्यस्यैव प्रवृत्त्या स्वसन्नियुक्तनिषेधविषयप्रवृत्त्यभावस्वभावयोः जिह्वामूलीयोपध्मानीययोः प्रकृतविषये प्रवृत्तौ प्रतिबन्धकाभाव इत्याशयात्।। एतेनेत्यस्य सामर्थ्यप्रतिपादनेनेत्यर्थः।. असिद्धत्वादिति।। शर्पर इति सूत्रविहितविसर्जनीयस्य स्थाने प्रवृत्तौ चारितार्थ्यादपवादत्वासम्भव इति भावः।। ननु विसर्जनीयविधानसामर्थ्यादसिद्धत्वबाधापूर्वकं जिह्वामूलीयोपध्मानीययोः निवृत्तिकल्पनापेक्षया लाघवात्तदसिद्धत्वबाधाराहित्येन विसर्जनीयस्य स इत्येतदपवादत्वाभावकल्पनैव ज्यायसीत्यत आह।। अर्थाधिकारेति।। अत एव सोपदादावित्यादि चरितार्थम्, अन्यथा तद्विषये विसर्जनीयस्य स इत्यस्य निर्बोधतया तदारम्भवैफल्यं स्पष्टमेव।। यत्तु सत्वविधावशर्पर इति पठित्वा कुप्वोरित्यत्र तत्‌संबन्धादेव वासःक्षोममद्भिःप्सातमित्यादौ जिह्वामूलीयोपध्मानीययोर्वारणसंभवाद्विसर्जनीयप्रत्यापत्तिविधानं विफलमिति वदन्ति, तदयुक्तमिति ध्वनयन्नाह।। विसर्जनीयस्य सोऽशर्पर इति।। लाभानापत्तेरिति।। यदि तु कुप्वोरिति सूत्रे चकारस्याने नञं पठित्वा स इत्यनुवर्त्य जिह्वामूलीयोपध्मानीयाभ्यां पर्यायेण सत्वनिषेध इत्युच्यते तदा फलत्येव पाक्षिको विसर्गलाभः।। परं तु पुरःक्षुतं पुरः प्सातमित्यादौ नमस्पुरसोरित्यादिना सत्ववारणाय सर्पिः प्साति धनुःक्षिणोतीत्यादौ इसुसोस्सामर्थ्य इत्यादिना षत्ववारणाय च तत्र तत्राशर्पर इत्यस्य मण्डूकानुवृत्त्या बहुषु प्रदेशेषु संबन्धकल्पनायां परिक्लेशः।. ततो विसर्जनीयप्रत्यापत्त्या विकारमात्रनिवारणमेव समञ्जसमिति भागवतस्सूत्रकारस्याभिप्राय इत्याहुः।।
पूस्तरेति।। यद्यपि ह्रस्वात्तादाविति ह्रस्वग्रहणादपीह षत्ववारणं सुकरं तथापि गीश्चुञ्वुर्गीश्चण इत्यादौ षत्ववारणं तत्फलमिति बोध्यम्।। ननु सुबुत्पत्तेः पूर्वं समासे कवर्गपवर्गादीनामनेकेषामपदानां संभवादसंभवाभिधानमनुचितमत आह। अयं भाव इति।। आदिग्रहणसामर्थ्येन तल्लब्धावधारणेन चेति।। पदस्यादिः पदादिर्न पदादिरपदादिरिति विग्रहो यद्याश्रीयते तर्ह्यादिग्रहणसामर्थ्यात् पदत्वयोग्यतावदाद्यवयवभिन्न इत्यर्थः।। न पदमपदं तस्यैव य आदिरिति सामर्थ्यमूलकसावधारणविग्रहो यदि तदा पदत्वयोग्यतावद्भिन्नाद्यवयव इत्युभयथा सामर्थ्योपयोगात् द्वेधा हेतूल्लेखः।। परं तु चकारो वाशब्दार्थे, निपातानामनेकार्थ त्वान्न तु समुच्चये, तस्यासंभवादिति बोध्यम्।। यस्तु विस्तारे पटजिति वार्तिकेन पशुनामभ्यो विहितः पटच्‌प्रत्ययः, नासापुच्चैश्श्रवश्शब्दाद्भवति, एकव्यक्तिवाचकत्वात्।। विस्तारो हि तत्र न कायवैशाल्यमपि तु व्यक्तिबाहुल्यं, भाष्यस्वारस्यात्।। अत एव सङ्घाते कटजिति कटच्‌प्रत्ययोपि नास्माद्भवति।। अश्ववृषशब्दप्रकृतिकासुग्विशिष्टक्यजन्ताभ्यां क्विपि निष्पन्नसकारान्तयोस्तु रूढ्या पशुवाचकत्वाभावान्न पशुनामत्वाम्।। यद्यपि सहो घश्चेति उणादिसूत्रनिष्पन्नः सधिशब्दो रूढिवशेनानडुद्वाची प्रसीद्धस्तस्मादनयोः प्रत्यययोः सौलभ्यात् संभवत्येव प्रत्ययान्तरं, तथापि तस्योत्तरसूत्रविषयत्वात् सोपदादावित्येतत्सूत्रविषये तदसंभवाभिधानमिति बोध्यम्।। ननु अव्ययमिति महासंज्ञाबलादसत्त्वभूतार्थबोधकेष्वेवाव्ययसंज्ञाप्रवृत्त्या प्रातः कल्पमित्यादौ कल्पबाद्युपपत्तये लिङ्गाद्यन्वितशक्तिमत्परत्वेन सत्त्वभूतार्थकतया प्रातश्शब्दस्याव्ययत्वायोगादनव्ययस्येति प्रतिषेधानुपपत्तिरत आह।। अव्ययत्व त्विति।। भूतपूर्वगत्येति ।। इयं च दोषामन्यमहः दिवामन्या रात्रिरित्यादौ स्वित्यनव्ययस्येति ह्रस्वपर्युदासार्थमवश्याभ्युपगन्तव्यत्वेन प्रसिद्धा।।
समुदायनिरूपितत्वादिति।। समुदायनिरूपितचरमावयवत्वविशिष्टाल्त्वावच्छिन्नावधितानिरूपकपूर्वत्वोपहितवर्णत्वरूपोपधात्वस्य तन्निरूपितचरमावयवत्वघटितत्वात् समुदायनिरूपितत्वमिति बोध्यम्।। अन्ये इति।। अत्रारुचिहेतुः प्रत्याहाराह्निकस्थभाष्यस्वरसभङ्गप्रसङ्गः।। तत्र ह्ययोगवाहानामल्त्वस्योपधासंज्ञायां प्रयोजनाभावोपपादनायेदुदुपधस्येति सूत्रे न इदुदुपधग्रहणेन विसर्जनीयं विशेषयिष्यामः, किं तर्हि सकारमित्युक्तमिति बोध्यम्।। को विशेष इति।। पुनरित्यत्रापि स्थानिवद्भावाधीनमेब विसर्गविधानमित्यग्निरित्यादितो विशेषाभावाच्छारितार्थ्यायोग इत्याशयः।। एकदेशविकृतन्यायेनेति।। अस्य लोकदृष्टान्तसिद्धतया लौकिकत्वात्त्रिपाद्यां प्रवृत्तौ प्रतिबन्धकाभाव इत्याशयः।। अकिंचित्करत्वादिति।। एवं च पुनरित्यादौ विसर्गविधेश्चारितार्थ्योपपत्तये लोकन्यायेन पदत्वातिदेशकल्पनायामग्निरित्यादावपि तथैवोपपत्तौ तत्स्थलीयविसर्गस्य त्रिपाद्यां स्थानिवत्सूत्रप्रवृत्तिप्रयोजनत्वोपवर्णनमयुक्तमेवेत्याक्षेपः।। नन्वनेन न्यायेन पदत्वातिदेशो न युक्तः, अन्यथा दधिसेचावित्यादावुत्तरपदस्यानेन न्यायेन पदत्वमाश्रित्यकुत्वाद्यापत्तेः।। उत्तरपदत्वे चेति निषेधस्तु प्रत्ययलक्षणस्य, न तु लोकन्यायस्य, किं च पदत्वस्य प्रकृते सुबन्तत्वप्रयुक्ततया विकृतावयवनिबन्धनत्वाच्छिन्नपुच्छे शुनिपुच्छ्वत्त्वस्येव तेन न्यायेनातिदेशासंभवः, किं तु प्रत्ययलक्षणेन पुनरित्यादौ पदत्वं, तत्तु त्रिपाद्यामपि प्रवर्तत एव। तिप्यनस्तेरित्यादीनामारम्भात्।। किं च पुनस्तरामित्यादौ स्वादिष्वितिपदत्वावलम्बेन विसर्गप्रवृत्तिसौलभ्यादतिदेशानपेक्षणाच्चारितार्थ्यमपि सुवचम्।। तस्मादग्निरित्यादीनामेव विसर्गस्य स्थानिवद्भावैकसाध्यत्वात्तत्प्रयोजनत्वाभिधानं युक्तमेवेत्यत आह।। किं चेति।। असिद्धत्वेनेति।। रान्ते सान्तत्वबुद्ध्येत्याशयः।। नन्विदं यथोद्देशे कार्यकाले वा, नाद्यः।। तत्पक्षे कार्यविशेषानुद्देशेन रुत्वात्‌पूर्वं प्रवृत्तायाः पदसंज्ञाया अतिदेशमन्तरेण रेफान्ते दुर्लभत्वेन यथाकथंचिद्रेफान्ते पदत्वमन्तरा विसर्गप्रवृत्तेरशक्यत्वेन च रुत्वासिद्धत्वस्य विसर्गसंपादकत्वायोगात्।। नान्त्यः। कार्यकाले संज्ञानां विधिदेशीयतया विसर्गाविध्येकवाक्यतापन्नपदसंज्ञादृष्ट्या रुत्वासिद्धत्वस्य दुर्वचत्वात्।। तस्मादिदमयुक्तमेवासिद्धन्वोपवर्णनमत् आह।। किं चेति।। स्थान्यल्धर्मत्वेनेति।। एकत्वमात्रावच्छिन्नाल्त्वावच्छिन्नपर्याप्तिकाधारतानिरूपकधर्मावच्छिन्नस्थानिताकादेशवृत्तिः स्थानिसंबन्ध्यल्वृत्तिर्वा स्थानिवद्भावप्रयोज्यो यो धर्मस्तद्धर्मावच्छिन्ननिमित्तताकविधौ स्थानिवद्भावो नेत्यनल्विधावित्यस्यार्थः। इत्थं च सामानाधिकरण्यवादिभिरप्रत्ययस्येति पर्युदासलभ्यनिषेधोपपत्त्यर्थमग्निरित्यादौ सकारगतस्य रेफे रेफगतस्य विसर्गे च स्थानिवत्त्वेन संपादनीये प्रत्ययत्वे रुत्वविधौ निसर्गविधौ च स्थानिनोऽल्वेन ग्रहणादनल्विधाविति निषेधवशादतिदेशानापत्तिरिति तदर्थः।। ननु अनल्विधावित्यस्य निरुक्तरीत्या व्याख्याने प्रमाणाभावादल्मात्रवृत्तिरल्मात्रवृत्तिधर्मघटितो वा स्थानिवद्भावप्रयोज्यो यो धर्मस्तद्धर्मावच्छिन्ननिमित्तताकविधौ स्थानिवद्भावो नेत्यर्थ एव स्यादतो न प्रकृतातिदेशविरोध इत्यत आह।। स्पष्टा चेयमिति।। नन्विदं ण्यल्लोपावित्येतद्वार्तिकविषयकसाप्तमिकभाष्यविसंवादाद्विप्रतिपत्तिग्रस्तमत आह।। किं चेति।। व्यर्थं स्यादिति।। ननु सुषिरमधुरशब्दाभ्यां मत्वर्थीयरप्रत्ययान्ताभ्यामाचक्षाणणिजन्ताभ्यां क्विपि सुषिः करोति मधुः करोतीत्यादौ प्रकृतनिषेधविषयस्सुप्रत्ययातिरिक्तोऽपि संभवतीति कथं वैयर्थ्यामिति।। ननु वैयधिकरण्यंवादिनामव्युत्पत्तिपक्षे तत्सार्थक्यसमर्थनोपायः कश्चिद (न्वेष्टव्य) पेक्षितः, स एवास्माकं पक्षद्वयेऽपि भविष्यतीति न किंचिदनुपपन्नं तत्राह।। किं चैवं नित्यं समास इत्यादि।। तदसङ्गतिरिति।। एवं चैतद्भाष्यविरोध एव निरुक्तसामानाधिकरण्ये दुष्परिहरोदोष इति तत्त्वम्।। ननु प्रत्ययसंबन्धिनो विसर्गस्य नेति वैयधिकरण्याश्रयणेप्यसमर्थसमासवाक्यभेदवैयधिकरण्यरूपदोषत्रयस्य गले परितत्वात्तौल्यमेवानयोस्सामानाधिकरण्यवैयधिकरण्यपक्षयोरित्यत् आह।। प्रत्ययपदमिति।। लक्षणया प्रत्ययपदस्य तत्संबन्धिपरत्वे सामानाधिकरण्यमेव संभवतीति नोक्तदोषत्रयावकाश इत्याशयः।। न केवलं भाष्यविरोध एव दोषः, किंतु लक्ष्यविसंवादोऽपि व्याख्यादर्शकारीयव्याख्याने इत्याह।। कविभिः कृतमिति।। आदिना पेचुः काष्ठैरित्यादिसङ्‌ग्रहः। एतेन प्रत्ययपदस्य तत्संबन्धिपरत्वे लक्षणाश्रयणमपि दोष एवेत्यपास्तम्।। इष्टानुरोधेनेति।। ज्ञापकस्य विशेषापेक्षत्वेन अचः परस्मिन्नित्येतद्विषयकतया कल्प्यमानाया अप्रवृत्तिस्संयोगादिलोपलत्वाणत्वपरत्वमित्याशयः।। नन्विदुदुपधस्येत्यस्य प्रत्ययसंबन्धिभिन्नविसर्गस्येति व्याख्यायास्सिद्धान्तितत्वात् मातुः कार्यमित्यादिस्थलीयविसर्गस्य कथंचित् प्रत्ययसंबन्धित्वसंभवेन षत्वाप्रवृत्त्या ज्ञापकेन तन्निवारणपरभाष्यासङ्गतिरत आह।। सिद्धान्तव्याख्यानेऽपीति।। तत्संबन्धित्वाभावादिति।। ननु प्रत्ययसंबन्ध्यकारस्थानिकादेशसंबन्धिरेफस्थानिकविसर्गस्य परम्परया प्रत्ययसंबन्धित्वमस्त्येवेति निषेधप्रवृत्तिर्दुर्वारा ।। न च साक्षात्संबन्धेन संबन्धिनि कविभि। कृतमित्यादौ चरितार्थस्य प्रत्ययसंबन्धिपर्युदासस्य परम्परासंबन्धेन संबन्धिनि प्रवृत्तौ मानाभाव इति वाच्यम्।। अग्निः करोतीत्यादावनल्विधाविति निषेधप्रयुक्तस्थानिवद्भावाप्रवृत्तिविषये सुप्रत्ययस्थानिकरेफस्थानिकविसर्गस्य परम्परासम्बन्धेनैव तत्‌संबन्धितया निषेधानापत्तेरिति चेत् सत्यम्; प्रत्ययसंबन्धित्वं च प्रत्ययावयवत्वप्रत्ययस्थानिकत्वान्यतररूपं, भाष्यप्रामाण्यादावश्यकत्वाच्च। तच्च स्थानिद्वारकं विसर्गे आश्रीयमाणं प्रकृतपर्युदासनिमित्तं कविभिः कृतमित्यादावतिदेशेन प्रत्ययत्वापन्नस्य भिस्‌प्रत्ययादेशस्य रेफान्तस्यावयवे रेफे विद्यमानं प्रत्ययावयस्थानिकत्वं रेफे तच्च स्थानिद्वारकं तत्स्थानिके विसर्गेप्यक्षतमेवेति नानुपपत्तिः।। मातुः करोतीत्यादौ तु प्रत्ययघटकीभूताकारगतं प्रत्ययावयवत्वं न विसर्गे संभवति।। विसर्गस्य तत्स्थानिकत्वाभावादित्याशय इत्याहुः।। उरित्यस्येति।। तदवयवीभूतरेफस्थानिकविसर्गे स्थानिद्वारकं प्रत्ययावयवत्वं सुलभमिति भावः।। स्थानिवत्त्वेनेति।। स्थानिवत्सूत्रविषयमेतत्।। पूर्वत्रासिद्धीये न स्थानिवदिति निषेधेनाचः परस्मिन्नित्यस्य त्रिपाद्यामप्रवृत्तेः।। प्रत्ययत्वाभावादिति।। अतिदिदिक्षितधर्माभावादेवातिदेशाप्रवृत्तावनल्विधाविति निषेधोपन्यसनं नोपयुक्तमिति तदनुल्लेखः।। प्रत्ययसम्बन्धित्वमिति।। प्रत्ययावयवीभूताकारस्थानिकस्योरित्यस्य प्रत्ययावयवत्वे रेफस्यापि तदवयवस्य प्रत्ययावयवत्वमवयवावयवस्समुदायावयव इति न्यायेनेत्यभिमानः।। अशास्त्रीयत्वादिति।। अत्वेनगृहीतस्थानिताकत्वेनाल्विधित्वाच्चेत्यपि बोध्यम्।। प्रत्ययत्वमलभ्यमिति।। पूर्वपरयोरिति द्विवचननिर्देशस्य तु श्रौतादेशस्य प्रत्येकं स्थानित्वकल्पनेन कृतार्थत्वादानुमानिके तत्कल्पनायां मानाभाव एवात्रार्थे कारणमिति बोध्यम्।। ननु भाष्ये लुप्यते प्रत्ययविसर्गो रात्सस्येत्युच्यते रात्सस्येत्यनेन हि सकारो लुप्यते न तु विसर्ग इति कोऽसौ भाष्याशयस्तत्राह।। लुप्यत इत्यादेरिति।। अन्तादिवत्त्वज्ञापनद्वारेति।। इदं सिद्धान्तानुसारेण।। प्रत्ययभिन्नस्य विसर्गस्येत्येवं सामानाधिकरण्येन व्याख्यातवतां व्याख्यादर्शकृतां तु ङसिङसोरत उकारात्परस्य विसर्गस्य षत्वं नेत्येतावान् यथाश्रुत एव ज्ञाप्योंऽशः।। अन्यथा परादिवद्भावादुर्‌स्‌ इत्यस्य प्रत्ययत्वे सकारलोपोत्तरमुर्‌ इत्यस्य एकदेशविकृतन्यायेन तत्त्वेऽपि तदवयवरेफस्थानिकविसर्गस्य प्रत्ययभिन्नत्वात्‌षत्वस्य दुर्वारतया ज्ञाप्यांशवैफल्यं चारितार्थ्याऽसंभवच्च।। किं चैतन्मते सख्युःकार्यं पत्युःप्रीतिरित्यादावप्यनेनैव ज्ञापकेन षत्वस्य वारणीयतया साक्षादेव षत्वाप्रवृत्तिस्सामान्येन ज्ञाप्यत इत्येव तदभिप्रायः।। परं तु इदमपि वक्ष्यमाणभाष्यकारीयज्ञाप्यांशविरुद्धमिति सूचयितुमेवं प्रतिपादितमिति दिक्‌।। पे इत्यस्येति।। एकदेशविकृतन्यायेन तु न निर्वाहः, तदेकदेशमात्रविकाराभावात्। अर्धविकारसत्त्वाच्च।। पञ्चमीसमासपक्षे स्थानिवत्त्वेनाप्येतत्‌सिध्यतीति निरूपितमन्यत्र।। उक्तव्याख्याया इति।। लक्षणामूलकसामानाधिकरण्यव्याख्याया इत्यर्थः।। ओषधीस्कृधीति।। अत्र ओषधिशब्दाच्छसि सुपां सुलुगिति पूर्वसवर्णदीर्घ एकादेशः।। विसर्गस्तु तस्मात्परो न तु तन्निमित्तक इति भावः।। ननु एतत्‌फलानुरोधात् पञ्चम्यन्तपाठस्यावश्य कतया कथं मूलकारोक्तषष्ठ्यन्तपाठोपपत्तिरत आह।। मूले त्विति।। ओषधीस्कृधीत्यत्र प्रकारान्तरेणैव षत्वनिवृत्तेर्न तत्र ज्ञापकान्तरप्रयुक्तनिषेधावश्यकतेत्याशयः।।
अभिधानियामकत्वं, शक्तिसङ्कोचकत्वं, तदुक्तमभियुक्तैः ``संयोगो विप्रयोगश्च साहचर्यं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः।। सामर्थ्यमौचिती देशः कालो व्यक्तिस्स्वरादयः।। शब्दस्यान्यस्य सन्निधिः।। सामर्थ्यमौचिती देशः कालो व्यक्तिस्स्वरादयः।। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतव इति।। एतन्मूलकमेव सहचरितासहचरितयोस्सहचरितस्य ग्रहणमिति परिभाषाशास्त्रमपि।। तत्र साहचर्यं साहित्यावच्छिन्ना प्रसिद्धिविषयीभूता प्रवृत्तिः।। सा च लोके रामलक्ष्मणावित्यादावर्थपरत्वात्तदर्थसम्बन्धिनी सहयत्रादिः।। शास्त्रे तु शब्दपरत्वात्तत्संबन्धी क्वचिदन्यत्र प्रसिद्धस्सहप्रयोग एव।। इत्थं च द्वित्रिश्चतुरित्येषां क्वाप्यन्यत्र सहप्रयोगाभावात्कथमिह सहचरितन्यायविषयतेत्याशङ्काभिप्रायः।। सादृश्यमुच्यत इति।। लक्षणयेति शेषः।। भाष्यप्रामाण्यादभियुक्तवचनस्याप्ययमेवाशयः।। एवं च क्रियाभ्यावृत्तिगणनाभिलापकत्वेन सुजन्तत्वेन वा सादृश्यादेवाभीष्टार्थसिद्धौ युक्तमेव सहचरितन्यायानित्यत्वज्ञापकत्वं कृत्वोर्थग्रहणस्येति सिद्धान्ताशयः।। इति दिगिति।। अत्रेदं विचार्यते।। कृत्वोर्थ इत्येव कुतो न सूत्रितम्।। न च कृत्वोर्थे वर्तमानस्य विसर्गस्येत्यर्थे रात्‌सस्येति लुप्तकृत्वोर्थप्रत्ययके चतुर्‌शब्दे षत्वानापत्तिरिति वाच्यम्।। पदस्येत्यधिकारात् कृत्वोर्थे वर्तमानस्य पदस्य यो विसर्गस्तस्येत्यर्थेनादोषात्।। न चैवं पञ्चकृत्वः करोतीत्यादावपि षत्वापत्तिरिति वाच्यम्।। इण इत्यनुवर्त्य इण उत्तरस्य कृत्वोर्थे वर्तमानपदावयवस्य विसर्गस्येत्यर्थेनादोषात्।। न च सूत्रान्तरादनुवर्तमानस्यापि वा नपुंसकस्येत्यादौ श्रुतत्वेन व्यवहाराच्छ्रुतसंबन्धस्य बलीयस्त्वाच्च इण उत्तरस्य कृत्वोर्थे वर्तमानस्य पदावयवस्य विसर्गस्येत्यर्थे चतुश्शब्दे दोषस्तदवस्थ एवेति वाच्यम्।। कृत्वोर्थे वर्तमानत्वं च कृत्वसुच्‌प्रत्ययद्योत्यक्रियाभयावृत्तिसंख्यारूपार्थवाचकत्वं, तच्च केवलविसर्गस्य न संभवतीति निरुक्तकृत्वोर्थवाचकपदावयवस्येणः परस्य विसर्गस्येत्यर्थेन सामानाधिकरण्यानुरोधादिणः परीभूतविसर्गान्तस्य कृत्वोर्थवाचकपदस्येत्यर्थेन वा चचुष्करोतीत्यादौ षत्वस्य निर्बाधत्वेन दोषाभावात्। न च द्विस्त्रिश्चतुरित्युक्तौ कृत्वोर्थ इत्यत्र सप्तम्यर्थो वाचकत्वमेव, न तु द्योतकत्वमिति वक्तं शक्यते। द्विरित्यादिषु द्योतकत्वानुपपत्तेः, तदनुक्तौ च द्योतकत्वमेव सप्तम्यर्थः स्यादतो विसर्गविशेषणत्वे प्रागुक्तरीत्या चतुश्शब्दे दोषो दुरुद्धर एवेति वाच्यम्। [टि-दुरुद्धर एवेति वाच्यमिति।। एतदुत्तरं तदनुक्तावपीत्यादिचेत्तर्हित्यन्तग्रन्थस्य स्थाने ``तदनुक्तावपि सप्तमीविभक्तेर्वाचकत्वार्थकताया इदूतौ च सप्तम्यर्थे इत्यादौ दृष्टत्वेन प्रकृतेऽपि तथैवौचित्येन तस्य विसर्गविशेषणत्वायोगात्पदविशेषणत्वे प्रतीबन्धकाभावादिति चेदत्रोच्यते इत्येतदर्थकस्य ग्रन्थस्य स्थितिः पूर्वोत्तरग्रन्थपर्यालोचनया युक्तैवेति प्रतिभाति।।] तदनुक्तावपि सप्तमीविभक्तेर्वाचकत्वार्थकत्वेन विसर्गविशेषणत्वे प्रतिबन्धकाभावादिति चेत्तर्हि द्विस्त्रिश्चतुरित्युक्तौ विसर्गापेक्षया श्रुतत्वात्सामानाधिकरण्यान्वयस्य न्याय्यत्वेन प्राधान्याच्च द्विरादीनामेव विशेषणं कृत्वोर्थ इति सम्पद्यते, वाचकत्वं च सप्तम्यर्थः, न तु विसर्गस्य विशेषणं, न वा द्योतकत्वमर्थ इति चतुश्शब्दे दोषशङ्काकलङ्काभावः। तदनुक्तौ तु विसर्गविशेषणत्वं श्रुतत्वात्। द्योतकत्वार्थकत्वं च सामर्थ्यात्सम्पद्येतेति चतुश्शब्दांशे दोषो दुर्वार इति भगवतस्सूत्रकारस्याशयः। एवं सुच इत्यपि सूत्रयितुमशक्यम्। विसर्गविशेषणत्वे चतुश्शब्दांशे दोषस्य [टि-दोषस्य दुर्वारत्वादिति।। सुच इत्युक्तौ सुचः प्रत्ययत्वेन प्रत्ययग्रहणपरिभाषामहिन्ना सुजन्ततदादेरित्यर्थसम्पत्त्या तस्य विसर्गविशेषणत्वायोगेन पदविशेषणत्वे सुजन्तपदावयवविसर्गस्येत्यर्थान्न चतुश्शब्दे दोषः। अत एव सुच इति सूत्रयितुमुचितमित्युक्तं शब्देन्दुशेखरे इति बोध्यम्।] दुर्वारत्वादित्याहुः।। प्रतिपदोक्तस्येति।। तत्त्वं च इसुसन्तयोर्द्रष्टव्यम्। एतेन सर्पिरादीनां भाष्यकारोपवर्णिताव्युत्पत्तिपक्षे प्रत्ययत्वमर्थवत्त्वं च इसुसोरसम्भवीति चिन्त्यमिदमित्यपास्तम्।। ननु व्युत्पत्तिपक्षे चतुश्शब्दस्यौणादिकोरन्प्रत्ययान्ततया चतुष्कपाल इत्यत्र रेफस्थानिकविसर्गस्य प्रत्ययसम्बन्धितया षत्वानुपपत्त्या पक्षभेदेन षत्वविकल्पे कृत्वोर्थग्रहणेन निरुक्तार्थज्ञापकत्वासम्भवः, स्वांशे चारितार्थ्यायोगादत आह।। भाष्यप्रामाण्येनेत्यादि।। चतुष्पाद्भ्य इति।। चतुःपञ्चाशदित्यत्रापि षत्वं न्याय्यमित्याशयः।।
मूले पारायणिका इति।। तेषामयमाशयः। इदुदुपधस्येत्यत्र प्रत्ययभिन्नस्य विसर्गस्येति सामानाधिकरण्येनान्वये सर्पिष्करोतीत्यादौ नित्यषत्वप्राप्ताविसुसोस्सामर्थ्य इति तदपवादतया विकल्पविधानार्थम्। नित्यं समास इति तु समासे चेदनुत्तरपदस्थस्यैवेति नियमार्थम्। इत्थं च कस्कादिषु सर्पिष्कुण्डिकाशब्दपाठः सन्निहितत्वाद्विध्यपेक्षया दुर्बलत्वाच्च अनुत्तरपदस्थस्येति निषेधमेव बाधते न तु व्यपेक्षायामिसुसोस्सामर्थ्य इति विकल्पविधिमिति।। इत्यर्थ इति।। भाष्यप्रामाण्यादप्रत्ययस्येति प्रत्ययसम्बन्धिभिन्नपरम्। इत्थं च व्यपेक्षाभावे षत्वसम्पादकत्वेन व्यपेक्षायामपि पाक्षिकषत्वाभावनिवर्तकतया च कृतार्थस्य तत्पाठस्यानुत्तरपदस्थस्येत्येतन्निषेधबाधकत्वे मानाबाव इति तत्त्वम्।।
स्फुटप्रतिपत्तये इति।। एतेन कुशेति टाबन्तनिर्देशेनैव विकारार्थकत्वाभावस्य स्पष्टत्वादयस्सहिता कुशेति मध्यमपदलोपिसमासप्रदर्शनेन तदभावबोधनं व्यर्थमित्यपास्तमिति दिक्।।
।। इति विसर्गसन्धिः ।।

।। अथ स्वादिसन्धिः ।।
श्रीः।। ननु स्वस्वरूपोपस्थापकप्रातिपदिकांशे विषयविशेषासंवलनेन प्रवृत्तस्य तदन्तविधिनिषेधस्य विना प्रमाणं विशेषपरतया सङ्कोचस्यायुक्तत्वात्कथमस्य प्रत्ययविधिविषयत्वं तत्राह।। अत एवेत्यादि।। भाष्ये इति ।। तत्र हि महदप्‌स्वसृनप्तॄणां दीर्घविधाविति प्रत्ययविधिभिन्नविधौ तदन्तविधेः प्रयोजनतया महान्‌परममहानित्याद्युपपादितम्।। तथा विवीयते विधिरिति व्युत्पत्त्या प्रतिषेधस्यापि विधित्वमित्यभ्युपेत्य प्रतेषेधे स्वस्त्रादीनामित्युपक्रम्य न षडिति निषेधविषये तदन्तविधिप्रयोजनत्वेन स्वसा परमस्वसेत्युदाहृतम्।। इत्थं च निरुक्तनिषेधस्य प्रत्ययविधिविषयत्वं स्पष्टमेव भाष्यकारस्सूचितवानित्याशयः।। ननु ग्रहणवतेत्यस्य प्रत्ययविधावेव तदन्तविधिनिषेधकत्वे तद्विषये येन विधिरित्यत्र समासप्रत्ययविधानिति कात्यायनीयः पृथक्‌निषेधारम्भो व्यर्थस्स्यादित्यत आह।। अस्य समासप्रत्ययविधाविति।। युक्तत्वादिति।। अपूर्वत्वकल्पनामपेक्ष्यानुवादकत्वकल्पनाया लाघवोपहितत्वादित्याशयः।। नन्वेवमपि सपूर्वाच्चेत्यनेनापूर्वतया ग्रहणवतेत्येतन्निषेधज्ञापनपरभाष्यासङ्गतिर्दुर्वारेत्यत् आह।। यत्त्विति।। कात्यायानवचनघटकप्रत्ययांशनिषेधस्य गृह्यमाणप्रातिपदिकविषयतासंपत्त्यर्थमत्र भाष्यकारीयो ज्ञापनोद्योग इत्याशयः।। तदन्तविधिनैवेति।। ननु पूर्वादिनिरित्यत्र तदन्तविधौ बहुच्‌पूर्वकादपीनिप्रत्ययः प्रसज्येत, सपूर्वाच्चेत्युक्तौ तु विद्यमानपूर्वपदकात्पूर्वशब्दान्तादित्यर्थस्य पर्यवसानाददोष इति फलवैजात्यात्कथं ज्ञापकत्वमिति चेन्न।। ज्ञापनपरभाष्यप्रामाण्यात् बहुच्‌पूर्वकस्य तस्यानभिधानेनादोषात्।। केवलैकशब्दगोशब्दयोरिति।। पूर्वग्रहणमपहायैकशब्दगोशब्दयोः पञ्चम्या निर्देशे ताभ्यां परं यत्तदन्तादित्यर्थो यदि लभ्येत तदा पूर्वग्रहणं व्यर्थमिति सामर्थ्याद्व्यपदेशिवद्भावाप्रवृत्तिसाधकमिति वक्तुं शक्यते। स चार्थो दुर्लभः। सामानाधिकरण्येनैकशब्दगोशब्दरूपप्रतिपदिकादित्यर्थस्यैव सौगम्येनौचित्यादित्यशयः।। ननु शतसहस्रन्ताच्च निष्कादित्युत्तरसूत्रे निष्कशब्दस्य सामानाधिकरण्येन प्रातिपदिकसंबन्धाभावात्तत्साहचर्यादिहाप्येकशब्दगोशब्दाभ्यां परं यत्तदन्तादित्यर्थस्सुलभ एवेति पूर्वग्रहणमभीष्टार्थसाधकं किं न स्यादत आह।। सूत्रान्तात् ठगित्यादि।। विशेषणविशेष्यभावव्यत्यासेनेति ।। समासप्रत्ययविधाविति कृह्यमाणस्य विशेष्यतायामधिकारतः प्राप्त्साय विशेषणत्वे च सिद्धस्य तदन्तविध्यभावस्यानुवादकं, न त्वपूर्वतया तदन्तविधिनिषेधकं, लाघवात्।। यत्र तदन्तविधिरिष्टः तत्र भावत्येव उपात्तस्य विशेषणत्वम्।। उपपदविधौ यथा भायाढ्यादीनाम्।। तथा च प्रकृतेऽपि सूत्रशब्ददशन्‌शब्दयोरपि प्रातिपदिकविशेषणत्वेन लब्धं तदन्तांशमादाय सिद्धावन्तग्रहणं सामर्थ्याद्व्यपदेशिवद्भावाप्रवृत्तिसाधकमित्याशङ्काभिप्रायः।। अशक्यत्वादिति।। भयाढ्यादिग्रहणमुपपदविधावित्यादितदन्तविधिप्रयोजनप्रतिपादनपरभाष्यप्रामाण्यादुपात्तस्य तथाविधे विषये तदन्तविध्युपयोगाय विशेषणत्वाभ्युपगमेप्यन्यत्र तथा स्वीकारे समासप्रत्ययविधाविति तदन्तविध्यभावबोधककात्यायनवचनविरोध इत्याशयः।। ननु गृह्यमाणप्रातिपदिकविषयकव्यपदेशिवद्भावाभावस्य प्रमाणसिद्धत्वे तत्प्रवृत्त्या सजूस्सजूर्भ्यामित्यादौ रुत्वप्रवृत्तिर्व्याहन्येत, प्रमाणाभावे च कथं तदपत्त्या प्रकृते रुत्वप्रवृत्तिविघात इत्याशयेन शङ्कते।। न चेति ।। पृथग्योगकरणस्येति।। ननु पूर्वात्सपूर्वादित्येकयोगकरणे विद्यमानपूर्वावयवकपूर्वशब्दान्तप्रातिपदिकादनेनेत्यर्थे प्रत्यय इत्युक्ताविदंशब्देन निर्दिष्टस्य कर्तः प्रत्यासत्त्या प्रकृत्युपात्तक्रियानिरूपितस्यैव ग्रहणेन कृतपूर्वीत्यादावेव तत्प्रवृत्तिः, न तु केवलपूर्वीत्यत्र तथाभूतस्य कर्तुरभावात्।। पृथग्योगकरणे तु पूर्वादित्यत्र प्रकृत्युपात्तक्रियानिरूपितस्य कर्तुरसंभवात् सामर्थ्याद्गम्यमानस्थित्यादिक्रियानिरूपिते तस्मिन् प्रत्ययविधानादभीष्टसिद्धिः।। न चैकयोगकरणेऽपि प्रत्यासत्तिमनादृत्य व्याप्तिन्यायाद्यत्किंचित्क्रियानिरूपितस्य कर्तुः परिग्रहात् पूर्वीत्यादिकमपि निर्बाधमेवेति वाच्यम्।। तथा सति मासपूर्वादिप्रातिपदिकेभ्योपि पूर्वशब्दान्तेभ्यो यत्किंचित्क्रियानिरूपितकर्तारमुपादाय प्रत्ययोत्पत्तिप्रसङ्गात्।। इत्थं च पृथग्योगकरणस्यावश्यकतया कथं ज्ञापकत्वमिति चेन्न।। केवलपूर्वशब्दस्य पूर्वकालिकक्रियाबोधकस्यैव वृत्तिघटकत्वाभ्युपगमेन तत्रापि प्रकृत्युपात्तक्रियानिरूपितस्यैव कर्तुस्संभवेनादोषात्।। यत्तु पूर्वात्सपूर्वाच्चेति एकयोगकरणेपि चकारबललब्धसूत्रोपात्तप्रकृतिसमुच्चयोपहितप्रत्ययविधानवशदेव केवलात् पूर्वशब्दान्ताच्च प्रत्ययस्य निर्बाधतया पृथग्योगकरणस्य चारितार्थ्यायोगात् ज्ञापनानुपपत्तिरिति, तदयुक्तम्।। पूर्वसूत्रोपात्तप्रकृतिसमुच्चायकतया तत्रत्ययोः प्रत्ययतदर्थयोरनुवृत्तिसमर्पकत्वेन कृतार्थेन चकारेणाधिकारप्राप्तप्रातिपदिकपदस्य सूत्रघटकपूर्वशब्दस्य चावृत्तिकल्पनाद्वारेण सूत्रघटकप्कृतिद्वयसमुच्चयसमर्पकत्वे मानाभावादिति दिक्‌।। अनिष्टत्वादिति।। ननूत्तरत्र संबन्धभावे पूर्वात्तदन्ताच्चेत्येव सिद्धे सपूर्वाच्चेत्यनर्थकमेव स्यात्।। तच्चेष्टादिभ्य इत्यत्र विद्यमानपूर्वावयवकादिष्टाद्यन्तादित्यर्थबोधकत्वेनैव हि सार्थकमत आह।। एकयोगेऽपीति।। स्वरितत्वप्रतिज्ञाबलादनुवृत्तिकल्पनायामेकसूत्रत्वे सूत्रभेदे वा नास्ति विशेष इति अस्मादेव भाष्यादवगम्यति इत्याशयः।. असमासे निष्कादिभ्य इति।। तत्र हि भाष्ये असमासेग्रहणेन निषेधविषये प्रतिप्रसवतया तदन्तविधिज्ञापनप्रशंसायामार्हादगोपुच्छसंख्यापरिमाणादित्यत्र पर्युदस्यमानसमर्पकगोपुच्छादिविषये तदन्तविधौ परमगोपुच्छेन क्रीतं पारमगोपुच्छिकमित्यत्र ठको निवृत्तिः ठञःप्रवृत्तिश्च प्रयोजनमित्युपक्रम्य नैतदस्ति प्रयोजनं विधौ प्रतिषेधः प्रतिषेधश्चायमित्युक्तम्।। कैयटे च पूर्वात्सपूर्वाच्चेति प्रत्ययविधौ ग्रहणवतेत्यस्याः परिभाषाया ज्ञापितत्वाद्यत्रैव प्रत्ययो विधीयते तत्रैवायं तदन्तविधिः प्रतिषिध्यते।। अगोपुच्छसंख्यापरिमाणादित्यनेन तु ठक्‌ प्रतिषिध्यत इति न तदन्तविधिप्रतिषेधः।। नापि व्यपदेशिवद्भावप्रतिषेध इत्युक्तमिति द्रष्टव्यम्।। ननु ग्रहणवतेति व्यपदेशिवद्भावोऽप्रातिपदिकेनेति च परिभाषाद्वयस्यापि प्रकृतविषये प्रमाणबलात् प्रवृत्त्यभावस्य प्रतिपादितत्वादुभयविषयेपि प्रयोजनोपपादनस्य न्याय्यतया तदन्तविधिनिषेधाप्रवृत्तिप्रयोजनमात्रोपपादनमयुक्तमत आह।। आदिना सजूर्भ्यामिति।।
ग्रहणं न स्यादिति।। सकारान्तानां त्रयाणामपि निपातानामङ्गीकारे विभाषा भवदिति वार्तिकमेव नेति तु न युक्तम्।। भो इत्यादिसमभिव्याहारदशायामभीष्टस्यामन्त्रितकार्यस्य निर्वाहाय वार्तिकावश्यकताया वक्ष्यमाणत्वात्।। अनभिधानादिति।। [टि- अनभिधानादितीति।। क्कचित्पुस्तके इति वाच्यमित्यनन्तरं ``अनभिधाना दित्यधिकः पाठो दृश्यते। तदनुसारेणेदम्‌। इदानीन्तनपुस्तकेषु तु नैव दृश्यते।।] ननु भो राजन्यविशां वेति वार्तिकविरोधादनभिधानमयुक्तमत आह।। तेषामभिधाने इति।। एषां रोरिति।। सामानाधिकरण्येन र्वन्तानां भो इत्यादीनां यःस्यादपूर्वस्य च रोरिति व्याख्यानेनापि न दोषः।। एकदेशविकृतन्यायेन रोरीति लोपोत्तरं र्वन्तत्वस्य विकृतावयवनिबन्धनधर्मतया दुर्लभत्वात्।। आनुमानिकस्थानिवद्भावेनापि र्वन्तत्वं दुर्लभमेव।। वलादित्ववदस्यापि स्थानिसंबन्ध्यल्‌वृत्तिधर्मघटितत्वात्, तथापि मूलानुसारादेवमुक्तम्।। तन्मते ह्यल्मात्रवृत्तिरल्मात्रवृत्तिधर्मंघटितो वा स्थानिवद्भावप्रयोज्यो यो धर्मस्तस्यैव निषेधविषयतया सामानाधिकरण्येन संबन्धे रोरीति लोपोत्तरं भो इत्यादिष्वानुमानिकेन स्थानिवत्त्वेन र्वन्तत्वबुद्ध्या प्रवर्तमानो यकार ओकारनिवर्तकस्स्यादित्यनिष्टप्रसङ्गः।। वैयधिकरण्ये तु लोपे स्थानिवत्त्वेन रुत्वबुद्धावप्युच्चारणप्रसङ्गात्मकस्थानशब्दार्थनिरूपितनिवर्त्यनिवर्तकभावरूपस्थानषष्ठ्यर्थस्य दुर्वचत्वादादेशाप्रवृत्तिः।। प्रवृत्तौ वा रुत्वबुद्ध्या रेफलोपप्रदेशे हलि सर्वेषामिति लोपेन निवृत्त्या क्षत्यभाव इति बोध्यम्।। ननु भो इत्यादीनां रोरपूर्वस्य च रोरिति व्याख्याने सहविवक्षाया अभावात् द्वन्द्वनिर्देशानुपपत्तिरित्यत आह।। षष्ठ्यास्सौत्रौ लुगिति।। भो भगो अघोरिति पृथक्‌पदमिति भावः।। स्थान्यल्वृत्तिधर्माश्रये इत्यादि।। प्रकृतसूत्रस्थभाष्यबलादनल्विधावित्यस्यावृत्तिवशादेकत्वमात्रावच्छिन्नाल्त्वावच्छिन्नपर्याप्तिकाधारतानिरूपकधर्मावच्छिन्नस्थानितावद्वृत्तिः स्थानिसंबन्ध्यल्वृत्तिर्वा स्थानिवद्भावप्रयोज्यो यो धर्मस्तद्धर्मावच्छिन्ननिमित्तताकविधौ च स्थानिवद्भावो नेत्यर्थोऽवश्यमाश्रीयत इति भावः।। अत्र यद्वक्तव्यं तत्स्थानिवत्सूत्रे उक्तम्।। विधिमुखेनेति।। सप्तमीबहुवचने परे रोर्विसर्गविधानसामर्थ्येन तदंशे खरवसानयोरित्यस्याप्रवृत्त्या रुत्वानुपहितस्य रेफस्य विसर्गाभाव आर्थिक इत्येवंरीत्या रोस्स्थानित्वमिति भावः।। उत्तरार्थमिति।। हलि सर्वेषामित्यत्राश्रपे हलीति व्याख्यानेन सत्यभिधाने वृक्षव्‌करोतीत्यादौ लोपनिवारणार्थमित्यर्थः।। भो इत्यादिप्रयोगाणामिति।। भो हरिहरावित्यादिप्रयोगाणामित्यार्थः।। ननु वार्तिकानभ्युपगमे भो इत्यादिनिपातानामामन्त्रितत्वाभावादामन्त्रितत्वप्रयुक्तकार्यानुपपत्तिस्तथा तत्समभिव्याहारदशायामितराभ्योऽपि दृश्यन्त इति भवदादियोगे प्रवर्तमानयोस्त्रतसिलोश्चानुपपत्तिरत आह।। निपातानामपीत्यादि।। सोर्लुका लुप्तत्वेनेति।। भो हरिहरावित्यत्र द्विवचनस्य संबुद्धित्वाभावेनेत्यपि बोध्यम्।। लिङ्गविशिष्टाग्रहणादिति।। तद्‌ग्रहणेऽपि ङीबन्तस्य रुत्वप्रवृत्तावभीष्टरूपासिद्धिश्चेत्यपि बोध्यम्।। सहप्रयोगसंभवइति।। व्यतिलुनीते इत्यादौ व्यतीहारविशेष्टक्रियावाचकस्य लूञ्‌धातोर्द्योतकस्यात्मनेपदस्योपसर्गस्य च यथा सहप्रयोगस्तद्वदेव संबोधनवाचकस्य भोश्शाब्दस्य तद्‌द्योतकस्य हेशब्दादेश्च सहप्रयोग इत्यर्थः।। शक्तौ मानाभावेनेति।। भोश्शब्दस्यैव विभाषा भवदिति वार्तिकसिद्धविभक्त्यन्तप्रतिरूपकत्वमुक्तं भाष्यकैयटयोर्न त्वनयोरिति भावः।। एकान्तरतेति।। आमःपरस्यैकपदव्यवहितस्यामन्द्रितस्य निघातैकश्रुत्यप्लुतोदात्तत्वप्रतिषेधप्रयुक्तमामन्त्रिताद्युदात्तत्वमित्यर्थः।। अनन्तिके इत्यनेन तत्र दूरे विहितस्य प्लृतोदात्तत्वास्य असन्निहिते विहितस्यैकश्रुत्यस्य प्रकरणप्राप्तस्य निघातस्य च प्रतिषिध्यमानतया भाष्यकाराभिमतत्वादित्यन्यत्र विस्तरः।। न प्रामाणिकाविति।। ननु कथामप्रामाणिकत्वं तत्राह।। अत एवेति।। एष भोश्शब्द इत्यनेन तदितरयोख्ययत्वाभावो भाष्यकृता ध्वनित इति भावः।। उभयोर्ग्रहणसिद्धिरिति।। ननु भगो अघो इत्यनयोर्निपातयोरनभ्युपगमात् तत्साहचर्याद्वार्तिकनिष्पन्नस्यैव भोश्शब्दस्य ग्रहणं स्यान्न तु निपातस्येत्यत आह।। बिभाषा भवदिति।। भाष्यप्रामाण्यत्‌ भो ब्राह्मणा इत्यादिप्रयोगोपपत्तये निपातस्यापि भोश्शब्दस्य रुत्वनिष्पन्नरेफान्तस्य ग्रहणमुपपन्नमिति भावः।। अर्थवतामेवेति।। अर्थवत्त्वेन साहचर्यंन तु वार्तिकनिष्पन्नत्वेन निपातत्वेन वेति भावः।। ननु सान्तानुकरणे निपातस्य भोश्शब्दस्य सान्तत्वे।पि वार्तिकनिष्पन्नानामन्येषामतथात्वात् सूत्रासङ्गतिरत आह।। अत्रेदमिति।। असन्धिर्न्याय्य एवेति।। ओकारान्तानुकरणस्य सौत्रत्वं प्रभोरित्यादिघटकभोइत्यादिव्यावृत्तेः पक्षान्तरैकरूप्यातिरिक्तप्रमाणराहित्यं चेति भावः।।
एकदेश्युक्तिरेवेति।। ननु विना प्रमाणमृषिवचनानामेकदेश्युक्तित्वकल्पनाप्रयुक्तमप्रवर्तकत्वमयुक्तमत आह।। भाष्यविरोधादिति।।
केचित्तु पदान्तत्वोपहितयणन्तप्रयोगाणामविशेषेणानभिधानकल्पनायां यणः प्रतिषेधो वाच्य इति संयोगान्तलोपविषयकप्रतिषेधवार्तिकासङ्गतिः।। यदि तु लक्षणानधीनपदान्तयणन्तानामनभिधानमित्युच्यते तर्हि गमुल्‌शकुल्‌इत्यादेरनभिधानस्य शेखरोद्योताद्युपपादितस्यासङ्गत्यापत्तिः।। यदि च आवसानिककार्यप्रवृत्तियोग्यानां तेषामनभिधानमित्युच्यते तदा कविकमलादिशब्देभ्योप्याचक्षाणणिजन्तेभ्योविजादौ स्वोत्तरत्वेन पदान्तरसमभिव्याहाराभावदशायां तद्धटकयणामप्यावसानिककार्यप्रवृत्तियोग्यतया पूर्वमपि तेषामप्रयोगप्रसङ्गः।। तस्मादुपक्रमोपसंहारस्वारस्यात्तद्भाष्यस्यावसानिककार्यप्रवृत्तिविषयाणामेव यणामनभिधानमित्येवाभिप्राय इति युक्तम्।। किं चाणोऽप्रगृह्यस्येत्यत्र पूर्वेणाण्‌ग्रहणमिति समर्थनार्थं भाष्यकारीयोऽयमुद्योगः।। तत्राप्रगृह्यस्येत्यस्याण्विशेषणत्वेन प्रगृह्यत्वस्याज्‌धर्मतया तद्भिन्नस्याज्‌रूपस्यैवाणो ग्रहणात्पदान्ता हलो अणःकार्यभाजो न भवन्तीत्यर्थकमेव न हि पदान्ताः परेऽणःसन्तीति भाष्यं, स्पष्टं चेदं कैयटे।। तस्मात्तद्भाष्यावष्टम्भेन वृक्षव्‌करोतीत्यादावशा हलो विशेषणेन लोपनिवारणपरहलि सर्वेषामित्येतत्सूत्रविषय भाष्यस्यैकदेशयुक्तिकल्पनं न समञ्जसम्‌, वृक्षव्‌हसतीत्यादीनामनभिधानमेव युक्तिमदित्याहुः।। [टि- आहुरिति।। अत्न यद्वक्तव्यं तदधस्तान्निरूपितम्।]
ननु दृहेरिदितो निष्ठाया इडभावस्य हकारस्थाने धकारस्य च निपातनमात्रेण सत्स्वपि धत्वष्टुत्वढलोपेषु कथं दृढ इत्यस्य सिद्धिरत आह।। चेन नालोपसङ्ग्रह इति।। ननु ष्ठुत्वस्य ढलोपदृष्ट्या त्रिपाद्यां परत्वेनासिद्धत्वात्कथं ढलोप इत्यत आह।। नासिद्धत्वमिति।। सामर्थ्यादिति।। ष्टुत्वनिष्पन्नव्यतिरिक्तस्य ढलोपविषयस्य दौर्लभ्यात्तच्छास्त्रैकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रघटकपूर्वग्रहणेन ढलोपशास्त्रस्याग्रहणबोधनद्वारा सामर्थ्यात्त्त्रैपादिकासिद्धत्वबाध इत्याशयः।। ननु तत्सामर्थ्यात् लिड्‌ ढौकत इत्यादौ जश्त्वनिरूपितढलोपासिद्धत्वबाधनेन ढलोपप्रवृत्त्या सूत्रसार्थक्यं किं न स्यादिति चेन्न।। जश्त्वनिरूपितासिद्धत्वपूर्वकजश्त्वबाधकल्पनापेक्षया ष्टुत्वगतासिद्धत्वमात्रबाधायां लघुत्वेन न्याय्यत्वात्‌।। न च ढलोपविध्येकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रघटकपूर्वग्रहणेन जश्त्वशास्त्रग्रहणबोधनद्वारा जश्त्वशास्त्रनिरूपितढलोपशास्त्रगतासिद्धत्वमात्रबाधनमेव कल्प्यम्।। जश्त्वबाधनं तु विप्रतिषेधशास्त्राधीनमिति नास्ति गौरवावकाश इति वाच्यम्।। विप्रतिषेधशास्त्रस्य यथोद्देशताया एव भाष्यारूढत्वात्तन्निरूपितढलोपशास्त्रगतासिद्धत्वनिवृत्तये जश्त्वशास्त्रनिरूपिततद्गतासिद्धत्वनिवृत्तये च ढलोपशास्त्रैकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रनिरूपिततद्गतासिद्धत्वनिवृत्तये च ढलोपशास्त्रैकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रघटकपूर्वग्रहणेन जश्त्वशास्त्रविप्रतिषेशास्त्रयोरुभयोरग्रहणकल्पनापेक्षया ष्टुत्वशास्त्रेकवाक्यतापन्नतथाविधपूर्वग्रहणेन ढलोपशास्त्रमात्रग्रहणकल्पनाया लघुत्वस्य निर्विवादत्वात्।। णेरयभावे चेति।। र ऋतो हलादेर्लघोरिति रभावोपि द्रढीयानित्यत्र भवत्येव, ढलोपासिद्धत्वस्य तत्‌प्रतिबन्धकत्वाभावात्।। तत्र हि हलादेरित्यस्य अङ्गविशेषणत्वे न पृथुरपृथुस्सोऽस्यास्तीति अपृथुमान्‌ अतिशयेनापृथुमानप्रधीयानित्यत्र रभावानापत्तिर्लघुविशेषणत्वे च न सन्ति ऋचोऽत्रेत्यनृक्‌ तदस्यास्तीति अनृग्मान्, अतिशयेनानृग्मान् अनृचीयानित्यत्र रभावापत्तिरितिभाष्ये हलादेर्लघोरिति प्रत्याख्याय पृथुमृदुकृशभृशदृढपरिबृढानामेव रपरत्वमिति परिगणनाभ्युपगमात्।। रूढिस्तूभयसाधारणीत्याशयः।। लोपार्थमिति।। परस्य च ढत्वार्थमित्यपि तत्रोक्तमिति द्रष्टव्यम्।। भाष्यविरोध इति।। ननु भाष्यमिदमुभयसाधारणं नकारलोपस्त्वन्वाचयशिष्ट इति नास्ति भाष्यविरोधो वामनस्येत्यत आह।। कैयटविलोधश्चेति।। ननु मास्तूभयसाधारणं निपातनं योगविभागप्रयुक्तढत्वसंपत्त्या बहुतरप्रयोगनिर्वाहकागमशास्त्रीयानित्यत्वमूलकेडागमाप्रवृत्त्या च प्राचीनपरिकल्पितं दृढ इति प्रत्युदाहरणं किं नाद्रीयते तत्राह।। किंचेति।। व्यर्थत्वमिति।। अनित्यत्वेनैवेडागमभावसिद्धौ [टि- अनित्यत्वेनैवेति।। अस्व तन्मते इत्यादिः।] नलोपादीनामेव निपातनीयतया तत्‌प्रकरणे पाठमुपेक्ष्यइण्णिषेधप्रकरणे पाठो व्यर्थस्स्यादतोऽत्रागमशास्त्रानित्यत्वमिडागमाप्रवृत्तिसाधकमिति वक्तुमयुक्तमित्याशयः।। अलमिति।। एतेन वा दृहेत्यत्र योगविभागस्य भाष्यकाराननुगृहीतत्वादप्रामाणिकत्वमित्यपि सूचितम्।।
तद्वैयर्थ्यमिति।। एषको रुद्र ित्यादौ सुप्रत्ययस्यैतच्छब्दाद्विहितत्वाभावादेवाप्राप्तेस्तद्वैयर्थ्यमित्याशयः।। एतच्छब्दतच्छब्दाभ्यामनन्तरो यस्सुस्तस्य लोपइत्युचितम्।। एतत्तदर्थगतसंख्याभिधायिन इत्युक्तौ तु तत्‌कल्पो भवतीत्यादावपि लोपापत्तिः।। कल्पबादेर्द्योतकतया तदर्थस्येषदूनत्वस्य विशेषणतया प्रकृत्यर्थस्यैव प्राधान्यात्। अत एव त्वत्कल्पो भावसीत्यादौ लबोध्यर्थसमानाधिकरणप्रधानभूतयुष्मदर्थबोधकशब्दे उपपद्दे विधीयमानस्य मध्यमपुरुषस्योपपत्तिरिति स्‌पष्टमुद्योतशेखरयोः।।
प्रातिशाख्येनेति।। ईदृशेषु प्रातिस्विकतया तत्र प्रकृतिभावप्रतिप्रसवाभिधानादिति भावः।। अवधारणपरतयेति।। निपातानामनेकार्थत्वमाश्रित्य बहुलग्रहणस्य अवधारणार्थकत्वमयुक्तमुक्तवैदिकप्रयोगविरोधादित्याशयः।। सोऽहमाजन्मेति।। पादपूर्तिनिमित्तको लोपविधिः।। स च यत्र नेष्यते तत्र बहुलग्रहणप्रयुक्तलोपप्रवृत्तिपरिहारेण निर्वाहः।। तदुक्तमभियुक्तैः।। क्वचित्‌प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव। विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्तीति।। तस्मादनवधारित एवायं विधिरविरोधेन लक्ष्यसमर्थनायोपयोक्ष्यत इति सकलेष्टसिद्धिरित्याहुः।।
।। इति स्वादिसन्धिः।।
।। पञ्चसन्धयस्समाप्तिमगमन् ।।

।। अथाजन्तपुंलिङ्गाः ।।
श्री गणपतये नमः।। अर्थवदधातुः।। निषेधबाधनेनेति।। कार्यकालपक्षे तत्तद्विध्येकवाक्यतया कार्यविशेषषोद्देशेन संज्ञाप्रवृत्तेरावश्यकतया प्रकृते नित्यस्य यस्येतिलोपस्य प्रवृत्त्युत्तरमवशिष्टात्स्वाद्युत्पत्तये तद्विध्येकवाक्यतया प्रातिपदिकसंज्ञापेक्षायामेतन्निषेधप्रसङ्ग इति भावः।। प्रवृत्ताया इति।। अस्य यथोद्देशे इत्यादिः। तत्पक्षे हि विध्येकवाक्यतां विनैव कार्यसामान्योद्देसेन सकृत्प्रवृत्तयैव संज्ञया सर्वकार्यनिवाहः, पक्षयोर्व्यवस्तितत्वाच्च न कार्यकालपक्षो दोषापादनहेतुरित्याशयः। न च कार्यकालपक्षेऽप्यनाकडारीयत्वेन विरोधाभावाल्लुक्प्रवृत्तिसुबुत्पत्तिप्रयोजकयोर्द्वयोरपि संज्ञायोर्यौगपद्येन प्रवृत्तौ तस्यामेवावस्थायां स्वाद्युत्पत्त्या निर्वाह इति वाच्यम्। अनितरनिमित्तकत्वप्रयुक्तादन्तरङ्गत्वाल्लुका परत्वाद्यस्येति लोपेन च बाधाद्बहिर्भूतसंख्याकारकयोस्तत्रानभिव्यक्त्या निमित्ताभावाच्च तदुभयप्रवृत्त्युत्तरमेव स्वादीनां प्रवर्तनीयतया कार्यप्रवृत्तिसमानकालिकत्वेनैव तत्पक्षे संज्ञाप्रवृत्तेः स्वाभाविकतया च निरुक्तनिषेधो दुर्वार इत्याशयात्। एवं च तद्धितग्रहणस्य प्रत्ययान्तपर्युदाससमर्पकत्वं मूलकारोक्तं यथोद्देशाभिप्रायकमिति वस्तुस्थितिः। न चैतत्पक्षे लिह्‌ क्विबित्याद्यवस्थायां कार्यविशेषानुद्देशेन प्रवृत्तायास्संज्ञाया उक्तन्यायेन क्विब्लोपोत्तरं सुलभत्वात्कृद्‌ग्रहहणस्यापि व्यर्थतया तदनुक्तेर्न्यूनतेति वाच्यम्। अन्तरङ्गेण वेरपृक्तलोपेन बाधात्तत्काले संज्ञाया अप्रवृत्त्या लोपोत्तरं प्रसक्तस्य धातुपर्युदासस्य बाधनेन कृतार्थतया वैयर्थ्याभाव इत्याशयात्।
केचित्तु लिडादौ धातुपर्युदासबाधनस्य क्विब्विजादिसाधारणतया विग्रहणेनैव सिद्धौ सामान्यग्रहणस्य व्यर्थतया कृद्ग्रहणमप्युक्तार्थे ज्ञापकम्। अत एव भाष्ये प्रत्ययान्तपर्युदासखण्डनाय कृत्तद्धितग्रहणं नियमार्थमित्युक्तं, न तु तद्धितग्रहममेवेत्युक्तमित्याहुः।। [टि-आहुरिति।। अत्रेदं तत्त्वम्। विग्रहणे तत्रेकारस्यानुनासिक्यज्ञानार्थं व्याख्यानस्यैव शारणीकर्तव्यतया ज्ञानगौरवसत्त्वेन तदपेक्षया कृद्‌ग्रहणे गौरवाभावेन तस्य ज्ञापकत्वं दुर्लभमिति मनोरमाकारस्याशयः। भाष्यन्तु धातोः प्रत्ययान्तस्य च चेत्कृत्तद्धितान्तानामेवेति नियममाश्रित्यप्रत्ययान्तपर्युदासखण्डनायेव धातुपर्युदासखण्डनायापि प्रवृत्तम्। स्पष्टं चेदमुद्योते। मनोरमाकारस्तु धातुपर्युदासं वदतस्सूत्रकारस्य प्रत्ययान्तपर्युदासेऽपि तात्पर्यमस्तीति बोधनार्थं ज्ञापकत्वं वदति। एवञ्च भिन्नविषयकत्वाद्भाष्योक्त्यनुसरणं नावश्यकं सूत्रकाराशयमुपवर्णयतो मनोरमाकारस्येति।।]
तन्मात्रवृत्तिरेवेति।। एवं च स्वपर्याप्तैकार्थोभावप्रयोज्यलौकिकार्थविषयकबोधजनकत्वमुत्तरसूत्रघटकमर्थवत्त्वमिति निष्कर्षः।। न प्र तिपदिकत्वमिति।। सति तु तस्मिन् टित्त्वलक्षणस्य द्विगुलक्षणस्य वा ङीप्प्रत्ययस्यानुपसर्जनाधिकारेण बाधेऽपि टाप् दुर्वारः। पुंवद्भावस्तु प्रियादौ निषिद्धः। गोस्त्रियोरिति ह्रस्वोऽपि न भवति। विशिष्टस्यैव टाबन्तत्वेनोपसर्जनीभूतस्त्रीप्रत्ययान्तोत्तरपदकसमासरूपप्रातिपदिकत्वाभावात्। स्त्रीप्रत्ययान्तस्य ह्रस्वप्रवृत्तिविषयसमासनिरूपितोपसर्जनत्वाभावाच्छेति भावः।। यदि तु यस्मात् स्त्रीप्रत्ययो विधित्सितस्तन्निरूपितोपसर्जनत्वाभाव एवानुपसर्जनाधिकारस्य विषयः, अन्यथा पदावधिकेऽन्वाख्याने पञ्चपूलीप्रिय इत्यादावपि स्त्रीप्रत्ययानुपपत्तिप्रसङ्ग इत्युच्यते, तदा ङीप एवापत्तिरत्र [टि - ङीप एवापत्तिरत्र न्याय्येति।। वस्तुतस्तु प्रातिपदिकत्वस्यार्थवत्त्वनिबन्धनतया यस्मात्प्रातिपदिकान्ङीप्प्रत्ययो विधित्सितस्तन्निष्ठप्रातिपदिकसंज्ञाप्रयोजकार्थोपस्थित्यनुकूलवृत्त्युपस्थितयत्किञ्चिदर्थनिष्ठविशेष्यतानिरूपितप्रकारताराहित्यमनुपसर्जनत्वमिति विवक्षणेन पञ्चमूलशब्दस्य समाहारद्विगुप्रयोजकैकार्थीभावप्रयोज्यार्थवत्त्वेनैव प्रातिपदिकत्वेन तन्निरूपितोपसर्जनत्वाभावान्ङीप्‌ सुलभः। प्रकृते तु टजन्ते प्रातिपदिकत्वनिबन्धनस्यार्थवत्त्वस्य समुदायवृत्त्येकार्थीभावप्रयोज्यतया तन्निरूपितोपसर्जनत्वस्य टजन्ते सत्त्वान्न ङीपः प्रसक्तिः।। अत एव टाबेवापादितश्शब्देन्दुशेखरे। अतो ङीबापादनमयुक्तमेवेति ध्येयम्।] न्याय्या।
यत्तु सन्निपातपरिभाषयात्र न स्त्रीप्रत्ययप्रवृत्तिः, उत्तरपदानन्तर्यनिमित्तकस्य समासस्य प्रातिपदिकत्वेन स्त्रीप्रत्ययोत्पत्त्या तद्विघातकत्वायोगात्। टचा तु न तद्विघातस्तस्य समासावयवत्वादित्याहुस्तदसत्। परम्परया सन्निपातनिमित्तकत्वग्रहणे मानाभावेन तद्धितान्तत्वनिबन्धनप्रातिपदिकसंज्ञाप्रयुक्तस्त्रीप्रत्ययापादने परिभाषाविरोधस्य दुर्वचत्वात्। अतो युक्त एवैकार्थीभावे तन्मात्रवृत्तित्वनिवेश इति दिक्।।
न तु तन्मात्रे इति।। उत्तरपदनिमित्तको द्विगुस्सामर्थ्यात्समुदायपर्याप्तमेवैकार्थीभावमाश्रित्य प्रवर्तत इति सिद्धान्तः।। कल्पितैकार्थीभावस्येति।। कृद्धृत्तित्वसंपत्तये तस्यामवस्थायां तत्कल्पनेनि भावः। नन्वर्थवत्त्वांशे लौकिकार्थविषयकबोधजनकत्वनिवेशो व्यर्थः। न ह्यलौकिकवाक्यव्यावृत्त्यर्थस्तन्निवेशः। तत्रापि प्रातिपदिकसंज्ञाय अभीष्टत्वात्, कथमन्यथा तत्र सुपो धात्वत्यस्य प्रवृत्तिः स्यात्। तस्मात्पर्याप्त्याख्यसंबन्धेनैकार्थीभावरूपशक्तिमत्त्वमेवार्थवत्त्वमिति परीष्क्रियताम्, प्रकृतिप्रत्यययोरन्यतरलोपे तदारोपस्योभयवादिसम्मतत्वेऽप्यन्यत्र तदनपेक्षणाल्लाघवमिति चेत्सत्यम्। लौकिकस्य विशिष्टार्थबोधस्योपायतया कल्प्यमानस्यैकार्थीभावस्य यत्र लिड्‌ धुगित्यादावसम्भवस्तत्रागत्या तदीयालौकिकवाक्ये तत्स्वीकारेऽप्यन्यत्र तथाविधबोधानौपयिके प्रक्रियावाक्ये तत्कल्पनायां मानाभावेनातिदेश एव तत्राभ्युपगन्तव्य इति सर्वथाप्यतिदेशस्यावश्यकतया तादृशबोधप्रयोजकस्यैकार्थीभावस्य वा तत्प्रयोज्यतथाविधबोधजनकत्वस्यैव वा प्रातिपदिकसंज्ञाप्रवर्तकतया तत्रातिदेशे नास्ति विशेष इति विभावनीयसित्याहुः।। प्रातिपदिकत्वे हीति।। सातिरत्र प्रत्यय एव, त तु सौत्रो हेतुमण्यन्तः। षोपदेशविरहितत्वेन वैयर्थ्यात्। ननु धनवनादिषु चरमवर्णपर्यन्तानां भावतु तन्मध्यपतितन्यायेन विशिष्टप्रातिपदिकावयवत्वम्। चरमवर्णकृतिकस्य तु तदवयवत्वाभावाल्लुकोऽप्राप्त्या श्रवणापत्तिरित्यात आह।। समुदायसंज्ञा चेति।। इत्थञ्च तथाविधसुब्विशिष्टस्यैव समुदायसंज्ञेति न कस्यापि श्रवणापत्तिरित्याशयः। एकाज्द्विर्वचनन्यायस्य तु नात्र विषयः। समुदायसंज्ञाया अवयवकार्यनिर्वाहकत्वाभावात्। यत्र समुदाये प्रवर्तमानेन कार्यविशेषेणावयवानामप्यनुग्रहस्तत्रैव हि तादृशो न्यायो धर्मिग्राहकसाधर्म्यात्। अत एव यत्र बहवा हलस्संशिलष्टास्तत्र द्वयोर्बहूनां चाविशेषेण संयोगसंज्ञेति सिद्धान्तः। नन्वेवमपि प्रत्ययान्तावयवेभ्यः प्रातिपदिकसंज्ञाप्रयुक्ते सुपि समुदायप्रातिपदिकसंज्ञामाश्रित्य लुको दौर्लभ्यात्तत्र तच्छ्रवणापत्तिः। न च चरमवर्णप्रकृतिके सुपि तमादाय विशिष्टस्य प्रत्ययान्तत्वानुपपादनात्तद्विशिष्टस्य प्रकृतसंज्ञायां लुक्‌प्रवृत्तिस्सुलभैवेति वाच्यम्। तावतापि तदवयवानां पदत्वप्रयुक्तस्य नलोपाद्यापादनस्य परिहारासम्भवात्। तथा धात्ववयवत्वेन तदवयवेभ्यः प्रवृत्तस्य सुपो निवृत्तिसम्भवेऽपि निरुक्तदोषो दुर्वार इत्यत आह।। पचति ध्वनतीत्यादि।। तदवयवपरत्वेनेति।। लक्षणयेति शेषः। धातुप्रत्ययान्तयोस्तदवयवत्वं व्यपदेशिवद्भावेनेति भावः। यदि तु धातुप्रत्ययपदयोरेव तदवयवपरत्वमाश्रीयेत तदा बभूवेत्यादावभ्यासस्य धातुप्रत्ययोभायभिन्नत्वेन तदवयवानां संज्ञाप्रवृत्तिर्दुर्वारा स्यात्। धातुपदस्य तदवयवपरत्वं तु अहन्नित्यादाववयवानां संज्ञाप्रवृत्तिपरिहारायेति द्रष्टव्यम्।। अव्युत्पन्नप्रातिपदिकावयवेभ्य इति।। तत्रान्तरङ्गत्वादवयवप्रातिपदिकत्वतन्निमित्तकौत्सर्गिकैकवचनयोः प्रवृत्त्युत्तरमेव समुदायप्रातिपदिकतन्निमित्तकसुबौ प्रवर्तेते इति न प्रत्ययान्तावयवपर्युदासेन निर्वाह इत्याशयः।. व्युत्पत्तिपक्षे त्विति।। व्यत्पत्तिरियं पङ्‌क्तिविंशतीति सूत्रे भाष्ये। तुशब्देन पाणिनेख्युत्पत्तिपक्ष एवेति सिद्धान्तोपि सूचितः।। ध्वनितमिति।। उक्तोदाहरणे यत्किञ्चिल्खण्‍स्य सुब्विशिष्टस्य प्रातिपदिकत्वमाश्रित्य सुपो धात्वित्यस्य प्रवृत्तेरनुद्भावनेन धातुप्रत्ययान्तपदयोस्तदवयवपरत्वं भाष्यकैयटयोर्ध्वनितमिति तदर्थः।। नलोपाद्यापत्तिरिति।। लुकाश्रवणापत्तेर्वारणादयमेव दोष इति भावः। वस्तुत एषोऽप्यत्र न दोष इत्याशयेनाह।। इदमव्ययेभ्य इत्यादि।। एकवचनं, द्विबह्वोर्द्विवचनबहुवचने, इति न्यासेन द्वित्वबहुत्वयोरविषये संख्यानपेक्षमेकवचनमव्ययेभ्यो यथा प्रवर्तते तथा प्रकृतेऽपीत्यापादनतात्पर्यम्।। महासंज्ञाकरणादिति।। एकग्रहणराहित्येन पृथग्योगारभ्भेऽप्येकं वक्तीत्यर्थकमहासंज्ञावैयर्थ्यान्न सार्वत्रिकं संख्यानपेक्षमेकवचनं, किन्तु गमकाधीनमिति भावः। नन्विदं महासंज्ञाकरणं प्रथमैकवचनस्यैव संख्यानपेक्षत्वं न तु द्वितीयाद्येकवचनस्येत्यर्थकल्पकतया कृतार्थम्। ्त एव पचतिरूपमित्यादौ रूपप्‌सूत्रस्थभाष्यसम्मते न प्रथमातिरिक्तविभक्तेरेकवचनम्। उत्तरसूत्रे द्विबहुग्रहणादिह महासंज्ञाकरणं प्राचामनुरोधीत्यपि वक्तुं यक्तम्। न च द्वितीयाद्येकवचनस्य संख्यानपेक्षत्वेऽपि कर्माद्यपेक्षणादप्रसङ्ग एवेति वाच्यम्। प्रथमैकवचनस्यापि प्रातिपदिकार्थापेक्षणादनर्थकेभ्यो हुं फडादिभ्यः प्रवृत्त्यनापत्त्या तस्य विभक्त्यर्थमात्रानपेक्षत्वस्यैव कल्पनीयत्वदतो नोक्तार्थलाभ इत्यत आह।। अत एवेति।। दुर्वारमेवेति।। एवञ्च तत्रौत्सर्गिकैकवचनानापादनाद्भाष्यकारस्य न्यूनतापत्त्या तस्य गमकाधीनत्वमावश्यकमिति भावः। नन्वेवं धनवनादिषु नलोपाद्यापादनपरं भाष्यं विरुद्धेतेत्यत आह।। एकदेश्युक्तिरिति।। [टि- एकदेश्युक्तिरितीति।। एकवचनं दुर्वारमेवेति शब्दरत्नग्रन्थानंतरं ``प्रकृतसूत्रस्थभिदं भाष्यं त्वेकदेशयुक्तिः इत्यधिकः पाठः क्वचिद्‌दृश्यते। तद्रीत्येदम्‌ इदानीन्तनपुस्तकेषु नैवोपलभ्यतेऽयं पाठः।] वैपरीत्यमाशङ्क्याह।। अत एवेति।। मुख्यं व्यावर्त्यमिति।। न च धातुसाहचर्यादर्थवत्येव प्रातिपदिके सुपो धात्विति लुकः प्रवृत्त्या कथमेतव्द्यावर्तनेनार्थवद्‌ग्रहणसार्थक्यं स्यादिति वाच्यम्। साहचर्यपरिभाषाया अनित्यत्वज्ञापनेन तव्द्यावृत्त्या तत्सार्थक्यमित्याशयात्। नन्वेतावदेव न, किन्त्वन्यदपि तस्यैकदेश्युक्तित्वे साधकमस्तीत्याह।। अत [टि- अत एवेतीति।। मुख्यं र्व्यावर्त्त्यमित्यनन्तरं ``अत एवैतत्सूत्रशेषे भाष्ये काण्डे इत्यादौ पूर्वान्तत्वेन प्रातिपदिकत्वाद्ध्रस्य एवापादितो न तु सुबुत्पत्तिः इत्यदिकः शब्दरत्नपाठः क्वचिद्‌दृश्यते तद्रीत्येदम्।] एवेति।। एवञ्च प्रमाणबाहुल्यादौत्सर्गिकैकवचनस्य गमकाधीनत्वसिद्ध्या धनवनाद्यवयवानां न तव्द्यावर्त्यत्वमित्यभिमानः।। रूपप्‌सूत्रस्थमिति।। तत्र हि भाष्ये पचतिरूपमित्यादितिङन्तप्रकृतिकस्वाथिकप्रत्ययान्तेषु क्रियाया निस्संख्यात्वात्साधनगतसंख्यायाश्च तिङ्‌प्रत्ययेनाभिधानादेकावचनानुत्पत्तिः। न केवला प्रकृतिरिति नियमेन तत्कल्पने तु सर्वेषामेव वचनानां प्रवृत्तिप्रसङ्ग इत्याशङ्कायामेवं तर्ह्येकवचनमुत्सर्गः करिष्यत इत्युक्तम्। अर्थवत्समुदायविषयक इत्यस्यार्थवदवयवको योऽर्थवान्समुदायस्तद्विषयक इत्यर्थः।। इति दिगिति।।
केचित्तु काण्डे इत्यादौ प्रवृत्तावप्यौत्सर्गिकैकवचनस्य लिङ्गसर्वनामनपुंसकत्वाश्रये लुकि रुपे विशेषाभावाद्भाष्यकृतस्तदनापादनमित्यपि वक्तुं शक्यत्वान्नैतद्भाष्यं तस्य गमकापेक्षत्वे प्रमाणम्। ङ्याप्‌सूत्रस्थमपि भाष्यं न प्रकृतार्थसाधकं, प्रातिपदिकाधिकारस्यानारम्भे शब्दमात्रादौत्सर्गिकैकवचनप्रवृत्त्या तदन्तादपि तत्प्रवृत्त्या चानवस्था स्यादिति सामर्थ्यादपदं न प्रयुञ्जीतेत्येतन्निषेधपरिपालनमेव तत्प्रयोजनमित्यभ्युपगन्तव्यत्वात्तिङन्तेभ्यस्तदनुत्पत्त्या भाष्योपपत्तेः। तदारम्भे च सामर्थ्यमूलकस्य सङ्कोचस्य दुर्वचत्वाद्द्वित्वबहुत्वयोरविषये प्रातिपदिकत्वमात्रपुरस्कारेण प्रवर्तमानस्य तादृशवचनस्य धनवनाद्यवयवेभ्यो वर्णेभ्योऽपि प्रवृत्तेर्दुर्वारत्वात्तव्द्यावृत्तिरेव मुख्यमर्थवद्‌ग्रहणस्य प्रयोजनं, दशदाडिमादौ च साहचर्यपरिभाषया लुङ्निवृत्त्या प्रयोजनाभावादेव संज्ञाया अप्रवृत्तिः। तदनित्यत्वज्ञापनार्थत्वे तु कृत्वोर्थग्रहणादीनामन्यत्र तत्साधकानां प्रमाणानां प्रत्याख्यानमेव भाष्यकृता प्रदर्शितं स्यात्। किञ्च दशदाडिमादिपदकदम्बस्य स्वावयवार्थवत्तामूलकमर्थवत्त्वमुपादाय कृतेप्यर्थवद्‌ग्रहणे दोष इत्याशयेनार्थवत्यनेकपदप्रसङ्ग इत्येकदेशिना प्रातिपदिकसंज्ञायामापादितायामापत्तिसाधकत्वेन त्वदभिप्रेतं समुदायार्थवत्त्वं लोकदृष्टान्तबलान्न सिध्यत्यतस्संज्ञायाः प्रसङ्ग एव नास्तीति सिद्धान्तिना परिहार उक्तो न तु फलाभावादिति। फलविचारस्य प्रसक्तिपूर्वकत्वादतो नानयोर्भाष्ययोः परस्परविरोधः। अपि च रूपप्‌सूत्रस्थभाष्यस्यासङ्कोचेनोपपत्तौ तत्कल्पना न न्याय्येति सूधीभिराकलनीयमित्याहुः।। [टि- आहुरिति वस्तुतस्तु औत्सर्गिकैकवचनस्य गमकसापेक्षत्वेनार्थवद्‌ग्रहणाभावे धनवनादौ न दोषः, किन्तु प्रत्ययस्य प्रातिपदिकत्वापत्तिः पञ्चगवधन इत्यादौ टजन्ताट्टाबा त्तिश्च दोषः। एवञ्च तेनैव दश दाडिमानीत्याद्यनर्थकसमुदायस्य प्रातिपदिकत्ववारणसम्भवे तत्र प्रातिपदिकत्वमभ्युपगम्यानित्यया सहचरितपरिभाषया लुग्वारणमनुचितमित्याशयेन मूले तस्य फलत्वकथनम्‌। तस्य मुख्यत्वोक्तिस्तु भाष्योक्तफल योरस्य मुख्यत्वाभिप्रायेण। औत्सर्गिकैकवचनस्य गमकसापेक्षत्वे मानन्तु मूलोक्तं प्रकृतसूत्रस्थं भाष्यमेव। न च काण्डे इत्यादौ सुबनापादनं सोर्नपुंसकलुका निर्वाहादित्याशयकमिति न तद्गमकमिति वाच्यम्। एकवचनमित्युत्सर्गेण सर्वेषामेकवचनानां प्रवृत्तिरित्युद्योतशेखरादौ स्पष्टत्वेन स्वमोर्लक्यपीतरेषां श्रवणस्य दुर्वारत्वेन तदनापादनस्य गमकसापेक्षत्वे प्रमाणत्वसम्भवात्। पचतिकल्पमित्यादौ तु न सर्वैकवचनानि, किन्तु प्रथमैकवचनमेवेति स्पष्टमुद्योतशेखरयोः। ङ्याप्‌सूत्रस्थभाष्यस्य चान्यशयकत्वकथनमनुचितम्। अपदं न प्रयुञ्जीतेत्यत्रापरिनिष्ठितमित्यर्थस्य अन्यत्र स्पष्टतया तिङन्तस्य प्रातिपदिकत्वे औत्सर्गिकैकवचनोत्पत्तिमन्तरा परिनिष्ठतत्वस्य दुर्वचत्वेन तत्रैकवचनप्रवृत्तेर्दुर्वारत्वात्। अतो गमकसापेक्षत्वाशयकत्वमेव युक्तं निरुक्तभाष्यस्येति बोध्यम्।।]
व्याख्यानादिति।। शब्दत्वस्याव्यावर्तकत्वमन्येषामसंभवश्चात्र बीजम्।। अन्तग्रहणमिति।। तत्सूत्रस्थान्तग्रहणेन संज्ञाविधाविति परिभाषायां ज्ञापितायामत्र सूत्रे वार्तिककृता कर्तव्यत्वेन प्रतिपादितं तदिति बोध्यम्। एकशेषविषयतया द्वन्द्वस्यानुपपत्तिरित्यालोच्याह।। कृतद्विर्वचनेनेति।। ननु द्विष्प्रयोगपक्षे विशिष्टस्य सुबन्तत्वादिकमादाय समासप्रवृत्तावपि स्थाने द्विर्वचनपक्षे वस्नसादिवत्प्रकृतिप्रत्ययविभागसम्मोहेन विशिष्टस्य तदनुपपत्त्या समासो दुर्लभः। न च स्थानिवत्त्वेन विशिष्टे सुबन्तत्वादिकं सुलभमिति वाच्यम्। यस्माद्विहितस्तदादित्वघटितस्य तस्याशास्त्रीयतया तेनातिदेशायोगात्। अतिदेशेऽपि तदवयवेषु सुप्त्वस्य दुर्लभतया लुगप्रवृत्तावनुपपत्तिरेव। तस्मादेवंविधेषु भाष्यसम्मतफलैक्यानुपपत्त्या समासाप्रवृत्तिरेव युक्तेत्यत आह। सुबंतत्वमपीत्यादि।।
अयं भावः, द्वितवविधौ द्विरित्येव सिद्धे द्विवचनान्तनिर्देशेनानस्तमितावयवधर्मविशिष्टयोरेव स्थान्यनुरूपयोर्द्धयोश्शब्दयोरादेशत्वस्य तत्पक्षे व्यवस्थापनादिह सुप्त्वादिकं सूपपादम्। अत एवात्र पक्षे पटुःपटुरित्यादाविदुदुपधस्येति षत्वाभावस्ताँस्तानित्यादौ नश्छवीति रुभावश्च निर्बाधः। स्पष्टा चेयं रीतिस्सर्वस्य द्वे इत्यत्रोद्योतशेखरयोः। न चैवं धातुद्विर्वचनेष्वाटिटदित्यादावप्युक्तरीत्या टकारेकारादौ णित्वबुद्धेस्सुलभतया तत्पक्षे तादृशेषु णिलोपानापत्तिप्रतिपादनमेकाचो द्वे इति सूत्रस्थं भाष्यकृतामसंबद्धं स्यादिति वाच्यम्। तद्विषये द्वे इत्यस्योभे अभ्यस्तमित्यत्र सामर्थ्यमूलकसमुदायसंज्ञासंपत्त्यर्थमावश्यकतया निरुक्तार्थसाधकत्वायोगात्। किञ्च स्थानित्वेन गृहीतटिशब्दादावनर्थके पूर्वत्र प्रकृतित्वज्ञानाभावेन परत्र तत्प्रकृतिकप्रत्ययत्वस्य दुर्ज्ञेयत्वात्तदादेशेऽपि तद्बुद्धिर्दुर्लभा। आनुमानिको वा स्थानिवद्भावस्समुदाये ण्यन्तत्वमापादयेन्न त्विकारे णित्त्वमतो नास्ति तद्भाष्यानुपपत्तिरिति। एतेनात्रोपमानोपमेयभाववैपरीत्येन व्याचक्षाणा उपेक्ष्या इति बोध्यम्।।
स्फोट इति।। स्फुटत्यस्मादर्थ इति विग्रहः। अकर्तरि च कारके संज्ञायामित्यपादाने घञ्। स च वर्णपदवाक्यभेदेन त्रैविध्यमापन्नो जातिव्यक्तिपक्षाभ्यां द्विधा। पदवाक्यरूपावखण्डाविति पक्षान्तरमेवमष्टधा स्फोटः। अयं च मनोमात्रनिर्वाहक इति भावः।। तत्रैवेति।। पदरूपे वाक्यरूपे वेत्यर्थः। तत्राप्यखण्डो वाक्यस्फोटो मुख्य इति सिद्धान्तः। नन्वेवं शास्त्रस्यावास्तविकपदार्थप्रतिपादकत्वादनुपादेयता स्यादित्यत आह।। शास्त्रेणेति।। पदे इत्युपलक्षणं वाक्यस्यापि। समीहत इत्यस्य बुध्या प्राप्नोतीत्यर्थः।। अनावश्यकत्वमेवेति।। भाष्यसम्मतफलाभावोऽस्यानावश्यकत्वे हेतुः। वेस्कन्देरनिष्ठायामित्यस्य तिङन्तेपि प्रवृत्तिर्न्यायानित्यत्वे प्रयोजनमिति वृत्तिकृता प्रतिपादित, न तु भाष्यकृता। द्वित्वस्यावसानेपि प्रवृत्त्यर्थमनचीत्यत्र प्रसज्यप्रतिषेध एवाश्रितो न तु न्यायानित्यत्वं भाष्यकृतेति भावः।। भूवादय इत्यादि।। भूवादिसूत्रबोधितधातुपदीयशक्तिस्मरणादित्यर्थः। इदं धातुसंज्ञायाः प्रातिपदिकसंज्ञाव्याप्यत्वबोधनाय। एवञ्च धात्वधातुसाधारणीभूतप्रातिपदिकसंज्ञावच्छिन्नोद्देश्यकस्वाद्यपेक्षया व्याप्यभूतधातुसंज्ञावच्छिन्नोद्देश्यकानां तिबादीनां निरवकाशत्वमिति भावः।। पर्युदासे इत्यस्य प्रत्ययलक्षणेन प्रत्ययान्तपर्युदासे सत्यपीत्यर्थः।। सम्बन्धादिति।। ननु मास्तु कृत्तद्धितेति सूत्रे तत्संबन्धः। सप्तम्यधिकरणे चेत्यादिनिर्देशबलादनतिदिष्टसुप्त्वविशिष्ट एव लुक्‌प्रवृत्त्या वक्ष्यमाणरीत्या वा दाक्षी दिदृक्षू इत्यादौ न दोषः। न च न ङिसंबुध्योरित्यस्योक्तार्थज्ञापकत्वोपपत्तये तत्र तत्संबन्धः। अन्यथा हे राजन्नित्यत्र कृदन्ततया प्रातिपदिकत्वेन प्रसक्तस्य नलोपस्य व्यावृत्त्या चारितार्थ्येन तदनुपपत्तिरेवेति वाच्यम्। प्रत्ययलक्षणेनापि प्रत्ययान्तपर्युदासाभ्युपगमे क्षत्यभावेनोक्तार्थज्ञापनानुपयोगात्। किञ्चैवं कार्यकालपक्षे प्रत्ययान्तपर्युदासेनाहन्नित्यादौ प्रातिपदिकत्वनिबन्धनस्य नलोपस्याप्रसक्त्या धातुपर्युदासस्याकर्तव्यत्वादपरमनुकूलमिति चेन्मैवम्। ईषदूनो राजा बहुराजेत्यादेः प्रातिपदिकसंज्ञायाः प्रत्ययान्तपर्युदासो विघातुको माभूदिति प्रागुक्तार्थस्यावश्यकत्वेन तज्ज्ञापनोपपत्तये तत्संबन्ध उत्तरसूत्रे आवश्यक इत्याशयात्।। इयमिति।। सामान्ये पक्षपातरूपेत्यर्थः।. सामर्थ्यादिति।। तल्लक्ष्यविषयकलक्षणे संज्ञाविधानसामर्थ्यादित्यर्थः।। स्वरूपायोग्यत्वे इति।। विभक्त्यर्थकारकशक्तेर्लिङ्गसंख्यासंबन्धाभावात्मकमसत्त्वभूतत्वं स्वरूपं लिङ्गसंबन्धाभ्युपगमे तदयुक्तं स्यादिति भावः।। तद्योग्यत्वे इति।। स्तोकं पचति प्रातः कमनीयमित्यादावसत्त्वभूतार्थविशेषणे नपुंसकत्वैकत्वयोर्दर्शनेन भेदघटितसंख्यायाः पुंस्त्वादिरूपलिङ्गविशेषस्य च संबन्धाभाव एवेहासत्त्वरूपता, ततश्च भेदघटितसंख्यासामान्याभावात्मकस्यैकत्वस्य लिङ्गविशेषाभावात्मकस्य नपुंसकत्वस्य च संबन्धेपिन तत्स्वरूपहानिरिति भावः।। षत्वनिषेधापत्तिरिति।। यद्यपि निषेधे सातिग्रहणेन प्रत्ययसकारस्य नायं निषेध इति ज्ञापने व्यतिसे इत्यादौ षत्वनिषेधाप्रवृत्तावपि प्रकृतिसंबन्धीण्कवर्गनिमित्तकस्य प्रत्ययावयवसकारस्थानिकस्य तस्य निषेधो नेति ज्ञापने न कोपि दोषस्तथापि तत्र क्लेश इत्यभिमानः।। लुगापत्तिरिति।। हरिष्वित्यादाविति बोध्यम्।। न त्वतिदेशेनेत्यत्रेति।। नन्वत्र पक्षे विध्याक्षिप्तानां गुणशास्त्राणां प्रदेशेषूपस्थितौ विध्येकवाक्यत्वेनोपकारः। आक्षेपश्च स्वघटकप्रातिपदिकार्थनिर्णयाय तद्धठितमुपदेशं प्रति संभवेदतिदेशस्य चातथात्वेनाक्षेपायोगात्कथमुपस्थितिप्रयुक्ता विध्येकवाक्यता स्यादिति चेन्मैवम्। अतिदेशस्य कार्यार्थत्वादतिदिदिक्षितधर्मावच्छिन्नोद्देश्यककार्यसमर्पकेषु विधिषु तैरनाक्षिप्तानामपि स्वकीयाकाङ्क्षाबलादेवातिदेशानामुपस्थितावेकवाक्यत्वम्, अथवा तत्र पक्षे स्वघटकवृध्यादिपदप्रतिपाद्यनिर्णायकं किमिति समान्यरूपैवाकाङ्क्षा, न तु तत्तत्पदीयशक्तिनिर्णायकं किमिति विशेषरूपा, ततश्च शक्तिग्राहकत्वेन मुख्यार्थप्रतिपत्तिसमर्पकस्योपदेशस्येव गौणार्थप्रतिपत्तिसमर्पकस्यातिदेशस्यापि तादृशाकाङ्क्षाबलेनोपस्थितौ बाधकाभावाद्विध्येकवाक्यत्वमित्याशयात्।
केचित्तु कार्यकालपक्षे कार्यविशेषसंवलनेनैव तत्तद्विध्येकवाक्यतया संज्ञाप्रवृत्तिरित्यावश्यकम्। अन्यथा पक्षयोरवैलक्षण्यमेव स्यात्। ततश्च स्वाद्युत्पत्तिप्रयोजकत्वेन तद्विध्येकवाक्यतया प्रवृत्तायाः संज्ञायाः कार्यान्तरोपयोगार्थमारोपो न न्याय्यः। किञ्चातिदेशस्याप्यत्र पक्षे कार्यविशेषसंवलनेनैव प्रवृत्तेर्न्याय्यतया सुबुत्पत्तिप्रयोजकत्वेन प्रवृत्तायास्संज्ञाया अतिदिदिक्षायामुपस्थिततदीयकार्यपर्यालोचनेन कार्यान्तरविषयकाकाङ्क्षाया अनुदयात्तदुपहिताया एवातिदेष्टव्यतया कार्यान्तरोपहितस्य तादृशातिदेशस्य ह्रस्वविधायकशास्त्रेणाक्षेपायोगाद्धात्वादिभिन्नमर्थवच्छब्दस्वरूपं प्रातिपदिकं तस्य ह्रस्व इत्येवमुपदेशवत्प्रातिपदिकाप्रातिपदिकसंबन्धिनोः पूर्वपरयोर्य एकादेशस्तद्विशिष्टं पूर्वं प्रातिपदिकं तस्य ह्रस्व इत्येवमतिदेशशास्त्रस्य तदेकवाक्यता दुर्लभा। अत एव भाष्ये अप्रत्ययः किं, काण्डे कुड्‌ये इति प्रत्ययान्तपर्युदासस्य प्रयोजनमुपपाद्योत्तरसूत्रस्थस्य तद्धितग्रहणस्य नियमार्थत्वेन परिहृतम्। यथोद्देशकार्यकालयोरुभयोरपि पक्षयोरतिदेशेन विभत्त्यन्ते प्रातिपदिकसंज्ञायाः प्रवृत्तौ च प्रत्ययान्तपर्युदासेन व्यावर्तयितुमशक्यत्वात्तदसङ्गतिः। कार्यकाले प्रातिपदिकत्वातिदेशस्य प्रवृत्त्यभावे च तत्पक्षाभिप्रायेण भाष्यं सूपपादमित्यन्यत्र विस्तरः। एवञ्चात्र पक्षे कार्यविशेषोद्देशेन प्रवृत्तायास्संज्ञाया अतिदेशेन कार्यान्तरापादनस्यायुक्तत्वाद्यथोद्देशाभिप्रायोणैवात्र ज्ञापकानुसरणं मूलकारस्येति युक्तभित्याहुः।। [टि- आहुरिति।। वस्तुतस्तु कार्यकालपक्षे कार्यविशेषसंवलनेनैव तत्तद्विध्येकवाक्यतया संज्ञाप्रवृत्तेरभ्युपगमेऽपि काण्डे इत्यादौ विभक्त्युत्पत्तेः पूर्वं पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वप्रवृत्तिप्रयोजकत्वेन ह्रस्वविध्येकवाक्यतया प्रवृत्तायास्संज्ञायाः कृतैकादेशे ह्रस्वप्रवृत्त्युपयोगार्थमारोपो न्याय्य एव। किञ्चान्तादिवत्सूत्रस्य प्रकृते प्रातिपदिकसंज्ञातिदेशरूपतया तस्यापि संज्ञासूत्रत्वेन तत्र यन्निमित्तवैकल्यप्रयुक्तेति न्यायेन धातुभेदादेर्निमित्तत्वेऽपि प्रत्ययान्तभेदस्यानिमित्ततया कार्यकारपक्षेऽप्यतिदेशेन तदानींप्राप्तप्रातिपदिकसंज्ञाप्रयुक्तह्रस्ववारणार्थं विभक्त्यैकादेशो नान्तवदिति ज्ञापनं पक्षद्वयेऽप्यावश्यकमेव। भाष्यन्तु प्रत्ययान्तपर्युदासाभावे उपदेशप्रयोज्यप्रातिपदिकसंज्ञामादाय प्राप्तह्रस्ववारणायैव प्रवृत्तम्। सूत्रशेषेऽन्तवद्भावेन प्रातिपदिकसंज्ञायाः पुनराशङ्कितत्वान्न तदसङ्गतिः। अतः परममूलस्य मूलकारोक्तरीत्यैवाशयवर्णनमुचितम्। न त्वन्यथेत्यादि स्वयमूहनीयमित्याहुः।]
स्वाद्युत्पत्तिस्त्विति।। औत्सर्गिकैकवचनोत्पत्तिरित्यर्थः। यद्यपि लिङ्गसर्वनामनपुंसकत्वाश्रयेण लुका तन्निवृत्तिस्संभवति, [टि- सम्भवतीति।। उत्सर्गतस्सर्वैकवचनानां प्रवृत्तेस्तद्धितश्चासर्वविभक्तिरिति सूत्रोद्योतशेखरयोः प्रतिपादितत्वेन अत्र स्वमोर्लुका निवृत्तिसम्भवेऽपि टादीनां श्रवणप्रसङ्गोऽप्यापत्तिविषय एवेति बोध्यम्।।] तथापि तिष्ठतु काण्डे मे स्वमित्यादावन्वादेशे सपूर्वायाः प्रथमाया इति विकल्पः प्रसज्येतेति भावः।। सत्त्वप्रधानप्रातिपदिकग्रहणार्थमिति।। काण्डे इत्यादौ नपुंसकह्रस्ववारणाय ह्रस्वो नपुंसके यत्तस्येति न्यासमुपदर्शयता भाष्यकृता सूत्रस्थस्य प्रातिपदिकपदस्योक्तार्थकत्वं सूचितमित्याशयः।। तेनात्रेति।। काण्डे इत्यादिविभक्त्यन्तेन कारकशक्तिरेव प्राधान्येनाभिधीयते, न द्रव्यमिति भावः। न च विभक्त्यन्तस्य पूर्वान्तत्वेन द्रव्यवाचकत्वं किं न स्यादिति वाच्यम्। अर्थनिमित्तयोरेकेन युगपदतिदेष्टुमशक्यत्वात्। अर्थमात्रन्तु नान्तादिवद्भावेनातिदेष्टुमिष्यते। सर्वस्या इत्यादौ पूर्वान्तवद्भावेन सर्वार्थवाचकत्वातिदेशेपि टाबन्ते सर्वनामत्वस्य दुर्वचतया स्याडाद्यनुपपत्तेः। न च काण्डशब्दस्यानुमानिके काण्डे इत्यादेशे स्थान्यर्थाभिधानसमर्थस्यैवादेशतया द्रव्यवाचकत्वं सूपपादमिति वाच्यम्। अन्तादिवच्छास्त्रबलेनैकादेशविशिष्टयोः पूर्वपरयोरेकादेशस्थानिघटितपूर्वपरसंघातनिष्ठप्रत्येकधर्मातिदेशाभ्युपगमेपि पूर्वपरघटितसमुदायस्थाने कल्प्यमानस्यादेशस्योभयसंबन्धिविशिष्टार्थबोधकताया औचित्येन प्राधान्येन द्रव्यवाचकत्वायोगात्।
ननु काण्डे त्ष्ठत इत्यादौ प्रथमान्ते प्रकृत्यर्थद्रव्यव्यतिरिक्तस्य कस्य चिदन्यस्यार्थस्य प्राधान्येन प्रतीत्यभावाद्‌ध्रस्वो दुर्वार इति चेदत्र केचित्। एकादेशात्पूर्वमन्तरङ्गत्वात्सकृत्प्रवृत्ततया ह्रस्वस्य पुनरप्रवृत्त्या निर्वाहः। प्राथमिक प्रवृत्तिकालिकोद्देश्यघटकेतराघटितत्वे सति तद्धटकमात्रसंबन्धिविषेयाघटितत्वं तल्लक्ष्यत्वमिति परिष्कारे तूखतुरित्यादावङ्गरूपसमुदायघटकमात्रसंबन्धित्वात्पूर्वपरैकादेशघटितस्य तल्लक्ष्यत्वोपपत्तावप्यनु उखतुरनूखतुरित्यादावुपसर्गैकादेशविषये तदनुपपत्त्या ह्रस्वापत्तिः। बहिरङ्गत्वन्तु काण्डे इत्यादावप्यविशिष्टम्। अत एव खट्वामतिक्रान्तोऽतिखट्वस्तस्मिन्नतिखट्वे इत्यत्र गोस्त्रियोरिति ह्रस्वो नेति युक्तम्। भाष्यन्तु सप्तम्याद्यन्तेषु ह्रस्ववारणाय न्यायमनादृत्य कारकशक्तिनिरूपिताप्राधान्यरूपमुपायान्तरमुपादाय प्रवृत्तमिति न तद्विरोधः। प्रथमान्तेषु तिङाद्यभिहितकारकशक्तेः प्राधान्यमिति तु न समञ्जसम्। ग्रामणि तिष्ठतीत्यादौ नपुंसकह्रस्वात्पूर्वमन्तरङ्गानपीति न्यायेन लुकि ह्रस्वानुपपत्तेः। अनभिधानेन भाष्यसमर्थनन्तु न युक्तिमदिति सुधीभिराकलनीयमित्याहुः।। [टि - आहुरिति।। परे तु काण्डे त्यत्र लक्ष्ये लक्षणस्येति न्यायेन ह्रस्ववारणमनुचितम्। एकादेशस्य तन्मात्रोद्देश्यकाविकारत्वाभावेन तल्लक्ष्यत्वाभावात्। न चात्र विकारस्य तन्मात्रोद्देश्यकत्वस्वीकारेऽनुखतुरित्यादावुपसर्गैकादेशस्य तन्मात्रोद्देश्यकत्वाभावेन तल्लक्ष्यत्वानापत्त्या ह्रस्वापत्तिरिति वाच्यम्। एकादेशस्य बहिरङ्गतया असिद्धत्वेन ह्रस्वाप्रवृत्तेः। अनूकतुरित्यादावभ्यासोत्तरखण्डयोरेकादेशोत्तरं स्थानित्यभ्याससंज्ञायाः फलाभावेनाप्रवृत्त्या परादिवद्भावेनैकादेशविशिष्टेऽभ्यासत्वस्यादिदेष्टुमशक्यत्वेन च तदप्रवृत्तेः। अत्र मात्रपदेन लब्धे तदितरानुद्देश्यकत्वे इतरद्विभक्तिरूपमेव गृह्यत इति विवक्षणेन दोषानवकाशाच्च। अतिखट्वे इत्यत्रैकादेशपूर्वस्थानिघटितखट्वेत्यस्य स्त्रीप्रत्ययान्तत्वाभावेनैकादेशविशिष्टे तस्यातिदेष्टुमशक्यतया ह्रस्वस्य प्रसक्तिरेव नास्तीति तदर्थं मात्रपदनिराकरणं व्यर्थमेव। एचञ्च काण्डे इत्यादौ ह्रस्ववारणपरभाष्यस्य न्यायानादरेण प्रवृत्तत्वकल्पनामन्तरापि समाञ्जस्य घटते। अतः काण्डे इत्यादौ ह्रस्वोभाष्यानुगृहीतमूलोक्तसरण्यैव वारणीयः। न च सप्तभ्यन्ते तथा वारणसम्भवेऽपि काण्डे तिष्ठत इत्यादौ ह्रस्वो दुर्वार एवेति वाच्यम्। ``अभिहिते प्रथमा``तिङ्समानाधिकरणे प्रथमा इति वार्तिकबलेन प्रथमाया अपि कारकविभक्तित्वेन सप्तम्यन्तादविशेषात्। न चैवं ग्रामणि तिष्टतीत्यादौ नपुंसकह्रस्वात्पूर्वमन्तरङ्गानपीति न्यायेन लुकिह्रस्वानुपपत्तिरिति वाच्यम्। तत्र सुबुत्पत्तेः पूर्वमेव ह्रस्वप्रवृत्त्या दोषाभावात्। अन्तरङ्गानपीति न्यायस्य लुक्प्रयोजकसमासादीनां प्राबल्यबोधकत्वेऽपि सुपोऽपि प्राबल्यबोधकत्वे मानाभावेन न तेन ह्रस्वात्पूर्वं सुबुत्पत्तिस्सम्पादयितुं शक्या। एवञ्च मूलोक्तसरणौ बाधकाभावेन व्यर्थ एवायं भाष्यविरुद्धकल्पनाप्रयास इति सुधियो विभावयन्त्वित्याहुः।]
सर्वातस्सोरित्यादि।। [टि- सर्वतस्सोरित्यादिति।। मूले औत्सर्गिकैकवचनमपि नेत्यनन्तरं ``तथा सति सर्वतस्सोरुत्पत्त्या स्वन्तं पदमित्येव सिद्धे तिङादिग्रहणेन विभक्त्यन्तेभ्यस्तदनुत्पत्तेः। गमकं विना तदनुत्पत्तेश्च। इति क्वाचित्कः पाठः। तदनुसारेणायमुल्लेखः। इदानीन्तनपुस्तकेष्वयं पाठो न दृश्यते।।] प्रत्ययान्तपर्युदासाभावे इत्यादिः।। सुप्तिङितरेयादि।। इतरशब्देन च प्रकृतिभिन्नं विवक्षितम्। तेन काण्डे इत्यादौ प्रकृतिसमभिव्याहारेपि न क्षतिः। समभिव्याहारश्च व्यवहितसाधारणः। तेन समासे चरमसुपः पूर्वपदसमभिव्याहारमादाय लुक्‌प्रवृत्तिरित्यूह्यम्।। नकारोच्चारणसामर्थ्येनेति।। न च पचेरन् भृज्जेरन्निति यस्यां क्रियायामित्याख्यातमाख्यातेनेति समासे ऋन्नेभ्य इति ङीबर्थं तच्चरितार्थमिति वाच्यम्। एहीडादय इति साहचर्यचाल्लोण्मध्यमपुरुषान्तानामेव समास इत्याशयात्। यद्वा ऋन्नेभ्य इति ऋकारसाहचर्यान्नकारोपि तिङ्भिन्नावयव एव गृह्यत इत्यदोषः।। अशास्त्रीयत्वेनेति।। विशेषणविशेष्यभावस्य लोकाश्रयत्वाच्छास्त्रानधीनत्वेन तद्धटितो न शास्त्रीयः। तथाभूतश्च न शास्त्रेणातिदिश्यते, प्रत्यासत्तिविरोधादिति भावः। ननु विशिष्टधर्मस्याशस्त्रीयतया न्यायविषयत्वाभावे कथमियायेत्यादावेकाच्त्वनिबन्धनद्वित्वसिद्धिरित्याशयेन मूलकृत्तात्पर्यमन्यथा करोति।। यद्यपीत्यादि।। अङ्गत्वसिद्धिरिति।। तदभावे सार्वधातुकार्धधातुकयोरिति भावतेश्शाब्निमित्तक इगन्ताङ्गत्वनिबन्धनो गुणो न स्यादिति भावः। नन्वङ्गावयवस्येको गुणस्सार्वधातुकार्थधातुकयोरिति वैयधिकरण्येन संबन्धे भवतेरसत्यप्यङ्गत्वे गुणो निर्बाधः। यदि तु प्रत्ययस्याङ्गांशे उत्थिताकाङ्क्षतया सामानाधिकरण्ये संभवति वैयधिकरण्यस्यायुक्तत्वाच्च नायमर्थो लभ्यत इत्युच्यते तर्हि अङ्गसंज्ञासूत्रे तदादीति कर्मधारयबहुव्रीह्योस्तन्त्रेण निर्देशाभ्युपगमादतिदेशस्यानुपयोग एवेत्यत आह।। व्यतिसेइति।। पदत्वमसिद्धिरित्यस्य तिङन्तत्वातिदेशप्रयुक्त पदत्वसिद्धिरित्यर्थः। सात्पदाद्योरिति षत्वनिषेधश्चैतत्प्रयोजनमिति भावः। ननु दधिसेचावित्यादौ सोपपदात्सिजादेर्विचि गतिकारकोपपदानामिति सुबुत्पत्तेः पूर्वं समासे षत्ववारणाय पदादादिरिति पञ्चमीसमासस्याकरसम्मतत्वान्नात्र षत्वनिवारणाय पदात्वोपयोगः। किञ्च यथोद्देशे प्राक् प्रवृत्तायाः पदसंज्ञाया इदानीमानुमानिकेन स्थानिवद्भावेनादिदेशोपि सुलत्रः। तत्पक्षे हि भविष्यति किञ्चित्प्रयोजनमित्यभिसंधि मात्रेण संज्ञानां प्रवृत्तिरित्यर्थः प्रगृह्यसंज्ञाप्रकरणे भाष्यकैयटयोर्व्यवस्थापितः। कार्यकालपक्षश्च भपदसंज्ञादिष्वर्वाचीनानामनिष्ट एव। तस्मादिदमपि न प्रयोजनमत आह।। इतियानिति।। कार्यकालपक्षे इति।। यथोद्देशपक्षे तु सुब्लुगर्थमलौकिके वाक्ये प्रवृत्तायास्संज्ञाया आनुमानिकेन स्थानिवद्भावेन विशिष्टेऽतिदेशसंभव इति सुबुत्पत्तेर्नानुपपत्तिरतः कार्यकालपक्षोद्धाटनमिति द्रष्टव्यम्। ननु लक्ष्यानुरोधेन व्यवस्थितयोः पक्षयोरन्यतरपक्षेण लक्ष्ये सिद्धे पक्षान्तरेणानिष्टापादनस्यायुक्तत्वाद्यथोद्देशपक्षमाश्रित्य निर्वाहोऽस्तु, कार्यकालेपि प्रत्ययपर्युदासस्याग्रे निराकरिष्यमाणत्वात्सुलभमेव तत्र प्रातिपदिकत्वमतो नैतदपि प्रयोजन मित्यत आह।। तत इञन्तत्वनिबन्धन इति।। तत्त्वञ्च न स्थानिवद्भावलभ्यमशास्त्रीयत्वात्। नाप्येकदेशविकृतन्यायलभ्यमर्धविकारे तदधिकविकारे च तादृशन्यायस्याप्रवृत्तेः।। फक्सिद्धिरिति।। व्यतिसे इत्यादौ तिङतिङ इति तिङन्तत्वनिबन्धननिघातसिद्धिश्चेत्यपि बोध्यम्।। असहाय एवेति।। ईदृशार्थकत्वादेव चैकस्मिन्निति सार्थकम्। अन्यथा विशिष्टव्यवहारस्योभयसत्तामूलकस्यान्यतरस्मिन्नेकत्रातिदेश इत्यर्थस्य स्वत एव लाभसंभवात्तदसङ्गतिः स्पष्टैव।। असहायत्वञ्चातिदिदिक्षितधर्मावच्छिन्नद्वितीयशून्यत्वम्।। कैयटे इति।। तत्र ह्‌युपदिश्यमानस्यैजन्तस्यात्त्वमित्यर्थे नान्तरीयकत्वादुपदिष्टस्य ढौकत इत्याद्यवयवस्य व्यपदेशिवद्भावेनैजन्तत्वादात्त्वमुद्भाव्यासहयत्वाभावादाद्यन्तवदित्यतिदेशो न प्रवर्तत इत्युक्तम्।। आकारस्य नादित्वमिति।। असहाय इत्यस्याभावे यो यादृशधर्माभाववांस्तत्र तादृशधर्मस्यातिदेश इत्यर्थस्य पर्यवसानादिति भावः। लोकन्यायेनाप्यसहायविषयत्वं युक्तमित्याह।। लोकेपीति।। ज्योष्टत्वमधिकसूर्यपरिस्पन्दवत्त्वम्। न्यूनसूर्यपरिस्पन्दवत्त्वञ्च कनिष्ठत्वम्। तदुभयवत्त्वन्तु मध्यमत्वमिति विवेकः। ननु न्यायस्यासहयविषयत्वे भवतेः शन्बिरूपितमङ्गत्वं दुर्वचं, मुख्यतदादित्वविशिष्टस्य शबन्तस्य सत्त्वेन ससहायतया तत्र तदतिदेशाप्रवृत्तेरत आह।। विजातीयेति।। शबन्तस्य तिङ्विधानावध्याद्यवयवकत्वरूपतदादित्वसत्त्वेऽपि शब्विधानावध्याद्यवयवकत्वरूपस्य तस्याभावेन विजातीयतया तेन शब्रहितस्य ससहायत्वभावः। सजातीयेनैव हि साहाय्यमतो न तादृशेष्वतिदेशप्रवृत्तेर्विरोध इति भावः।। अत एव हरिष्विष्यादि।। न्यायस्यासहायविषयत्वादेवेति तदर्थः। न तु शास्त्रीयविषयत्वादिति।।
एकदेश्युक्तिरिति।। केचितु [टि- केचित्त्विति।। परे तु परस्परनिरूप्यनिरूपकभावापन्नयोर्विभिन्नाधिष्टानावस्थितिस्वभावयोर्धर्मयोरेकस्मिन्धर्मिणि आरोपेणावस्थानमनया परिभाषया बोध्यत इति तु न युक्तम्। भवदुक्तरीत्या तिङ्‌त्वादेः प्रकृत्या निरूप्यनिरूपकभावस्यासत्त्वेऽपि प्रत्ययत्वस्य प्रकृत्या तत्सत्त्वेन सर्वत्र प्रहकृतौ प्रत्ययान्तत्वातिदेशप्रवृत्त्या धातुमात्राद्भावे स्त्रियां ``अप्रत्ययात् इत्यकारप्रत्ययापत्तेः। तत्र प्रत्ययादित्यनेनानतिदिष्टप्रत्ययान्तस्यैव ग्रहणमित्यर्थकल्पने तु आचारक्विबन्तेभ्यस्तदनापत्तिर्दोषः। सङ्कोचस्यातिदेशविशेषविषयकत्वकल्पने तु क्लेशः। एवं सर्वेषां प्रातिपदिकानामुक्तरीत्या प्रत्ययान्तत्वेनार्थवत्सूत्रस्यैव निर्विषयत्वप्रसङ्गः। सूत्रसामर्थ्येनार्थान्तरकल्पनायां क्लेशः। किञ्च सभासन्नयनेऽकारेऽच्समुदायत्वतदादित्वयोरनयाऽतिदेशे वृद्धिसंज्ञकाद्यवयवकाच्समुदायत्वस्याकारेऽतिदेशतः सिद्धतया तादृशसमुदायघटितत्वस्य सभासन्नयने सत्त्वेन वृद्धिसंज्ञकाद्यवयवकाच्समुदायघटितस्य विधीयमानाय् वृद्धसंज्ञायाः प्रवृत्त्या छप्रत्ययो दुर्वार एव। अतो मूलोक्तरीत्या एकस्मिन्नित्यस्यासहयार्थकत्वमेवोचितमित्याहुः।] परस्परनिरूप्यनिरूपकभावापन्नयोर्विभिन्नाधिष्ठानावस्थितिस्वभावयोर्धर्मयोरेकस्मिन्धर्मिण्यारोपेणावस्थानमनया परिभाषया बोध्यते। लोकन्यायेनाप्येतावदेवाश्रयणीयं सामान्ये पक्षपातात्‌। न त्वसहायपरत्वमतः परिभाषायामेकग्रहणं संख्यापरमेव स्पष्टार्थम्। एवञ्च स्वस्यैव स्वनिरूपितमवयवत्वमवयवित्वञ्चेतीयायेत्यादौ द्वित्वमाभ्यामित्यादौ दीर्घश्च सिद्धः। नन्वेवं सभासन्नयने भकाराकारस्य स्वनिरूपितमादित्वं दरिद्राताविकारस्य स्वनिरूपितमन्त्यत्वञ्च प्रकृतन्यायेनातिदिश्येतेति चेदस्तु, तथापि न क्षतिः। तादृशधर्मस्य तद्विधावुद्देश्यत्वेन गृहीतसमुदायनिरूपितत्वाभावात्। तथाभूतमेव ह्यादित्वं वृद्धसंज्ञायामन्तत्वमच्प्रत्यये च प्रयोजकम्। किञ्च स्वं रूपमित्येतच्छास्त्रस्याविषये दर्भाणां स्थाने शरैः प्रस्तरितव्यमित्यादिदृष्टान्तसिद्धेन तत्स्थानापन्नन्यायेनाशास्त्रीयस्याप्यतिदेशस्याभीष्टत्वात् व्यतिसे इरित्यादौ तिङन्तत्वेञन्तत्वादिकम्। अस्तु वा तथाभूतस्य स्वनिष्ठविधानावधित्वविशिष्ठस्वनिरूपितप्रथमावयवत्वस्य स्वावधिकविधानाश्रयत्वविशिष्टस्वनिरूपितप्रथमावयवत्वस्य स्वावधिकविधानाश्रयत्वविशिष्टस्वनिरूपितचरमावयवत्वस्य चानेनैवारोपः। हरिषु बिबेषीत्यादौ प्रत्ययमात्रस्योक्तन्यायेन न सुबन्तत्वादिप्रयुक्तं पदत्वम्। षत्वनिषेधे पञ्चमीसमासाश्रयणेन फलाभावात्। न चोक्तन्यायेन प्रकृतौ प्रत्ययत्वातिदेशात्पदत्वमाश्रित्य पञ्चमीसमासेपि तत्र दोषोदुर्वार इति वाच्यम्। प्रत्ययत्वस्य कथंचित्प्रकृतिनिरूपितत्वेऽपि सुप्त्वतिङ्‌त्वयोरतथाभूततया प्रकृतावतिदेशासंभवेन तदन्यतरप्रयुक्तस्य पदत्वस्य तत्र दुर्वचत्वात्। हरिष्वित्यादौ स्वादिष्विति पदत्वप्रयुक्तोऽपि षत्वनिषेधो मूल एव निराकरिष्यति। एवञ्च निजाविकारस्यापि स्वनिरूपितावयवत्वावयवित्वयोरारोपेणैकाच्त्वसिद्ध्या चतुर्णामेकाचामुपपत्तौ भाष्यसामञ्जस्ये परिभाषाया विलक्षणार्थकल्पनेनैकदेशयुक्तित्वापादनमयुक्तं न्यायविरोधात्फलाभावाच्च। असहायार्थकत्वाभावादेव ह्येकग्रहणस्य प्रयोजनविचारो भाष्यकृता न कृत इति सुधीभिराकलनीयमित्याहुः।।
नन्वर्थवत्सूत्रे शक्तिलक्षणान्यतररूपेणार्थबोधकत्वमर्थवत्त्वमुत्तरसूत्रे चान्यादृशमिति वैरुप्यमयुक्तम्। निरर्थकार्थाधिकारबाधापत्तेः। किञ्च कृत्तद्धितेति सूत्रस्यैकार्थीभावेन लौकिके प्रयोगे प्रसिद्धो योऽर्थस्तादृशार्थवत्त्वविषयकतायामङ्गसंज्ञासूत्रस्थभाष्यविरोधः। तत्र हि देवदत्तो गार्ग्येत्यस्य तद्धितान्तत्वनिबन्धनप्रातिपदिकत्वाभावः प्रत्ययग्रहणपरिभाषायाः प्रयोजनमित्युक्तम्। तद्धितान्तत्वेपि निरुक्तार्थवत्त्वाभावेन प्रातिपदिकत्वाभावः प्रत्ययग्रहणपरिभाषायाः प्रयोजनमित्युक्तम्। तद्धितान्तत्वेपि निरुक्तार्थवत्त्वाभावेन प्रातिपदिकत्वाप्रसक्त्या तदसङ्गतिरेव। अपि चार्थवत्पदस्योत्तरसूत्रे निरुक्तार्थकत्वे कृत्तद्धितान्तयोरतथाभूतयोरप्रसिद्ध्या व्यावर्त्यालाभाद्विशेषणत्वानुपपत्तिः। इत्थमनेकदोषदूषितत्वान्मूलकारोक्तमयुक्तमित्याशयेनाह।। वस्तुत इति।।
विभक्तीतरसमभिव्याहारानपेक्षयेत्यादि।। विभक्तिसमभिव्याहारापेक्षयेति तु नोक्तं दधि मध्वित्यादावन्तरेणापि तत्समभिव्याहारं विभक्तिलुक्यर्थबोधदर्शनात्पारिष्कारिकार्थवत्ताविरहेण प्रातिपदिकत्वानापत्तेः। विभक्तिरत्र प्रत्यासत्त्या चिकीर्षितप्रातिपदिकसंज्ञाफलभूता विवक्षिता, तेन जजागरतुरित्यादावाख्यातप्राग्वर्तिनि साभ्यासे नातिप्रसङ्गः। प्रातिपदिकत्वे च लघावन्ते द्वयोश्च बह्वषो गुरहुरिति पध्योदात्तत्वमापद्येत। न च धातुपर्युदासेनैव तद्‌व्यावृत्तिरिति वाच्यम्। अभ्यासविशिष्टस्य धातुत्वाभावात्। नन्वेवं धातुपर्युदासो व्यर्थः, निरुक्तविशेषणविशिष्टार्थवत्त्वाभावेनैवोर्णुनुवतुरित्यादौ प्रातिपदिकत्वव्यावृत्तेः। न चाहन्नित्यत्र प्रातिपदिकत्वनिबन्धनस्य नलोपस्य व्यावृत्तिरेतत्प्रयोजनमिति वाच्यम्। नलोपोऽतिङ इति न्यासेनापि तत्र नलोपव्यावृत्तिरिति चेन्न। चकास्त्यादीनामनेकाचां धातूनां प्रातिपदिकत्वे तत्प्रयुक्ते धात्वर्थे णिचि टिलोपे चाकयतीत्यादेरनिष्टस्य निवर्तनेन तत्सार्थक्यात्। किञ्च वासुदेववाचकाकारस्या चारक्विबन्तस्य ऋणोतेश्च लोण्मध्यमपुरुषैकवचनान्तयोराख्यातमाख्यातेनेति समासे तत आचक्षाणणिजन्तात्क्विपि निष्पन्ने अर्ण् इत्यत्र रात्सस्येति नियमेन संयेगान्तलोपस्याप्रवृत्तावप्यभीष्टो नलोपः परादिवद्भावेन तिङन्तत्वादतिङ इति न्यासे दुर्वच इत्यक्षन्नित्येतदर्थमपि तत्पर्युदास आवश्यक एवेति दिक्। न च खट्वा गौरीत्यादौ प्रकृतिभागस्य विभक्तीतरटाबादिसापेक्षत्वेन प्रातिपदिकत्वानापत्तिरिति वाच्यम्। विभक्तिपदस्य प्रत्ययमात्रोपलक्षकत्वेनादोषात्। एतेन पटमाचष्टे पटयतीत्यादौ प्रकृतसंज्ञया विभक्त्यनुत्पादाण्णिच्प्रकृतेः प्रातिपदिकत्वानुपपत्तिरित्यपि निरस्तम्। न च तादृशसंज्ञाफलभूतणिच्प्रत्ययेतरतिबादिसापेक्षत्वेन तत्र प्रातिपदिकत्वानुपपत्तिरेवेति वाच्यम्। सात्रात्परम्परया वा प्रत्ययस्य प्रकृतसंज्ञाप्रयोज्यत्वाविवक्षणेनादोषात्। अत एव कृत्रिमं सांराविणमित्यादौ कृदन्तस्य प्रातिपदिकत्वसिद्धिः। नन्वेवं मूलकेनोपदंशं माषवापिणावेधाञ्चकारेत्याद्यन्तर्गतणमुलन्तादेरर्थबोधने मूलकेनेत्यादितथाविधप्रत्ययेतरस्यापेक्षणादर्थवत्त्वाभावेन प्रातिपदिकत्वानुपपत्तिः। न च विभक्तीतरस्मिन् स्वोत्तरवर्तित्वं विशेषणं, स्वशब्देन च प्रकृतसंज्ञोद्देश्यं विवक्ष्यत इति नायं दोष इति वाच्यम्। असमासे मूलकेनेत्यादेः प्रागेव णमुलन्तात्प्रयोक्तव्यमिति नियमाभावेन परप्रयोगावस्थायामेधाञ्चकारेत्यादौ च दोषध्रौव्यात्। न च तत्रोपपदानुप्रयोगातिरिक्तत्वविशेषणाददोष इति वाच्यम्। उदगात्कठकालापमजर्यं सङ्गतं मालीभवतीत्याद्यन्तर्गतलुङन्तादिसहप्रयोगसापेक्षचरणद्वन्द्वादावव्याप्तेः परिहारासंभवात्। न च तत्र प्रकृतिप्रत्ययान्यतरत्वनिनेशेन निर्वाह इति वाच्यम्। मालीभवत्येधाञ्चकारेत्यादौ च्व्यन्तामन्ताभ्यामपेक्ष्यमाणस्य धातोस्तिङ्प्रकृतित्वानपायेन व्यतिसे इयत्कारिणावित्यादावपेक्ष्यमाणस्य प्रत्ययत्वेन च दोषस्य दुर्वारत्वात्। यदि विभक्तीतरस्मिन्विसेषणतया स्वप्रकृतित्वं निवेश्यते, तदा विशेष्यांशवैयर्थ्यम्। स्वप्रकृतिप्रत्ययैतदन्यतरत्वनिवेशे तु व्यतिसे इत्यत्रोपसर्गस्य प्रातिपदिकत्वानापत्तिः। पञ्चनावप्रिय इत्यादाववान्तरतत्पुरुषस्य प्रातिपदिकत्वापत्तिश्चेति चेन्मैवम्। तत्रैव स्वादिष्विति पदत्ववद्भिन्नस्वनिष्ठसंज्ञासमर्पकत्वानवरुद्धस्वाघटितपदघटकेतरत्वविशेषणेनादोषात्। स्वाघटितपदे स्वादिष्विति पदत्ववद्भिन्नत्वविशेषणात्पयस्कल्पमित्याद्यन्तर्गतकल्पबादेः प्रातिपदिकत्वव्यावृत्तिः। स्वनिष्ठसंज्ञासमर्पकत्वानवरुद्धत्वविशेषणात्पञ्चनावप्रिय इत्यादाववान्तरतत्पुरुषस्य प्रातिपदिकत्वनिवृत्तिः। उत्तरपदत्वानाक्रान्तत्वविसेषणेन तु न निर्वाहः। महद्भूत इत्यादौ च्व्यन्तस्य प्रातिपदिकत्वानुपपत्तेरित्यादि स्वयमूहनीयम्। इत्थञ्च चिक्रीर्षेतप्रातिपदिकसंज्ञाफलभूतप्रत्ययेतर स्वादिष्वितिपदत्ववद्भिन्न स्वनिष्ठसंज्ञासमर्पकत्वानवरूद्ध स्वाघटितपदघटकेतरानपेक्षया लोके अर्थविषयकबोधजनकत्वमर्थवत्त्वमिति निष्कर्षः। डित्थ इत्यादौ चिकीर्षितप्रातिपदिकसंज्ञाफलभूतप्रत्ययव्यतिरिक्तं यत्स्वादिष्विति पदत्ववद्भिन्न स्वनिष्ठसंज्ञासमर्पकत्वानवरुद्ध स्वाघटितभवतीत्यादिपदघटकेतरत्तत्समभिव्याहारानपेक्षया लोके अर्थविषयकबोधजनकत्वमक्षतमेवेति लक्षणसङ्गतिः। देवदत्तो गार्ग्येत्यस्य स्वाघटितगर्ग्य इत्यात्मकपदघटकसुप्रत्ययसमभिव्याहारापेक्षणेऽपि तदितरानपेक्षणान्नाङ्गसंज्ञासूत्रस्थभाष्यविरोधः। न चैवं देवदत्तः पुत्रीयति राज्ञः पुरुषस्येत्यादौ तिङ्‌स्यप्रत्ययादिविनिर्मुक्तस्य तदितरानपेक्षणात्प्रातिपदिकत्वं दुर्वारमेवेति वाच्यम्। समासकृतनियमेन व्यावृत्तेः। देवदत्तो गार्ग्येत्यस्य तु न तेन व्यावृत्तिस्तस्यामवस्थायां राजपुरुष इत्यादेः प्रत्ययान्तत्वेनाप्राप्तायास्समर्थनेन कृतार्थस्य समासग्रहणस्य नियामकत्वायोगात्। यद्वा विभक्तीतरस्मिन् स्वनिष्ठसंज्ञासमर्पक स्वनिमित्तकसंज्ञाश्रयैतदन्यतरत्वं निवेश्यते, पञ्चनावप्रिय इत्यादाववान्तरतत्पुरुषस्य स्वनिष्ठसमाससंज्ञासमर्पकोत्तरपदापेक्षणात्केवलप्रत्ययस्य च स्वनिमित्तकाङ्गसंज्ञाश्रयप्रकृत्यपेक्षणाच्च न प्रातिपदिकत्वमन्यत्र प्रातिपदिकत्वमक्षतम्। गत्युपसर्गसंज्ञयोश्च क्रियायोगो निमित्तं, न तु धातुः। क्रिया तु न समभिव्याहारमर्हतीति तदपेक्षणेऽपि तदीयसमभिव्याहारानपेक्षणान्न मालीभवतीत्यादौ च्व्यन्तादेः प्रातिपदिकत्वविरोधः। किञ्च सप्तम्यन्तेन गृहीतमिह निमित्तं विवक्षितम्। तेन राजपुरुष इत्यादौ स्वनिमित्तकसमाससंज्ञाश्रयसमुदायसापेक्षत्वेऽपि पूर्वोत्तरपदयोः प्रातिपदिकत्वं सिद्धम्। तदेतदर्थवत्त्वं किमादीनामरोपितमस्त्येवेति प्रागादेशात्प्रातिपदिकत्वं निर्बाधमतो न काप्यनुपपत्तिरिति दिक्।। [टि - इति दिगिति।। परे तु देवदत्तो गार्ग्य इत्यत्र चरमसुपः प्राग्वर्तिनो देवदत्तो गार्ग्येति समुदायस्यार्थवत्त्वसम्पादनप्रयासो विफल एव। तस्य कल्पितार्थेनाप्यर्थवत्त्वस्याभावात्। अर्थो हि प्रकृतौ प्रत्यये प्रकृतिप्रत्ययसमुदाये परस्पराकाङ्क्षिततत्समुदाये च शास्त्रप्रक्रियानिर्वाहार्थं कल्प्यते। न तु परस्परानाकाङ्क्षितानामर्थवतामपि समुदाये। अत एव दश दाडिमानीत्यादिवाक्यस्यार्थवतां समुदायात्मकस्यानर्थकत्वकथनं भाष्यकृतस्सङ्गच्छते। प्रकृते च देवदत्त इति सुबन्तस्य यञन्तेन नैराकाङ्क्ष्यात्तदुभयमात्रघटितसमुदायस्य कल्पितार्थोऽपि नास्तीत्येव युक्तम्। अत एवाङ्गसंज्ञासूत्रे उद्योते प्रकृतोदाहरणस्य नियमेनान्यथासिद्धिमाशङ्कय समुदायस्यार्थवत्त्वाभावान्न नियमकोटावन्तर्भाव इति समाहितम्। अत्रार्थवत्त्वनिर्वचनं कल्पितार्थवतां केषाञ्चिदसङ्ग्रहार्थं न तु कल्पितार्थरहितानामपि निरर्थकानां सङ्ग्रहार्थम्। तथा सत्यर्थवत्पदस्यात्यन्तरूढत्वकल्पनाप्रसङ्गः। मदुक्तरीत्या तु योगरूढेर्लाभेनार्थंवद्ग्रहणं योगरूढं, न तु केवलयौगिकमिति प्रदर्शनाय परिष्कारोपयोग इति स्पष्टमेव। न च देवदत्तो गार्ग्येत्यस्यार्थवत्त्वानङ्गीकारे प्रत्ययग्रहणपरिभाषाभावे तत्र तद्धितान्तत्वप्रयुक्तप्रातिपदिकत्वापादनपरेणाङ्गसंज्ञासूत्रस्थेन भाष्येण विरोधः। उत्तरसूत्रेऽप्यर्थवद्ग्रहणानुवृत्तेरिति वाच्यम्। उत्तरसूत्रेऽर्थवत्पदानुवृत्तावप्यर्थवदन्तं यत्कृत्तद्धितान्तमिति व्याख्यानेन तत्र प्रतिपदिकत्वापादनसम्भवात्। प्राचीननयेऽप्युत्तरसूत्रे एकार्थीभावप्रयोज्यलौकिकार्थविषयकबोधजनकत्वमर्थवत्त्वमित्यभ्युपगमेन निरुक्तभाष्यस्योभयोरप्येवमेवोपपाद नीयत्वाच्च। न च कृत्तद्धितान्तयोरर्थवत्त्वाव्यभिचारादर्थवदित्यस्य व्यावर्तंकत्वरूपविशेषणत्वासम्भवेन तेन तदन्तविधिर्दुर्लभ इति वाच्यम्। पञ्चनावप्रिय इत्यादौ पञ्चनावेत्यस्यानर्थकस्यापि तद्धितान्तस्य सम्भवेनार्थवदित्यस्य विशेषमत्वे बाधकाभावात्। न चार्थवदित्येतन्निरूपितविशेषमत्वमन्तरा कृत्तद्धितग्रहणेन तदन्तविधिर्दुरुपपादः। संज्ञाविधावितिनिषेधादिति वाच्यम्। कृत्तद्धितेति सूत्रेऽन्तग्रहणं कर्तव्यमिति वार्तिकनये तदन्तविधेरनपेक्षितत्वात्। वृत्तिभूतसमाससाहचर्याद्रबृत्तिभूतयोरेव ग्रहणेन केवलकृत्तद्धितयोर्वृत्तित्वाभावेन तदन्तविधेस्सुलभत्वाच्च। न चार्थवद्ग्रहणानुवृत्तिसमार्थ्यात्तदन्तविध्युपपादनपरभाष्यविरोध इति वाच्यम्। सिद्धान्तेऽर्थवद्ग्रहणानुवृत्त्यैव तदन्तविधेस्सम्पादनीयत्वेन सहचरितपरिभाषानादरेण तद्भाष्यं प्रवृत्तमित्यपि वक्तुं शक्यत्वात्। एवञ्च देवदत्तो गार्ण्येत्यस्यार्थवत्त्वसम्पादनप्रयासो विफल एव। अतोऽन्यादृशमेवार्थवत्त्वमिह नागेशसम्मतम्। तच्च एतत्संज्ञाप्रयोज्यप्रत्ययेतरप्रत्ययप्रकृत्येतदन्यतरसमभिव्याहारानपेक्षया लोकेऽर्थविषयकबोधजनकत्वरूपम्। केवलप्रप्ययस्य प्रकृतिसमभिव्याहारापेक्षणान्नार्थवत्त्वम्। अनुप्रयोगोपपदादीनां प्रत्ययत्वाभावेन तदपेक्षावतामेधामित्यादीनामर्थवत्त्वं निर्बोधम्। तन्निभ इत्यादौ पूर्वपदसापेक्षत्वेऽपि तस्याप्रत्ययत्वेन निभादीनामर्थवत्त्वम्। समासोत्तरसुपः प्रत्ययत्वेऽपि तस्य परम्परया निभशब्दनिष्ठप्रातिपदिकसंज्ञाप्रयोज्यत्वेन तादृशप्रत्ययेतराभावान्नार्थवत्त्वविघटकता। पञ्चनावप्रिय इत्यादो समासोत्तरसुपः पञ्चनावेति तद्धितान्तनिष्ठप्रातिपदिकसंज्ञाप्रयोज्यत्वाभावेन तादृशप्रत्ययेतरप्रत्ययत्वेन तदपेक्षयैवार्थबोधकत्वेन न पञ्चनावेत्यस्य प्रातिपदिकत्वम्‌। पक्त्रिममित्यादौ क्त्यून्तादेर्मप्‌सुबादिसापेक्षत्वेऽपि तेषां क्त्य्रन्तादिनिष्ठप्रातिपदिकसंज्ञाप्रयोज्यत्वात्तदपेक्षणं नार्थवत्त्वं विघटयति। न चैवं सति व्यतिसे इत्यत्नोपसर्गयोः से इत्येतत्समभिव्याहारापेक्षयैवार्थबोधकत्वात्तस्य च निरुक्तप्रत्ययेतरप्रत्ययत्वाच्च तयोरर्थवत्त्वानापत्तिरिति वाच्यम्। तत्र प्रत्ययपदेन पर्युदासन्यायेन पदसंज्ञानवरुद्धस्यैव प्रत्ययस्य ग्रहणेनादोषादित्यादि स्वयमूहनीयमित्याहुः।।]
अरोपितमस्तीति।। लोके इत्यास्याभावे प्रक्रियादशायां प्रत्ययमात्रस्यापि स्वप्रतिपाद्यकल्पितार्थविषयकखण्डबोधजनकता शास्त्रज्ञानामनुभवसिद्धेति तामाश्रित्य प्रसक्तस्य प्रातिपदिकत्वस्य व्यावृत्तये प्रत्ययपर्युदासोऽपि भाष्यानभिप्रेतः स्वीकर्तव्यस्स्यादुत्तरसूत्रे च तदन्तविधिर्दुरुपपादस्स्यादतस्तन्निवेशः। तद्‌ध्वनयन्नाह।। प्राप्तिरेव नेति।। लौकिके विशिष्टबोधे प्रकृत्यपेक्षणादिति भावः। नन्नेवं सुप्तिङन्तमिति सूत्रकैयटसूचितभाष्यतात्पर्यविरोध इत्यत आह।। अत्रैव तात्पर्यमिति।। कैयटस्तु दीक्षितवदुषेक्ष्य एवेति भावः। यत्त्वेतादृशमर्थवत्त्वनिर्वचनमनुपसर्जनादिति सूत्रस्थशेखरविरुद्धम्। तत्र हि कुम्भकारशब्दान्तर्गतस्योपपदसापेक्षस्योत्तरपदस्यार्थवत्सूत्रोक्तार्थवत्त्वाभावात्प्रातिपदिकत्वाभाव इत्युक्तमिति तदसत्। तद्‌ग्रन्थस्य प्राचीनावहेलनपरत्वात्। तन्मते हि तत्पर्याप्त्यैकार्थीभावेन लौकिकार्थविषयकबोधजनकत्वरूपस्यार्थवत्त्वस्याभावस्स्पष्ट एव। ननु तथाभूतस्य प्रातिपदिकत्वाभाव एव किन्नेष्ट इति चेत्तर्हि पुंयोगादाख्यायामनुपसर्जनादिति सूत्रस्थभाष्यविरोधः। तत्राद्ये कृद्‌ग्रहणपरिभाषया गतिकारकसमभिव्याहारे तद्विशिष्टस्यैव कृदन्तत्वमित्युपक्रम्य कुम्भकारशब्दस्याणन्ततया ततो ङीप्यपत्ये ढकि कौम्भकारेयस्सिद्ध्यति, अन्यथा कारशब्दस्याप्यणन्ततया ततोऽपि कदाचिन्ङीपितद्धिते कुम्भकारेयोप्यापद्येतेत्युक्तम्। अन्त्येप्यनुपसर्जनाधिकाराभावे द्वितीयस्य तदन्तविधेरभावात्कुम्भकारशब्दान्तर्गतस्य कोरेत्यस्यैवाणन्ततया ततो ङीपि ढकि कुम्भकारेय इत्येव स्यात्, न तु कदाचित्कौम्भकारेय इत्युक्तम्। किञ्च माषवाषिणावित्यादावुत्तरपदात्मकप्रातिपदिकान्तत्वनिबन्धनं णत्वं न सिद्ध्येदित्यलम्।। मूले इत्याद्यर्थमिति।। आदिनोर्द्मौहूर्तिकपरमगार्ग्यायमयोः संग्रहः। तत्र हि समासतद्धितयोरेकेनैवैकार्थीभावेन युगपत्प्रवृत्तिरिति विशिष्टस्य समासत्वतद्धितान्तत्वयोरभाव िति स्पष्टमेव।। भिन्नस्वरश्रवणमिति।। उपदंशमित्ययमदिर्णमुल्यन्यतरस्यामित्याद्युदात्तः, पक्षे लित्स्वरेण वाप्युपान्त्योदात्तः। समासे कृत्स्वरेण तस्यावशेषाच्छेषनिघातेन मूलकशब्दोऽस्वरकः। समासाभावे लघावन्त इति नब्विषयस्येति वा मूलकशब्दोप्याद्युदात्त िति विशेषः। फिट्‌स्वरश्चाखण्डप्रातिपदिकविषय इति भावः।
क्रियावाचकत्वाक्षत्येति।। प्रधानाप्रधानयोरिति न्यायो न धातुसंज्ञायां प्रवर्तते। धातुसंज्ञानुवादेन भसंज्ञायामातो लोपारम्भात्। आदन्तप्रकृतिको भावक्विबन्तस्त्वप्रसिद्धः। वाशब्दस्य प्रयोगस्थस्य प्राधान्येनैव क्रियावाचकत्वमिति नियमाभावेन तत्सादृश्यलभ्ये क्रियावाचकत्वे प्राधान्यनिवेशायोगाच्च।। तदस्तीति।। ननु लिङ्गबोधकप्रत्ययविनिर्मुक्ते विशिष्टे तद्‌घटके वा दृष्टानां प्रातिपदिकत्वतद्‌व्याप्यधर्माणां लिङ्गबोधकप्रत्ययविशिष्टेष्वतिदेश इत्यवश्यमभ्युपेयम्। अत एव कर्णीशब्दात्मकोत्तरपदनिमित्तकत्वेन विधीयमानमतः कृकमीति सत्वं पाककर्णेति विहितङीष्प्रत्ययान्तेऽपि भवति। ततश्च राजकुमारीत्येतद्‌घटककुमारशब्दगतप्रातिपदिकत्वातिदेशो विशिष्टे सुलभ एवेति चेन्न। यादृशस्त्रीप्रत्ययविशिष्टे धर्मविशेषस्यातिदेशचिकीर्षा तादृशस्त्रीप्रत्ययमात्रविनिर्मुक्ते तद्‌घटके दृष्टस्यैव तादृशस्त्रीप्रत्ययविशिष्टे समुदाये प्रकृतिगतस्य वान्यगतस्य वा धर्मस्यातिदेशोष नान्यस्य, प्रत्ययसत्तेः। अत एव पयस्कुम्भीशब्दे कुम्भशब्दत्वमाश्रित्यायः पयस्कुम्भीत्यत्रातः कृकमीति सत्वाभावः। एवञ्च राजकुमारीत्येतद्‌घटके स्त्रीप्रत्ययमात्रविनिर्मुक्ते राजकुमारेत्यत्र कदाप्यदृष्टस्य प्रातिपदिकत्वस्यातिदेशो विशिष्टे दुर्लभः। कुमारशब्दगतन्तु कुमारीशब्देऽतिदेष्टुं शक्यते न तु विशिष्टे इत्याशयात्।। उत्तरयतीति।। अन्तरङ्गानपि विधीन्‌ बहिरङ्गो लुक्‌ बाधत इति न्यायेनेति शेषः। एतेन द्वन्द्वघटकतया समासांशेऽप्यप्रत्यय इत्यस्य सम्बन्धाद्राजकुमारीत्यस्योक्तरीत्या प्रत्ययान्तत्वेन सूत्रद्वयाविषयत्वाद्विभाक्त्युत्पत्तौ ङ्‌याब्ग्रहणमेव शरणमिति निरस्तम्। उगितश्चेति सूत्रे इति।। तत्र हि भाष्ये निर्यवमतीत्यादौ प्रत्ययग्रहणपरिभाषया ङीपोऽप्रवृत्तिमाशङ्क्य प्रत्ययग्रहण इत्युच्यते न चेदं प्रत्ययग्रहणं वर्णोप्युगित् प्रत्ययोऽप्युगिदित्युक्तम्।। बौद्धे इति।। बाह्यसत्तया बहिरिन्द्रियगोचरत्वाभावेऽपि बुद्धिकल्पितं मानसिकज्ञानविषयीभूतमस्त्येव शशीयत्वविशिष्टश्रृङ्गादिकमिति भावः।
केचितु आरोपितशशीयत्वविशिष्टश्रृङ्गादिबोधकत्वाच्छशश्रृङ्गादिपदानामर्थवत्त्वमित्याहुः।। [टि - आहुरिति।। इदमयुक्तम्। सर्वेषां शब्दानां बोद्ध एवार्थे शक्तिरिति मञ्जूषायां विस्तरतो निरूप्य शशश्रृङ्गादिपदानामर्थवत्त्वस्योपपादितत्वेनात्रारोपाश्रयणस्य वैयाकरणसिद्धान्तानारूढत्वात्। आरोपमूलस्य सादृश्यादेः सम्बन्धस्य दुर्वचत्वेनारोपस्य वक्तुमशक्यत्वाच्च। यथाकथञ्चिदारोपस्याङ्गीकारेऽपि श्रृङ्गे शशीयत्वारोपे शशश्रृङ्गधनुर्धर इत्यादौ श्रृङ्गे शशीयत्वाभावबोधनेऽपि धनुर्धरेऽभीष्टस्यालीकत्वस्याप्रतीतेः। श्रृङ्गे शशीयत्वाभावमात्रस्यैव प्रतीत्याऽन्यदीयश्रृङ्गधनुर्धरत्वप्रतीतेर्बाधकाभावादति दिक्]
पदत्वाभावादिति।। अनुकार्यानुकरणयोरभेदविवक्षायामर्थवत्त्वाभावेन प्रातिपदिकत्वाभावात्तदभाव-। अत एवात्र वलोपाभावः। ननु वान्तस्येदमनुकरणं, भेदविवक्षायां स्यादेवात्र पाक्षिको वलोपः। लक्ष्यानुरोधित्वाच्च विवक्षाविवक्षयोर्भेदपक्ष एवात्र कल्प्यत इति वितण्डामालोच्याह।। वृषण्वसुरित्यादि।।
पूर्वभागस्य भत्वेनेति।। नन्वलौकिके सुब्लुकः पूर्वं वृषण्‌शब्दस्याव्यवहितवस्वश्वशब्दपरत्वाभावेन भत्वं दुर्लभम्। सुब्विशिष्टस्य च पदत्वमक्षतमेव, ततश्च निरुक्तसाजात्यस्य कथमनुपपत्तिः। न च लुकः पूर्वं वस्वश्वशब्दपरत्वाभावेऽपि तदुत्तरं वृषण्‌वसुरित्यादौ तत्परत्वस्य सुवचतया भत्वस्य निर्बाधत्वात्तस्यापि समासत्वाविशेषाच्च समासत्वावच्छेदेन स्वीकर्तव्यस्य साजात्यस्यानुपपत्तिरेवेति वाच्यम्। समासः प्रातिपदिकमित्येतद्वाक्यीयोद्देश्यतावच्छेदकीभूतसमासत्वस्य प्रक्रियावाक्यमात्रविश्रान्ततया प्रातिपदिकसंज्ञाप्रयुक्तसुब्लुगुत्तरकालिकतदतिरिक्तसमासीयपूर्वखण्डगतभत्वस्य निरुक्तसाजात्यविघटकत्वासंभवात्। न च सामर्थ्यात्सुब्व्यवधानेऽप्यलौकिके वाक्ये भत्वमनेन विधीयत इति वाच्यम्। सुब्लोपोत्तरं नलोपनिवृत्तये णत्वलाभाय चाव्यवहितवस्वश्वशब्दपरस्य भत्वसंपादनेन चरितार्थतया सामर्थ्योपक्षयात्। अत एवोपजनिष्यमाणन्यायस्याप्यविषयस्तस्य सर्वथा विधिवैयर्थ्यमूलकत्वात्। अत्र वदन्ति। सुबित्यनुर्त्य वृषण्‌शब्दप्रकृतिकस्य सुबन्तस्यालौकिके वाक्ये भत्वमनेन विधीयते, सुब्लुगुत्तरमेकदेशविकृतन्यायेन वृषण्‌शब्दस्य भविष्यति। अन्यथा जातसंस्कारनिवृत्त्ययोगेनाकडारीयेनापि भत्वेन पूर्वं प्रवृत्तस्य पदत्वस्यानिवृत्तौ सामर्थ्यात्संज्ञाद्वयप्रयुक्तकार्याणां पर्यायताप्रसङ्गः। तस्मादलौकिकेऽपि पदत्वाभावः। किञ्च कार्यकालपक्षे विशिष्टात्स्वाद्युत्पत्तये पुनस्संज्ञाविधानस्य न्याय्यतया समासः प्रातिपदिकमित्येतद्वाक्यीयोद्देश्यतावच्छेदकस्य लौकिकालौकिकोभयविधसमाससाधारणस्यैवावश्यकत्वेन तद्धर्माक्रान्तसुब्लुगुत्तरलौकिकसमासीयपूर्वखण्डगतभत्वस्यापि समाससामान्यपुरस्कारेण स्वीकर्तव्यस्य पदत्ववत्पूर्वखण्डघटितत्वरूपसाजात्यस्य विघटकत्वमापततीत्याशय इति।।
प्रकृतिप्रत्ययभावानापन्नसंघातविषयक इत्यास्य परस्मपरनिरूपितप्रकृतिप्रत्ययभावापन्नसंघातातिरिक्तसंघातविषयक इत्यर्थः। तेन राजा इयानित्यादौ प्रकृतनियमेन प्रातिपदिकत्वव्यावृत्तिसिद्धिः। इत्थञ्च भाष्यानारूढत्वमेवात्र पक्षे दोषो, नान्य इति ध्वनयन्नाह।। भाष्ये त्विति।।
स्वातन्त्र्येणापीति।। ननु शब्दानां स्वातन्त्य्रमन्याविनाभूतत्वाभावः। ततश्चान्याविनाभूतत्वाभावहेतुकप्रयोगयोग्यपूर्वोत्तरावयवकार्थवत्समुदायत्वं नियमोद्देश्यतावच्छेदकं पर्यवस्यतीत्यत्रापि पक्षे साजात्यभङ्ग एव। प्रादिसमासे पूर्वखण्डस्योपपदसमासे चरमखण्डस्य च स्वातन्त्र्याभावात्। न च तथाभूतान्यतरावयवकसमुदायत्वमेव नियमोद्देश्यतावच्छेदकमाश्रीयते, प्राचार्य इत्यादिप्रादिसमासे चरभखण्डस्य स्तम्बेरम इत्याद्युपपदसमासे पूर्वखण्डस्य च स्वातन्त्र्यानपायान्न साजात्यभङ्ग इति वाच्यम्। जन्मवानित्यदौ पूर्वखण्डगतस्वातन्त्र्यमुपादाय प्रकृतनियमेन प्रातिपदिकत्वव्यावृत्त्यापत्तेः। न च तद्धितग्रहणसामर्थ्यात्तदंशे नियमाप्रवृत्त्या निर्वाह इति वाच्यम्। नभ्यं वैरङ्गिक इत्यादौ तद्धितसन्नियोगेन विधीयमानादेशरूपस्य प्रकृतिखण्डस्यापि स्वातन्त्र्याभावेन नियमाप्रवृत्त्या तादृशेषु प्रातिपदिकत्वसंपत्तये तद्धितग्रहणस्यावश्यकत्वेन सामर्थ्योपक्षयात्। बहुपटव इत्यादावृत्तरखण्डात्मकप्रकृतिनिष्ठस्वातन्त्र्यमुपादाय नियमेन प्रातिपदिकत्वव्यावृत्त्यापत्तेश्चेति चेत्सत्यम्। समभिव्याहृतस्वनिष्ठप्रत्ययत्वनिरूपकानधीनत्वं स्वातन्त्र्यम्। जन्मवान्‌ बहुपटव इत्यादौ मतुबादेः स्वनिष्ठप्रत्ययत्वनिरूपकप्रकृत्यधीनतामादाय स्वातन्त्र्याभावान्न स्वतन्त्रावयवकसमुदायविषयकस्य प्रकृतनियमस्य प्रसङ्गः। प्रकृत्यनधीनत्वमेव स्वातन्त्र्यमिति तु नोक्तम्। इयान् राजेत्यादौ राजेत्यादेर्यत्किञ्चिन्निरूपितप्रकृतित्वोपहितत्वेन तदधीनतामाश्रित्य तदितरखण्डस्य प्रकृतनियमप्रयोजकस्वातन्त्र्यानुपपत्तेः। किञ्च तत्रैव मतुबादेरुत्पत्तिकालिकस्वनिष्ठप्रत्ययत्वनिरूपकेदम्शब्दाद्यधीनतामादाय स्वातन्त्र्यभङ्ग इति स्वनिष्ठप्रत्ययत्वनिरूपके समभिव्याहृतत्वम्। प्राचार्यस्स्तम्बेरम इत्यादौ तु पूर्वोत्तरखण्डयोर्द्वयोरपि प्रत्ययत्वाभावेन स्वनिष्ठप्रत्ययत्वनिरूपकेतरखण्डानधीनत्वात्स्वातन्त्र्यमविप्रतिपन्नमिति वदन्ति।
यत्तु प्रधानेतरनधीनत्वं स्वातन्त्र्यमिति तदसत्। स्तम्बेरमः कुम्भकार इत्यादौ प्रधानान्तराभावादुत्तरखण्डस्य विशेषणाभावप्रयुक्तविशिष्टभावविधया प्राचार्यः कुपुरुष इत्यादौ स्वव्यतिरिक्तप्रधानेतराभावात्पूर्वखण्डस्य विशेष्याभावप्रयुक्तविशिष्टाभावविधया च प्रधानेतराधीनत्वाभावात्मकस्वातन्त्र्यसंपादनेन साजात्योपपादनेऽपि जन्मवान् बहुपटव इत्यादौ मतुबादेरुक्तरीत्या स्वातन्त्य्रसंभवेन प्रकृतनियमबलात्प्रातिपदिकत्वव्यावृत्त्यापत्तेः। अजर्यं संगतमित्यादौ प्रधानेतरनञ्धीनत्वेन स्वातन्त्र्यानापत्त्या साजात्यभङ्गापत्तेश्च।
यदपि ``विभक्तीतरानधीनत्वमेव स्वातन्त्र्यं स्तम्बेरमकुम्भकारादाविदानीं विभक्तीतराधीनभेदात्मकस्य स्वातन्त्र्यस्याभावेऽपि विनापि प्रत्ययं पूर्वोत्तरपदयोर्लोप इति वार्तिकेन पूर्वपदलोपे स्वातन्त्र्येण प्रयोगार्हतायास्सुवचत्वान्न साजात्यभङ्गः। एतदर्थमेव हि तत्रार्हपदम्। अन्यथा स्वातन्त्र्येण प्रयुज्यमानार्थवत्त्वमित्येव वदेत्। दृश्यते च वेदव्यासादिषूपपदसमासेषु पूर्वपदलोपो यथा व्यास इति, प्रत्ययमात्रस्य तथा क्वचिदपि न प्रयोगार्हत्वमतो जन्मवानित्यदौ नास्ति प्रकृतनियमेव प्रातिपदिकत्वव्यावृत्तिरिति तदप्ययुक्तम्। लोपस्य प्रसिद्धप्रयोगानुरोधित्वेनासार्वत्रिकत्वात्। अन्यथा राजपुरुष इत्यादावपि तत्प्रसङ्गात्। गतिसमासेषु प्रादीनां प्रत्ययवत्स्वतन्त्रप्रयोगानर्हत्वेन स्वातन्त्र्यस्य व्यभिचरिततया साजात्यभङ्गापत्तेश्च।
यदपि ``किञ्चिदुद्देश्यकोपपदसंज्ञाविधायकशास्त्रविधेयप्रत्यायान्तघटितसमुदायावयवत्वपूर्वोत्तरभावसमानकालिकार्थबोधजनकतावच्छेदकानुपूर्वीमत्त्वैतदन्य तररूपमिह स्वातन्त्र्येण प्रयोगार्हत्वमिति तदप्ययुक्तम्। देवदत्तः पुत्रीयति राज्ञः पुरुषस्येत्यादौ विभक्तिविनिर्मुक्तोतरखण्डघटितसंघातावयवीभूतपुत्रीयपुरुषादेर्निरुक्तान्यतररूपं यत्स्वातन्त्र्येण प्रयोगार्हत्वं तदनवरुद्धत्वेन नियमाप्रवृत्त्या तथाविधसंघातस्य प्रातिपदिकत्वापत्तेर्दुर्वारत्वात्। [टि- प्रातिपदिकत्वापत्तेर्दुर्वारत्वादिति।। देवदत्तः पुत्रीयतीत्यत्र तिप्रत्ययग्राग्वर्तिनः प्रागुपदर्शितदिशा अर्थवत्त्वाभावेन प्रातिपदिकत्वाप्रसक्तेरिदं चिन्त्यम्।] गतिसंज्ञोपहितानामेवंविधस्य स्वातन्त्र्येण प्रयोगार्हत्वस्य दुरुपपादतया तत्समासेषु स्वातन्त्र्येण प्रयोगार्हार्थवदवयवकसमुदायत्वस्य व्यभिचरिततया साजात्यभङ्गापत्तेश्चेति दिक्।
केचितु प्रत्ययत्वानुपहितसमासप्रवृत्तिप्रयोजकतावच्छेदकधर्मावच्छिन्नावयवकसमुदायावयवत्वमिह स्वातन्त्र्येण प्रयोगार्हत्वं विवक्षितम्। प्राचार्यः स्तम्बेरम इत्यादौ समासप्रवृत्तिप्रयोजकतावच्छेदकीभूतसुबन्तत्वकृदन्तत्वादिरूपतत्तद्धर्मावच्छिन्नावयवकसमुदायावयवत्वं पूर्वोत्तरखण्डयोर्द्वयोरप्युपपन्नमेवेति न साजात्यभङ्गः। देवदत्तः पुत्रीयति राज्ञः पुरुषस्येत्यादौ विभक्तिविनिर्मुक्तोत्तरखण्डघटितसंघातस्यापि निरुक्तधर्मावच्छिनानावयवकत्वाविशेषात्तदीयोत्तरखण्डत्मकधातुप्रातिपदिकादेरप्युक्तरीत्या स्वातन्त्र्येण प्रयोगार्हतया प्रकृतनियमप्रवृत्तेर्न प्रातिपदिकत्वप्रसङ्गः। अत एव देवदत्तो गार्ग्य इत्योतद्दटके विभक्तिविनिर्मुक्तोत्तरखण्डोपहिते प्रातिपदिकत्वाभावस्य प्रत्ययग्रहणपरिभाषाप्रयोजनत्वोपवर्णनपरमङ्गसंज्ञासूत्रस्थं भाष्यमुपपद्यते। अन्यथा तदीयोत्तरखण्डस्य प्रातिपदिकतया स्वातन्त्र्येण प्रयोगानर्हत्वात्सिद्धान्ते नियमाप्रवृत्तौ प्रातिपदिकत्वस्य दुर्वारत्वात्तदसङ्गतिरेव। एवञ्च समुदायादेकविभाक्तावेकशेष इति पक्षे राम राम औ इत्यादौ प्रकृतिभागस्याभीष्टप्रातिपदिकत्वनिवर्तकनियमव्यावृत्तये तत्पूर्वबागस्य स्वातन्त्र्येण प्रयोगार्हत्वाभावोपपादनपरवक्ष्यमाणग्रन्थविरोधोऽपि न संजाघटीति। तादृशसंघातस्य समासप्रवृत्तिप्रयोजकतावच्छेदकीभूतसुबन्तत्वादिरूपतत्तद्धर्मावच्छिन्नावयवकत्वाभावात्। जन्मवान् बहुपटव इत्यादौ मतुबादेस्समासप्रवृत्तिप्रयोजकतावच्छेदकीभूतसुबन्तत्वावच्छिन्नप्रकृत्यवयवकमुदायावयवत्वात्प्रसक्तं स्वातन्त्र्येण प्रयोगार्हत्वं वारयितुमवयवे प्रत्ययत्वानुपहितत्वनिवेशः। यद्यपि कुगतिप्रादय इत्यत्र सुपेत्यस्य गत्यंशे निवृत्तावपि प्रथमान्तस्य सुबित्यस्यानुवृत्तेरव्याघातत्खाट्‌कृत्येत्यादौ गतिसंज्ञोपहितस्यानुकरणस्य भेदविवक्षामूलकेन सुबन्तत्वेनैव समासस्य न्याय्यत्वात्प्रत्ययत्वानुपहितसुबन्तत्वावच्छिन्नावयवकसमुदायावयवत्वमेव स्वातन्त्र्येण प्रयोगार्हत्वमित्युक्तावपि न क्षतिस्तथापि पिबतभृज्जता खादतमोदतेत्यादिमयूरव्यंसकादिसमासेषु सुबन्ताभावेन निरुक्तस्य स्वातन्त्र्येण प्रयोगार्हत्वस्य साजात्यसंपादकत्वानुपपत्तिरिति समुदाये समासप्रवृत्तिप्रयोजकतावच्छेदकधर्मावच्छिन्नावयवकत्वनिवेशः। तिङन्तस्याप्याख्यातमाख्यातेन क्रियासातत्य इति मयीरव्यंसकाद्यन्तर्गतसूत्रेण समासविधानात्समासप्रवृत्तिप्रयोजकतावच्छेदकत्वं स्पष्टमेव। यदि तु निरुक्तरीत्या स्वातन्त्र्येण प्रयोगार्हत्वनिर्वचने प्रागुपदर्शिते देवदत्तो गार्ग्येत्यत्र तद्धितान्तत्वपिरयुक्तप्रातिपदिकत्वाभावस्य प्रत्ययग्रहणपरिभाषाप्रयोजनत्वेपपादनपरभाष्यसामरस्याय तदंश प्रकृतनियमाप्रवृत्तिप्रतिपादनपरप्रकृतसूत्रस्थशेखरग्रन्थविरोधः। तद्धटकस्यापि गार्ग्येत्यस्य निरुक्तस्य स्वातन्त्र्येण प्रयोगार्हत्वस्यानपायात्। न च तस्यामवस्थायां प्रत्ययग्रहणपरिभाषाया अभावेन समासविषये प्रत्ययान्तत्वेनाप्राप्तप्रातिपदिकसंज्ञाविधानार्थस्य समासग्रहणस्य नियामकत्वायोगात्कथं नियमप्रवृत्तिसंभव इति वाच्यम्। तस्यामप्यवस्थायां देवदत्तमहन् सुन्दरं दधीत्यादिवाक्येषु प्रत्ययलक्षणेन प्रत्ययान्तपर्युदासाप्रवृत्त्या कार्यकालपक्षे पूर्वसूत्रप्राप्तसंज्ञाया निवृत्त्युपायाभावेन चकारबलाल्लक्ष्यानुरोधाद्वा समासग्रहणस्यावृत्त्या नियमोप्यवश्यमभ्युपगन्तव्य इत्याशयात्। यत्तु तादृशभाष्यस्य प्रत्ययसामान्यग्रहणे परिभाषाप्रवृत्तिमभ्युपगम्य प्रत्ययविशेषग्रहणे प्रवृत्तौ प्रयोजनप्रतिपादनाभिप्रायेण देवदत्तो गार्ग्येत्येतद्विषयकतद्धितान्तत्वप्रयुक्तप्रातिपदिकत्वाभावस्य तत्प्रयोजनत्वोपपादकतया विनैवावृत्तिं समासग्रहणस्य नियामकत्वसंभव इति शेखरकाराशयमुद्भावयन्ति। तदसत्। तथा सति देवदत्तो गार्ग्येत्यत्र प्रत्ययान्तपर्युदासाप्रसक्त्या पूर्वसूत्रेण प्रातिपदिकसंज्ञाया दुर्वारतया तद्धितान्तत्वेन तदापादनपरभाष्यासंगतेः। ततश्च नेदं प्रागुपदर्शतं स्वातन्त्र्येण प्रयोगार्हत्वनिर्वचनं युक्तमिति मन्यते, तर्हि समासप्रवृत्तिप्रयोजकतानवच्छेदकधर्मावच्छिन्नावयवकसमुदायावयवत्वं स्वातन्त्र्येण प्रयोगार्हत्वमिति निष्कर्षः। तद्धितस्य सुप्तिङ्‌कृतामिव क्वापि समासप्रवृत्तौ निमित्तत्वाभावेन तत्प्रवृत्तिप्रयोजकतानवच्छेदकतया परिभाषाभावदशायां विशिष्टस्यैव देवदत्तो गर्ग्येत्यस्य तद्धितान्ततया तद्धटकस्य गर्ग्येत्यस्य न स्वातन्त्र्येण प्रयोगार्हत्वम्। तदन्तभिन्नसमुदायघटकस्यैव स्वातन्त्र्येण प्रयोगार्हत्वनिष्कर्षात्। सिद्धान्ते तु विशिष्टस्य तद्धितान्तत्वाभावात्। तद्भिन्नसमुदायघटकत्वेन गार्ग्येत्यस्यापि स्वातन्त्र्येण प्रयोगार्हतया नियमप्रवृत्त्या न प्रातिपदिकत्वप्रसङ्गः। बहुज्विषये जन्मवानित्यादौ च दोषवारणाय पर्युदस्यमानकोटावाद्यन्तपदोपादानम्। अतो न कोऽपि दोषः। यदि च प्रकृतोदाहरणविषयकतद्धितान्तत्वप्रयुक्तप्रातिपदिकत्वापादनपरभाष्यस्य सुन्दरं दधि देवदत्तमहन्नित्यादिवाक्यविषयकनियमाभावप्रयोज्यप्रातिपदिकत्वापादनोपलक्षकत्वे तस्यामवस्थायां नियमाभावादेव प्रकृतभाष्यसामञ्जस्यादावृत्तिपूर्वकनियमकल्पनायां मानाभावः। चकारस्त्वनर्थकनिपातानां संज्ञासंपत्त्यर्थ इति स्पष्टमाकरे। न्यायबलादर्थसिद्धौ ग्रन्थान्तरविरोधो न किञ्चित्कर इति मन्यते, तदा प्रागुक्तमेव युक्तम्।। दश दाडिमानीत्यादौ संघाते विशिष्टार्थविषयकबोधजनकत्वाभावादेव प्रातिपदिकत्ववन्नियमस्याप्यप्रवृत्तिरिति सर्वमनवद्यमित्याहुः।। [टि- आहुरिति।। परे त्वेवंविधस्वातन्त्य्राङ्गीकारे देवदत्तो गार्ग्येति सङ्घातघटकयोः पूर्वोत्तरखण्डयोर्निरुक्तस्वातन्त्य्रेण प्रयोगार्हार्थवत्त्वेन समुदायस्यापि ग्रन्थकारोक्तदिशाऽर्थवत्त्वाच्च नियमेन व्यावृत्तावङ्गसंज्ञासूत्रस्थभाष्यविरोधः। अतस्समासप्रवृत्तिप्रयोजकतावच्छेदकरूपावच्छिन्नत्वमेव स्वातन्त्य्रमिह विवक्षणीयम्। तच्च स्वातनत्र्यं पूर्वोत्तरभागयोरुभयोरप्यपेक्षितम्। एवञ्च गार्ग्येत्यस्य सुब्विनिर्मुक्तस्य समासप्रवृत्तिप्रयोजकतावच्छेदकीभूतसुबन्तत्वाद्यनाक्रान्तत्वेन स्वातन्त्य्राभावाद्विशिष्टस्य नियम्यकोटावनन्तर्भावेण न भाष्यविरोधः। अस्माकं पुनस्समुदायस्यार्थत्त्वाभावादपि नियम्यकोटावनन्तर्भाव इति त्वन्यदेतत्। एवञ्च जन्मवानित्यादावुत्तरखण्डस्य निरुक्तस्वातन्त्य्राभावादेव नियम्यकोटावनन्तर्भावसिद्धावत्र स्वातन्त्य्रनिर्वचने तदर्थं समुदायावयवि प्रत्ययत्वानुपहितत्ववविशेषणं व्यर्थम्‌। न चैवं गवित्यादेर्निरुक्तस्वातन्त्य्राभावाद्गवित्ययमाहेति विशिष्टस्य नियम्यकोटावनन्तर्भावेण प्रातिपदिकत्वपत्तिः। तत्र स्वातन्त्य्रप्रविपादनपमूलग्रन्थासङ्गतिश्चेति वाच्यम्। गवित्यस्यानितिपरस्य गतित्वेन कुगतिप्रादय इति समासप्रवृत्तिप्रयोजकतावच्छेदकीभूतगतित्वावच्छिन्नत्वेन स्वातन्त्य्रस्याव्याघातात्। एवमुपपदत्वकृदन्तत्वादेरप्युपपदमतिङित्यादिसमासप्रवृत्तिप्रयोजकतावच्छेदकत्वेनोपपदादेर्निरुक्तं स्वातन्त्य्रमस्तीति प्राचार्यस्तम्बेरम इत्यादौ न साजात्यभङ्गः। देवदत्तेन कृतमित्यादौ चरमसुप्प्राग्वर्तिनो नियम्यकोटावन्तर्भावश्च सिद्धः। एवञ्च समासप्रवृत्तिप्रयोजकतावच्छेदकरूपावच्छिन्नत्वं, देवदत्तो गार्ग्येति समुदायस्यार्थवत्त्वानभ्युपगन्तृमते पूर्वोक्तं समभिव्याहृतस्वनिष्ठप्रत्ययत्वनिरूपकानधीनत्वमपि वा स्वातन्त्य्रं विचक्षणीयम्।।
वस्तुतस्तु स्वनिष्ठप्रकृतित्वनिरूपकप्रत्ययप्रकृत्यन्यतरसमभिव्याहरानपेक्षया प्रयोगार्हार्थवत्त्वं स्वातन्त्य्रेण प्रयोगार्हार्थंवत्त्वं विवक्षितम्। तच्च पूर्वोत्तरखण्डयोर्द्वयोरपि विवक्षणीयम्। देवदत्तो गार्ग्येति समुदायस्यार्थवत्त्वाभावादेव न नियमव्यावर्त्यता। अत एव सरूपसूत्रे ``स्वातन्त्य्रेण प्रयोगार्हत्त्वेन साजात्येऽपि न दोषः। एतत्पूर्वभागस्य विभक्त्युत्पत्तिमनपेक्ष्य स्वातन्त्य्रेण प्रयोगानर्हत्त्वात् इदि ग्रन्थेन राम राम औ इत्यत्र रामरामेत्यस्य नियमव्यावर्व्यत्वाभावकथनं शब्दरत्नकृतः स्वरसत उपपद्यते। पूर्वोक्तरीतिद्वयश्रयणे तु विभक्त्युत्पत्तिमनपेक्ष्येत्यक्षरस्वारस्यं भज्येतेत्याहुः।]
नन्वनुकरणेष्वितिशब्दविशिष्टेनैवार्थप्रतीत्या केवलस्यानर्थक्यात्कथं स्वातन्त्य्रेण प्रयोगार्हार्थवत्त्वमत् आह।। गवित्ययमाहेति।। अनितिपरस्स्यापीति।। व्यतिरेकव्यभिचारात्केवलस्यैवार्थवत्त्वं, न विशिष्टस्येत्याशायः।। तत्त्वमस्त्येवेति।। अवयवगतमर्थवत्त्वं कथञ्चदर्थोपस्थापकत्वं सादृश्याख्यसंबन्धेनानुकार्योपस्थापकत्वादभेदविवक्षायामप्यर्थवत्त्वं सुवचम्। यद्वा [टि- यद्वा स्वातन्त्र्येपोत्यादि।। इदमयुक्तम्। केचिच्वित्यादिना ``प्रत्ययत्वानुपहितसमासप्रवृत्तिप्रयोजकतावच्छेदकधर्मावच्छिन्नावयवकसमुदायावयवत्वं खलु स्वातन्त्र्येण प्रयोगार्हत्वं भावता प्रतिपादितम्। तदेव यद्यवयवगतमर्थवत्त्वं, तदा पुत्रकाम्या पचतितरामित्यादौ काम्या तरामित्यादेः प्रत्ययसमुदायस्य निरुक्तार्थवत्त्वात्समुदायस्याप्यर्थवत्त्वेन समासग्रहणकृतनियमेन तादृशानां प्रातिपदिकत्वानापत्तेः। असूर्यंपश्येत्यादौ पूर्वखण्डस्य सुतरामानर्थक्यप्रतिपादनमपि न सम्यक्। तस्य सर्वथाऽनर्थकत्वे तस्यापि समासत्वेन समाससाजात्यादर्थवतस्समुदायस्य नियम्यकोटौ प्रवेश इति कथनस्यासाङ्गत्यापत्तेः। समुदायस्यार्थवत्त्वं तत्र नापेक्ष्यत इति चेद्दश दाडिमानीत्यादिसमुदायस्यापि नियमव्यावर्त्यत्वापत्तावर्थवद्‌ग्रहणस्य तद्व्यावृत्तिफलकत्वप्रतिपादनपरभाष्यासङ्गतिः। अतोऽसमर्थसमासस्यापि यथाकथञ्चित्कल्पितमर्थवत्त्वं ज्ञापकादङ्गीक्रियत इत्येव युक्तमिति सुधियो विभावयन्तु।।]स्वातन्त्र्येण प्रयोगर्हत्वमेवावयवगत मर्थवत्त्वम्। अत एवासूर्यंपश्येत्यादौ पूर्वखण्डस्यासमर्थसमासस्य सुतरामानर्थक्येऽपि न साजात्यभङ्ग इति बोध्यम्।। कर्मत्वेनाप्यन्वय इति।। आर्थिकोयमन्वय इति भावः। एतावतैव सामर्थ्येन तत्र कृद्वृत्तिस्समासश्च शास्त्रारम्भबलादिति भावः।। वलवत्त्वाच्चेति।। नियमलभ्यस्यार्थिकस्यापि निषेधस्य निषेधाश्च बलीयांस इत्यत्र ग्रहणमिति भावः।। विशेषणविशेष्यभावांश इति।। एषां पदानां सामान्ये वर्तमानानां यद्विशेषेऽवस्थानं स वाक्यार्थ इत्यर्थवत्सूत्रेभाष्ये उक्तम्। पूर्ववर्तित्वोत्तरवर्तित्वाभ्यामेव तद्वैशिष्ट्यमिति दुराग्रहेऽपि न निर्वाह इत्याह।। किञ्चेति।। तदसंबन्धादिति।। तन्मते विशिष्टशक्तेरभावादौपगवप्रभृतीनामप्यर्थवत्ताविरहेण बाधितत्वादिति बोध्यम्। परिनिष्ठितत्वमिति।। अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वमिह परिनिष्ठितत्वम्। निहते तिङन्तादावव्याप्तिवारणायाप्रवृत्तत्वम्। वैकल्पिकेडागमाद्युद्देश्यतावच्छेदकाक्रान्ते सेद्धेत्यादावव्याप्तिवारणाय नित्यत्वं विधिविशेषणमित्यन्यत्र प्रवञ्चितम्।
बहुव्रीहेरुधस इति।। तत्र हि भाष्ये कुण्डोध्नीत्यत्र नद्यन्ताद्बहूव्रीहेरित्यर्थेन नद्यृत इति कपमापाद्य नद्यन्तप्रकृतिकसुबन्तोत्तरपदकाद्बहुव्रीहेरित्यर्थेन परिहृतः। प्रातिपदिकत्वतद्व्याप्यधर्माणामतिदेशाभावे नद्यन्तस्य बहुव्रीहित्वाभावात्तदसंगतिरेव। ननु धर्मिग्राहकसाजात्यात्प्रातिपदिकविशेषग्रहणे परिभाषाप्रवृत्तिरस्तु। मामान्यग्रहणे तत्प्रवृत्तौ किं प्रमाणामत आह।। अत [टि- अत एवेतीति।। समान्यग्रहणे प्रवृत्तेरेवेति मूलग्रन्थस्य स्थाने अत एवेति क्वातित्कं पाठमनुसृत्येदम्।] एवेति।। एकान्तरतापत्तिरिति।। एकपदव्यवधानवत्ताप्रयुक्तकार्यप्रसङ्ग इत्यर्थः। आमः परमेकपदान्तरितं दूरात्संबोध्यमानार्थकमामन्त्रितं नानुदात्तमित्याम एकान्तरमामन्त्रितमनन्तिके इत्यस्यार्थः। अनेनैकश्रुतेरपि सामर्थ्यान्निवृत्तिः। अन्यथा तया बाधादनुदात्ताप्रवृत्त्या किमनेन मूत्रेण। एवञ्च प्लुतपक्षे प्लुतोदात्तत्वं तदभावे षाष्टमाद्युदात्तत्वं चात्र प्रसज्येतेति भावः। ननु सामर्थ्यात्सहचरितपरिभाषा बाध्यताम्। भाष्यन्तु निर्युक्तिकत्वादनुपादेयमेवेत्युच्छृङ्खलतया विप्रतिपद्यमानं प्रत्याह।। प्रत्येकमपीत्यादि।। नियमार्थमिति।। स्त्रीप्रत्ययान्ताच्चेत् ङ्याबन्तादेवेति नियमाकारः। यदि तु ङित्पिदन्यतरस्त्रीप्रत्ययान्ताच्चेन्ङ्याबान्तादेवेति विशेषतो नियमस्तदा तिप्रत्ययान्ते न दोषः।। भाष्योक्तरीत्येति।। स्वार्थे परिपूर्णं पदमर्थान्तरेण संबध्यत इति लिङ्गाद्यन्वितस्य सुबन्तार्थस्य बहिर्भूततद्धितप्रतिपाद्यकुत्साद्यर्थसंबन्ध इति हि तत्रत्या रीतिः। इत्थञ्चान्तरङ्गत्वादेव लिङ्गसंबन्धप्रयुक्तयोर्ङ्यापोः प्रथमं प्रवृत्तिरिति न तदर्थं प्रकृतनियमोपयोग इत्याशयः।। अन्यन्तस्वार्थिकत्वेनेति।। अन्तं स्वार्थपरिपूर्तेरवसानमतिक्रान्तस्तदनपेक्षोऽत्यन्तस्स चासौ स्वार्थिकश्चेति तथोक्तः। एवञ्च प्रवृत्तिनिमित्तमात्रबोधकत्वमत्यनुतस्वार्धिकत्वं, तद्व्यतिरिक्तप्रकृत्यर्थनिष्ठविशेषबोधकत्वं स्वार्थिकत्वमिति निष्कर्षः। अनुपयुक्तार्थकथनमभ्युच्चय;।। न वक्तव्यमिति।। अन्तरङ्गतरत्वात्कनस्सिद्धान्ते वचनारम्भः।
ताच्छबद्यमिति।। उपचारात्तेन शब्देन व्यवहार इति भावः। समासान्तानामुत्तरपदावयवत्वं विरुद्धमित्यन्यथा व्याचष्टे।। अन्वय इत्यादि।। यतोयं समासान्तः, अतः प्रक्रियावाक्यास्यावयवीभूयोत्तरपदस्यानन्तरं प्रवर्तत इति तदर्थ इति भावः।। इत्त्वानापत्तिरिति।। ननु सुब्लुकः पूर्वमेव टापि नायं दोष इत्यत आह।। तत्र विभक्त्यन्त इत्यादि।। तदन्तेऽसत्त्वादिति।। न च कबन्ते एव तदारोपोऽस्त्विति वाच्यम्। समाससंज्ञाप्रवृत्तये प्रक्रियावाक्ये स्वीक्रियमाणस्य तदारोपस्य तदीयोद्देश्यतापर्याप्त्यधिकरण एव न्याय्यत्वात्। अत एवेत्यस्य सुपः परस्तात्प्रवृत्तेरेवेत्यर्थः।।
तत्पूर्वभागस्येति।। इदं तु चिन्त्यम्। अन्यपदार्थबोधकसुबन्तसंघातत्वरूपस्य तथाविधसमासीयोद्देश्यतावच्छेदकस्य यदागमत्यायविरोधेन समासान्तविनिर्मुक्ते दुर्वचत्वात्। न्यायानित्यत्वेन तदुपपादनमनुपयुक्तमिति वदन्ति।। [टि- वदन्तीति।। अत्रेयं चिन्ता। यदिपूर्वभागस्य समाससंज्ञां यदागमन्यायः प्रतिबध्नीयात्तदा तस्यालौकिकवाक्यस्य कादाचिदपि समाससंज्ञाया अप्रवृत्त्या समासार्थालौकिकवाक्यत्वमेव न स्यात्। अतस्समासान्तत्वोपजीव्यत्वाद्यदा कदा वा समाससंज्ञाऽवश्यमभ्युपेया। सा च संज्ञा कदेत्याकाङ्क्षायां तद्धितान्तत्वनिमित्तकप्रातिपदिकसंज्ञासमकालमेवेत्याशयकोऽयं ग्रन्थः। यदागमन्यायस्तूपजीव्यविरोधादेतादृशविषयेऽनित्यत्वान्न प्रवर्तत इत्येव युक्तः पन्थाः। यद्वा क्वचिदागममात्रे आगमिधर्मंवैशिष्ट्याङ्गीकारवदागमसमभिव्याहृते केवले आगमिनि तद्धर्मवैशिष्ट्यमीदृशे विषयेऽभ्युपेयत इति वा वक्तुमुचितमिति। अत्र युक्तमुत्पश्यन्तु सुधियः।]
आर्यकेत्यस्य साधनेनेति।। ङ्याबन्तात्तद्धितोत्पत्तिर्यथा स्यादिति भाष्यकारोक्तनियमस्याबन्ताशे फलावश्यंभावादिदमभीष्टमिति भावः। अचः परस्मिन्नित्यत्रेति।। तत्र हि भाष्ये लोकदृष्टान्तेन शास्त्रीयकार्याणामन्तरङ्गबहिरङ्गभावमुपक्रम्य प्रातिपदिकं चाप्युपदिष्टं सामान्यबूतेऽर्थे, सामान्ये वर्तमानस्य व्यक्तिरुपजायते, व्यक्तस्य सतो लिङ्गसंख्याभ्यामन्वितस्य बाह्येनार्थेन योगो भवति। ययैव चानुपूर्व्यार्थानां प्रादुर्भावस्तयैव शब्दानामपि तत्कार्यैर्भंवितव्यमित्युक्तमिति भाव-। अक्तन्यायविषयस्य बाह्यस्य तद्धितार्थस्याभावात् ङ्याब्ग्रहणनिवृत्तेरिति संबन्धः। सूत्रशेषे भाष्ये इति ।। तत्र हि ङ्याब्ग्रहणं प्रत्याख्याय प्रकृतवचनेन लोहिनिकेत्यस्य सिद्धिमुपपाद्यर्यकेत्यस्य साधनाय न कश्चिद्यत्न आश्रितस्ततोऽस्यानभिधानमेव युक्तम्। पुरस्तान्नियमकोटावाप्‌ग्रहणन्तु प्रसङ्गोच्चारितं, अत एव तदंशे फलानुपन्यासो भाष्यकृत इति भावः।। घेस्सुपि गुण इति।। घेरित्येव सूत्रमस्तु, मास्तु ङद्‌ग्रहणं, सुपीति गुण इति चानुवर्तत इति भावः।। बहिरङ्गतयेति।। नौकिकोयमन्तरङ्गबहिरङ्गभावः।। सहस्रदक्षिणा इति।। दत्तगोसहस्रदक्षिणा इत्यर्थः।। संबोधनसत्त्वेनेति।। संख्यावाचिन एवेदं संबोधनमित्युचितम्। [टि - उचितमिति।। मूलोक्तप्रधानार्थकत्वेऽप्युषिसहस्रेऽन्यतमस्य प्राधान्यस्य दुर्निरूपतया तादृशस्यापि सहस्रदक्षिणत्वसम्पत्तौ प्रधानभूतस्य तव सहस्रदक्षिणत्वसम्पत्तिः कैमुतिकन्यायसिद्धा। यद्यन्यतमस्य तत्र प्रधानत्वं प्रमितं तदा तस्यैव सम्बोधनेन प्रधानस्य तव सा कैमुतिकन्यायसिद्धेति स्वारस्यलाभेन मूलोक्तव्याख्यापरित्यागेनान्यथा व्याख्यानकरणमनुचितम्। मूलोक्तव्याख्याने सम्बोधनविभक्तिरपि स्वरसत उपपद्यत इत्यपरमनुकूलम्। संख्यार्थकत्वे त्यदादीनामुत्सर्गतः सम्बोधनविभक्त्यभावेन क्वाचित्कततप्रयोगाश्रयणे स्वारस्यभङ्गः स्पष्ट एवेति बोध्यम्।] सहस्रमृषयः प्रत्येकमेकया कपिलया सहस्रदक्षिणास्संपन्नाः किं पुनस्त्वमेव इति कैमुत्येन स्वारस्यलाभादित्याहुः।। गौण्यपीति।। दानक्रियागणनप्रयुक्ता हि कपिलगवीनिष्ठा सहस्रसंख्या न तु वास्तवीति भावः।
एकशेषारम्भफलमिति।। तदनारम्भे तन्त्रवशादेकेनानेकार्थबोधसिद्धावपि पाक्षिको द्वन्द्वो दुर्वारस्स्यादिति तन्निवृत्तिरेवासाधारणं फलमिति भावः।। अनुप्रयोगविरोधादिति।। अस्मादेव हेतोर्मातृमात्रोरेकशेषाप्रवृत्तिरिति वार्तिकानम्भो व्यर्थ इति तदाशयः।। अत मतमिति।। प्रातिपदिकैकशेषे प्रतिषेधमारभमाणस्यवार्तिककारस्य विभक्त्यन्तानामेकशेषे मातृभ्यामित्यादावभीष्ट एवैकशेष इत्यर्थः। ईदृशविरुद्धमिति।। एकस्यैव प्रयोगस्य पक्षभेदेन साधुत्वासाधुत्वप्रयुक्तं विलोधमित्यर्थः।। उपलक्षणमिति।। तेन पथिकवाचकभर्तृभ्रातृभार्यावाचकयोर्यातृशब्दयोरेकशेषप्रतिषेधस्सिद्ध्यति। ननु एकविभक्तौ परतस्सरूपाणामेकशेष इत्यर्थे विभक्तिपरत्वस्यानुपयुक्तत्वेन सामर्थ्यात्सर्वस्यामपि विभक्तौ येषां सारूप्यं तेषामेवैकशेष इत्यर्थस्य सुलभतया मातृभ्यामित्यादावेकशेषाप्रसक्तेः कथमुक्तिसंभवः प्रतिषेधस्येत्यत आह।। अथं चेति।। प्रातिपदिकानामेकशेष इति पक्षो हि प्रक्रान्तस्स च विभक्त्युत्पत्तेः प्रागपि समर्थयितुं शक्य इत्येकविभक्तावित्यस्यानादरोवार्तिकैकदेशिन इति भावः।
केचित्तु प्रातिपदिकानामेकशेष इति पक्षस्योपष्टम्भकमेवैकविभक्ताविति, कथमन्यथा द्वन्द्वे प्रसक्ते विधीयमानस्य सुबन्तेषु प्रवृत्तियोग्यस्य प्रातिपदिकेषु प्रवृत्तिः स्यात्तस्माद्यत्र विभक्तौ सारूप्यं तत्रैकशेष इति प्रत्यासत्तिमभ्युपेत्य वार्तिकारम्भ इत्याहुः।। [टि - आहुरिति।। इदमयुक्तम्। एकविभक्ताविति पदस्यात्रोपष्टम्भकत्वाभावात्। तत्तवे चैकविभक्तौ परतः सरूपाणामेकशेष इति पक्षादस्य पक्षस्याविशेषेण भाष्ये वृथग्पक्षत्वकथनासङ्गतेः। अत्र पक्षे सहविवक्षाविषयत्वस्य परममूलेऽन्यथैवोपपादनेन द्वन्द्वे इत्यनुवृत्तेरनपेक्षणात्। तदनुवृत्तावपि वा द्वन्द्वे प्रसङ्क्ष्यमाम इति व्याख्यानेनापि सहविवक्षाविषयत्वं सम्पादयितुं शक्यम्। एवञ्चास्य पक्षस्यैकविभक्ताविति पदाभाव एवोपपत्तिरिति युक्तमिति बोध्यम्।]
प्रतिषेधवार्तिकस्योपलक्षणत्वे प्रमाणमाह।। अत एवेति।। अन्यथा प्रत्याखायानस्यारम्भसमफलकता न सिद्ध्येत्। न च सहविवक्षायामुपदर्शितार्थयोर्यातृशब्दयोरनभिधानमिति वाच्यम्। जननीपरिच्छेतृवाचकयोर्मातृशब्दयोरपि तुल्यतया वार्तिकारम्भवैफल्यात्। अतस्तस्योपलक्षणत्वमेव युक्तमिति भावः।। तदभावस्येति।। अस्य प्रतिषेधारम्भे इत्यादिः। इत्थञ्च प्रत्याख्यानेऽपि फलैक्याय तदभाव एवोचित इति भावः।। अन्वकाश इति।। एकशेषस्य सहविवक्षाविषयत्वे तद्विषयसरूपासरूपसाधारणद्वन्द्वापेक्षया सरूपमात्रविषयकस्य तस्यानवकाशत्वं युज्यते, न त्वन्यथेत्याशयः।। एकरूपेणेत्यादि।। तथाविधान्वयबोधप्रयोजकसाहित्यविषयिणी वक्तुरिच्छा सहविवक्षा। साहित्यं च पृथगर्थेषु व्यासज्यवृत्तिस्समुदायादविलक्षणो धर्मः। तस्यैकशेषेतरेतरयोगद्वन्द्वयोः प्रकारतया भानमावश्यकम्। अत एव रामौ रामकृष्णावित्यादौ विभक्तिवाच्यद्वित्वादेः प्रकृत्यर्थान्वयः। अन्यथा प्रकृत्यर्थतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसंबन्धेनान्वयनियमात्तथाभूतसंख्यायाः प्रकृते तदनापत्तिः। नियमानब्युपगमे च प्रत्येकं द्वित्वादितात्पर्येणापि धवखदिरावित्याद्यापत्तिः। रामलक्ष्मणौ गच्छत इत्यादौ सुब्विभक्तिवाच्यसंख्याया अविवक्षितत्वेऽपि तिङ्वाच्यायास्तस्या अन्वयितावच्छेदकलाभाय च तद्भानं, पुष्पवत्पदेऽप्येवम्। कोशबलात्साहित्यविशिष्टयोरेव सूर्याचन्द्रमसोस्तत्पदीयशक्तिनिर्णयात्। वृषाकपिशब्दे तु न तथा। ततो हरविष्णवन्यतरमात्रविषयकबोधस्याप्यानुभविकत्वात्। एवञ्च रामौ पश्येत्यादौ साहित्यावच्छिन्नद्वित्वविशिष्टभार्गवदाशरथिकर्मकं दर्शनमित्यादिक्रमेण बोध इति प्राञ्चः।
नव्यास्तु चार्थे द्वन्द्व इत्यनेन समूहात्मकचार्थप्राधान्य एव द्वन्द्वसमासस्य साधुत्वं बोध्यते। अनेकमन्यपदार्थ इत्यनेन अन्यपदार्थप्राधान्ये यथा बहुव्रीहिस्तद्वत्। अत एव गोस्त्रियोरिति सूत्रे भाष्ये कुक्कुटमयूर्यावित्यादौ द्वन्द्वे ह्रस्वप्रतिषेध आरब्धः। कैयटेन च समासार्थसमुदायं प्रत्यवयवार्थस्याप्राधान्यादनेकमित्यस्यानुवृत्तेश्चोपसर्जनतया ह्रस्वप्राप्तिरित्युक्तम्। तत्र तिरोहितावयवभेदस्समुदायस्समाहारद्वन्द्वार्थः। उद्भूतावयवभेदोऽवयवानतिरिक्त इतरेतरयोगद्वन्द्वैकशेषयोः।। अत्र समुदायत्वञ्च सकलावयवात्मकसमुदायपर्याप्तं प्रकृत्यर्थतावच्छेदकमिति न विभक्तिवाच्यद्वित्वाद्यन्वयविरोधः। समासान्तविधायके समाहारशब्देन तिरोहितावयवभेदस्यावयवातिरिक्तस्य समुदायस्य ग्रहणम्, अथवा तत्रैव समाहारशब्दस्य शक्तिः। इतरेतरयोगशब्दस्य तूद्‌भूतावयवभेदे तस्मिन्‌। अतो नेतरेतरयोगद्वन्द्वाट्टच्प्रसङ्गः। एवञ्च रामौ रामकृष्णावित्यादौ समुदायविशेष्यक एव बोधः। किञ्चैकशेषे लुप्तपदार्थानामवशिष्टपदीयशक्यतावच्छेदकानाक्रान्तानामपि तदारोपेण तत्पदवृत्त्यैव बोध इत्येकशेषसूत्रप्रत्याख्यानभाष्यस्वरस इत्याहुः।।
तदेतत्सकलमभिप्रेत्याह।। पुष्पवत्पदे इवेति।। इदमव्युत्पन्नमदन्तं तकारान्तं वेति कोशव्याख्यातारः।। उद्‌भूतावयवभेदविवक्षयेति।। तिरोहितावयवभेदविवक्षयेति।। तिरोहितावयवभेदसमूहगतद्वित्वबहुत्वान्यतरबुबोधयिषा हि सर्वशब्दस्यैकशेषविषयत्वे हेतुरित्याशयः।। द्वन्द्वोच्छेद इति।। ननु मास्तु द्वन्द्वविधौ सुबित्यस्य संबन्धः। ततश्च द्वन्द्वैकशेषयोः बाध्यबाधकभावोऽपि युक्तमुपपद्यते तत्राह।। नलोपाद्यनापत्तिरिति।। पूर्वपदे इति शेषः।। अनुमानादिति।। तद्बीजमविशेषेम वातिकप्रवृत्तिरिति बोध्यम्।। समुदायादिति।। क्षीरनीरवाचकयोः पयश्शब्दयोस्संघातादुभयगतविरुद्धकर्तृत्वकर्मत्वरूपशक्तिद्वयाभिलापकैकविभक्तेरसंभव इत्याशयः। नन्वेकग्रहणस्य भाष्याननुगृहीतत्वात्प्रत्येकं प्रवृत्तया विभक्त्या तत्परत्वमश्रित्यैकशेषो दुर्वार इति चेन्न। समुदायादेकविक्ताविति पक्षे निरूक्तरीत्या तदापादनायोगात्। किञ्च तत्राप्युपयोगो विभक्तिपरत्वस्यास्त्येवेत्याह।। लुकालुप्तत्वाच्चेति।। एककारकावेश इत्यस्य तच्छक्त्यावेश इत्यर्थः।। अत्रापि लुकीति।। ननु पयश्शब्दसमुदायादुभयविधकर्मगतद्वित्वाभिधानाय द्विवचनस्य न्याय्यतया कथं तस्य लुक्प्रवृत्तिः, एकवचनस्यैव नपुंसकलुग्विषयत्वादिति चेत्सत्यम्। प्रकृत्यर्थतावच्छेदकीभूतक्षीरत्वनीरत्वान्यतरव्याप्यताविरोधेन द्वित्वस्यानन्वयादेकत्वाभिधायकवचनमेव प्रवर्तत इत्याशयमुद्भावयन्ति।। समुदायादेकविभक्तेरिति।। देवदेव इति समासप्रकृतिकविभक्तेरित्यर्थः। असहविवक्षाविषयस्य तन्त्रस्यापि नात्र प्रसक्तिः। गिलगिले चेतयादिनिर्देशस्वारस्येन तथाभूतस्य तन्त्रस्योच्चार्यमाणविभक्त्यन्तसारूप्यनिबन्धनत्वौचित्यात्। विभक्त्यन्तस्य देव इत्यस्य हि न देवेति देवानामिति वा सरूपमिति भावः।। दीर्घश्रवणं स्यादिति।। अयमिन्नन्तत्वप्रयुक्तस्सौ चेति दीर्घः। अकृतपरिभाषावदन्तरङ्गानपीति न्यायोऽपि समर्थाधिकारेण बाध्यत इत्यभिमानः। यदि तु शब्दस्वरूपपरादश्विनशब्दान्नपुंसकान्मत्वर्थीय इत्युच्यते, तदा नास्ति दीर्घस्य प्रसक्तिरिति बोध्यम्।। शास्त्रीयविधित्वाभावादिति।। स्वरे निषेधारम्भाच्चाशास्त्रीयकार्यस्य प्रवृत्तिनिवृत्त्यन्यतरप्रयोजकस्याशास्त्रीयस्यापि धर्मस्यातिदेशोऽभ्युपगम्यते। यदा यातिरित्यत्र पूर्वखण्डीयाकारलोपनिवर्तकं तदुत्तरखण्डीयाकारलोपे स्थानिवद्भावकृतं व्यवधायकत्वं, न त्वशास्त्रीये कार्ये तत्प्रवृत्तिरित्याशयः।। अनयापि रीत्येति।। अपिरवधारणे, अशास्त्रीयकार्यत्वेनैवेत्यर्थः। उभयत आश्रयणे नान्तादिवदिति त्वयुक्तम्। पूर्वान्तरत्त्वपरादिवत्त्वयोर्यौगपद्येन स्वीकारेऽपि पौर्वापर्यलक्षणस्य व्यपवर्गस्याशास्त्रीयतया शास्त्रेणातिदेष्टुमशक्यत्वान्निषेधानुपपत्तेः। अत एव ह्युपसर्गस्यायताविति सूत्रे भाष्ये प्लायत इत्यादावयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वमित्यर्थे सवर्णदीर्घोत्तरमुभयत आश्रयणेऽपि व्यपवर्गदौर्लभ्येन लत्वाप्राप्तिमुद्भाव्याचः परस्मिन्निति स्थानिवद्भावाद्व्यपवर्ग इत्युक्तम्। किञ्चैकादेशस्थानिभूतपूर्वपरघटितसंघातयोर्व्यपवर्गो यत्र नाश्रीयते, इष्यत एव तत्रोभयत आश्रयणम्। यथा हे ज्ञानेत्यादौ ह्रस्वान्ताङ्गात्परस्य संबुद्ध्यवयवहलो लोपे पूर्वान्तत्वेनाङ्गत्वस्य परादित्वेन संबुद्धित्वस्य च लाभार्थम्। अपि च द्वयोरेकः प्रेष्यो भवतीत्यादिलोकदृष्टान्तमूलकेनानेन न्यायेन शास्त्रबाधोऽप्यनुचित एवेत्यन्यत्र विस्तरः।। भाष्यप्रामाण्यादिति।। तत्र हि छिन्नपुच्छश्वदृष्टान्तसिद्धस्यास्य न्यायस्य प्राग्दीव्यत इति विकृतनिर्देशः प्रकृतशास्त्रेऽप्याश्रयणे प्रमाणमित्युक्तम्। तेन दीव्यतीति सूत्रस्थस्यार्थनिर्देंशस्यैकदेशभूतो दीव्यच्छब्द एच्छिकेन लोपेनानुकृतो, न तु स्थानषष्ठीप्रयुक्तेन। तथाविधस्यानुकरणन्त्वर्थस्यावधित्वे साजात्यादर्थानामेवावधिमत्त्वलाभादर्थनिर्देशघटितेषु तस्यापत्यमित्यादिष्वेवाण्‌प्रत्ययाधिकारो यथा स्यान्नायत्र। अन्यथा ह्यत इञि यादावपि तत्प्रवृत्त्या विकल्पप्रसङ्ग इति स्पष्टं भाष्ये। इत्थञ्चाशास्त्रीयस्यापि विकारस्य न्यायविषयत्वं सिद्धमिति भावः।। अशास्त्रीयस्येति।। अतिदेशस्य लौकिकतया शास्त्रीयस्यैवेति प्रत्यासत्तेर्दुर्वचत्वादित्याशयः।। पदत्वसिद्धिरिति।। अत्र कार्यकालपक्षे इति शेषः। यथोद्देशे सन्धिकार्यात्पूर्वं प्रवृत्तया संज्ञया निर्वाहात्। न चाकडारीयसंज्ञासु यथोद्देश एवेति सिद्धान्तव्याहतिरिति वाच्यम्। यत्र भपदसंज्ञादीनां यौगपद्येन प्रवृत्तौ विरोधस्तत्रैव तादृशसिद्धान्तः। प्रकृते तु न तथा भसंज्ञाया अप्राप्त्या विरोधाभाव इत्याशयात्। (ननु सादृश्यमूलकात्प्रत्यभिज्ञानाद्विकृतेष्वविकृतधर्माध्यास इति प्रकृतन्यायस्य प्रतिपाद्यांशः। मान्ते च तथाविधप्रत्यभिज्ञाहेतोः प्रत्ययपूर्वत्वस्य दुर्लभतया कथं प्रकृतित्वम्। अनेनैव न्यायेन परत्र प्रत्ययत्वमपीत्ययुक्तमेव, विशिष्टविकारे तदयोगात्। न च परादिवद्भावेन तत्त्वमिति वाच्यम्। अशास्त्रीयप्रकृतन्यायगम्यप्रकृतित्वोपपादकतया तदप्रवृत्तेरत आह।। विकारविशिष्टे [टि- विकार वशिष्ट इतीति।। तस्य पदत्वसिद्धिरित्यनन्तरं ``विकारविशिष्टे प्रत्ययान्तत्वस्यैव प्रत्यभिज्ञानेन तत्पूर्वभागे प्रकृतित्वमत्यभिज्ञ सम्भवात् इति क्वाचित्कं शब्दात्नपाठमनुसृत्याय ग्रन्थः। इदानीन्तनपुस्तकेष्वयं पाठो न दृश्यते।।]इति।। विशिष्टे प्रत्ययान्तत्वप्रत्यभिज्ञाने तदीयपूर्वोत्तरखण्डयोः प्रकृतित्वप्रत्ययत्वप्रत्यभिज्ञा सुलभेति भावः)।। श्रायसाविति।। श्रेयस इमौ श्रायसौ देविकादिसूत्रेणाकारः। यथा तत्र सान्तस्याङ्गत्वमवशिष्टस्य सर्वनामस्थानत्वं तद्वदिहापीत्यशयः।। तत्साधने त्विति।। विभक्त्युत्पत्तिप्राक्कालिकमेव वैरूप्यमाश्रीयत इत्यत्र न मानमिति बोध्यम्।। युगपदधिकरणानामित्यादि।। अयं पक्षश्चार्थे द्वन्द्व इति सूत्रे भाष्ये। तत्र हि चार्थे प्रतीयमाने द्वन्द्व इत्यर्थे गामश्वं पुरुषं पशुं, इन्द्रस्त्वष्टा वरुणो वायुरादित्यः। एवमादावपि चार्थसंप्रत्ययादनिष्टप्रसङ्ग इत्यापाद्य सिद्धं तु युगपदधिकरणे द्वन्द्ववचनादित्युक्तम्। अवयवसुबन्तैः प्रत्येकं स्वसमभिव्याहृतसकलावयवप्रतिपाद्यसमुदायात्मके द्रव्ये प्रतिपादनीये द्वन्द्वो वक्तव्य इति तदर्थः। गामश्वमित्यादौ च स्वार्थमात्रवर्तिनो गवादयश्शब्दाः। न तु स्वार्थविशिष्टसमुदायवर्तिनो, यत एकवचनमेव श्रूयते, ततो न द्वन्द्वः।। तत्कल्पनादिति।। अलौकिक एव तत्कल्पनं न तु लौकिके। अन्यथा द्वन्द्वैकशेषयोर्लौकिकविग्रहवाक्येष्वेकवचनान्तप्रयोगस्याभीष्टस्य प्रवेशानापत्तेः।। प्रक्कालिकस्यैवेति।। पुंवद्भावशास्त्रे सामानाधिकरण्यमप्येवंभूतमेव। तेन पट्वीमृद्व्यावित्यादौ पूर्वपदस्य पुंवत्त्वाभावोऽपि सिद्धः।। मानाभाव इति।। अकृतव्यूहपरिभाषा त्वनित्या नास्त्येव वेति तत्त्वम्।। दृश्यत इति ।। शक्तिग्राहकशिरोमणेर्व्यवहारस्यादर्शनात्कथं प्लक्षन्यग्रोधावित्यादौ प्रत्येकमनेकवाचकत्वम्। अतो दुर्ज्ञेयत्वाद्‌दुःखकरी युगपदधिकरणवचनता। दुःखाशब्दश्च सुखदुःखतत्क्रियायामिति ण्यन्तात्पचाद्यचि द्रष्टव्यः। दुरुपपादेत्यत्र दुष्ट उपपादो यस्या इति बहुव्रीहिः। निष्प्रमाणोपपादनेति तदर्थः।। समासस्येति।। इतरेतरयोगद्वन्द्वसमासोत्तरमारोपितावयवसंख्याकसमूहात्मकसमासार्थसमवेतद्वित्वाद्यभिधायकमेव द्विवचनादिकमुत्पद्यत इति न तदर्थं युगपदधिकरणताया उपयोग इत्याशयः।। एतदुपपादिकेति।। न च द्यावाचिदस्मै पृथिवीत्यादावसमासे द्विवचनप्रवृत्तिरेतदुपपादिकेति वाच्यम्। असमासे लोके धवौ खदिरानित्यादितथाविघप्रयोगवारणाय वृत्तिविषयतायास्तस्या आवश्यकत्वेन छान्दसत्वादेव तत्र निर्वाह इति प्रकृतानुपयोगात्। भाष्येऽपि चेन कृतोऽर्थश्चार्थ इति व्युत्पत्तिमवलम्ब्य यत्र चशब्देन साहित्यं प्रतीयते तत्रैव द्वन्द्वो नान्यत्र गामश्वमित्यादौ, अहरहर्नयमान इतिन्द्रस्त्वष्टेत्यादौ लोकपाला इति चपदमहिम्ना तत्प्रतीयते, न तु चशब्देनेति नात्र द्वन्द्वप्रसक्तिरित्युपेक्षितोऽयं पक्षः।। वैयर्थ्यापत्तेरिति।। नन्वेकशेषानारम्भे द्वन्द्वप्रवृत्त्यापत्तिरत एकशेषविषये युगपदधिकरणवचनतायां न तद्वैयर्थ्यमत आह।। भैक्षासिद्धिरिति।। [टि - भेक्षासिद्धिरित्यादीति।। न दोष इति शब्दरत्नग्रन्थानन्तरं ``अत्रापि पक्षे भैक्षासिद्धिरेव। भिक्षा+आमित्यतः समुदायादण्। यद्यपि प्रातिपदिकत्वपर्याप्त्यधिकरणसुबन्ताभावान्न प्राप्नोति, तथापि तदवयवादेकस्मात्तस्य दुर्वारत्वेन तत्र कृते परत्वादादिवृद्धौ वैरूप्यादेकशेषाप्रवृत्तेर्विरूपाणामपीत्यनेन तत्सिद्धावपि विनिगमनाविरहात्प्रत्येकमण्प्रत्यये कदाचित्पूर्वयोर्निवृत्तावण्‌त्नयश्रवणापत्तिरिति दिक् इत्येवमधिकः पाठः क्वचिद्‌दृश्यते। तन्मूलकोऽयं ग्रन्थः। इदानीन्तनपुस्तकेष्वयं न दृश्यते।।] ननु तावेव सुप्तिङौ यौ ततः परौ, सैव च प्रकृतिराद्या, आदिग्रहणं च कृतम्। समुदायपदत्वमेतेनेति सर्वस्य द्वे इति सूत्रभाष्योक्तरीत्या भिक्षाशब्दप्रकृतिकामन्तत्रयस्य षष्ठ्यन्ततायास्सुवचतया विशिष्टात्सामूहिके तद्धिते कुतो भैक्षासिद्धिरित्येवं विप्रतिपद्यमानं प्रत्याह।। भिक्षा आमित्यादि।। प्रातिपदिकत्वपर्याप्त्यधिकरणेति।। तत्प्रकृतिकसुबन्ताभावादिति तदर्थः।
अयं भावः। तद्धितविधौ प्रातिपदिकाधिकरात्प्रातिपदिकादेव परत्वेन विधीयन्ते तद्धिताः ते च घकालतनेष्वति ज्ञापकात्सुब्व्यवधाने प्रवर्तन्ते। प्रातिपदिकपदं प्रातिपदिकत्वपर्याप्त्यधिकरणपरम्। ततश्च भिक्षादिरूपसमर्थप्रातिपदिकत्वपर्याप्त्यधिकरणात्समूहे षष्ठीमात्रव्यवहितोऽण्प्रत्यय इत्यर्थे भिक्षादिरूपसमर्थप्रातिपदिकत्वपर्याप्त्यधिकरणात्समूहे षष्ठीमात्रव्यवहितोऽण्प्रत्यय इत्यर्थे भिक्षाशब्दप्रकृतिकषष्ठ्यन्तघटकस्य चरमषष्ठीप्राग्वर्तिनो भिक्षाशब्दान्तस्य तथात्वाभावाद्विशिष्टात्सामूहिकप्रत्ययाभावः। अत एव देवस्य देवस्य भक्त इति वीप्साद्विरुक्तिवेषये वाक्यमेव, न कदाचिच्छैषिकः। पौनःपुन्यमित्यादौ च गणपाठादेव प्रत्यय इति।।
प्रत्येकमित्यादेः प्रत्येकमुत्पत्तावण्प्रत्यये सतीत्यर्थः।. पूर्वयोर्निवृत्ताविति।। परनिवृत्तावतो गुण इति त्रयाणां पररूपे नास्ति विशेषः। पूर्वनिवृत्तौ तु पररूपेऽपि भैक्षशब्दात्पूर्वमकारश्रवणप्रसक्त्या दोष इत्याशयः। यदि चावशिष्टयोरणोर्व्यपदेशिवद्भावेन तद्धितान्तत्वाद्भिक्षासमूहवाचकत्वेनार्थवत्त्वाच्च प्रातिपदिकत्वेन मुबुत्पत्तावतो गुण इत्यस्याप्रवृत्तिरित्युच्यते, तदा पूर्वत्रावशेषे परत्र वा तुल्य एव दोषः। पूर्वपरोभयनिमित्तकात्पररूपात्सुबुत्पत्तेरन्तरङ्गत्वमक्षतम्। वस्तुतस्तत्र विरूपाणामपीत्येकशेषे कदाचिदमित्यस्यैव भैक्षार्थे प्रयोगापत्तिर्दोष इति बोध्यम्।।
केचित्तु यस्मिन्नर्थे सकृदेकस्मात्प्रत्ययः प्रवृत्तस्तत्रैवार्थे तस्मात्पुनस्तदुत्पत्तापुक्तार्थानामिति न्यायविरोधः। अतो विनिगमनाविरहेण पर्यायतः प्रकृते तदुत्पत्तिः प्रसज्येतेति युक्तमापादयितुम्। किञ्चैकशेषविषये सर्वेषामपि प्रत्येकं सर्वार्थवाचकत्वम्। तदीयप्रक्रियावाक्ये परस्परसमभिव्याहारोत्तरमेव, न तु ततः प्राक्। कल्पकाभावादेकवचनविलयापत्तेश्च। ततश्चान्तरङ्गत्वेन प्रथमप्रवृत्तैकवचनविशिष्टसमूहस्यैव तद्विषयतया समूहिपर्याप्तसंख्याभिधायकविभक्तिव्यवधानेन विधीयमानस्य तद्धितस्य तदा प्राप्तिविरहादेकसेषोत्तरमेकवचनात्पूर्वं बहुवचने तद्धितोत्पत्त्या भैक्षसिद्धावपि तदुत्तरं भिक्षाशब्दप्रकृतिकस्य प्रथमप्रवृत्तस्यैकवचनस्य श्रवणापत्तिरित्येव दोष इत्याहुः।। [टि- आहुरिति।। परे तु पदस्य विभज्यान्वाख्यानेऽण्प्रत्ययप्रकृतेर्विभक्तव्यतया तस्या अनेकभिक्षार्थवत्वानुरोधेनैकशेषनिष्पन्नत्वाभ्युपगमात्तदीयप्रक्रियावाक्यस्थस्य परस्परसमभिव्याहारानपायात्तदानीं प्रत्येकं सर्वार्थवाचजकत्वेन बहुवचनस्यैव प्रत्येकमुत्पत्त्या तत्र भिक्षाशब्दप्रकृतिकप्रथमप्रवृत्तैकवचनस्यैवाभावेन कथं तच्छ्रवणापादनं युज्यते। अतो मूलोक्त एव दोषः सुस्थ इति विभावयन्त्वित्याहुः।।]
इत्थं विभक्त्यन्तानामेकशेषः प्रातिपदिकानां वा विभक्तौ परत इति पक्षद्वयस्यापि निराकृतत्वाद्विभक्त्युत्पत्तेः पूर्वमनैमित्तिकः प्रातिपदिकानामेकशेष इति पक्षःस्थितः।। ब्राह्मणशब्देनेवेति।। इवशब्दघटित एव पाठो नत्वेवकारघटितः। विरोधादवधारणस्येति भावः। दृष्टान्तस्य व्यक्तिपक्षे तन्त्रैकशरणतां स्फुटयति।। न हीत्यादि।। तावद्‌ब्राह्णमेत्यात्र तावच्छब्दस्साकल्ये।। आर्षमिति।। अयमुपायस्तन्त्रपक्षे। तत्पक्षे ह्युपस्थितानेकव्यक्तिसमवेतसंख्यानुरोधिनी विभक्तिः। जातिपक्षे तु जात्याख्यायामित्येकवचनमपि साध्वेवेति द्रष्टव्यम्। ननु सकृदुच्चरितश्शब्दस्सकृदेवार्थं गमयतीति सकलतन्त्रसम्मतो न्यायः। तदुक्तं भाष्ये। प्रत्यर्थ शब्दाभिनिवेश इति। एकैकमर्थं बोधयितुमेकैकस्य शब्दस्य प्रयोग इति तदर्थः। ततश्च कथमेकशेषारम्भमन्तरेणैकेन शब्देनानेकेषामर्थानां प्रत्ययः स्यादत आह।। अयं भाव इति।। एवञ्च सकृदुच्चारितानामप्यनेकार्थप्रत्यायनशक्तिः स्वाभाविकी, न तु शास्त्रैकसाध्येति तन्त्रव्यवहारोपपत्तावनर्थक एवैकशेषारम्भः। सकृदुच्चरितन्यायस्य त्वेकवारमुच्चारितशब्द एकमनेकं वा स्वार्थमेकवारमेव बोधयतीत्यर्थः। एकमर्थं बोधयतीत्यर्थे तु सकृच्छब्दस्यैकस्य सकृच्छेति क्रियाभ्यावृत्तिगणने व्युत्पादितस्य साधुत्वानापत्तिः। अन्तरेणाप्येकशेषं पुष्पवन्तावित्यादौ युगपदनेकार्थोपस्थितिः प्रसिद्धैवेति सर्वमुपपद्यत इति द्रष्टव्यम्।।
अर्थतन्त्रमिति।। अत्र प्राञ्चः। अनेकेषां शब्दानामेकत्रानुसन्धानं तन्त्रम्। तस्य सकृदुच्चारणप्रयुक्तत्वात्सकृदुच्चारणमेव तन्त्रमित्यौपचारिको व्यवहारः। अन्यथा तन्त्रेणोच्चारितमित्यादावन्वयानुपपत्तेः। तच्च द्विधा, शब्दतन्त्रमर्थतन्त्रं चेति। अर्थभेदाच्च शब्दभेद इति मते रूपसादृश्यादपह्‌नुतभेदानामनेकेषां शब्दानां सकृदेव कण्ठताल्वोष्टपुटव्यापारेण प्रकाशनाच्छब्दतन्त्रम्। अर्थभेदेऽपि शब्दैक्यमिति मते तु सकृदुच्चारणेनाभिव्यक्तेनैकेनैव शब्देनैकनालावलम्वितानेकफलवदनेकेषामर्थानामेकदा संप्रत्ययादर्थतन्त्रम्। स चायं तन्त्रव्यवहारस्सहविवक्षाविषयोऽसहविवक्षाविषयश्च। ब्राह्मणान्भोजय धटान्पश्येत्यादावाद्यः। तत्र ब्राह्मणादिपदप्रतिपाद्यानामनेकव्यक्तीनामेकधर्मावच्छेदेन समभिव्याहृतबोजनादिरूपैकक्रियान्वयात्। इदञ्च तन्त्रं प्रातिपदिकानामेव। अत एव तन्त्रानुसन्धीयमानानेकार्थव्यक्त्यनुगतसंख्यानुरोधिनी विभक्तिः अक्षा भज्यन्तां भुज्यन्तां दीव्यन्तामित्यादौ द्वितीयः। तत्र रथाङ्गविभीतकदेवनसाधनानामक्षपदप्रतिपाद्यानां भिन्नधर्मावच्छेदेन नानाक्रियान्वयात्। इदं च तन्त्रं विभक्त्यन्तानामेव। अत्र सर्वत्र बोद्धुरावृत्त्यैव बोधः। आवृत्तिश्च तत्तदर्थानुरोधेन पृथगनुसन्धानम्। तयैव हि बोद्धुस्तदर्थानुभव इति वदन्ति।। तदसत्। उक्तरीत्या शब्दार्थतन्त्रयोर्व्यवस्थापने घटान्पश्येत्यादौ शब्दतन्त्रस्याक्षा भज्यन्तामित्यादावर्थतन्त्रस्य चानिष्टस्य प्रसङ्गात्। न हि घटान्पश्येत्यादावनेकव्यक्तिबोधने पृथक्‌ शब्दानुसन्धानं जात्वपि कस्य चिदनुभवसिद्धम्। न वा अक्षा भज्यन्तामित्यादौ विजातीयानेकव्यक्तिबोधने तदभावः। येन तत्रेष्टापत्तिः स्यात्। तस्मादिह शब्दानां पर्यायपरिवृत्तिसहत्वेऽर्थतन्त्रमन्यत्रान्यदिति व्यवस्थापयितुं युक्तम्। पर्यायपरिवृत्तिसहत्वञ्च स्वप्रतिपाद्ययावदर्थाभिधायकपर्यायशब्दवत्त्वम्। घटान्पश्येत्यादावर्थतन्त्रम्। तत्र घटादिपदवाच्ययावदर्थाभिधायककलशादिरूपपर्यायप्रसिद्धेः। अक्षा भज्यन्तामित्यादौ च रथाङ्गविभीतकदेवनसाधनादिरूपानेकविजातीयपदार्थवाचकस्य पर्यायान्तरस्याप्रसिद्ध्या शब्दतन्त्रमेव। एवमक्षान्पश्येत्यादावपि। किञ्च बोद्धुरावृत्तिरपि न सर्वत्र, किन्तवसहविवक्षाविषये विभक्त्यन्त एव। तत्र नानाक्रियान्वयानुरोधेन पृथगुपस्थितये प्रत्येकं शब्दानुसन्धानस्यावश्यकत्वात्। सहविवक्षाविषये तु प्रातिपदिकतन्त्रे सकृदुपस्थितानामनेकेषामप्यर्थानामेकधर्मावच्छेदेनैकस्मिन्धर्मिण्यन्वय इति न तत्रावृत्तिः। तत्र पृथक्‌छब्दानुसन्धाने सकृदेकधर्मावच्छेदेनोपस्थितिविरोधादिति व्यवस्थापयन्ति।।
तदेतत्सर्वं पर्यालोच्याह।। शब्दस्य पर्यायपरिवृत्तीत्यादि।। पर्यायस्य स्वप्रतिपाद्ययावदर्थाभिधायकस्य शब्दान्तरस्य या परिवृत्तिः पाक्षिकप्रयोगस्तस्य सहस्तथोक्तः पचाद्यच्‌, तद्भावस्तत्ता, तयेत्यर्थः।। आवश्यकमिति।। अस्य स्यादिति शेषः, एवञ्च जातिपक्षे भिन्नजातीयानेकबोधने व्यक्तिपक्षे चासहविवक्षायां तन्त्रेण निर्वाहे तथैवान्यत्राप्यस्तु किं जातिपक्षाश्रयेण सूत्रारम्भेण वेति भावः। अनभिधानाज्ञाने इत्यस्य भाष्यकारसूचितानभिधानापरिज्ञाने इत्यर्थः।। अनुद्यत इति।। तत्सामर्थ्यादेतद्विषये द्वन्द्वाप्राप्तिरिति तद्भावः। प्राचीनोक्तस्य प्रयुक्तनामित्यादेरुक्तिसम्भवं दर्शयितुमाह।। अयं भाव इति।। सन्दर्भत्यर्थ इति।। एकस्यैव प्रयोगो यथा स्यादित्यनेन नानेनैकशेषो विधीयत इत्येतद्विरुद्धम्। समुदायादेकविभक्ताविति पक्षः प्रत्याख्यात इत्यनेन राम राम औ इति स्थिते इत्येतद्विरुद्धमिति विवेकः।। अलमिति।। प्रमाणविरुद्धानां प्राचीनोक्तीनामुपपत्तिपरिक्लेशादुपेक्षैव श्रेयसीति भावः।।
अवयवावयविभावस्सप्तम्या न प्रतीयत इत्यत आह।। अवयविन इत्यादि।। अजेव गृह्यत इति।। श्रूतोऽप्यम् न गृह्यते, अज्ग्रहणानुवृत्तिवैयर्थ्यात् ।। विशेषयत्वे चेति।। चकारेण तस्य पूर्वपरयोरिति परग्रहणेन ग्रहणं समुच्चीयते।। प्रत्ययलक्षणसूत्रे इति।। तत्र हि भाष्ये गामिच्छति गव्यतीत्यत्र गोरजादावमि विधीयमानमात्वं प्रत्ययलक्षणेन प्रसज्येतेत्यापाद्य नैवं विज्ञायतेऽजादावमीति, किं तर्ह्यमि विद्यमानेऽचीत्यर्थकमुक्तम्। एवञ्च यस्मिन्विधिस्तदादावल्‌ग्रहण इति परिभाषा नाश्रयणीयेत्युक्तप्रायम्। न चैतत्परिभाषाया अभावे मिदेर्गुण इत्यादेरित्संज्ञकशवर्णे प्रत्ययस्थे परे गुण इत्येवं वाक्यार्थस्य वर्णनीयतया मेद्यत इत्यादावित्संज्ञकशवर्णस्य लुप्तत्वात्तत्परत्वाभावेन गुणाद्यनापत्तिरिति वाच्यम्। अनुबन्धकार्येषु न ल्यपीति लिङ्गादनल्विधावित्यस्याप्रवृत्त्या लोपेऽपीत्संज्ञकशवर्णपरत्वस्य स्थानिवत्त्वेन सुवचतया दोषाभावात्। कथमन्यथा तदादिविधावपि विशेषणतया वर्णमात्राश्रयणादित्संज्ञकशवर्णादित्वं प्रत्यये स्यात्। यदि च विधानात्पूर्वमेव प्रत्ययत्वयोग्यतामात्रेणेत्संज्ञायां लोपे च तद्विनिर्मुक्तस्यैव लक्ष्ये प्रवृत्तिस्तत्र चेत्संज्ञकशवर्णादित्वं स्थानिवत्त्वादिना सुलभम्। तत्रत्यस्तथाभूतो धातूत्तरवर्ती शवर्णस्तु दुर्लभ इत्युच्यते, तर्हि भवतु तावन्मात्रफलिका परिभाषा। विनापि परिभाषामिको झलित्यादाविव तदादिलक्षणा वेति युक्तमुत्पश्यन्तु सुधियः। यद्यप्यादेः परस्येत्यनेन परस्य विधीयमानं पूर्वरूपमादेरेव स्यान्न तु विशिष्टस्येति निरर्थक एवायमज्ग्रहणादिपरिक्लेशः, तथापि गव्यति गोप्राप्त इत्यादावनङ्गकार्यतया प्रत्ययलक्षणेन प्रसक्तमात्वं वारयितुमौतोऽम्‌शसोरित्यत्रावश्यमाश्रयितव्योऽसावनुवृत्तिसौकर्यार्थं, यस्मिन्विधिरिति परिभाषायाः प्रयोजनाभावप्रदर्शनार्थं च प्रकृतेऽप्याश्रित इति द्रष्टव्यम्।
अवयवावयविभावसंबन्धेति।। स च संबन्धोऽध्याह्रियमाणवर्णान्वयी, निर्दिष्टपरिभाषोपस्थापितपरस्येत्यंशे तु न तदन्वयः। तस्योत्सर्गत उपात्तविशेषणतायाः क्लृप्तत्वात्।
नुम्ग्रहणाच्चेति।. न ह्यनुस्वारःस्वरसहायमन्तरेण प्रयुज्यत इत्याशयः।। प्रत्याहाराह्निके इति।. ऋलृक्सूत्रे इत्यर्थः।. व्र्तिककृतेति।। तेन ह्यड्‌व्यवाये णत्वेऽन्यव्यवाये प्रतिषेध इत्युपक्रम्य न वान्येन व्यवेतत्वादिति प्रत्याख्यातम्। ततश्चाडतिरिक्तव्यवायो निर्दिष्टपरिभाषया निवर्तिष्यत इति स्पष्टमेव प्रतीयते तदाशय इति भावः।
दृद्ध्यनापत्तेरिति।। आमुष्यायण इत्यत्र तु न दोषः। औपगवादाविवघकालतनेष्विति ज्ञापकात्सुब्व्यवधाने प्रवृत्तावपि प्रातिपदिकादेव फग्विधानात्। नडादावमुष्येति पाठो लुगभावसूचनार्थो न तु विशिष्टात्प्रत्ययविधानार्थो मानाभावादिति भावः। राजायत इत्यादौ सुबन्ताद्विहिते क्यङि प्रकृतेरङ्गत्वेनाकृत्सार्वेति दीर्घलाभोऽपि प्रयोजनमिति द्रष्टव्यम्।
उत्तरार्थमिति।। तत्र हि भाष्ये नान्नलोप इति न्यासे यज्ञानामित्यादौ दीर्घात्परत्वान्नलोपप्रसङ्ग इत्युक्तम्। नामीत्यस्य नित्यत्वाभावे लोपात्परत्वात्सुपि चेत्यस्य प्रवृत्तेर्दुर्वारतया तदसङ्गतिरेवेति भावः।
वस्तुतो नित्यत्वतात्पर्यकत्वे नामीति दीर्घात्परत्वान्नलोपस्ततः परत्वात्सुपि चेति दीर्घस्ततो नित्यत्वान्नामीति दीर्घ इत्येवं चक्रकप्रसङ्गे चक्रकेष्विष्टतो व्यवस्थेति नान्नलोप इति न्यासेऽपि स्यादेवोपपत्तिरिति भाष्यमसङ्गतं स्यात्। तस्मात्सुपिचेत्यंशे सन्निपातपरिभाषाविरोध एव मूलकारोक्तो भाष्यतात्पर्यविषय इति वदन्ति।। [टि- वदन्तीति।। पूरणगुणेति सूत्रे कौमुद्यां गोर्धेनोरित्यत्र षष्ठीसमासस्य निषेधे षष्ठीसमासेन परत्वाद्बाधितस्य विशेषणसमासस्याप्रवृत्तिरित्याशयकमुक्तम्। तद्रीतिपर्यालोचने तु नामीत्यस्य नित्यत्वाङ्गीकारे सुपि चेत्येतद्बाधकतयचा प्रसक्तस्य नामीत्यस्य परत्वाल्लोपो बाधकः स्यात्। न च लोपस्य सुपि चेत्येतत्परत्वाद्बाधकं भवितुमर्हति। तत्र विशेषणसमासस्येव सुपि चेति दीर्घस्य स्वबाध्यबाधितत्वेन तद्विषये पुनः प्रवृत्त्ययोगात्। एवञ्च तत्रत्यकौमुदीप्रदर्शितमतानुरोधेनायं शब्दरत्नग्रन्थ इत्येतन्मते यक्रकस्य प्रसक्त्यभावान्नामीत्यस्य नित्यत्वध्वननं सम्यगेवेति बोध्यम्।।]
ननु कथमेकया षष्ठ्या सकृदनेकसंबन्धाभिधानमनुशासनविरोधात्तत्राह।। तन्त्रेणेति।। ओसस्तन्त्रेण निर्देश इति भावः। यद्यपि द्विवचनतन्त्रे द्वित्वद्वयमपि प्रतीयेत, तथापि सूत्रेषु लिङ्गसंख्ययोरविवक्षणाददोषः।। अभिमान इति।। लोके विभक्त्यन्तस्य प्रातिपदिकस्य वा तन्त्रं प्रसिद्धम्। न तु विभक्तिमात्रस्य, तदभ्युपगमे राज्ञ इत्यादावपि सकृदनेकसंबन्धप्रतीतिप्रसङ्गः। तस्मात्सूत्रशेषभाष्योक्तरीत्या प्रत्ययपदस्य तदवयवपरत्वमित्येव युक्तः पन्थाः।। प्रमाणाभावादिति।। [टि- प्रमाणाभावादितीति।। मूले चरितार्थमिति भावः इत्यनन्तरं `` सौत्रत्वादिति।। न च द्वन्द्वसाधुत्वायादेशप्रत्ययसम्बन्धिसस्य स्थाने ष इति प्राथमिकबोधे सम्बन्धत्वेन षष्ठ्या जनिते पश्चात्तत्तल्लक्ष्यविषयकलक्षणकल्पनायां तत्तदुत्तरभिन्नाषष्ठी तेन तेन रूपेण सम्बन्धं बोधयिष्यतीति किं सौत्रत्वाश्रयणेनेति वाच्यम्। एवंरीत्या द्वन्द्वस्य साधुत्वे प्रमाणाभावादित्याशयात्। इत्यधिकः पाठः। परन्त्विदानीन्तनपुस्तकेषु न दृश्यते।।] यथासंख्यसूत्रमाद्यन्तौ टकितावित्यादौ स्वप्रवृत्तिविषये कथञ्चिद्‌द्वन्द्वस्य साधुत्वं बोधयेन्न तु तदप्रवृत्तिविषयेऽपीति भावः। तद्धितार्थोत्तरपदसमाहारे चेत्यत्र वैषयिके आधारे सप्तमी, विषयत्वं चानेकधा तेनाभीष्टसिद्धिरित्यन्यत्र विस्तरः। अन्वाचयशिष्टा आनुषङ्गिकत्वेन विहिता। तेन राज्ञ इत्यादौ केवलस्य भत्वसिद्धिः।।
षष्ठीतत्पुरुषेऽपीति।। निरुपपदात्सिचेर्विचीत्यादिः ।। इदमपीति।। उत्तरपदतेवे चापदादिविधाविति वचनमुत्तरपदस्य कार्यित्वे पदान्तत्वप्रयुक्तविधावेव च यथा प्रवर्तते तद्वदिदमप्युत्तरपदस्य पदान्तत्वप्रयुक्तविधावेव प्रवर्तत इत्यर्थः। अत्र पक्षे कार्यित्वनिवेशस्यानुपयोगः। तथाविधोदाहरणानुपलम्भात्। परमबुधावित्यादौ भष्भावोऽपि पदान्तत्वप्रयुक्त एवेति पदत्वनिषेधस्सुलभः। ननु सुगण ईशौ सुगण्णीशावित्यत्र पदान्तत्वविधित्वाभावेन निषेधाप्रवृत्तावीशशब्दस्याजादिपदत्वनिबन्धनस्य ङमुडागमस्य प्रवृत्तावपि सुगण्णीशयोरित्यत्र समासस्याजाद्यसर्वनामस्थानस्वादिपरत्वेनोत्तरपदस्यापि भसंज्ञकतया पदस्याजोदेर्विधीयमानो ङमुट्‌ दुर्लभ इति चेन्न। पदत्वनिषेधसाहचर्यादवान्तरसुबन्तस्य भत्वमपि पदान्तत्वप्रयुक्तकार्यप्रतिबन्धकत्वेनैव प्रवर्तते, न त्वन्यथेत्यभ्युपगमेनादोषात्। अत एवोत्तरपदत्वे चापदादिविधाविति वचनारम्भतत्प्रत्याख्यानयोर्न फलविशेषप्रयुक्तो विरोधः। एवं च निरुपपदात्सिचेर्विचि दधिसेचावित्यादौ षष्ठीसमासेऽपि षत्वानिषेधसिद्धिरिति न पञ्चमीसमासस्य प्रयोजनम्। भाष्यन्तु न प्रत्यासत्तेष्षत्वनिषेधः प्रधानं प्रयोजनमित्यभिप्रायकमतः कैयटोक्तमनभिधानमपि नातीव विरुद्धम्। बहुज्विषये षत्वनिषेधवचनमपि नाश्रयणीयमिति दिक्।। व्यतीहारसम्भवादिति।। व्यतीहारो विनिमयः। स च क्रियाया युगपदनेककर्तृकत्व इव पर्यायेणानेककर्तृकत्वेऽपि निर्बाध िति भावः।। पदत्वसिद्धिरिति।। [टि- पदत्वसिद्धिरितीति।। पुस्तकान्तरे एवमधिकः शब्दरत्नपाठः। ``औ इत्यस्य परादिवद्भावेन सुप्त्वात्तदन्तत्वेन पदत्वसिद्धिरिति सिद्धान्तान्तरमपि सूचितम्। इदं चान्तादिवत्सूत्रे भाष्ये स्पष्टम्। तत्र हि वृक्षे इत्यादौ परादिवत्त्वेनैकारस्य सुप्त्वमाश्रित्य पदत्वं साधितम् इति।. इदानीन्तनपुस्तकेष्वयं पाठो न दृश्यते।।] कार्यकालपक्षे इति शेषः। इदमेव युक्तम्। एकदेशविकृतन्यायेन यथोद्देशपक्षमाश्रित्य पदत्वसमर्थने ह्यधिकविकारसत्त्वेन कावित्यादेश्तदसिद्धिः।
संविज्ञायन्त इति।। सं वि पूर्वाज्जानातेः कर्मणि ल्युट्‌, तद्गुणास्संविज्ञाना यत्रेति बहुव्रीहिः। संविज्ञानशब्दस्य क्रियाशब्दत्वेन विशेषणत्वेऽपि पूर्वनिपातप्रकरणस्यानित्यत्वात्परनिपात इति कश्चित्तन्न। अधिकरणल्युडन्ततामाश्रित्य तत्पुरुषेणैवोपपत्तौ बाहुलककर्मल्युडन्तेन बहुव्रीह्याश्रयणस्यायुक्तत्वात्। पूर्वनिपातप्रकरणमात्रस्यानित्यत्वे मानाभावाच्चेत्याहुः।।
कार्यन्वयित्वादिनेति।। आदिपदेन तत्सन्निहितत्वम्। एवञ्च प्रकृतकार्यन्वयित्वेन तत्सन्निहितत्वेन वा यो ज्ञायते तद्विशिष्टान्यपदार्थबोधकस्तद्गुणसंविज्ञानस्तदन्यस्त्वतद्गुणसंविज्ञान इति भावः।। नागयज्ञोपवीतीति। इदं बहुव्रीहिमत्वर्थीयोभयसाधारणमेकार्थत्वादिति बोध्यम्। एतेन कार्यन्वयवन्नियतसन्निधानमपि तद्गुणसंविज्ञानहेतुरित्युक्तम्। तद्गुण एवेत्यस्य तद्गुणसंविज्ञान एवेत्यर्थः। विनापि प्रत्ययं पूर्वोत्तरपदयोर्लोप इत्युत्तरपदभूतस्य संविज्ञानशब्दस्य लोपो द्रष्टव्यः।। प्रत्ययान्तरत्वमिति।। एवञ्च तयप्‌स्थानिकत्वाभावेन स्थानिवद्भावप्रयुक्तस्य प्रथमचरमेति विकल्पस्य प्राप्तिशङ्कैव नेति भावः। यत्तु प्रत्ययान्तरत्वे महाविभाषान्निवर्तकं नित्यग्रहणं स्यादित्यहेतुको योगविभागः। तयबादेशत्वे तु सामर्थ्यविकल्पवोधकस्य विभाषाधिकारस्यादेशविधावप्रवृत्त्यैव नित्यत्वसिद्धावतिरिच्यमानं नित्यग्रहणं योगविभागे प्रमाणं स्यादिति तन्न। द्वित्रिभ्यामित्यत्रायच्सन्नियुक्तस्य विकल्पस्य निवृत्तये नित्यग्रहणस्यादेशपक्षेऽप्यावश्यकतया योगविभागस्य सर्वथा व्याख्यैकसमधिगम्यत्वात्।। उभघठितादिति।। लुक्कृतापहारविषयादन्यद्द्विवयनं यस्माद्विहितं तदादेः परं यत्रेत्यर्थे मूलकृदापादितदोषानुद्धारात्तत्कृतापहारविषयद्विवचनाभावो यत्रेत्याद्यर्थस्यावश्यकतायां तादृशद्विवचनस्य वृत्तावेव सम्भवाद्वृत्तौ च सुबुत्पत्तेः पूर्वमयच्प्रवृत्तेरुभशब्दप्रकृतिकत्वं द्विवचनस्य न संभवतीत्याशयः।। अयजिष्यत इति।। उभयतीत्यादावित्यर्थः।। लुक्कृतापहारसम्भावनेत्यादि।। लुक्कृतापहारसम्भावनाविषयद्विवचनाभाववदन्यत्वमयच्प्रवृत्तेर्निमित्तमिति निष्कर्षः।। अर्थानुवादकत्वमिति।। उभयगतिरिह भवतीत्यकृत्रिमस्याप्यत्र प्रायेण ग्रहणादीदृशस्य द्विवचनस्य परिग्रहे क्षत्यभावः। लुक्कृतापहारविषयत्वमपि कप्रत्ययस्य कथञ्चित्साम्भावनिकं संपादयितुं शक्यमिति तात्पर्यम्। नन्वेवं कल्पबादेः स्वार्थिकत्वेन द्विवचनतया तदंशे कथमयच्प्रवृत्तिरत आह।। न भवत्येवेति।। उभशब्दपाठप्रत्याख्यानपरं प्रकृतभाष्यमेवात्र प्रमाणम्।। अप्रवृत्तये इति।। अवयव्यर्थकायज्विषये स्वार्थिकायच्प्रत्ययाप्रवृत्तये इत्यर्थः। अनित्यत्वावश्यकत्वादिति।। एतेन पञ्चकपक्षे त्रतसिलोरिव कप्रत्ययस्याप्यधिकबोधकत्वेन द्विवचनत्वानुपपत्त्या स्यादेवायच्प्रत्यय इत्यपास्तम्।। अलमिति।. सर्वस्वतन्त्रस्य भगवतो भाष्यकारस्य वचनेष्वस्मदादिभिर्दोषापादनमज्ञानविलसितमेव। न हि प्रमाणमूर्धन्येषु तेषु दोषस्स्यादिति भावः।। उभयो मणिरिति।। अवयवद्वयारब्धसमुदायात्पमको मणिरित्यर्थः।। तादृशार्थस्येति।। उपस्थितार्थस्य विना प्रमाणं परित्यागायोगादित्याशयः। सूत्रे लिङ्गवचनमतन्त्रमिति तु विभक्तिबोध्यलिङ्गसंख्याविषय एवेति भावः। अथवा तदर्थमेव प्रमाणप्रदर्शनमत एवेति।। स्त्रियामिति।। अन्यथा ह्यन्तरा निगमा इति पुंस्येवोदाहरेदिति भावः।। पर्वताश्चेति।। उदयो मलयाचलोऽस्ताचलो हिमवानिति चत्वारो दिग्व्यवस्थापकाः पर्वताः।। संज्ञात्वं मत्वेति। अधरशब्दस्याथोभागवर्तिन्योष्टे प्राकृतस्सङ्केत इत्यत्र प्रमाणाभाव इति केचित्।। भाष्ये ध्वनितमिति।। तत्र हि विकारावयवप्रत्ययान्ताद्विहितयोर्विकारावयवप्रत्यययोर्लुगिति पक्षमुपक्रम्य फलाशादिभ्यो वेत्यञन्तात्पालाशशब्दान्नित्यं वृद्धशरादिभ्य इति विहितस्य मयटो लुकि पालाशीत्यत्रानुपसर्जनलक्षण ईकारो न प्राप्नोतीत्यापत्तौ माभूदेव मञ्‌ योऽनुपसर्जनमिति, अञन्तादनुपसर्जनादित्येवं भविष्यतीत्युक्तम्। अनेन च स्वर्थविशेषणकान्यार्थबोधकत्वमुपसर्जनत्वम्। न तु विशिष्टार्थबोधकतामात्रमिति स्पष्टमेव प्रतीयत इति भावः।। आत्मानमित्यर्थकेति।। स्वशब्दोऽसावात्मीयत्वेन स्वरूपवाचको न त्वात्मवाचक इति मूलकाराशयं केचित्।।
एकव्द्यन्यतरा इति।। एकत्वद्वित्वोभयधर्मप्रकारकसंशयविषयीभूता इत्यर्थेऽप्युपसर्जनत्वमेव। अन्यतरत्वञ्च भेदावच्छिन्नप्रतियोगिताकभेदवत्त्वम्। सर्वथैवान्यपदार्थप्रधानोऽयं बहुव्रीहिः। पूर्वसूत्रेण सिद्धमिति भाष्योक्तेः संशयविषयत्वेनान्यतरत्वेन वा बहूनामेवोपस्थितिरिति बहुवचनम्।। उपसर्जनत्वाभावादिति।। न ह्यलोकिकवाक्यप्रविष्टाल्लौकिको बोधो भवति।। येन तथाविधबोधजनकत्वलक्षणमुपसर्जनत्वं स्यादिति भावः।। भाष्ये स्पष्टमिति।। तत्र हि वाञ्छतेरप्रत्यये वान्‌, वाञ्छौ, वाञ्छ इति प्राप्नोति, वांशौ, वांश इति चेष्यते, यथालक्षणमप्रयुक्ते इत्युक्तम्। ननु वर्णमात्रनिमित्तकत्वेनान्तरङ्गस्तुगागमो नुमपेक्षया पूर्वं प्रवर्तत इति कृतेऽपि सतुग्ग्रहणे वाच्छतौ शादेशस्य सुवचत्वादनभिधानस्वीकारो न युक्त इति चेत्सत्यम्। नुम्विधौ धातुग्रहणसामर्थ्यान्नुमागमस्योपदेशिवद्भावस्तावदवश्यं वाच्यः। अन्यथा कुडि दाह इत्यादिभ्यः क्तिन्प्रत्यये सति नुमागमे कुण्टिरित्याद्यनिष्टप्रसङ्गः। इष्यते तु गुरोश्च हल इत्यकारप्रत्यये कुण्डेत्यादि।। न च धातुग्रहणस्य सिच इदित्त्वमादायाभैत्सीदित्यादौ नुम्निवारणार्थमावश्यकत्वात्कथमुक्तार्थलाभ इति वाच्यम्। सच्‌करणेनापि निर्वाहात्। न च सिच इदित्त्वाभावे सममंस्तेत्यादावनिदितामिति नलोपप्रसङ्ग इति वाच्यम्। हनस्सिजित्यनेन हन्तेर्नलोपार्थात्कित्त्वविधानाज्‌ज्ञापकात्सार्वधातुकसंबन्धिङ्कित्त्वनिमित्तकत्वेनानिदितामित्यस्याप्रवृत्तेः। एवञ्च मन्ता हन्तेत्यादावपि नलोपो न प्रवर्तते। टिलोपस्याभीयत्वेनासिद्धत्वाद्वेति तासिरपि तास एव कर्तुं शक्यः। तथा च धातूपदेशकाले प्रवर्तमानोऽसावन्तरङ्गतरो नुमागमस्तुगपेक्षयापि पूर्वं प्रवर्तत इति सतुङ्निर्देशेनादेशाप्रवृत्तेर्न्याय्यमेवानभिधानमित्याहुः। तदप्रवृत्तिरेवेत्यस्य तुगागमाप्रवृत्तिरेवेत्यर्थः।। राजा ऐनेय इति।। यथा राजेत्यत्र प्रत्ययलक्षणेन पदत्वनिमित्तको नलोपो यथा ऐनेय इत्यत्र यस्येतिलोपस्य स्थानिवद्भावेन ङीप्सन्नियुक्तस्य नकारस्यावस्थानं तद्वत्कंसं घातयतीत्यत्रापि कृल्लुकि प्रत्ययलक्षणेन कृन्निमित्तकस्य वधादेशस्यावस्थानसम्भवान्निमित्तविनाशाभावेन प्रकृतपरिभाषाया अप्रवृत्त्या प्रत्यापत्तिवचनस्य तन्निमित्तकत्वेनावश्यकत्वादनित्यत्वज्ञापकता न सम्भवतीति भावः।। पूर्वकार्य एवेति।।लुमच्छब्दप्रयोज्यलोपविषयस्य प्रत्ययस्य प्रकृतिभूतो यो लब्धाङ्गसंज्ञस्तदुद्देश्यकं प्रत्यये परतो जायमानं कार्यं नेति तदर्थः। अत एव पञ्चेत्यत्र पदत्वप्रयुक्तो नलोप इत्याद्यन्यत्र विस्तरः।। पुष्ययोगे ज्ञीति।। पुष्ययोगशब्दे प्रकृतिभूते जानात्यर्थे णिच् कृल्लुक्‌ प्रकृतिप्रत्यापत्तिश्चेत्यादि तदर्थः।। अकच्स्वराविति।। प्रत्यवयवं संशयविनिर्मुक्तावकच्स्वरौ कर्तव्यावेवेत्यर्थः।। दिगिति।। बहुव्रीहिविषयता परस्परसमभिव्याहारोत्तरमलौकिके वाक्ये, ततः प्रागेवान्तरङ्गत्वादकच्स्वरयोः प्रवृत्तेर्निषेधारम्भो व्यर्थः। सामर्थ्यात्परस्परसमभिव्याहारात्प्रागपि तयोरप्रवृत्तिरिति चेत्सर्वेषामेव सर्वादीनां बहुव्रीहियोग्यत्वादव्यवस्था स्यादतो वचनप्रत्याख्यानमेव वरमिति दिगर्थः।। ननु शब्दशक्त्या सूत्रार्थवर्णने न्यासग्रन्थविरोधेन किं कृतं स्यात्तत्राह।। न्यासकारस्यापीति।। संवादमाहेति।। प्राचीन इति शेषः।। उपस्थितिविषयत्वस्यैवेति।। न तु बोधविषयस्य तथात्वं मानाभावादिति भावः।। पदद्वयेऽपीति।। पर्यायेणेति भावः। अन्यथा बोधावृत्तिप्रसङ्गात्। न प्रवृत्तिरिति।। एकार्थीभावारोपेण समाससंज्ञायां सामासिके लुकि समुदायन्ङेप्रत्यये तत्प्रवृत्तेरिति भावः। अभिमान इति।। सूत्रस्य तन्निवर्तकत्वासम्भवोऽत्र बोजम्।। तद्विशेषणत्वमिति।। अन्यपदार्थविशेषणत्वमित्यर्थः। प्रियसर्वशब्दो हि प्रीतिविषयसर्वसंबन्धीत्यर्थकः। न तु सर्वशब्दमात्रमिति तदाशयः। जहत्स्वार्थायामनर्थक एव सर्वशब्दः। पक्षान्तरे चावयवोऽपि विशिष्टार्थे वर्तत इत्ययुक्तमेतत्। तदाह।। अभिमान इति।। मासेन कृतायेत्यादि।। तृतीय तत्कृतेत्यादिना समासः। गुणशब्दो हि तत्र धर्ममात्रववाचीत्याशयः।। मानाभावादिति।। वर्णाश्रमेतरशब्देन साहित्यविशिष्टानां वर्णानामश्रमाणामितरेषां च बोधनेऽपि प्राधान्येन कस्य चिदन्यस्यार्थस्यानुपपादनात्परमसर्वशब्दघटकसर्वशब्दस्यैव प्राधान्येन स्वीयसर्वार्थवाचकत्वरूपं सर्वार्थवाचकत्वमितरशब्दस्याक्षतमिति भावः। ननु जहत्स्वार्थायां वृत्तिघटकानामानर्थक्यात्कथं परमसर्वादीनां सर्वनामत्वं, भूतपूर्वगत्या सर्वार्थवाचकत्वमादाय तदुपपादने त्वतिसर्वादावपि तदापत्तेरुपसर्जननिषेधवैयर्थ्यम्। न च सर्वाद्यन्तस्य सर्वार्थवाचकत्वेन संज्ञाविधानान्न दोष इति वाच्यम्। अत्यन्यास्सर्वे इत्यत्रापि तदापत्तेरिति चेत्सत्यम्। ईदृशेषु जहत्स्वार्थाया अभावः। ``जहत्स्वार्था तु तत्रैव रूढिर्यत्र विरोधिनी त्यभियुक्तव्यवहारात्। यद्वा प्रयोजनं चसर्वनामाव्ययसंज्ञायामिति तदन्तस्य संज्ञाप्रतिपादनपरभाष्यप्रामण्यादाश्रीयमाण भूतपूर्वगतिरुपसर्जनप्रतिषेधप्रत्याख्यानभाष्यबलादनुपसर्जनविषय एव, ततो न दोष इत्याहुः।। स्मृत्यन्तरेणेति।। न बहुव्रीहावित्यस्य समुदायनिषेधकत्वे खल्वकचस्वरावित्यस्योपपत्तिः समुदायनिषेधश्च प्रथमार्थे सप्तमीं विना न सम्भवतीत्येतत्प्रकरणविषयकं प्रथमार्थे सप्तमीबोधकमनुशासनमनुमीयत इति भावः। ननु बहुव्रीहावित्येतद्विषयकभाष्योक्त्या प्रकारणमात्रविषयकस्मृत्यन्तरप्रयुक्तकल्पनमयुक्तं तत्राह।। साहचर्येणेति।। ननु साहचर्यं न शक्तिबोधकं, किन्तु बहुष्वर्थेषु प्रसृतायाश्शक्तेरेकत्रनियमकं, यथा रामलक्ष्मणावित्यत्र लक्ष्मणसाहचर्यमनेकेषु विद्यमानाया रामपदशक्तेर्दशरथापत्यमात्रबोधकतासम्पादकम्। ततश्च कथमिह साहचर्येण सप्तम्याः प्रथमार्थकत्वं स्यात्। लक्षणा तु सुब्विभक्तौ निषिद्धैव। तेन तयापि प्रकृते नोक्तार्थलाभ इत्यत आह।। किञ्चेति।। फलाभावादिति।। एवञ्च तत्रागत्या सौत्रत्वात्प्रथमार्थिका सप्तमीत्याश्रयणीयत्वादत्राप्यर्थाधिकारसहचरितपरिभाषयोरनुग्रहाय तथैवाश्रयितव्यमित्याशयः।। अपास्तमिति।। उक्तरीत्या समुदायनिषेधकताया एव सूत्राक्षरैर्लाभेनावयवनिषेधकत्वायोगादिति भावः।
ननु महता प्रयासेनेकारप्रत्याख्यानमनुचितं, किञ्च महतो वंशस्तम्बाल्लट्वानुकृष्यत इति प्रत्याहाराह्निकस्थकात्यायनावहेलनपरभाष्यविरुद्धं चेत्यत् आह।। प्रत्याख्यानेनेत्यादि।।
तदवयवस्येत्यादि।। आक्षेपो ह्यनुपपत्त्या भवति।। ततश्च यत्राक्षिप्यमाणस्य सम्बन्धेनानुपपत्तिपरिहारस्स्यात्तत्रैव तत्संबन्धो नान्यत्रेति भावः। नन्वाक्षिप्यमाणस्य यजाद्यंशस्यावयवविशेषणत्वेऽपि समुदायस्य यजादिपरताया अव्याधातात्सिद्ध एवानुपपत्तिपरिहारस्तत्राह।। किञ्चेति।। विधौ परिभाषेति।। उदीचामातः स्थाने इति सूत्रस्थेन षष्ठी स्थान इति परिभाषोपस्थित्या सिद्धेन स्थानेग्रहणेनेयमतिरिक्ता परिभाषा ज्ञाप्यत इति भावः।। इको गुणवृद्धी अचंश्चेति।। तत्र सूत्रद्वये विधीयत इत्यध्याहारमूलकत्वादस्याः परिभाषाया अन्यत्र न प्रवृत्तिरित्यर्थः। प्रत्युत प्रवृत्तौ दोषश्चेत्याह।। उदात्तस्वरितयोरित्यादि।। अन्नन्तभसंज्ञकाङ्गावयवस्यातो लोप इत्येव सूत्रार्थः। अनन्त्यविकारपरिभाषया च तक्ष्णेत्यादौ न प्राथमिकाकारस्य लोपः। भाष्यं चेदमेकदेश्युक्तिराकडारीयसंज्ञासु कार्यकालत्वायोगादित्यन्यत्र प्रपञ्चितम्।।
तेनेति।। निमित्तवत्पदभिन्नपदाघटितत्वमखण्डपदत्वमिति प्राचीनपरिष्कारे तु भोगशब्दस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाद्रेफषकारान्यतररूपनिमित्तविहीनत्वाच्च तद्धटितस्य समानपदत्वाभावेन णत्वानुपपत्तिरिति भावः।। निमित्तानधिकरणेत्यादि विशेषणभूतसमानशब्दार्थपरिष्कारः। पद इत्यवशिष्टो विशेष्यांशः। तत्फलं रामनामेत्यादौ चरमवर्णविहीनस्य कस्य चित्खण्डस्याखण्डत्वेऽपि णात्वाभावः। न चैवं वृषण्वसुर्वृषणश्व इत्यत्र पूर्वपदस्य भसंज्ञकतया पदत्वाभावादखण्डत्वेऽपि णत्वानापत्तिरिति वाच्यम्। वस्वश्वशब्दयोः पदत्वेऽपि निमित्त्यनधिकरणतया विशिष्टस्यैवाखण्डत्वलाभेनादोषात्।। गन्धर्वगानमिति।। न च गन्धर्वगानरूप्येणेत्यादौ तद्धितविशिष्टस्यापि निरुक्तपदघटितत्वादखण्डत्वानुपपत्त्या णत्वासिद्धिरिति वाच्यम्। अखण्डत्वघटकयोर्निमित्तनिमित्तिनोश्चिकीर्षितणत्वसम्बन्धिनोर्विवक्षणेन निर्वाहात्। इत्थं च चिकीर्षितणत्वनिमित्तानधिकरणतथाभूतनिमित्त्यधिकरणस्वतन्त्रप्रयोगार्हघटितत्वे सति पदत्वं समानपदत्वमिति निष्कर्षः। नन्वेवं कारकषष्ट्या समासेऽपि नृनमनशब्दान्तर्गतस्य नमनशब्दस्य पारिष्कारिकपदत्वाव्याघातेन विशिष्टस्याखण्डत्वाभावादेव णत्वाप्राप्त्या चारितार्थ्यासम्भवेन णत्वनिषेधार्थस्य तदीयक्षुभ्नादिपाठस्य ऋवर्णात्परस्य नस्य णत्वमित्यर्थे ज्ञापकता भाष्यकारोक्ता न युक्ता स्यादत आह।। क्षुभ्नादिष्वित्यादि।। संज्ञाभूत इति।। आधुनिकसङ्केतेन वस्तुविशेषे स्वरुपं निमित्तीकृत्य विनियुज्यमानोऽसाववयवार्थविहीनत्वादखण्डः। तत्र चोक्तार्थज्ञापनपरं भाष्यमेव मानम्। अन्यथा छन्दस्यृदवग्रहादिति प्राप्तणत्वनिवारकतया सार्थकत्वात् क्षुभ्नादिपाठस्य तदसङ्गतिरेव। सिद्धान्ते तु यदृच्छाशब्दान्तर्गतो नृशब्दो नावगृह्यत इत्यदोषः। नारायणशब्दान्तर्गतस्यायनशब्दस्य मन्वाद्युक्तनिरुक्तबलात्स्वातन्त्त्र्येण प्रयोगार्हत्वविशिष्टस्याखण्डत्वानुपपादनेऽपि पूर्वपदात्संज्ञायामग इति णत्वं, योगरूढत्वादेवमन्यत्रापीत्याहुः।
कादेशजुसोरिति।। माथितिक इत्यत्र यस्येति लोपस्य कादेशे स्थानिवत्त्वमपीपचन्नित्यत्र जुसि णिलोपस्य चङन्त्यकारयोरेकादेशस्य वा स्थानिवत्त्वमिति भावः। उपदेशग्रहणासम्बन्ध इति।। नन्वेकाजंशे तदसम्बन्धे विहितविशेषणेऽप्यावधिषीष्टेत्यत्र इण्णिषेधप्रसङ्गः। लिङ उपदेशेऽनुदात्ताद्धन्तेरेकाचो विहितत्वानपायात्सिद्धान्ते तु वधेरदन्तत्वेनोपदेशमात्रावच्छेदेनैकाच्त्वाभावाददोष इति चेन्मैवम्। वधिविधौ लिङीत्यस्य विषयसप्तमीत्वेन तत्र वधेरनेकाच एव लिङ्विधानात्। किञ्च वधेरुदात्तत्वेनोपदेशमात्रे तस्यानुदात्तत्वाभावाददन्तत्वाभावेऽपि ततो विहितस्या निषेधाप्रसक्तिरिति न दोषः। न च लावस्थायामडिति भाष्यकारीयव्यवस्थायामभैत्सीदित्यादावडागमविशिष्टादनेकाच एव सिज्विधानादिण्णिषेधानापत्तिरितिवाच्यम्। बहिर्भूतलुङ्निमित्तकस्याडागमस्य निषेधापेक्षया बहिरङ्गत्वेन तस्य सुवचत्वादिति दिक्।। सर्वत्राकारो न विवक्षित इति।। स्थानिन्यकारविशिष्टस्य तद्रहिते लक्षणया निवृत्तिः। प्रत्ययेषु न विधौ परश्शब्दार्थ इति निषेधेन तदयोगादित्संज्ञया तन्निवृत्तिरित्याशयः। ननु ठकारमात्रस्यैव स्थानित्वे तदादेशस्येकादेशस्याल्त्वेन गृहीतस्थानिकत्वादनल्विधाविति निषेधेन तत्र स्थानिवद्भावप्रयुक्तप्रत्ययत्वादिकं दुर्लभं स्यादित्यपाय एवायमुपायस्तत्राह।। इदमुपलक्षणमिति।। सन्निपातपरिभाषयेति।। इकादेशनिमित्तकभसंज्ञाप्रयुक्तो यस्येति लोपो माथितिकेकादेशं प्रत्यनिमित्तमनया परिभाषयेति भावः।। शास्त्रीयस्यैवेति।। पूर्वपरशास्त्रबोधितयोः कार्ययोर्विरोधेनैकत्र प्रसक्तौ परशास्त्रबोधितं कार्यं भवतीति हि तदर्थः। ननु विप्रतिषेधे परमित्यत्र परशब्दश्चेष्टवाची। अत एव पूर्वविप्रतिषेधकूटसंग्रहः। ततश्च व्याप्तिन्यायाल्लौकिकशास्त्रीयोभयकार्यग्रहणे बाधकाभाव इत्यत आह।। नित्यः परयणदेश इत्यादि।। व्यवसस्थात्र प्रयोगक्रमः।। अन्तरङ्गत्वेनेति।। तत्र भाष्ये प्रयोगक्रमाधीनपूर्वोपस्थितनिमित्तकत्वरूपमन्तरङ्गत्वं पूर्वयणादेशस्योक्तमिति तद्रीत्य पूर्वसाहचर्यस्यापि पूर्वोपस्थितनिमित्तकत्वरूपमन्तरङ्गत्वं सुवचमिति भावः। नन्वेवं विभाषा गमहनेत्यत्र विन्दतेर्ग्रहणाय परीभूतविशिसाहचर्यस्य स्वीक्रियमाणं सकलग्रन्थकारसम्मतं प्राबल्यमनुपपन्नं स्यात्तत्राह।। विभाषा गमहनेति।। पूर्वभूतहनसाहचर्याश्रयणे लुग्विकरणपरिभाषाया बाधः। परसाहचर्याश्रयणे च बहिरङ्गपरिभाषायाः तत्र क्लप्तानित्यत्ववती बहिरङ्गपरिभा षेत्यक्लृप्तानित्यत्ववती लुग्विकरणपरिभाषैवाश्रीयत इत्याशयः।। नुदविदेति।। तत्र हि परेणोन्दिना साहचर्याद्विनत्तेर्ग्रहणमिष्टं न तु पूर्वेण नुदिना साहचर्याद्विन्दतेरिति स्पष्टमाकरे।। व्याख्यानेनेति।। इदं हेत्वन्तरम्। विनापि चकारमत्र समुच्चयो गमश्वमित्यादिवत्। विद विचारण इति प्रतिपदोक्तधातुपाठपठिताकारविशिष्टग्रहणलाभसम्भवमूलकेन व्याख्यानेन चेति तदर्थः। ननु सिजभ्यस्तेत्यत्रापि बहिरङ्गपरिभाषाया अनित्यत्वमाश्रित्य परसाहचर्यमाश्रियतां, पञ्चमीसमासपक्षानवलम्बाच्च लाघवमित्यत आह।। प्रत्यैषिषन्निति।। प्रतिपूवस्येणस्सन्नन्तस्य रूपम्। तत्र शबन्त्यकारयोरेकादेशस्य पञ्चमीसमासेन स्थानिवत्त्वमाश्रित्य जुसादेशाभावस्साध्य इति तदेतत्पञ्चमीसमासपक्षस्यासाधारणं प्रयोजनमित्याशयः। ननु जुस्विधावपि झेरिकारो न विवक्ष्यतामितश्चेत्यनेन प्रत्ययसम्बन्धिन इकारस्य लोपो भविष्यति, ततश्च झकारनिमित्तक एवायमदादेशवदिति स्थानिवद्भावेन झकारबुद्धेरल्विधित्वेन प्रतिषेधविषयत्वान्नोक्तदोषावकाश इति चेन्न। व्यत्यविद्रतेत्यादावात्मनेपदे प्रतिपदोक्तस्य जुसादेशस्य वारणाय स्थानिगतेकारस्यावश्यविवक्षणीयतया निरुक्तरीत्या दोषनिवर्तनायोगात्।। क्लिष्टमिति। यद्यपि पूर्वविधिशब्दे पञ्चमीसमासोऽपि क्लिष्टस्यथाप्यप्रसिद्धधर्मपुरस्कारेण सादृश्यकल्पनापेक्षया विधिग्रहणसामर्थ्येन सुप्सुपेतिसमासोपपादनं युक्तमिति तात्पर्यम्। तदाह।। ततो वरमिति।। ईषज्ज्याय इत्यर्थः।। वक्तुं शक्य इति।। नन्वेवमपरविधाविति व्यर्थम्। पूर्वपरयोः स्वस्य च विधौ स्थानिवत्त्वस्येष्टत्वात्। किञ्च यथाश्रुते पञ्चमीसमासेन सिद्धयोर्धिन्वन्ति कृण्वन्तीत्यनयोरेतन्न्यासोदाहरणत्वोपपादनपरभाष्यबलेन तदनादर एव तात्पर्यावगमादिदमयुक्तमिति चेत्सत्यम्। अपरविधावित्यस्याभावे प्रत्यासत्त्या स्वविधावेव स्थानिवत्त्वं स्यात्। तदुक्तौ तु प्रत्यासत्तेरयोगात्सर्वत्रैव स्थानिवत्त्वं सिद्ध्यति।। धिन्वन्तीत्यादेरेतन्न्यासोदाहरणत्वन्तु तत्पक्षस्यासार्वत्रिकत्वबोधनार्थमत एवैतन्न्यासप्रत्याख्याने भावसाधनविधिशब्दमाश्रित्य पूर्वस्य विधाने स्थानिवद्भवतीत्यर्थेनायन्नासन्नित्यादावाडागमो धिन्वन्ति कृण्वन्तीत्यादाविटागमाभावश्च साधितो भाष्ये। किञ्चापरस्येत्येव सिद्धौ विधिग्रहणस्य यथाश्रुत इव पञ्चमीसमासमन्तरा सार्थक्यालाभ इति विपश्चितो विभावयन्तु।। अतिप्रसङ्ग इति।। हे गौरित्यादावेङ्ह्रस्वादिति सम्बुद्धिलोपादिरतिप्रसङ्गो द्रष्टव्यः। अनित्यत्वेनेति।। तद्बीजन्तु प्रविगणय्येति भाष्योदाहरणमन्यथा गणेरकारस्य पञ्चमीसमासपक्षेण स्थानिवत्त्वेन लघुपूर्वाद्धलः परत्वाभावे णेरयादेशो दुर्लभ इति स्पष्टमेवेत्यन्यत्र विस्तरः। यणः प्रतिषेधो वाच्य इति वचनं संयोगान्तलोपसंयोगादिलोपोभयविषयकं, न वा झलो लोपादिति तत्प्रत्याख्यानवार्तिकस्य संयोगान्तलोपो झलो लोप इति भाष्यकारीयव्याख्यानस्वारस्यादित्यन्यत्रोक्तम्। अतश्चक्र्यत्रेति न स्थानिवत्त्वप्रयोजनमित्याशयेन फलान्तरमाह।। तक्षिरक्षिभ्यामिति।। उपसर्गविशेषणत्वे फलमिति।। रेफविशेषणत्वे तु पल्ययत इत्याद्यसिद्धिः। अन्तादिवद्भावेन तु न निर्वाहः। उभयत आश्रयणे तन्निषेधात्। सत्त्वे वा पौर्वापर्यलक्षणस्य व्यपवर्गस्याशास्त्रीयतया तेनातिदेष्टुमशक्यत्वात्। अचः परस्मिन्नित्यनेन त्वाशास्त्रीयस्याप्यतिदेशः, स्वरे निषेधानित्याहुः।। ङीबुत्पत्तेः प्रागिति।। गतिकारकोपपदानां कृद्भिस्सह समासवचनं प्राक्सुबुत्पत्तेरिति नियमादित्याशयः।
विशेषणविशेष्यभावसम्बन्धेनेति।। अभेदस्तु न संसर्गः। नीलो घट इत्यादौ षष्ठीप्रसङ्गात्। ब्रह्मण आनन्दो राहोश्शिर इत्यादौ तु व्यपदेशिवद्भावमूलको भवति भेदसंसर्ग इत्यन्यत्र विस्तरः।। वैयधिकरण्येनेति।। तत्फलं झय इत्यस्य पदावयवाज्झयः परस्य मतोर्मस्य वत्वमित्यर्थे तटित्वानित्यादौ वत्वं, सामानाधिकरण्ये तु तसो मत्वर्थ इति भत्वात्तदसिद्धिःस्पष्टैव।।
पूर्वनिपातापत्तेरिति।। मध्यमपदलोपिसमासाश्रयणे नायं दोष इत्यभिप्रेत्याह।। किञ्चेति।। विशेष्यासन्निधानादिति।। ननु पदादिभिरादेशैराक्षिप्तानां पादादीनां शस्प्रभृतिभिः प्रत्ययैराक्षिप्तो विशेष्यं तदाद्यंश इति कुतस्तत्सन्निधानाबाव इति चेन्न। शस्प्रबृतिभिरादेशानुरूपाणां पादादीनां प्रकृतिविशेषाणामाक्षेपेणैवोपपत्तौ पृथगाक्षेपे मानाभाव इत्याशयात्।। भ्रमवारणायेति।। तं दोर्दक्षिणमुद्यम्य निशाचर उपाद्रवदिति पाठे तु नायं भ्रम इति बोध्यम्। इत्यादन्ताः।।
शोकव्यञ्जकमिति।। देवयोनितया शोकविहीनत्वात्तद्व्यञ्जकशब्दविहीन इत्यर्थः। पाणिनीयैस्तु [टि - पाणिनीयैस्त्विति।। अत्रेदं बोध्यम्। पाणिनेरव्युत्पत्तिपक्षस्यैव सिद्धान्तिसिद्धत्वेन तम्मतेऽस्य क्रियाशब्दत्वाभावेन व्युत्पत्तिप्रदर्शनस्यैवाप्रसक्ततया पाणिनीयानां कीदृशी व्युत्पत्तिर्योग्येति विचारः काकदन्तपरीक्षातुल्य इति।।] रागाभिव्यञ्जकमनुरणनात्मकं हा इति शब्दं जिहीते प्राप्नोतीति व्युत्पत्तिरुपदर्शनीया। युक्तं चैतत्। ईत्वमवकारादाविति वार्तिकतत्प्रत्याख्यानयोः फलैक्याय जहातेः क्विपोऽनभिधानावश्यकत्वात्। विच्प्रत्ययस्तु छान्दसः। कीलालप इति हेतुमनुष्येभ्य इति सूत्रस्थभाष्यबलाल्लोके तत्प्रवृत्तिस्तु कल्प्यमाना क्वाचित्कत्वादगतिकगतिः। न च जहातेः क्विप्यपृक्तलोपस्यान्तरङ्गत्वादीत्वाप्रवृत्तिः प्रत्ययलक्षणसूत्रन्तु नियमार्थमतः कथमनभिधानमिति वाच्यम्। धीर्घ्यायतेर्दधातेर्वेति जनसनेति सूत्रस्थभाष्यस्वरसादीत्वप्रवृत्तावनित्याया अन्तर्ङ्गपरिभाषायाः प्रवृत्त्ययोगात्। यदि च तद्भाष्यबलादीदृशेषु क्विबीत्वयोरभीष्टत्वात्कथमनभिधानं, वार्तिकप्रत्याख्यानमपि फलान्तरसंग्रहार्थमेव। न तु फलाभेदायेत्युच्यते, अस्तु तावतापि जहातेः क्विपि हाहाशब्दासिद्धिस्तदवस्थैव, दुर्निवारत्वादीत्वस्येत्याहुः।। इत्यादन्ताः।
तन्त्रेणेति।। अत्र विभक्त्यन्तयोरेव तन्त्रम्, न तु प्रातिपदिकयोर्ननाशब्दयोरसारूप्याद्द्विवचनापत्तेश्च। एतेनेत्यस्यान्यं प्रत्यसिद्धत्वनिषेधेनेत्यर्थः। कृते कार्यान्तरं प्रत्यसिद्धत्वनिषेधस्त्वमुना घटेनेत्यादौ सुपि चेति दीर्घनिवृत्त्यर्थः।। असिद्धत्वेऽपि वेति।। वाशब्दो भिन्नक्रमः। परत्वेनेत्यनन्तरं द्रष्टव्यः। मुत्वात्पूर्वं निषेधारम्भात्स्मायादेशाभावः। नुमागमोत्तरमदन्तत्वाभावेन स्मैभावस्य नित्यत्वाभावेऽपि प्रतिपदोक्तत्वलक्षणमन्तरङ्गत्वमक्षतमेवेति चिन्त्यमेतत्। अमू इत्यत्र निषेधारम्भात्पूर्वमाद्गुण इत्यस्याप्रवृत्तौ नुम्यमुनी इति स्यादमुयोरित्यत्र पूर्वमेत्वाभावे नुम्यमुनोरिति स्यादित्याशयः।
उच्चारणार्थानामापीति।। उच्चारणार्थवर्मविशिष्टस्य तद्रहिते लक्षणया निर्वाहादनुवादे नेत्संज्ञाया उपयोगः। विधौ तु ``न विधौ परश्शब्दार्थ इति लक्षणाया निषेधादुच्चारणार्थवर्णनिवृत्तावित्संज्ञैव शरणमिति भाष्याशयः।। अनुवर्तितत्वादिति।। वस्तुतस्तदनुवृत्त्यभावेऽपि नोदात्तत्वप्रसक्तिरित्याह।। शेषनिघातेनेति।। अनुदात्तं पदमेकवर्जमित्यत्र पदग्रहणाद्यावतः पदत्वं तावत्सर्वमनुदात्तमित्यर्थस्याकरसम्मतत्वादित्याशयः।। नात्रेति।। ननु तिति प्रत्ययग्रहणमिति वार्तिकं भगवता प्रत्याख्यातमेव। किञ्च प्रत्ययाप्रत्यययोरिति परिभाषापि सिद्धान्ते नास्त्येव, तस्मात्कथमीदृशार्थलाभ इत्यत आह।। आदेशेष्वित्यादि।। अनभिधानादिति।। नस्तद्धित इत्यत्र तिविंशतेर्डितीत्यनुवर्त्य वाक्यभेदेन विशतेस्तिशब्दलोपस्तद्धित एव डितीति नियमाश्रयणे तु सत्यप्यभिधाने न दोष इत्याहुः।। [टि- आहुरिति।। वस्तुतस्तु मण्डूकानुवृत्तिवाक्यभेदनियमानामाश्रयणन्तु गौरवपराहतमत औकारस्य डित्त्वमाश्रित्याद्ग्रहणप्रत्याख्याने सप्तम्यन्तविंशतौ शङ्कासमाधानेयोरकरणेनानभिधानाश्रयणमेव युक्तमिति बोध्यम्।।]
लाघवाभाव इति।। पदद्वयस्य मात्राणां च तुल्यत्वादित्यशयः। ननु मास्तु शब्दलाघवं, प्रक्रियालाघवप्रयुक्तं ज्ञानलाघवमस्त्येवेति चेत्तत्राह।। डित्त्वसामर्थ्यादिति।। एवञ्च नास्ति लाघवगौरवकृतो विशेष इति सामार्थ्यवर्णनमयुक्तमिति भावः।। उशनसोऽनङिति।। सम्बुद्धाविति शेषः। यत्तु सोर्डेतिन्यासे विभक्तिनिमित्तकप्रकृत्युद्देश्यककार्यविषयस्य विभक्तौ लिङ्गविशिष्टाग्रहणमित्यस्याप्रवृत्त्या लिङ्गविशिष्टपरिभाषया सखीशब्दादपि डादेशप्रसङ्ग इति तन्न। शुत्येत्यादौ विभक्तिस्वरस्य लिङ्गविशिष्टपरिभाषया प्रसक्ते न गोश्वन्निति प्रतिषेधे विभक्तौ लिङ्गविशिष्टाग्रहणमिति निषेधोपपादनपरयुवोरनाकाविति सूत्रस्थभाष्यप्रामाण्येन विभक्त्युद्देश्यककार्येऽपि निषेधप्रवृत्तेर्निर्विवादत्वादिति बोध्यम्।।
उचितमिति।। ननु षष्ठीनिर्देशस्य ह्यादेशा उच्यन्त इति स्थानिवत्सूत्रभाष्यादादेशविधौ षष्ठ्या एव न्याय्यत्वात्कथमौचित्यमिति चेन्न। नाभिनभं च विरागविरङ्गं चेत्यादाविव पाश्चात्यबोधे कल्प्यमानषष्ठ्यन्ततामादाय तदुपपत्तेः। न च प्रथममेव षष्ठ्यन्तत्वकल्पनायां पाश्चात्यबोधानुपयोगाल्लाघवं, प्रथमान्तत्वे तु तदभ्युपगमे गौरवमिति वाच्यम्। प्रथमतो बहुषु पदेषु षष्ठ्यन्तत्वेन विपरिणामाभावप्रयुक्तलाघवसद्भावेन पाश्चात्यगोरवस्य फलमुखतया दोषाधायकत्वायोगात्। अतः प्रथमान्तता युज्यत एवेति दिक्।। तदादिनियमसत्त्वादिति।। स्त्रीप्रत्यये चानुपसर्जनेनेत्युक्तिरुपसर्जनानुपसर्जनसाधारण्येन गृह्यमाणे स्त्रीप्रत्यये तदाद्यंशस्योपसर्जनविषये प्रवृत्तिरनुपसर्जने तु नेति परिभाषार्थः। इत्थं च प्रदेशेषु वाक्यभेद एव। प्रकृते च सुतिस्याक्षिप्ततदाद्यंशं विशेष्यमादाय ङ्यापोरेक एव तदन्तविधिः। ततश्चोपसर्जनीभूतङ्याबाक्षिप्ततदादिरूपो यस्सुतिस्याक्षिप्ततदादिरुपसर्जनीभूतङ्याबन्तस्ततः परस्येत्यर्थस्य पर्यवसानादतिखट्व इत्यादौ न दोष इत्याशङ्काभिप्रायः। गङ्गेव मनुष्यो गङ्गा, नदीव मनुष्यो नदीत्यादावुपसर्जनवाक्यप्रयोजनं द्रष्टव्यम्।। एतत्सिद्ध्यर्थमिति।। बहुश्रेयसीसिद्ध्यर्थमित्यर्थः। प्रत्ययग्रहणपरिभाषया ङ्याबाक्षिप्ततदादेश्शब्दस्वरूपं विशेष्यमादाय ङ्यापोस्तदन्तविधौ सुतिस्याक्षिप्ततदादेश्शब्दस्वरूपं विशेष्यमादाय येन विधिरितिपरिभाषया पुनस्तदन्तविधौ ङ्याबन्तान्तादित्यर्थस्यावश्यकत्वेनेति ब्यत्क्रमेण सम्बन्धः।। व्यपदेशिवद्भावेनेति।। तदन्तविधिद्वये स्वीक्रियमाणे स्त्रीप्रत्यये चानुपसर्जनेनेति परिभाषाप्रवृत्तिप्रयुक्तवाक्यभेदस्यानुपयोगादेकमेव ङ्याबन्तादिवाक्यमुपसर्जनानुपसर्जनसाधारणतया लोपसम्पादकमित्यभिसन्धिः। तदन्तविधिद्वायमन्तरापि दीर्घग्रहणव्यावर्त्यं सुलभम्। तदन्तविधिद्वयन्तु बहुश्रेयस्यर्थमेव लक्ष्यानुरोधीत्याशयेनाह।। श्रीविष्टासु जातश्श्रविष्ठ इति।। दीर्घाबन्तत्वन्तु न स्थानिवत्त्वलभ्यम्। विशेषमतया वर्णमात्राश्रयणात्। नाप्यचः परिस्मिन्नित्यनेन पञ्चमीसमासपक्षमाश्रित्य तल्लाभः। पञ्चमीसमासपक्षस्यानित्यत्वाल्लुकि प्रतिषेधाच्च। प्रत्ययालक्षमसूत्रन्तु नियमार्थं न तु विशेषणतया वर्णाश्रयणे विध्यर्थमिति भावः। एवं फल्गुन्यां जातः फल्गुन इति ङ्यन्तस्योदाहरणं द्रष्टव्यम्।। देवदत्तेरिति।। मूलोक्ते पञ्चमीसमासेन स्थानिवत्त्वशङ्का स्यात्। क्वौ लुप्तमित्यस्यासार्वत्रिकत्वात्। इह तु न कोऽपि प्रतिबन्ध इत्याशयः।। उपस्थितन्वादिति।। अतिव्याप्तिवारणे केवलं प्रश्लेषेण दीर्घग्रहणप्रत्याख्यानमेव नोपायः। किनुतु यथाश्रुते प्रत्यासत्तिरपि। अत एव प्रत्याख्यानस्यारम्भसमानफलकत्वामिति मन्यते।। भाष्यप्रामाण्येनेति।। तत्र हि नाग्लोपीति सूत्रे प्रत्याहारग्रहणाद्वृद्धेर्लोपो बलीयान् वृद्ध्युत्तरं लोपे सत्याकारव्यतिरिक्त एतत्प्रत्याहारघटको न सम्भवतीति व्यर्थं प्रत्याहारग्रहणमित्युक्तम्। इगुपधेभ्यो धात्वर्थमिचि प्रत्याहरग्रहणस्य सार्थकतया कथमुक्तार्थलाभ इति तेषामनभिधानमावश्यकमिति भावः।। अनुनासिकोकारपाठादिति।। न च गुणानामभेदकत्वेन सानुनासिकोच्चारणेऽपि निरनुनासिकोकारविशिष्टस्य सुनोतेर्ग्रहणमिति वाच्यम्। शुद्धस्यैवोच्चारणेन सिद्धावनुनासिकोच्चारणात्मकेन यत्नेन तद्विवक्षया निर्वाह इत्याशयात्।। विभक्तिसंयोगान्तलोपस्येति।। एतेन सावपि पदमिति पक्षे गोमानित्यादौ तकारस्य संयोगान्तलेपे नकारविभक्त्योरानन्तर्यादुक्तज्ञापकेन तकारस्थानिकसंयोगान्तलोपस्यासिद्धत्वाभावाद्राजेत्यादाविव नलोपप्रसङ्ग इत्यापस्तम्। तद्वानासामिति निर्देशश्च प्रकृतार्थे प्रमाणमिति बोध्यम्।। वारं वारमिति।। लक्ष्यभेदाल्लिट्स्वित्यादौ चर्त्वमिव पुनः पुनः प्रवर्तत इत्याशयः।। अत्र पाठेनेति।। इकोचीत्यच्ग्रहणेनोत्तरार्थेनापि न लुमतेति निषेधानित्यत्वं यथा ज्ञाप्यते तद्वदिति द्रष्टव्यम्।। प्रत्याख्यानेऽपीति।। सम्बोधनविभक्त्यन्तस्य विधेयभूतक्रियान्वयनैयत्येन समासघटकत्वायोगात्सम्बुद्ध्यन्तस्योत्तरपदपरत्वासम्भवस्तद्बीजम्।। अनाप इत्युक्तमिति।। भाष्यकृता च योगविभागमाश्रित्य प्रत्याख्यातम्। यद्याबन्तादाचारक्विप्स्यात्तर्हि तत्प्रकृतिककर्तृक्विबन्ताच्छसादावाबन्तत्वाद्वार्तिकमतेनाप्रवर्तमानोऽप्यातो लोपः प्रत्याख्याने धातुत्वाविशेषात्स्यादेवेति तदारम्भप्रत्याख्यानयोः फलभेद इत्याशयः।। यङ्लुक् नास्त्येवेति।। क्रियासमभिहारस्य धात्वेकसमधिगम्यत्वादाक्षेपेणैवोपपत्तावतिरिच्यमानं धातुग्रहणमौपदेशिकप्रतिपत्त्यर्थमिति नामधातुभयो यङ एवाभावात्कःप्रसङ्गस्तत्र लुक इति तात्पर्यम्। यङ्‌लुकश्छान्दसत्वेन लोके यत्नलभ्यत्वाद्भाष्योदाहृतव्यतिरिक्त औपदेशिकधातुप्रकृतिक एव नास्ति, नामधातुप्रकृतिस्तु सुतरां, वेदे तु सति प्रयोगे बाहुलकादेव सकलार्थसिद्धिरित्याशयमन्ये। अचेकेदित्यत्र सूत्रकारमते लोपप्रसङ्गः। प्रश्लेषेण दीर्घग्रहणं प्रत्याचक्षाणस्य भागवतो भाष्यकारस्य मते तत्प्रसक्तिरेव नेत्याशयेनाह।। ईकाररूपत्वाभावादिति।। एवं च ङ्याबन्तात्तिस्योरसम्भव इति प्राचीनोक्तं युक्तमेवेति तत्वम्। कृते चेति।। इदं पूर्वरूपार्थम्।
ननु नलोपात्प्रागेव संयोगान्तलोपः किं न स्यादत आह।। संयोगान्तलोपस्यासिद्धत्वादिति।। नलोपविषये इति।। लोपे कर्तव्ये कृते चेत्यर्थः।। कर्त्र्येति।। कर्तृ ई आ इति स्थिते पूर्वं पूर्वयणादेशे तस्यान्तोदात्तकर्तृशब्दसम्बन्ध्यृकारस्थानिकत्वेनोदात्तयणो हल्पूर्वादिति ङीप उदात्तत्वे तत्स्थानिकं यणमादाय टाया उदात्तसाधनार्थमयं विचारो भाष्यकैयटयोः। पक्षान्तरेऽपि न दोष इत्याह।। आरोपे मानाभावादिति।। विषयगतं पौर्वापर्यमारोप्यपूर्वपक्षिणश्शङ्का, न त्वसौ सिद्धान्त इति तदवलम्बात्प्रकृते तदारोपो न युक्त इति तात्पर्यम्।। दत्वरुत्वविधायकाभ्यामिति।। ईदृशस्य सकारस्य संयोगादिलोपप्रवृत्तौ तिप्सम्बन्धिनं तकारमादाय सिद्धमचकादित्यादिरूपमिति व्यर्थं तिप्यनस्तेरिति सूत्रम्। तथा संयोगादिलोपे धातुसकाराभावेन तद्बोध्यविकल्पस्य प्रवृत्त्ययोगात्तिप्सम्बन्धिनस्सकारस्य ससजुषोरिति रुत्वेनैकमेव विसर्गान्तमचकादित्यादि रूपं स्यादिति व्यर्थं सिपि धातोरुर्वेति सूत्रमपीत्याभ्यां वक्ष्यमाणोऽर्थो ज्ञाप्यत इत्याशयः। ननु संयोगादिलोपापवादतया दत्वपक्षे ``सलिलं सर्वमा इद मित्यत्रानस्तेरिति पर्युदासबलात्संयोगादिलोपस्य निवृत्तिरिति युज्यते वक्तम्। तदभावे पर्युदासस्याप्यभावात्संयोगादिलोपप्रवृत्तावनिष्ठप्रसङ्ग इति चेन्न। स्कोरित्यत्र तिप्यनस्तेरिति पर्युदासेनैवोपपत्तौ दत्वविधिवैयर्थ्यस्य दुर्वारत्वात्। न च सामर्थ्यात्सान्तस्य धातोर्यस्सिप् तदन्तस्य रुर्वेत्यर्थेन सिप्सम्बन्धिनस्सकारस्य पक्षे ससजुषोरिति रुत्वनिवृत्तिकल्पनया सिपि धातोरुर्वेत्यावश्यकमिति वाच्यम्। प्रकरणाद्धातुसम्बन्धिनस्सकारस्य रुत्वविकल्पविधायकस्य सामर्थ्येन प्रत्ययसम्बन्धिनस्सकारस्य रुत्वविकल्पबोधकत्वकल्पनापेक्षया वक्ष्यमाणांशज्ञापनस्यैव लघुत्वात्।। कसाहचर्येण चेति।। प्रकृतिप्रत्ययोभयसम्बन्धिपदान्तसंयोगादिः ककारस्तु दुर्लभः। सङीति वक्तव्यमिति वार्तिकप्रयोजनप्रत्याख्यानप्रशंसायामष्टमद्वितीये काष्टशगेव नास्ति कुतोऽयं काष्टशग्स्थातेति भाष्योक्त्या ककारान्तेब्यो धातुभ्यः क्विविचोरनभिधानबोधनादित्याशयः।। न किञ्चिल्लाघवमिति।। राजेत्यादौ संयोगान्तलोपात्पूर्वं नलोपभावाय न ङिसम्बुद्ध्योरित्यस्य ज्ञापकत्वाश्रयणं, सुपीरित्यादौ संयोगादिलोपाप्रवृत्त्ये चायं प्रयत्न इति नास्ति लाघवमिति भावः। ज्ञानगौरवाच्छब्दगौरवमधिकमित्यभिमन्यमान प्रत्याह।। किञ्चेति।। सप्तम्येव युक्तेति।। षष्ठ्यन्तत्वपक्षे वा नपुंसकानामिति विकल्पो वाचनिकः, सप्तम्यन्तत्वे तु न लुमतेतिनिषेधानित्यत्वमूलकतया यौक्तिक इति युक्तत्वमस्य पक्षस्य, तदाह।। ङिग्रहणाच्चेति।। ननु वा नपुंसकानामित्यस्य वाचनिकत्वमभ्युपेत्य हल्‌ग्रहणमेव प्रत्याख्यायतां तत्राह।। अपूर्ववचनकारणेनेति।। इति सूत्रमस्त्विति।। बिभर्ति बिभर्षीत्यादौ तिस्योर्हल्‌रूपत्वाभावादेव लोपाप्राप्तावपृक्तग्रहणं न कर्तव्यम्। सुतिस्यवयवो हलित्यर्थस्तु दुर्लभष्षष्ठ्या अभावाल्लक्षणायां मानाभावाच्चेत्याशयः। ननु तिस्योर्ग्रहणं व्यर्थमभिनोऽत्रेत्यादौ संयोगान्तलोपो रोरुत्व इति वचनेन निर्वाहादत आह।। अबिभा राज्यमिति।. यदि तु न मु न इत्यत्र नेति योगं विभज्य योगविभागस्येष्टसिद्ध्यर्थत्वात् ढ्रलोपदीर्धे सामान्यतः त्रिपाद्या असिद्धत्वं नेति व्याख्येयम्। अत एव लण्सूत्रस्थमजर्घा इति भाष्योदाहरणं संगच्छते, अन्यथा दश्चेति रुत्वस्यासिद्धत्वाद्रेफलोपप्रयोजकरेफपरत्वाभावेन दीर्घाप्रवृत्तौ तदसङ्गतिरेव। एवञ्चाबिभा राज्यमित्यादौ दीर्घो निर्वाधः। कथमन्यथा पितू राज्यमित्यादौ रात्सस्येति लोपे तत्प्रवृत्तिस्स्यादित्युच्यते, तदा हल्ङ्यापस्सोरिति मूलोक्तं युक्तमेवेत्युपलक्षणप्रयोजनं मृग्यमित्याहुः।।
प्रथमान्तताया इति।। णलुत्तमो वेति सूत्रस्वरसाण्णिदिति तृतीयान्ताद्वतौ योर्थस्तदर्थकमित्याशयः।। अभिमान इति।। एतेन प्रकृते सर्वनामस्थानपदसम्बन्धसूचकः परत्र स्वसम्बन्धसूचकश्चायं सप्तमीनिर्देश इत्युक्तप्रायम्।।
इदं सर्वमिति।। सुसख्यादेर्घित्वप्रतिपादनमित्यर्थः। सिद्धान्ते तु पर्युदाससमर्पकस्य सत्विशब्दस्यावयवलक्षणया सख्यवयवभिन्नाविदुतौ तदन्तौ वा घिसंज्ञावित्यर्थान्नैतादृसेषु घित्वप्रसङ्गः। अत एव यस्येति सूत्रे भाष्ये सख्यशिश्वीतिविहितङीषन्तोत्तरपदकस्यातिसखिशब्दस्य घिसंज्ञासम्पत्तिरीकारे परत इकारलोपप्रयोजनमित्युक्तम्। सत्विभिन्नावयवाविदुतौ सत्विभिन्नाविदुदन्तौ वा घिसंज्ञावित्यर्थे हि लोपाभावेऽपि समुदायस्य सखिभिन्नत्वेन घित्वप्रवृत्तेरव्याहततया तदसङ्गतिरेव। किञ्च वर्मसंज्ञापक्षे सशिभिन्नावयवाविदुतावित्यर्थे सखिभिन्नस्य तत्सदृशस्य प्रातिपदिकस्य ग्रहणात्कृतं सख्येत्यादौ दोषाभावेऽपि षष्ठ्या आक्रोशे इत्यलुकि सख्युः कुलमित्यादौ समुदायमाश्रित्य सखिभिन्नावयवत्वात्‌घिसंज्ञाप्रवृत्तिर्दुर्वारा। तदन्तपक्षैकफलतासम्पत्तये तथाभूतानामनभिधानमिति तु सत्यामुपपत्तावयुक्तम्। न च लिङ्गविशिष्टपरिभाषया लोपेऽपि सखिशब्दत्वमाश्रित्यसमुदायस्य सख्यवयवभिन्नेकारान्तत्वाभावाद्धित्वानुपपत्तिरेवेति वाच्यम्। अनित्यायास्तस्याः परिभाषायाः प्रकृते भाष्यकारैरनादरणात्। लोपे तु सखिशब्दस्य लाक्षणिकत्वान्न तत्र घित्वपर्युदासप्रसक्तिः। तस्मात्सुसख्यतिसख्यादेस्सखिशब्दान्तस्य धित्वमयुक्तमेव। किम्बहुना लक्ष्मोवाचकेकारेण समस्तस्य सखीशब्दस्यात्यादय इति समासे निष्पन्नस्यातिसखीशब्दस्यापि सत्यभिधाने घित्वमनिष्टमेवेति सुधियो विभावयन्तु।।
नियतविषयेत्यादि।। त्रित्वादीनामवान्तरधर्मप्रकारकसंशयानुत्थापकत्वं नियतम्। बहुत्वस्य तु बहवो गताः कतीति न ज्ञायन्त इति प्रतीतेस्तदभावात्संख्यात्वाभाव इत्याशयः।।
उभयमपीति।। लक्षणया षट्छब्दष्षट्संज्ञकशब्दप्रतिपाद्यपरः। तत्र विशेषणतया षट्संज्ञकशब्दः, प्राधान्येन तत्प्रतिपाद्यश्चोबयं विवक्षितमिति भावः। ननु शब्दात्मकयोर्जश्शासोः कथमर्थतः परत्वं तत्राह।। स्वगतसंख्यानुवादकेत्यादि।। अयं भावः। विभक्तिगतपरत्वावधित्वस्य षट्संज्ञकशब्दगतस्य तदर्थे स्वाश्रयनिष्ठशक्तिनिरूप्यत्वसम्बन्धादारोपः। एवंभूतस्याप्यवधित्वस्य प्रकृतसूत्रस्थाद्बहुवचनात्पञ्चम्यनुशासने दिक्छब्दार्थनिरूपितावधित्वसम्बन्धाभिधायकदिग्योगशब्देन ग्रहणं कल्प्यते। अर्थश्चायं प्रधानभूत एव।। प्रधानाप्रधानयोरिति न्यायात्। ततश्च तथाभूतार्थनिष्ठावधित्वनिरूपकस्य विभक्तिगतपरत्वस्य तद्गुणसंख्यानुवादकत्वसमनैयत्यात्तद्रूपतया पर्यवस्यतीति, तदाह।। गौणमिति।। प्राचामनुरोधेनेति।। प्रायः प्रावीनानां प्रमाणविरहितस्वतन्त्रकल्पनाभिनिवेशादियमपि तथाविधैवेत्यर्थः। ननु प्रकृतसूत्रस्थबहुवचनात्मकप्रमाणसहकृतत्वात्कथमस्याः कल्पनायाः प्राचीनसम्मतस्वतन्त्रकल्पनात्वं तत्राह।। बहुवचनमिति।। तिसृभ्य इति।। ननु तिसृभ्यो जस इति जसो विधीयमानस्यान्तोदात्तस्य प्रियतिस्र इत्यादौ गौणे प्रसक्तस्य निरुक्तरीत्या व्यावृत्त्यर्थमेव तत्र बहुवचनम्। तदुक्तं कात्यायनेन `जस्ग्रहणानर्थकयमन्यत्राभावादिति'।। बहुवचनबलात्तिसृस्वरः प्रधान एव प्रवर्तते। प्रधाने च तिसृशब्दो नित्यबहुवचनान्तः। तत्र झलादौ झल्युपोत्तममिति प्रवर्तते। नामि षट्‌त्रिचतुर्भ्यो हलादिरिति शस्युदात्तयणो हल्पूर्वादिति च सिद्धमन्तोदात्तत्वम्। सर्वनामस्थानत्वाज्जस्युदात्त यण इत्यस्याप्रवृत्तावारभ्यमाणस्तिसृस्वरो विनापि जस्ग्रहणं तत्रैव प्रवर्तत इत्यनुपयुक्तं जस्ग्रहणमिति हि तदाशयः। न च तदुत्तरमुपसमस्तार्थमेक इत्यतितिस्रावित्यादिगौणद्विवचनव्यावृत्त्या तस्य भाष्यकृता सार्थक्यसमर्थनादुत्तरमुनेः प्रामाण्याच्चाभिष्टमेव गौणे तिसृस्वर इति नेदं युक्तमिति वाच्यम्। एकेत्युक्त्या तस्यैकदेश्युक्तित्वात्। न चास्य स्वरसूत्रस्याङ्गपदाधिकारीयत्वाभावात्तदन्तविधेर्दुरुपपादतया कथं गौणे प्रसक्तिरिति वाच्यम्। जस्प्रत्ययाक्षिप्ततदाद्यंशमादाय तदन्तविधेस्सुवचत्वात्। तदन्तविध्यभावेऽपि समासे जसस्तिसृशब्दात्परत्वस्याव्याघाताच्च। तस्मात्कथमिह बहुवचनवैयर्य्यमित्याग्रहेऽप्याह।। षट्पंज्ञकानामिति।। ननु बहुत्वेऽपि षटसंज्ञकानां जातिनिर्देशेनैवोपपत्तो बहुवचनमनुपयुक्ततं तत्राह।। न हीत्यादि।। उचित इति।। लाघवमौचित्ये हेतुमुद्भाव्य प्रकारान्तरमाह।। आचार्यशैली वेति।। ननु धातोरेकाच उपसर्गे घोः किरिति वर्तत एवाचार्यशैलीत्याशयेनाह।। बहुवचनान्तस्यैवेति।। नन्वात्रार्थे फलाभाव इत्यत आह।। चेति।। तेनारोपितावधित्वरूपगौणसम्बन्धे पञ्चम्यनुपपत्तिस्समुच्चीयते। न हि गौणेष्वर्थेषु विभत्यनुशासनानि प्रवर्तन्ते। अत एव गङ्गायां घोष इत्यत्र भगीरथरथखातावच्छिन्नप्रवाहरूपगङ्गापदार्थे तीरगतघोषाधिकरणत्वारोप इति मते सप्तम्यधिकरणे चेत्यत्र स्वरितत्वप्रतिज्ञानात्सप्तमी समर्थिता भाष्ये। ननु प्रकृतसूत्रस्थाद्बहुवचनादिहापि गौणावधित्वे पञ्चमीति चेत्, जातिनिर्देशेऽपि पक्षान्तरेणोपपन्नेन [टि- पक्षान्तरेण।। जात्याख्यायामित्यानेन सूत्रेणेत्यर्थः।।] बहुवचनेन भाष्यविरुद्धापूर्वकल्पनाभिनिवेशो न युक्तः। न च रामेति द्व्यक्षरं नाम मानभङ्गः पिनाकिनः इत्यादिव्यवहारोपपत्तये स्वीकर्तव्येन शब्दार्थयोस्तादात्म्येन यदेव शब्दगतं विभक्तिनिष्ठपरत्वावधित्वं तदेवार्थगतमित्यारोपानपेक्षणाद्गौणत्वाभाव इति वाच्यम्। तत्तादात्म्यस्य यश्शब्दस्सोऽयमर्थो योऽर्थस्स शब्द इत्येवमात्मकानादिसिद्धव्यवहारमूलकाध्यासैकसाध्यत्वेन तन्मूलकस्याप्यर्थगतावधित्वस्य गौणत्वानपायात्। किञ्च तादात्म्यं भेदे सति तदाभावः। तत्र द्वयोरप्यंशयोर्वास्तविकयोः परस्परविरोधेनैकत्र समावेशासम्भवाद्भेदाभावोऽध्यासविषयः, भेद एव तु न तथा। तस्य यत्किञ्चिद्धर्मपुरस्कारेण सिद्धत्वात्। अत्यन्ताभिन्ने तादात्म्यव्यवहारस्यानिष्टत्वाच्च। अपि च प्रक्रियानिर्वाहार्थमेतादृशार्थगतावधित्वस्वीकारे स्वं रूपमित्येतत्सूत्रस्थाकरविरोधः। तत्र ह्यग्नेर्ढगित्यादौ ढगादिगतपरत्वावधित्वस्याग्निशब्दार्थाङ्गारादौ बाधात्सामर्थ्येन तादृशार्थप्रतिपादकोपस्थिताग्निशब्दादेरेव ढगादिप्रवृत्तिरिति व्यर्थं सूत्रमित्युक्तम्। उक्तरीत्या तदुपपत्तौ सामर्थ्यावर्मनमयुक्तमेव। ततश्चात्र प्रकारान्तरमेव गौणव्यावृत्तये परिग्रहीतुं न्याय्यमित्याह।। तस्मादिति।। विहितविशेषणमिति।। षट्‌संज्ञकेभ्यो विहितयोरङ्गसंज्ञानिमित्तयोर्जश्शसोर्लुगिति तदर्थ इत्याशयः।। न मानमिति।। नन्वेवमेकत्विनो द्वित्विन इत्यादावपि मत्वर्थीयविषये षट्‌संज्ञाप्रवृत्त्या लुक्‌प्रसङ्ग इति चेन्न। षान्तसाहचर्येण नान्तस्यापि तद्धितान्तत्वनिबन्धननान्तव्यतिरिक्तस्यैव ग्रहणमित्याशयात्।। सर्वादीनीति सूत्रे इति।। तत्र हि भाष्येऽङ्गाधिकारे यदुच्यते गृह्यमाणविभक्तेस्तद्भवति। यद्येवं परमपञ्च परमसप्त षड्भ्यो लुगिति लुग्न प्राप्नोति, नैष दौषः। षट्प्रधान एष समास इत्युक्तम्।।
ननु विशेषणतया वर्णाश्रयणे विध्यर्थत्वसम्भवे कथं प्रत्ययलक्षणसूत्रस्य नियमार्थत्वमित्याशङ्कां परिहरति।। तृणह इत्यादि।। तृणह इमागमः स्याद्धलादौ पिति सार्वघातुक इत्यतृणहमित्यादिव्यावृत्त्यर्थो यथाश्रुते वाक्यार्थः। एवञ्चातृणेडित्यत्र नित्यत्वाद्धल्ङ्यादिलोपे स्थानिवत्त्वेन तत्प्रवृत्तौ विशेषमतया वर्णाश्रयममित्याशयः।। अचि नेत्यनुवृत्त्येति।। नाभ्यस्तस्याचीत्यतस्तदनुवृत्तिः, प्रागुक्तार्थे तु हल्ग्रहणानुवृत्तिरुतोवृद्धिरित्यत इति द्रष्टव्यम्।। नियमेनेति।। अजादौ ङिति चेदङ्येवेति तु न नियमस्सामान्ये पक्षपातादित्याशयः।। मित्रशीरिति।। आङश्शास इच्छायामिति पठितस्त्वस्मादतिरिक्तः, प्रकृते चाङीत्येतत्साहचर्यात्परस्मैपदिन एव ग्रहणमिति वदतामाशासः क्वावुपसंख्यानमिति वार्तिकबलादाशीरित्यस्य सिद्धिः। अस्यैव धातोराङः परस्येच्छायामात्मनेपदार्थमन्यत्रानुवाद इति मते तस्य वार्तिकस्याशाम्त इत्यादावित्त्वाभावाय नियामकत्वेऽपि नियमशास्त्राणां विधिमुखेन प्रवृत्त्या नास्ति तत्र वर्णाश्रयणमिति भावः। अत्राद्यपक्ष एव ज्यायान्। अनूद्यमानानामुपसर्गान्तरसमभिव्याहारे तदतिरिक्तार्थे च प्रवृत्त्यभावस्य स्वभावसिद्धतया नमोवाकं प्रशास्मह इत्यादेरनुवादपक्षे साधुत्वस्य दुर्वचत्वात्।। अन्यत्रापीति।। ईत्वमवकारादाविति वातिकस्यादिग्रहणबलेन व्यपदेशिवद्भावानधीनतदादित्ववत्येव निषेधपरतया वार्तिकनये क्विपि वातप्रमीरित्यादावीत्वस्याभीष्टत्वेन तत्प्रत्याख्याने बहिरङ्गपरिभाषाया अनित्यत्वात्परत्वेनापृक्तलोपात्पूर्वमीत्वप्रवृत्तिः। अनभिधानं तु न युक्तम्। अत एव धीर्ध्यायतेर्दधातेर्वेति जनसनेतिसूत्रस्थं भाष्यमुपपद्यत इत्याशयः।। द्वितीयप्रत्ययग्रहणादिति।। अन्यथा तल्लक्षणमित्येव ब्रूयादित्याशयः। सूत्रं तु प्रत्ययनिमित्तकमेव प्रत्ययलोपे, न तु प्रत्ययस्थानिकमित्यर्येन नखभिन्न इत्यादौ भिसादीनां लुकः स्थानिवत्त्वेनैसाद्यभावार्थमिति बोध्यम्।। तदनित्यत्वस्यापीति।। यद्यपि भाष्ये सोर्मनसी अलोमोषसी इत्यनेनोत्तरपदाद्युदात्तत्वमापादितम्। सिद्धान्ते तु नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वमभीष्टम्, तथापि मन्साहचर्याच्छ्रूयमाणासन्तस्यैव ग्रहणे दोषाभावेन परिभाषानित्यत्वेनैव भाष्यस्य योजनीयतया तुल्यत्वेन दीर्घापादनमित्याहुः।
केचित्तु निर्दिश्यमानस्यासन्ताङ्गावयवस्यास उपवाया दीर्घ इत्यर्थस्य न्याय्यतया सुदृषच्छब्दस्य स्थानिवत्त्वेनासन्तत्वेऽपि तदवयवस्यास उपधाया दुर्लभत्वेन दीर्घाप्राप्तेर्भाष्योक्तमेव युक्तमित्याहुः। [टि- आहुरिति।। परे त्वत्र सूत्रे निर्दिश्यमानपरिभाषाप्रवृत्तौ निर्दिश्यमानस्यासो दीर्घ इत्यर्थेऽचश्येति परिभाषयाऽकाररयैव दीर्घसिद्धावुपधाग्रहणानुवृत्तेः फलाभावेनोपधाग्रहणमनुवर्तयतामत्र सूत्रे निर्दिश्यमानपरिभाषाया अप्रवृत्तावेव तात्पर्यस्य कल्पनीयतया प्रकृते दीर्घापादनमपि सम्यगेवेति मूलकाराशयमुद्भावयन्ति।।]
स्थानिवदित्यनुवृत्त्यैवेति।। यद्यप्यत्रप्रत्ययलोपे स्थानिवदित्यर्थे नखभिन्न इत्यादावैसाद्यादेशप्रसङ्गो दुर्वारस्सिद्धान्ते तु प्रत्ययवदित्येव सिद्धे लक्षणपदोपादानात्प्रत्ययनिमित्तकमेव न तु तत्स्थानिकमित्यर्थाददोषः। ततश्च तल्लक्षणमित्येव सिद्धे प्रत्ययग्रहणादुक्तार्थलाभ इति वक्तुं युक्तम्। तथापि प्रत्ययलोप इत्युपमेये सप्तमीदर्शनात्सामर्थ्याच्छब्दाधिकारेणानुवर्तमाने स्थानिवत्पदे सप्तम्यन्तादेव वतिरिति निमित्तनिमित्तिभावावगत्या कथञ्चिदिष्टार्थलाभ इत्याशयादेवमुक्तमिति बोध्यम्। ननु यत्किञ्चिन्निष्ठप्रकारतानिरूपितविशेष्यत्वमुतान्यनिष्ठविशेष्यतानिरूपितप्रकारतानापन्नत्वं वा वर्मगतं प्राधान्यम्। उभयथापि गवे हितं गोहितमित्यत्र प्रत्ययलक्षणेनावादेशो दुर्वारः। एचोऽयवायाव इत्यत्राजुपश्लिष्टस्यैचोऽयवायाव आदेशा इत्यर्थे न ह्यन्यनिष्ठविशेषणतानिरूपितं विशेष्यत्वं निमित्तभूतेऽच्यस्ति, विशेषणान्तराभावात्। नाप्यन्यनिष्ठविशेष्यतानिरूपितविशेषमत्वाभावः, स्थानिभूतस्यैचो विशेषणत्वात्। तस्मात्किं तत्प्राधान्यं तत्राह।। वर्णस्य तत्त्वमिति।। इतराविशेषणत्वमिति।। भेदसंसर्गानवच्छिन्नविशेषणत्वाभाव इति तदर्थः। तेनैचोऽयवायाव इत्यत्र निमित्तस्याचो भेदसंसर्गेणैव स्थानिविशेषणत्वमित्यदोषः।। उत्क्रामेति।। उत्पूर्वात्क्रमेर्लोटो हेर्लुकि रूपम्।। दीर्घसिद्धिरिति।। अन्यथा पूर्वोपस्थितनिमित्तकत्वेनान्तरङ्गत्वात्प्रथमं प्रसक्तो दीर्घोऽन्तरङ्गानपीति न्यायेन लुका बाधितो लुगुत्तरमुक्तनिषेधेन न स्यादित्याशयः। उतश्च प्रत्ययादिति हेर्लुकि कुर्वित्यत्रात उत्सार्वधातुक इति करोतेरुत्वं प्रयोजनम्। सार्वधातुकपरकोप्रत्ययनिरूपिताङ्गत्ववतस्तद्विधानादिति नोक्तम्। आभीयासिद्धत्वेन निर्वाहात्। तत्प्रत्याख्याने तूक्तरीतिरेव शरणमिति बोध्यम्।। अव्यवहितप्रकृत्युद्देश्यककार्ये इति।। निर्दिष्टपरिभाषयेति शेषः।।
ननु ङ्यादिष्विति बहुवचनमयुक्तमूङ एवैकस्यादिपदग्राह्यत्वादत अह।। प्रयोगाभिप्रायेणेति।। तदवयवे लक्षणेति।। एतेन विद्वत्पत्नीतरेत्यादौ तदन्तसंज्ञायामुगितश्चेति ह्रस्वविकल्पापत्तिर्विशिष्टस्या नदीसंज्ञकस्योगिदन्तात्परत्वात्। वर्णसंज्ञायां तु नदीसंज्ञकस्येकारस्य ततः परत्वाभावान्न तत्प्रवृत्तिरिति पक्षयोः फलविशेष इत्यपास्तम्। तदन्तसंज्ञापक्षेऽपि नद्यवयवस्य ह्रस्वभाविनस्ततःपरत्वाभावात्। किञ्च ह्रस्वविधौ विहितविशेषणमाश्रयितव्यमिषुमच्छब्दादिप्रकृतिकाणन्तत्वप्रयुक्ते ङीप्यैषुमतितरेत्यादौ ह्रस्वविकल्पवारणार्थमिति स्पष्टं युवोरनाकावित्यत्र भाष्ये। ततश्च नदीसंज्ञकस्योगिदन्ताद्विशिष्टस्य विधानासम्भव एव तत्र लक्षणायां गमकम्। प्रतिपदोक्तपरिभाषया तु न ह्रस्वविकल्पो व्यवस्थापयितुं शक्यः। विशिष्टस्य प्रतिपदोक्तत्वासम्भवात्। वर्णसंज्ञापक्षेऽपि भोगवद्गौरिमतोः संज्ञायामिति शार्ङरवादिपाठप्रयुक्ते ङीनि भोगवतितरेत्यादावभीष्टस्य विकल्पस्य दौर्लभ्यापत्तेः। स्यानिवद्भावोऽप्यैषुमतितरेत्यादौ दुर्लभः। बहिर्भूततरबादिनिमित्तकस्य तस्य बहिरङ्गत्वेनासिद्धतया तथाभूते कार्ये स्थानिवत्त्वायोगात्। नदीबन्धुनीत्यादौ लक्षणाया अनुपयोग एव। अयं च पक्षो लक्षणापेक्षितत्वात्क्लिष्टः। वर्णयोरेव नदीसंज्ञेति पक्षे तु वर्णग्रहणे क्लृप्तेन तदन्तविधिनैव निर्वाहान्नद्यृत इत्यादौ नास्ति परिक्लेशः जाग्रदीश्वरीत्यादौ समासीयोत्तरपदाद्यवयवस्य शतुरनुमोनद्यजादीत्युदात्तत्वव्यावृत्तये पक्षद्वयेऽपि विभक्तिसाहचर्यमेव शरणमथवा विहितविशेषणम्। अत एव जाग्रत् ई लक्ष्मीर्जाग्रदीत्यत्र न दोष इति दिक्।। संगच्छत इति।। घिसंज्ञा तु वर्णयोस्तदन्तयोर्वा, तत्र नास्ति कश्चित्परिक्लेशः। परं तु वर्णसंज्ञायामेव भाष्यवार्तिककारयोनिर्भरः। उपदर्शितवार्तिकस्वरसादाकटारसूत्रस्थभाष्यस्वरसाच्च। तत्र हि भाष्ये विश्च ना च विनरौ तयोर्भावो वैन्रमित्यत्र द्वन्द्वे घीति पूर्वनिपाताच्च इगन्ताच्च लघुपूर्वादित्यण्प्रत्ययश्च घिसंज्ञालघुसंज्ञोभयसमावेशप्रयोजनमाकडारमूत्रारम्भाच्च न सिद्ध्येदित्याशङ्क्य घिसंज्ञानुवादेन लघुसंज्ञा विधीयत इति समाहितम्। तदन्तसंज्ञापक्षे तु भिन्नविषयतया सूत्रारम्भेऽपि समावेशस्य सुगमत्वात्तदसङ्गतिरेवेति ध्येयम्। अकृतव्यूहपरिभाषाया अनित्यत्वादनाश्रयणं, शास्त्रे वा तदनाश्रयममित्याशयेनाह।। अन्तरङ्गत्वादिति।। अभिमानेन वेति।। प्रकृतशास्त्रप्रवर्तकाचार्यतात्पर्यविरोध एवास्यार्थस्याभिमानविषयत्वे हेतुरित्याशयस्तदाह।। भाष्यकृता त्विति।। तस्य संज्ञायामिति।। वृत्तेः पूर्वं तदुत्तरं वा नदीसंज्ञायां प्रवृत्तायामित्यर्थः। कुमारी शब्दे क्यजन्तात्क्विप्। खरकुटीशब्दे त्विवे प्रतिकृताविति कनो लुम्मनुष्य इति लुक्। प्रत्याख्यातमिति।। यथोद्देशकार्यकालयोरुभयोरपि पक्षयोरित्यर्थः। कथं प्रत्याख्यातं तत्राह।। अवयवस्त्रीविषयत्वादिति।। अभावश्चेति।। अत एव राजकुमारीत्यादौ नदीत्वम्। अन्यथोत्तरपदस्यानर्थक्याद्विशिष्टस्य तन्मात्रबोधकत्वाभावाच्च तदनुपपत्तिरेवेति भावः। नन्ववयवत्वस्य समुदायसापेक्षत्वात्समासीयोत्तरखण्डस्य भावतु समासात्मकसमुदायनिरूपितमवयवत्वम्। क्विलुब्विषये तु प्रकृत्यतिरिक्तस्य समुदायस्य विनष्टत्वात्कथमनेन तदंशे प्रत्याख्यानसम्भव इत्यत आह।। अवयवशब्देनेति।। इच्छादिविशेषणतयेति।। ननु प्रधानाप्रधानयोरिति न्यायेन प्राधान्यतो नित्यस्त्रीत्वाभिधायकस्यैव नदीत्वं युक्तम्। अन्यथा वर्षाभूशब्दस्य दर्दुरवाचकत्वे पुंसि वर्तमानस्यापि विशेषणतया नित्यस्त्रीत्वबोधकत्वेन नदीत्वप्रयुक्तकार्यप्रसङ्गः। इत्थञ्च कार्यकालपक्षे बहुश्रेयस्यादौ क्विलुब्विषये च वृत्तिप्रतिपाद्यान्यपदार्थविशेषणतया नित्यस्त्रीत्वाभिधायकस्य श्रेयस्यादेर्नदीत्वस्याप्राप्तस्य समर्थनाय वार्तिकमारब्धव्यमेवेति कथं प्रत्याख्यानमिति चेत्सत्यम्। नित्यस्त्रीत्वं च प्राधान्येन लिङ्गन्तरानभिधायकत्वम्। लिङ्गस्य प्राधान्यमाश्रयद्वारकम्, न तु स्वतः, तस्य द्रव्यविशेषणतायाः क्लृप्तत्वात्। अभिधायकत्वं च शक्तिमत्त्वमेव। इत्थञ्च यत्किञ्चिन्निरूपितप्रकारताव्यधिकरणस्त्रीत्वातिरिक्तलिङ्गनिरूपितविशेष्यतानवरुद्धस्त्रीत्वनिरूपितस्वार्थनिष्ठविशेष्यतावगाहिशक्तिमत्त्वं नित्यस्त्रीत्वमिति पर्यवसन्नम्। बहुश्रेयस्यादौ वृत्त्युत्तरमपि तथाभूतशक्तिमत्त्वमवयवस्यास्त्येव। बोधश्च समुदायशक्तिजन्यपदार्थोपस्थितिप्रयुक्तो विळिष्टार्थविषयक एव। समुदायशक्तिजन्यपदार्थोपस्थितेरवयवशक्तिजन्यां पदार्थोपस्थितिं प्रति प्रतिबन्धकत्वात्। तदुच्यते।। अवयवप्रसिद्धेस्समुदायप्रसिद्धिर्बलीयसीति।। जहत्स्वार्था तु यत्रावयवशक्तिसमुदायशक्त्योः परस्परविरुद्धपदार्थोपस्थापकता तत्रेव। `जहत्स्वार्था तु तत्रैव रूढिर्यत्र विरोधिनी, त्युक्तेः। भवतु वा सार्वत्रिकी। उत्तरपदे तदभाव इति सम्प्रदायः। तथा च पक्षद्वयेऽपि वृत्ताववयवस्य नदीत्वं निर्विवादमेवेति प्रत्याख्यानं कार्यकालयथोद्देशपक्षोभयसाधारणम्। अत एव भाष्येऽवयवस्त्रीविषयत्वात्सिद्धमवयवोऽत्र स्त्रीविषयः। तदाश्रया नदीसंज्ञा भविष्यतीत्युक्तम्। यथोद्देशमात्राभिप्रायकत्वे तदाश्रया नदीसंज्ञा वर्तत एवेति वदेत्। पक्षविशेषमप्युपन्यस्येत्। वर्षाभूःप्रभृतिष्ववयवस्य समुदायस्य वा निरुक्तशक्तिमत्त्वरूपस्य नित्यस्त्रोत्वस्याभावेन नदीसंज्ञाया अप्रवृत्तेर्नास्ति प्रधानाप्रधानन्यायोपयोग इत्याशयो विभावनीय इत्याहुः।
केचित्तु आकडारीयसंज्ञासु कार्यकालपक्षाभावस्य परमसिद्धान्ततया तदनुरोधेन वचनारम्भः, प्रत्याख्यानं चोक्तयुक्त्या न युक्तम्। नदीसंज्ञा भविष्यतीति भाष्यन्तु कार्यविशेषसंपत्त्यर्थमित्यध्याहारेण सुयोजम्। अतोऽत्र भाष्यवोर्तिकयोर्यथोद्देश एवाभिप्राय इति न काप्यनुपपत्तिरित्याहुः। [टि- आहुरिति।। परे त्वाकटारीयसंज्ञासु कार्यकालपक्षाभावस्य परमसिद्धान्तत्वोक्तिरयुक्तैव। ष्यङस्सम्प्रसारणमिति सूत्रे भसंज्ञाविषये कार्यकालपक्षस्य प्रदर्शितत्वात्। न च संज्ञाशास्त्राणां पदैकवाक्यताया असम्भवेन तत्प्रतिपादकस्यैतद्भाष्यस्यैकदेश्युक्तित्वमावश्यकमिति तद्भाष्यबलेन संज्ञासु कार्यकालपक्षाश्रयणमयुक्तमिति वाच्यम्। पदैकवाक्यताप्रयुक्तस्याप्रामाण्यस्यांशतः कल्पनेऽपि सर्वस्याप्रामाण्यकल्पने मानाभावात्। अत एव नदीसंज्ञासूत्रे शेखरे क्यजन्तात्क्विपि निष्पन्ने कुमारीशब्दे कार्यकालपक्षे प्रकृतिभूतकुमारीशब्दस्य नित्यस्त्रीत्वेन नदीसंज्ञा समार्थिता। अत एव ``अवयवस्त्रीविषयत्वात्सिद्धम्। अवयवो यः स्त्रीप्रत्ययस्तदाश्रया नदीसंज्ञा भविष्यति इति भाष्यं स्वरसतस्सङ्गच्छते। यथोद्देशेनेदमिति कैयटस्तु चिन्त्य एव। भविष्यतीत्यक्षरस्वारस्यभङ्गापत्तेः। कार्यविशेषसम्पत्त्यर्थमित्यध्याहारेण योजने तु क्लेशः। उत्तरत्राकडारीयसंज्ञानां कार्यकालत्वाभावादिति शेखरोक्तिस्तु केचिदित्युक्त्या स्वानभिप्रेतत्वसूचनेन कैयटाशयवर्णनपरैव। आकडारस्थभापदसंज्ञादिविषये यथोद्देश एवेति परिभाषेन्दुशेखरोक्तिरपि केचिदित्युपक्रमेणारुचिग्रस्तैव। किञ्चेयं रीतिरयादिभ्यः परैव प्रगृह्यसंज्ञेति यथाश्रुतभाष्यपर्यालोचनया सिद्धे संज्ञानां विधिदेशीयत्वे प्रसक्तस्य संज्ञानां पौर्वापर्यविपर्ययस्य वारणाय कैश्चिदादृता। तथा च तेषां मतेऽपि संज्ञानां विधिदेशीयत्वेन यत्र दोषप्रसक्तिस्तत्र कार्यकालत्वानङ्गीकारेऽप्यन्यत्र तदनङ्गीकारे मानाभावः। अत एवैकदेशविकृतन्यायावतरणे रामावि,्यादौ कार्यकालपक्षे कथं पदत्वमिति ग्रन्थ उपपद्यते। वस्तुतोऽदसो मादिति सूत्रस्थस्य `अयादिभ्यः परैव प्रगृह्यसंज्ञा' इति भाष्यस्य प्रगृह्यसंज्ञाप्रयुक्तप्रकृतिभावः पर इत्येवमर्थकतया उद्योते परे त्वित्यादिना नागेशेन स्वसिद्धान्ततया योजितत्वेन संज्ञानां विधिदेशीयत्वस्यैवाभावेन तत्पुरस्सरेण प्रवृत्तस्य यथोद्देश एवेति निष्कर्षस्य सर्वथा नागेशासम्मतत्वं स्फुटमेवेति अस्य परमसिद्धान्तत्वकथनं केवलं साहसमात्रमेव। किञ्च चाक्यार्थचन्द्रिकायां केचिदित्यादिना यथोद्देशपक्ष एवेति निष्कर्षं निराकुर्वताऽनेन ग्रन्थकृता अत्र पुनः केचिदित्यादिना तन्निष्कर्षस्य परमसिद्धान्तत्वेन कथनं विस्मयमादधाति तत्तद्ग्रन्थपरिशीलनशालिनामित्यलमित्याहुः।]
भिन्नवचनत्वेऽपीते।। विशेष्यवाचकप्रकृतिकविभक्तिप्रतिपाद्यसंख्याविरुद्धसंख्याया यत्र विवक्षा तत्रेति शेषः वेदाः प्रमाणमित्यत्र हि यावद्वेदगतं प्रमितिकरणतावच्छेदकं वेदत्वसामान्यमेकमिति बोधनाय विशेषणे तद्विवक्षा। य्वोरित्यत्राप्यस्त्येव सा प्रत्येकान्वयलाभाय। यत्र तादृशविवक्षाया अभावः, तत्र समानवचनकत्वमेव नीलो घट इति न तु कदाचिन्नीलौ नीला वा घट इति विभिन्नवचनकत्वमिति तत्त्वम्।
असिद्धत्वादिति।। बहिरङ्गत्वेनेति शेषः। वलि लोपेऽन्तरङ्गपरिभाषा न प्रवर्तत िति त्वयुक्तमेव। उपदेशसामर्थ्येन व्रश्चन इत्यादौ लोपातिप्रसङ्गवारणपशंसायां वृश्चतीत्यादौ बहिरङ्गसंप्रसारणादेरसिद्धतया वलि लोपोपपादनपरभाष्यासङ्गत्यापत्तेः। अरिय्रियादित्यादौ यलोपापत्तेश्च। अचः परस्मिन्निति स्थानिवत्त्वेन तु न निर्वाहः। समुदायभूतस्य रीङस्तेनातिदेशेनाच्त्वेऽपि तदवयवस्य वल्वानपायात्। स्पष्टा चेयं रीतिरचः परस्मिन्नित्यत्र भाष्ये इत्यन्यत्र विस्तरः।। उत्थिताकाङ्क्षत्वादिति।। प्राधान्यप्रयुक्तादप्यन्वयादुत्थिताकाङ्क्षत्वप्रयुक्तः प्रबल इति व्याख्यातारः।।
लक्ष्यानुसाराच्चेति।। लक्ष्यानुसारिहेतुकाद्व्याख्यानादित्यर्थः। नन्वभीष्टकल्पनया लक्ष्यसमर्थनं लक्षणैकचक्षुष्काणामयुक्तमित्यालोच्याह।। अत एवेति।। उक्तोपायेनेति।। एवञ्चेदं व्याख्यानं भाष्यकारपरिशीलितमेवेत्यत्रत्यक्लेशो नास्माकं दोषापादनहेतुरिति तात्पर्यम्।। विशेषावगतिहेतुत्वेनेति।। यथा सवत्सा धेनुरित्यतस्तदीयगर्भसंभूतवत्सवैशिष्ट्यं प्रतीयते, तद्वदवत्सा धेनुरित्यतोऽपि तथाविधवत्सराहित्यमेवानुभवसिद्धमित्याशयः।। परिमाणाख्यायामिति सूत्रे इति।। तत्र हि भाष्ये सर्वग्रहणप्रयोजनमपवादभूतयोरजपोर्विषये प्रवृत्तिरित्युपक्रम्येदमुक्तमित्थञ्च तण्डुलनिचायधान्यनिष्पावादेरसंज्ञात्वेन परिमाणाख्यायामित्येव सिद्धेर्नेदं सर्वग्रहणस्य प्रयोजनमिति भगवदाशयः।।
येन नाप्राप्त्यभावेनेति।। इदं तु चिन्त्यम्। [टि- चिन्त्यमिति।। अत्रेदं तत्त्वम्। ``परिमाणाख्यायामिति सूत्रे इत्यादिग्रन्थो धातुग्रहणस्याङ्गविशेषणत्वाभावे हरिमित्यादौ परममूलोक्तस्य दोषस्य निरासार्थं प्रवृत्तः खण्डनकारस्य। उत्सर्गसमानदेशा इति न्यायस्यासिद्धवत्सूत्रभाष्यसम्मतत्वं, युष्माकाद्यादेशज्ञापितत्वं चाप्रदर्श्य परिमाणाख्यायामिति सूत्रभाष्यमूलकत्वं वदतः खण्डनकारस्यायमाशयः। अकर्तरि चेत्यन्न संज्ञाग्रहणसत्त्वपक्षेऽजपोरसंज्ञायां चारितार्थ्येन येन नाप्राप्त्यभावाद्यथाजातीयकश्चोत्सर्गस्तथाजातीयकेनापवादेन भवितव्यमिति भाष्योक्तेरसाङ्गत्यापत्त्या अत्र न्याये उत्सर्गापवादशब्दौ तत्त्वेनाभिमतपरावित्यवश्याभ्युपगन्तव्यतया प्रकृते ``अचिश्नु``एरनेकाच इत्य नयोरुत्सर्गापवादत्वेनाभिमतावित्यस्त्येव न्यायविषयतेति तेन न्यायेन हरिमित्यादौ न दोष इति।।
शब्दरत्नकृत्तु नैतद्भाष्यमूलकोऽयं न्यायः। भाष्यस्यास्यैकदेश्युक्तित्वेन न्यायमूलकत्वायोगात्। किन्त्वसिद्धवत्सूत्रभाष्यमूलको युष्माकाद्यादेशज्ञापितश्चायं न्यायाः। न्यायप्रवृत्तिः पूर्वं ययोरुत्सर्गापवादभावस्तद्विषयक एवायं न्यायः। अस्ति च न्यायप्रवृत्तेः पूर्वमप्येत्वाल्लोपयोरुत्सर्गापवादभाव इति एधीत्यत्रानेन न्यायेनैत्त्वस्याल्लोपसमानदेशत्वं. न तु सकारस्थानिकत्वमिति नैतदर्थमसिद्धवत्सूत्रम्। न्यायप्रवृत्त्युत्तरं यत्रोत्सर्गापवादभावः, न्यायस्य तद्विषयत्वाङ्गीकारे न्यायेन समानदेशत्वनिर्णये उत्सर्गापवादभावः, तत्त्वे च न्याथेन समानदेशत्वनिर्णय इत्यन्योन्याश्रयप्रसङ्गः। अतोऽत्रोत्सर्गापवादभावनिर्णयमन्तरा न्यायप्रवृत्तेरयोगात्समानदेशत्वानिर्णये येन नाप्राप्त्यभावाद्धरिमित्यादौ दोषो दुर्वार एवेत्यभिप्रैति।
नन्वेवं परिमाणाख्यायामिति मूत्रस्थभाष्यानुपपत्तिरिति चेन्न। तस्यैकदेशयुक्तित्वेनादोषात्। तथा हि। तत्र हि भाष्येऽकर्तरि चेति सूत्रे संज्ञाग्रहणप्रत्याख्यानादेकः पाक इत्यादेस्तेनैव सिद्धौ परिमाणाक्यायामिति सूत्रमजपोरपवाद इति सिद्धान्तितम्। तत्पक्षेऽजपोरकर्तरि चेति शास्त्रापवादत्वं स्पष्टमेव। संज्ञाग्रहणसत्त्वेऽजपोरसंज्ञायां चारितार्थ्यं संज्ञाग्रहणस्य दुष्टत्वं चापर्यालोच्य पूर्वस्मिन्पक्षे स्थितमुत्सर्गापवादभावमात्रमपवादस्योत्सर्गसमानदेशत्वं च मनसि निधाय ``अथ संज्ञाग्रहणं क्रियते, एवमपि न दोषः इत्यादिभाष्यं प्रवृत्तमित्यस्यैकदेश्युक्तित्वं स्पष्टमेव। एवञ्चैकदेश्युक्तभाष्यबलान्न्यायस्यान्योन्यश्रयदोषदुष्टविषयव्यवस्थाकल्पना न युक्ता। यत्तु न्यायप्रवृत्तेः प्रागपवादत्वस्य सर्व त्रैवानुपपन्नत्वादसम्भव एव स्यादिति तन्न। एधीत्यादौ न्यायप्रवृत्तेः प्रागप्यपवादत्वसम्भवस्य पूर्वमुपपादितत्वात्। प्रत्ययोत्तरपदयोश्चेत्यस्य तवममादिबाधकत्वस्य न्यायप्रवृत्तेः प्रागपि सम्भवाच्चेति सुधियो विभावयन्त्वियाहुः।।] प्रकृतन्यायमूलकतया संज्ञाविषयत्वसम्पत्तेः। पूर्वमसंज्ञायामपि प्रवर्तमानयोरजपोरकर्तरि चेत्यनेन येन नाप्राप्त्यभावस्य तुल्यतया तदंशे न्यायोपपादनपरभाष्यानुपपत्तेः। किञ्च यत्किञ्चिन्निमित्तवैकल्येनातिप्रसक्तस्यापवादस्यातिव्याप्तिपरिहारायोत्सर्गसाजात्येन निमित्तपरिपूर्तिरिति प्रकृतन्यायशरीरम्। ततश्च न्यायप्रवृत्तेः प्रागपवादत्वस्य सर्वत्रैवानुपपन्नत्वादसम्भव एव स्यात्तस्मादुत्सर्गापवादशब्दावत्र न्याये तत्त्वेनाभिमतपरावित्यस्त्येव प्रकृते न्यायविषयता, यद्यभ्युपगम्यते न्याय इत्याहुः।।
स्पष्टप्रतिपत्तये इति।। अन्यथा प्रत्यासत्तिवशादिकारे धात्ववयवत्वस्येव यत्किञ्चित्संयोगपूर्वकत्वस्यापि प्रसक्तस्य न भूसुधियोरिति ज्ञापकेन निवृत्तिकल्पनायां क्लेश इत्याशयः।। पूर्वविप्रतिषेधेनेति।। अपरनिमित्तकत्वादपृक्तलोपस्यान्तरङ्गत्वेऽप्यनित्यत्वात्परिभाषाया अनाश्रयणमिति बोध्यम्।। धित्वाङ्गत्वेत्यादि।। [टि- घित्वाङ्गत्वेत्यादीति।। ``तद्विषये प्रकृतिप्रत्ययघित्वाङ्गत्वसापेक्षगुणापेक्षया तदवयवमात्नापेक्षस्यान्तरङ्गत्वेन इत्येवं क्वचित् शब्दरत्नपाठो दृश्यते। तदनुसारेणेदं प्रतीकम्।] स्वमते संज्ञाकृतबहिरङ्गस्यानाश्रयणेऽपि मूलकारानुरोधादेवमिदमुक्तमिति ध्येयम्।। दुर्लभत्वादिति।। इको यणचीत्यस्य त्वियङपवादः।। इति ईदन्ताः।
फलितेति।। [टि- फलितेतीति।। नियमार्थमिति प्रतीकानन्तरं ``फलितप्रयोगनियमार्थमित्यर्थः त्येवं मूलपाठः क्वचिद्‌ दृश्यते। तद्रीत्येदम्। इदानीन्तनपुस्तकेष्वन्यथादृश्यते।] एतेन नेह प्रयोगनियम आरभ्यत इति वृद्धिसूत्रभाष्येण न विरोधः। तस्य वाच्यवृत्त्या प्रयोगनियमाभावप्रतिपादनपरत्वात्। अन्यथा फलविधया साधुरेव प्रयोक्तव्यो न त्वसाधुरित्येवमात्मकप्रयोगनियमोपपादने सर्व त्रैव शास्त्रतात्पर्याद्वचनव्याघातापत्तिः। किञ्च संस्कृत्य संस्कृत्य पदान्युत्सृज्यन्ते तेषां यथेष्टमभिसम्बन्धो भवति। आहर पात्रं पात्रमाहरेत्यग्रिमभाष्यस्वारस्याद्वाक्यप्रयोगीयपौर्वापर्यनियमाभावप्रतिपादनपरं तत्। अतो न काप्यनुपपत्तिः। उपदर्शितार्थसिद्धये न क्रोष्टुः स्त्रियां च क्रोष्टा हलि तृतीयादाविति न्यासे पदलाघवाभावः। प्रियक्रोष्टूनीत्याद्यसिद्धिश्चेति बोध्यम्।।
आद्यत्रयस्येति।। चिकीर्षित इत्यादौ पूर्वत्र सन्प्रकृतौ विद्यमानस्य ञित्त्वरूपस्यात्मनेपदनिमित्तस्य पूर्ववत्सन इत्यनेन सन्नन्तेऽप्यतिदेशात्क्रियाफलस्य कर्तृगामितायां विशिष्टादात्मनेपदम्। कार्यातिदेशस्त्वसम्भवी, सन्प्रकृतेस्तदभावात्परगामित्वेऽप्यात्मनेपदप्रसक्तेश्च। कर्तव्यमित्यादौ च समुदायावयवयोर्द्वयोरपि सतोरुदात्तत्वस्य सम्पादको य आदित्वव्यवहारस्स औपगवादावसहायेऽप्याद्यन्तवदित्यनेनातिदिश्यते।। यथा शुभस्पतिरित्यत्र शुभ इति षष्ठ्यन्तस्य सुबामन्त्रित इत्यनेनामन्त्रितपतिशब्दाङ्गतादात्म्यातिदेशाच्छवर्णोकारस्य षाष्टिकामन्त्रिताद्युदात्तत्वलाभः। कालेभ्यो भववत् गोतो णित् स्त्रियाः पुंवदित्यन्त्यत्रयस्य। तत्र कालवाचकेभ्यो भवार्थे प्रत्ययविधायकं यच्छास्त्रं तदेव तेभ्यस्सास्य देवतेत्यर्थे प्रत्ययविधानाय कालेभ्यो भववदित्यनेनातिदिश्यते। तेन देवतार्थेऽपि प्रावृष एण्य इत्यादीनां प्रवृत्त्या प्रावृषेण्यादीनां सिद्धिः। कार्यातिदेशे चात्रोपाधिसाङ्कर्यप्रसङ्गः। गोतो णिदित्यनेन गौरित्यादौ णित्कार्यस्य वृद्धेरतिदेशः। निमित्तातिदेशे तु तद्गतकृत्त्वतद्धितत्वयोरप्यतिदेशप्रसक्तौ विशिष्टस्य प्रातिपदिकत्वापत्तिः। स्त्रियाः पुंवदित्यनेन वातण्डयुवतिर्दारदबृन्दारिकेत्यादौ स्त्रीवाचकस्य वतण्डीदरदादेः पुंवाचकशब्दस्वरूपातिदेशः। अतिदेशान्तरैश्चाभीष्टासिद्धिरित्यादि स्वयमूहनीयम्।। ज्ञापयितुमिति।। कार्यसामान्यप्रवृत्तिकल्पनामपेक्ष्यातिदेशविशेषकल्पनायां लाघवं प्रतिपदोक्तन्यायविरोधानुपहितत्वादित्याशयः।। अर्थातिदेशं [टि- अर्थातिदेशं मुक्त्वेतीति।। `अर्थातिदेशं मुक्त्वेद मिति शब्दरत्नपाठाभिप्रायेणेदम्। इदानीन्तनपुस्तकेप्वन्यथा दृश्यते।] मुक्त्वेति।। वस्तुतस्सप्तविधोऽसावतिदेशः। तदुक्तम्। ``कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः। व्यपदेशश्च सप्तैतानतिदेशान्प्रचक्षत इति।। उत्तम एकवच्च स्त्रीपुंवच्चेत्यर्थातिदेशस्योदाहरणम्। तत्रैकवच्चेत्यनेनोत्तमपुरुषस्यैकत्वातिदेशाद्वयमोदनं भोक्ष्यध्व इति त्वं मन्य इत्यत्र तत्समानाधिकरणाद्युष्मच्छब्दादप्येकवचनलाभः। तथा च गार्गी च गार्ग्यायणौ च गर्गा इत्यत्र पुंस्त्वातिदेशात्तद्विरुद्धस्त्रीत्वनिवृत्त्या बहुत्वे तदभावनिबन्धनालुक्‌प्रवृत्तिश्चेति बोध्यम्। अतस्मिन्तत्त्वबुद्धिरतिदेशः। आहार्यारोपोऽप्ययमारम्भसामर्थ्याच्छास्त्रस्य प्रवृत्तौ निवृत्तौ च प्रयोजक इति सिद्धान्तः।। युक्त्यन्तरमिति।। कार्यर्थत्वादतिदेशानामुद्देश्यतया कार्यस्य प्राधान्यमिति तदतिदेशः प्रधानम्। तस्यापि रूपसिद्ध्यर्थत्वात्ततोऽपि प्रधानं रूपातिदेश इत्याशयः।। सामर्थ्यादिति।। रूपमत्र वर्णानुपूर्वी, स्वरस्य वर्णधर्मत्वेऽपि तद्धटकत्वाभावाद्रूपातिदेशेन तदसिद्धावपि चकारबलेनान्तोदात्तत्वगुणविशिष्टमेव रूपमतिदिश्यत इति स्पष्टं भाष्ये।। इति शेष इति।। ततश्च संज्ञाशब्दानामुणादिनिष्पन्नानामन्येषां तृन्‌तृजन्तानां नेति नियमाकारः।। धातृशब्दस्येति।। अवयवार्थस्याप्रतीतेर्ब्रह्मणि केवलरूढोऽयमिति संज्ञात्वे नास्थि विप्रतिपत्तिः।
ननु तृन्‌तृचौ शंशिक्षतादिभ्यस्संज्ञायां चानिटावित्युणादिसूत्रे शंशादिक्षताद्‌भ्योरकृतिगणतयाधातृशब्दस्यापि व्युत्पादनसम्भवात्कथमुणादिव्युत्पन्नानामित्यनेन तद्व्यावृत्तिः। न च पाणिनीये ये न व्युत्पन्नाः किन्तूणादावेव तेषामिति तदर्थः। धातृशब्दस्तु संज्ञातदितरसाधारणेन ण्वुल्‌तृचावित्यनेन पाणिनीयेऽपि व्युत्पादयितुं शक्यत्वाद्युज्यत एव तद्व्यावृत्तिरिति वाच्यम्। तथा सति नेष्टृप्रभृतीनां पोतृपर्यन्तानां तृन्निति सूत्रे पाणिनीयतन्त्रे कात्यायनेन व्युत्पादिततया साजात्यविरोधेनोक्तनियमानुपपत्तेः। न च नप्तृप्रशास्तृग्रहणमेव नियमार्थं, तयोः पाणिनीये व्युत्पादनाभावात्। अन्येषां तु प्रपञ्चार्थमेव ग्रहणामतो नास्त्यनुपपत्तिरिति वाच्यम्। एवमपि बहुलमन्यत्रापीत्यनेनोणादिषु संज्ञामनपेक्ष्य व्यत्पादितानां हन्तृमन्तृप्रभृतीनां पाणिनीयेऽपि तृन्नन्तत्वेन तृजन्तत्वेन च व्युत्पादयितुं शक्यत्वादुक्तविशेषणेनैव तद्व्यावृत्तिसिद्ध्या नियम्यकोटौ संज्ञाशब्दानामित्यस्य वैयर्थ्यादिति चेदत्राहुः। शास्तृशब्दो बुद्धदेवाभिधायी रूढिशब्दो ऽन्यत्र यौगिकः। तदुक्तं मेदिनीकोशे शास्ता समन्तभद्रे ना शासके पुनरन्यवदिति,।। एवञ्च शासकवाचिनः क्रियाशब्दस्य तस्य संज्ञात्वाभावेन निरुक्तनियमविषयतां व्यावर्तयितुं तच्छरीरे संज्ञाशब्दानामित्यस्य निवेशः। न ह्यं पाणिनीयतन्त्रे व्युत्पादयितुं शक्यः। उदात्तत्वेन शासेरिडागमाभावस्य दुर्वचत्वात्। उणादौ च तृन्‌तृचावित्येतत्सूत्रघटकस्य संज्ञायां चेति चकारस्य सूत्रानुपात्तसंज्ञेतरसमुच्चायकत्वे बहुलमन्यत्रापीति तस्यैव प्रपञ्चः। सूत्रोदीरितेडागमाभावसमुच्चायकत्वे त्वतिरिक्तम्। उभयथाप्यनिड्‌ग्रहणाद्वा तदभावः सिद्धः। ततश्च संज्ञाशब्दानां पाणिनीयतन्त्रप्रतिपादितव्युत्पत्तिविहीनानामन्येषां तृन्‌तृजन्तानां नेति नियमो निर्बाधः। यद्वा संज्ञाभूतानामौणादिकशास्त्रविहितविशेषोपहितानां तृन्‌तृजन्तानामन्येषां नेति नियमः। धातृशब्दस्तु ब्रह्मणि संज्ञाभूतोऽप्यौणादिकशास्त्रबोधितविशेषानुपहिततया नैतन्नियमविषयः। नेष्टृप्रभृतीनां पाणिनीयत्वेऽप्यौणादिकशास्त्रबोधितविशेषोपहितत्वस्य निर्विवादत्वान्नैतादृशनियमसम्पादकत्वविरोधः। होतृशब्दस्याप्याद्युदात्ततया निपातनेन तृन्नन्त एवायं न तु कदाचित्तृजन्त इत्येवमात्मको विशेषोऽस्त्येव। भवतु वा तावन्मात्रस्य प्रपञ्चार्थं ग्रहणमतो न काप्यनुपपत्तिरिति।
नव्यास्तु नास्त्येतादृशनियमोपयोगः। न च मातृपितृभ्रात्रादिषु दीर्घव्यावृत्तिस्तदुपयोग इति वाच्यम्। ण्वुल्‌तृचाविति सूत्रस्थभाष्यप्रामाण्येन तेषां निरनुबन्धकतृप्रत्ययान्तत्वावगमात्तृन्नन्तत्वतृजन्तत्वान्यतरधर्मानाक्रान्तत्वेन दीर्घाप्रसक्तेः। तत्र हि भाष्ये तृचश्चकारस्य प्रयोजनकथनावसरे तदभावे दीर्घविधावप्तृन्तृ इति व्यवहर्तव्यतया मातरौ मातर इत्यत्रापि दीर्घः प्राप्नोतीत्याशङ्क्य नप्तृग्रहणादस्यैव योनिसम्बन्धवाचिनो दीर्घो नान्योषामिति परिहृतम्। मातृभ्रात्रादीनां योनिसम्बन्धवाचिनां तृजन्तत्वे च निरनुबन्धकपरिभाषया दीर्घाप्रवृत्त्या नियमाश्रयणमसम्बद्धमेव स्यात्। तस्मादयुक्त एवायं नियमः। न च बुद्धदेवाभिधायकस्य शास्तृशब्दस्य संज्ञाभूतस्य तृजन्तस्य, शंस्तृशब्दस्य च तृन्नन्तस्य तथाविधस्य दीर्घव्यावर्तनेन साफल्याद्युक्त एवायं नियम इति वाच्यम्। ग्रसितस्कभितेत्यादिना सप्तमे ठन्दस्येव तयोरिडभावनिपातनेन भाषायां तथाभूतयोरसाधुत्वप्रतीतेश्छन्दसि बाहुलकेन सकलार्थसिद्धेश्च तदर्थं नियमस्यानावश्यकत्वात्। भाष्येऽपि दीर्घविधौ तृन्तृचोः स्थाने तृग्रहणे सामान्यग्रहणाविघातार्थस्तृचश्चकार इति व्यवस्थाप्य मातृप्रभृतिष्वतिव्याप्तिवारणाय नप्तृग्रहणाद्योनिसम्बन्धमात्रविषयको नियम आश्रितो न तु शास्तृशंस्त्रोस्तन्निवृत्तये कश्चन यत्न आश्रितः। एवञ्च भाषायां तयोरप्रयोग इति स्पष्टमेव। तस्माद्यथान्यासे प्रशास्तृग्रहणं व्युत्पत्तिपक्षे प्रपञ्चार्थम्। अव्युत्पत्तिपक्षे तु विध्यर्थम्। नप्तृग्रहणन्तु पक्षद्वयेऽपि विध्यर्थम्। व्युत्पत्तिपक्षेऽपि तृप्रत्ययान्ततया दीर्घाप्राप्तेः। नेष्ट्रादीनां तु पोतृपर्यन्तानां पक्षद्वयेऽपि प्रपञ्चार्थं ग्रहणं, पाणिनीयेऽपि तेषां व्युत्पादनेनाव्युत्पन्नत्वायोगादिति निष्कर्ष इत्याहुः।।
कार्यैक्ये इति।। क्रोष्टेत्यादौ सर्वनामस्थाने चासम्बुद्धावप्तृन्नित्याभ्यामुभाभ्यामप्येकस्यैव दीर्घस्य युगपत्साधुत्वेन बोधनसम्भवात्प्रत्ययोद्देश्यकहल्ङ्यादिलोपस्य प्रकृत्युद्देश्यकस्य दीर्घस्य च यौगपद्येन प्रवृत्तौ बाधकाभावाच्च नास्ति विप्रतिषेधाशास्त्रप्रवृत्तिप्रयोजको विरोध इत्याशयः।
केचित्तु हल्ङ्यादिलोपदीर्घयोर्यौगपद्येन प्रवृत्तावस्त्येव विरोधः। सुप्रत्ययस्य लोपस्थानित्वदीर्घनिमित्तत्वयोर्युगपदुपपादयितुमशक्यत्वात्। अत एवेको गुणवृद्धी अलोत्त्यस्येत्यनयोः परिभाषयोर्विप्रतिषेधविचारे नावश्यं द्विकार्ययोग एव विप्रतिषेधः, किन्तर्ह्यसम्भवोऽपि, स चास्त्यत्रासम्भव इति मेद्यति मेद्यत इत्यादौ विप्रतिषेधोपपादनपरं भाष्यमुपादाय कैयटेनोक्तम्। मिदेर्गुण इत्यत्र मिदेरित्येका षष्ठी, सा यद्यवयवसम्बन्धे तदेकारस्य गुणेन भाव्यम्। अथ स्थानष्ठी तदालोन्त्यस्येति वचनाद्दकारस्य। न चास्ति सम्भवो युगपदुभयोर्गुणस्येत्यर्थ इति।। एवं च यत्र स्थानित्वावयवित्वयोर्युगपदेकस्यासम्भवस्तत्र विप्रतिषेध इति स्पष्टमेवाभिहितम्। ततोऽत्र न किञ्चिद्वैषम्यम्। अत एव शिष्टादित्यत्र हेर्निमित्तत्वकार्यित्वयोर्यौगपद्यासम्भवरूपं विरोधमाश्रित्य तातङा शाभावस्य बाधनमप्युपपद्यते। तस्मादत्र हल्ङ्यादिलोपात्पूर्वं पश्चाद्वा दीर्घप्रवृत्तौ विशेषाभावेनैव परत्वस्य व्यवस्थापकत्वानुपपत्तिर्न तु विप्रतिषेधाभावेनेति वदन्ति।। [टि- वदन्तीति।। अत्रेदं बोध्यम्। मूले परत्वादित्यनेन `परत्वादप्तृन्निति दीर्घ एव न्याय्य, इति मनोरमाग्रन्थस्थं परत्वादित्यनुक्रियते। न तु `हल्ङ्यादिलोपात्परत्वादुपधादीर्घ' इति पूर्वग्रन्थस्यं परत्वादिति। अग्रिमं चेत्यनेन रमाशब्द्‌प्रघट्टकस्थस्यैङ्ह्रस्वादिति लोपस्यैव परत्वेन न्याय्यत्वादिति भाव इति ग्रन्थो विवक्षितः। अत एव कार्यैक्ये इत्युत्तरग्रन्थस्सङ्गच्छते। हल्ङ्यादिलोपात्परत्वादुपधादीर्घ इत्यस्य ग्रहणे तु कार्यैवयाभावात्तदसङ्गतिः स्पष्टैव। उत्तरत्र परत्वादुत्कृष्टत्वाद्विशेषविहितत्वेन शीघ्रोपस्थितिकत्वादिति ग्रन्थोऽप्येवं व्याख्यान एव सङ्गच्छते। सर्वनामस्थाने चेत्यस्य विशेषविहितत्वाभावात्। एवं स्थिते कार्यैक्ये इति ग्रन्थस्य ``हल्ङ्यादिलोपात्परत्वादुपधादीर्घ इत्येतद्‌ग्रन्थप त्वमपि मनसि निधाय प्रत्ययोद्देश्यकहल्ङ्यादिलोपस्य पकृत्युद्देश्यकस्य दीर्घस्य चेत्याद्याशयमुपवर्ण्य तत्खण्डनाय केचिदित्याद्याहुरित्यन्तग्रन्थोपन्यसनं निमित्तादपरद्धेषोर्धानुष्कस्य वल्गितमनुकरोतीति।।]
विशेषविहितत्वादिति।। इदमग्रिमपरत्वांशे [टि- अग्रिमपरत्वांशे इति।। इदं व्याख्यानं परममूलस्थस्य हल्ङ्यादिलोपात्परत्वादुपधादीर्घ इति ग्रन्थस्थस्य परत्वादित्यस्य मूलस्थं परत्वादितीति प्रतीकमिति भ्रान्त्या। अस्मदुक्तदिशा परत्वादप्तृन्नित्येव न्याय्य इति परममूलस्थस्य प्रतिकमिति स्वीकारे उभयांशेऽपि सम्भवति। अत्र नान्तत्वापेक्षया तृजन्तत्वस्य, उत्तरत्र हल्ङ्यादिशास्त्रीयोद्देश्यतावच्छेदकसुप्त्वापेक्षया एङ्ह्रस्वादिति शास्त्रीयोद्देश्यतावच्छेदकसम्बुद्धित्वस्य च विशेषधर्मत्वादित्यादि सुधीभिराकलनीयमित्याहुः।।] द्रष्टव्यम्। तत्र नान्तत्वापेक्षया तृजन्तत्वस्य विशेषधर्मत्वात्। पूर्वत्र तु तृजन्तत्वसुप्रत्ययत्वयोर्द्वयोरपि विशेषधर्मतया नोक्तयुक्तेरवकाशः।। तेनैवेति।। [टि- तेनैवेतीति।। ``यद्यपि `न तिसृ' इति ज्ञापकेन तदग्वादत्वाभावकल्पनया विप्रतिषेध उपपद्यते, तथापि ज्ञापकानुसरणस्यावश्यकत्वे तेनैव तं संसाध्य दुषयित्वेत्यर्थः इत्येवं क्वचिच्छव्दरन्तपाठः, तद्रीत्यायं ग्रन्थः। इदानीन्तनपुस्तकेष्वन्यथा दृश्यते।] अपवादत्वाभावज्ञापनेऽपि पूर्वविप्रतिषेधकल्पनामन्तरेण न निर्वाहः। नुटागमज्ञापने तु न किञ्चिदन्यत्कल्पयमिति लाघवमिति तात्पर्यम्। इत्युदन्ताः।।
सामर्थ्येनैवेति।। नन्वनुस्वारस्यैवापूर्वत्वेन निपातने तस्य त्रैपादिकत्वाभावादसिद्धत्वाभाव इति तद्गतेनाक्षरसमाम्नायिकपाठप्रयुक्तेनाच्त्वेन प्राप्तस्य यणादेशस्याभावोऽपि निपातनीयः। सुब्निपातनपूर्वकमनुस्वारनिपातने तु तस्य परसवर्णनिमित्तकत्वेनानुवादो नश्चापदान्तस्य झलीत्यनेन प्राप्तस्यैवेत्यसिद्धत्वस्य सुवचतया तद्गताच्त्वनिमित्तकत्वेनासिद्धकाण्डीयकार्यप्रवृत्त्ययोगान्नास्ति यणादेशाभावनिपातनापेक्षा। ततश्च निपातनद्वयस्योभयसाधारणतया लाघवगौरवविचारस्य दुर्वचत्वेन कथं सामर्थ्यमिति चेत्सत्यम्। इको यणचीत्यत्र निमित्तिसाहचर्यान्निमित्तमप्ययोगवाहव्यतिरिक्तमेव ग्रहीष्यति। न हि तस्याच्परत्वसम्भवः। येन यन्निमित्तित्वं स्यात्। एवञ्च यणादेशाप्रसक्तेस्तदभावनिपातनानपेक्षणात्केवलानुस्वारनिपातने लाघवमिति विभाव्यताम्।। यणा भाव्यमिति।। इको यणचीति शास्त्रविहितोऽयं यण्। ओस्सुपीत्यस्यापि धातुत्वनिबन्धनत्वादिति भावः।। माधवस्छिन्त्य इति।। अयं माधवो दृभीग्रन्थ इत्यत्र ऊप्रत्ययो नुमागमश्च निपात्यत इति ये व्याचक्षते तन्मतमुपक्रम्य प्रवृत्त इति चिन्त्यताम्। स्वमते तु दृढशब्दस्य दृन्नादेशो भुवः कूप्रत्यय इति प्रतिपादनान्नास्ति चिन्त्यतेत्याहुः।
अत्रायं निष्कर्षः। उज्ज्वलदत्तमते पवर्गद्वितीयोपधो वृत्त्यन्तरे तद्वर्गीयचतुर्योपधो दशपादीमते स एवानुस्वारमध्यो माधवमते नकारमध्यः। तत्र दृम्फधानुप्रकृतिके तस्मिन्नुज्ज्वलदत्तमते भूशब्दाभावादितरमतयोर्दृभधातुप्रतिके तस्यानर्थक्याच्च दृन्करेत्यस्याप्राप्तिः। माधवमते तु भूधातोः कूप्रत्यये निष्पन्नोऽयमिति पूर्वान्तवत्त्वेन भूधातुतया वार्तिकविषयः। श्रीपतिस्तु भूधातोः क्विप्प्रत्ययोऽसौ न तु कूप्रत्ययः। निपातनमुणादौ दृनोऽव्ययस्य नलोपाभावार्थमिति मन्यमानो विनैव पूर्वान्तवत्त्वं वार्तिकविषयतामिच्छतीति वदन्ति।। इत्यूदन्ताः।
तपरकरणेनेति।। तस्य वर्णधर्मत्वात्संघाते कृतमेकदेशस्याविवङार्थं सम्पद्यत इति तत्त्वम्।।
भिन्नलिङ्गानामिति।। `अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि'ति कोशाद्विभवशब्दस्याबन्तत्वेन घञ्जपाः पुंसीत्यनुशासनाच्च पूर्वोत्तरपदयोः पुस्त्वं निर्बाधमिति भावः।। अरुचिबीजमिति।। विग्रहप्रदर्शनपरं भाष्यमचः परस्मिन्निति सूत्रस्थभाष्यकारीयप्रयोगश्च तद्बीजमित्याशयः।। इत्यजन्ताः पुंलिङ्गाः।

अथाजन्ताः स्त्रीलिङ्गाः।

ध्वनितं चेःमिति।। लिङ्गबोधकप्रत्ययविशिष्टे प्रातिपदिकधर्माणामतिदेशबोधनं कुण्डोध्नीशब्दस्य बहुव्रीहित्वप्रतिपादनेन भाष्ये ध्वनितमित्यर्थः। ननु परस्परविषयपरिहारेण चरितार्थयोः पूर्वपरयोरेकत्र यौगपद्यासम्भवे परत्वं व्यवस्थापकम्।। इह तु न तथा। एत्वस्य हल्ङ्यादिलोपाप्राप्तिविषये चारितार्थ्याभावात्ततश्च कथं प्रकृते परत्वं व्यवस्थापकं स्यादत आह।। असम्बुद्धावित्पदि।। अभिमान इति।। उत्सर्गशास्त्रीयप्रवृत्त्युत्तरं चारितार्थ्येऽपि तत्प्रवृत्तिकालिकं निरवकाशत्वं केन वार्यताम्। अन्यथा तक्रकौण्डिन्यन्याय एव विलीनस्स्यादिति भावः। तदाह।। न्यायविरोध इति।। कथमन्यथा द्वितीयद्विर्वचनेन प्रथमद्विर्वचनस्य बाधनं स्यात्। उत्सर्गप्राप्त्युत्तरकालिकचारितार्थ्यविशिष्टं तत्प्राप्तिकालिकं निरवकाशत्वमेव तद्बीजमित्याशयः।। अपवादत्वादिति।। प्रतिपदोक्तत्वमत्रापवादत्वे हेतुः। न तु शीघ्रोपस्थितिकत्वप्रयुक्तेऽन्तरङ्गत्वे, तस्यापि सर्वथाचारितार्थ्यविषयत्वादिति तत्त्वम्।। यौगपद्यसम्भवेऽपीति।। युगपदुभाभ्यामप्येकस्यैव लोपस्य साधुत्वबोधने बाधकाभाव इत्याशयः।।
समुदायावयवयोरिति।। इदं प्राचीनानामुक्तिसम्भवप्रदर्शनम्। नतु वास्तवार्थ इति स्पष्टमेव।। क्तक्तवतू निष्ठेति।। तत्र हि सूत्रे भाष्यकारेणोक्तम्। प्रयोगे सर्वत्रैवानुबन्धलोपात्तशब्द एवावतिष्ठत इति लूनो गीर्ण इत्येव निष्ठा न तु लोतो गर्त इत्यत्र विनिगमकाभावादतिप्रसङ्ग इति वार्तिककृदारब्धस्य समानशब्दानां प्रतिषेध इत्यस्य प्रत्याख्याने यद्यपि लुप्यते जानाति त्वसौ सानुबन्धकस्येयं संज्ञा कृतेति। तद्यथा इतरत्रापि कतरद्देवदत्तस्य गृहमदो यत्रासौ काक इति उत्पतिते काके यद्यपि गृहं नष्टमन्ततस्तमुद्देशं जानातीति। तेन सानुबन्धकनिर्देशेषूपदेशमाश्रित्य स्वरूपपरिज्ञानमिति स्पष्टमेवोक्तम्।। तस्यैवेति।। इदं च प्रत्यासत्तिलब्धम्।। तात्पर्यभावादिति।। समुदायोपदेश एवर्षितात्पर्यमवयवानां तु नान्तरीयक उपदेश इति हलन्त्यमित्यत्र भाष्ये।। आटश्चेत्यसङ्गतमिति।। स एव निर्देशः प्रकृतार्थे प्रमाणम्। अवयवस्य समुदायानुबन्धप्रयुक्तकार्याभावादेव ऋतेरीयङि यङ्‌निमित्तककार्याभाव इत्याहुः।।
अन्तरङ्गत्वादिति।। याट्‌परत्वानुवादेनासुङ्विधानात्ततः पूर्वं याडित्यपि बोध्यम्।। इत्याद्येवेति।। अदस्यै इत्यादेरपि पक्षे वक्ष्यमाणरीत्या प्रसक्तेरिति भावः।। पूर्वं मुत्वे इति।। इदमभ्युपगम्यवादेन। विभक्तिकार्यापेक्षया त्रैपादिकस्य तस्य पूर्वं प्रवृत्त्ययोगात्। यद्वा न मु न इत्यत्र योगं विभज्य तस्येष्टसिद्ध्यर्थत्वात्क्वचिदसिद्धत्वाभाव इत्यभ्युपगम्य पूर्वं मुत्वप्रवृत्तावप्यसुङादेशेनोकारपरिहारे तत्सन्नियुक्तत्वेन मकारनिवृत्तौ लक्ष्ये लक्षणस्येति न्यायेन पुनर्मुत्वाप्रवृत्त्या रूपासिद्धिरित्यर्थः। व्याख्यानभेदेनेति।। सकारान्तभिन्नस्य सकारस्थानिकाकारवतो वेत्येवमात्मकेनासान्तशब्दव्याख्याभेदेनेत्यर्थः। यद्यप्यदसस्त्यदाद्यकारष्टाबेकादेशेनापहृतस्सोऽप्यसुङादेशेनेति स्थानिवद्भावेनैव तथाभूताकारवत्त्वमदसो वक्तव्यमल्विधौ च स्थानिवद्भावो निषिद्ध इति प्रकृते द्वितीयव्याख्याया अप्रसङ्गस्तथापि यस्यादसस्सकारस्याकारस्तस्येत्यर्थेन स्थानिवद्भावानपेक्षणादस्त्येव द्वितीयव्याख्याया अपि प्रवृत्तिरित्याशयः। ननु यस्यादसस्सकारस्याकार इत्यर्थे मुत्वप्रवृत्तावप्यसुङस्सकारस्यादेशरूपत्वस्य प्रत्ययावयवत्वस्य वा दुर्वचत्वेन षत्वाप्राप्त्या कथं रूपसिद्धिरत आह।। आप्स्थानिकत्वेनेति।। एकादेशस्य परादिवद्भावेनाप्त्वमत्र स्थानिन इति बोध्यम्।। ज्ञापकमिति।। एतत्फलमदमुयङित्यादिसिद्धिः। वस्तुतोऽत्र मुत्वस्य कथञ्चिद्व्याख्याभेदेन प्रवृत्तावपि रूपासिद्धिरसुङितिन्यासे दुर्वारेत्याह।। परे त्विति।। संज्ञाकृतेति।। शब्दशास्त्रे प्राधान्यात्सप्तम्याद्यन्ततया परिगृहीतं शब्दरूपमेव निमित्तमङ्गशब्देन परिभाषायामुपादेयम्। न त्वर्थस्संज्ञा वा। प्रकृते चाबन्तस्य सर्वनाम्नो ङिति सुप्यसुङित्यर्थे सर्वनाम संज्ञाकृतमेव बहिरङ्गत्वमसुङादेशस्य प्रतिपादनीयं, तच्च नेष्यत इत्याशयः।। नित्यत्वादिति।। प्रकृतेरसुङ्‌प्रत्ययस्य याडिति यौगपद्यसम्भवात्परत्वं न व्यवस्थापकमित्यभिमानः।। [टि- अभिमान इति।। परान्नित्यस्य प्रबलत्वेनातुल्यबलतया तत्र विप्रतिषेधशास्त्रं न व्यवस्थापकम्। अत एव यत्र भाष्ये परत्वान्नित्यत्वादित्युच्यते, तत्र परत्वादित्यस्य विप्रतिषेधसूत्रकैयटसम्मतैकदेश्युक्तित्वं परिभाषेन्दुशेखरोक्त सङ्गच्छते। एतदाशयेनैवात्न नित्यत्वादित्युक्तम्। अतोऽस्य ग्रन्थस्यान्यथाशयमुपवर्ण्याभिमानिकत्वकथनमयुक्तमेवेति बोध्यम्।] असिद्ध्यापत्तेरिति।। चानुकृष्टं नोत्तरत्रेति परिभाषा तु कुलिजाल्लुक्खौ चेति सूत्रस्थभाष्यविरुद्धत्वान्नात्र शासत्रे आश्रयितुं युक्ता। अत एव तृतीया च होरित्यत्र चेनानुवर्तमानाया अपिद्वितीयाया अन्तरान्तरेणेत्यत्र सम्बन्धः। स्वादुमि णमुलिति सूत्रादनुवृत्तिसम्भवादव्यये यथाभिप्रेतेत्यत्र क्त्वा चेत्येव सिद्धे णमुल्ग्रहणमुत्तरत्र सम्बन्धाविच्छित्त्यर्थं सदुक्तार्थे ज्ञापकमित्यपि न। क्त्वामात्रस्य समानकर्तृकयोरित्येव सिद्धेरारम्भसामर्थ्यादेवोत्तरत्र णमुलनुवृत्तेस्तुवचतया स्वांशे चारितार्थ्याभावात्। इत्थं द्वितीयातृतीयाशब्दयोर्विकल्पेन पाक्षिकस्तयोर्द्वयोरप्यभावो दुर्वार इत्याशयः। ननु सिद्धान्ते तीयस्य ङित्सूपसंख्यानमिति वार्तिकेन पुन्नपुंसकयोरावश्यकेन स्त्रियामपि निर्वाहमाश्रित्य भाष्ये प्रत्याख्यातमिदं सूत्रमतो नोक्तदोषावकाशः। यौगपद्यसम्भवेन विरोधाभावादेव परत्वं न व्यवस्थापकमिति मन्यमानस्य परत्वपरिपन्थितया पूर्वप्रवृत्तिनियमकं नित्यत्वं कथं वा व्यवस्थापकं स्यात्। अतः पाठक्रमेण प्रथममेव याटः प्रवृत्तौ नास्त्यनुपपत्तिरत आह।। किञ्चेति।। ननु विषयभेदेन यौगपद्यसम्भवात्कथमागमादेशयोरपवाद्यापवादकभावस्तत्राह।। अचिरान्नुडिति।। इष्यत एवेति।। अत एव मिदचोन्त्यात्सूत्रे भाष्ये सन्यपि सम्भवे बाधनं भवतीत्युक्तम्। एवेन भिन्नफलत्वादागमदेशयोर्नास्ति बाध्यबाधकभाव इति छ्वोरिति सूत्रे कैयटोक्तमयुक्तमित्युक्तप्रायम्। अवङ्सूत्रे इति।। गोरग्वचनं स्वरसिद्ध्यर्थमिति वार्तिकव्याख्यावसरे इति शेषः।। उदात्तत्वापत्तिरिति।। इष्यते तु तत्रोदात्तादनुदात्तस्य स्वरित इत्यस्य प्रवृत्तिः।। व्याख्यानादिति।। इदमेवास्यङादेशपक्षेऽपि शरणम्।। मण्डूकानुवृत्तिरिति।। अयमेवात्र पक्षे दोषः। यद्यप्यसुङादेशपक्षेऽपि याट्‌ग्रहणमनुवर्त्य सप्तम्या विपरिणम्य सर्वनाम्नो याट्यसुङित्यर्थे नास्ति दोषः। तथापि विभक्तिविपरिणामे प्रमाणाभाव इत्येतावता तदुपेक्षेति बोध्यम्।।
ननु सामान्यस्योद्देश्यतया विशेष्यत्वं विशेषस्य विशेषणत्वं च लोकसिद्धम्। यथा घटो नील इति।। प्रकृते च सामान्यभूता, प्रसिद्धा, पूर्वां दिक्। तत्रोत्तरत्वप्रकारकज्ञानविशेष्यत्वरूपो विशेषो विधेय इत्युत्तराशब्दस्य विशेषणतया नास्ति पूर्वनिपातवैपरीत्यमत आह।। अयं भाव इति।। यत्तच्छब्दाभ्यामिति।। यच्छब्दोपात्तस्योद्देश्यत्वं तच्छब्दोपात्तस्य च विषेयत्वमित्यर्थः। तदुक्तमभियुक्तैः। यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणमिति।। योत्तरत्वेति।। यत्तु ``दिग्वाचकस्योत्तराशब्दस्य भाषितपुंस्कत्वाभावान्न सर्वनाम्नो वृत्तिमात्रे पुंवत्त्वमित्यस्य प्रसङ्ग इति तन्न। उत्तरत्वविशिष्टं हि दिक्त्वं दिग्वाचकस्य तस्य प्रवृत्तिनिमित्तम्। तत्र दिङ्‌मात्रवर्तिना दिक्त्वेन भाषितपुंस्कत्वाभावेऽपि दिग्देशसाधारणेनोत्तरत्वेन भाषितपुंस्कत्वस्य निर्विवादत्वात्। कथमन्यथोत्तरस्याश्च पूर्वस्याश्च दिशोन्तरालं दिगुत्तरपूर्वेत्यादौ तत्प्रवृत्तिस्स्यात्। अतोऽत्र युक्तमेव पुंवत्त्वमेवमुत्तरत्रापीत्याहुः।। गुणवाचकत्वेनेति।। न केवलमत्र शास्त्रे विशेष्यं विधेयं, विशेषणमुद्देश्यमिति व्यवस्थापयितुं शक्यमुद्देश्यविधेयभावस्य वैवक्षिकत्वेन पूर्वनिपातनियमानुपपत्तेः। न वा सामान्यविशेषभावेनोद्देश्यविधेयभावस्य व्यवस्था सम्भवति। घटः प्रमेयो देवदत्तो ब्राह्मण इत्यादिव्यवहारदर्शनात्। किन्तु जातितदितरप्रवृत्तिनिमित्तकयोरेकद्रव्यनिष्ठतायां जातिप्रवृत्तिनिमित्तकं विशेष्यमन्यद्विशेषणम्। एवं व्याप्यव्यापकजातिप्रवृत्तिनिमित्तकयोर्व्यापकजातिप्रवृत्तिनिमित्तकं विशेष्यमितरद्विशेषणमिति कृष्णतिलश्शिंशापावृक्ष इत्यादिप्रयोगनियमोपपत्तये विशेषणं विशेष्येण बहुलमिति सूत्रे भाष्ये व्यवस्थापितमत्रानुसन्धेयम्। इत्थं च यस्य लाक्षणिकत्वं तस्य पूर्वनिपात इत्याशयः। एतेन योत्तरा सा पूर्वेति विग्रहेऽपि प्रसिद्धायामुत्तरस्यां दिश्यप्रसिद्धं पूर्वत्वप्रकारकज्ञानविशेष्यत्वं विधेयमिति केषां चिदुक्तिः प्रत्युक्तेत्याशयेनाह।। उत्तरस्यामित्यादि।। ननु वैवक्षिकत्वादुद्देश्यविधेयभावस्य पाक्षिको दोषः कथं परिहर्तव्य इत्यत आह।। न विधाविति।। विधेयबोधके पदे शब्दशक्तिगम्यदन्योऽर्थो न विवक्षणीय इत्यर्थः।। स्पष्टं चेदमिति।। नन्वव्युत्पन्नस्य सहायवाचिनो द्वितीयशब्दस्य स्त्रियां स्याड्विकल्पार्थमावश्यकं सूत्रमिति कथमकर्तव्यता, तत्राह।। साहचर्येणेति।। तृतीयशब्दस्यार्थान्तरवाचिनः प्रसिद्ध्यभावात्तीयप्रत्ययान्तयोरेव तयोरुभयोर्ग्रहणमित्याशयः।। अनभिधानादिति।। सूत्रप्रत्याख्यानपरं भाष्यमत्र शरणम्।। सिद्धमिति।। इत्थं चानभिधाने न मानमित्याशङ्काभिप्रायः।। नित्यत्वाङ्गीकारादिति।। मानपश्वङ्गयोः कन्‌लुकौ चेति सूत्रस्थेन लुग्ग्रहणेनेदं ज्ञाप्यते। तद्धि षष्ठाष्टमाभ्यां ञचेति विहितयोर्ञानोः पक्षे लुगर्थं, महाविभाषासम्बन्धे तु कनश्चकारानुकृष्टयोस्तयोश्च विकल्पे पाक्षिकष्षष्ठोष्टम इत्यान्तोदात्तप्रयोगो निर्वाध इति तद्वैयर्थ्यं स्पष्टमेव। यद्यपि तत्र सूत्रे विभाषाधिकारसम्बन्धाभावज्ञापनेनापि लुग्ग्रहणं कृतार्थं, तथापि प्रमाणानां सामान्ये पक्षपाताद्भागार्थे प्रत्ययविधायके सर्वत्र तदसम्बन्धो ज्ञाप्यत इत्याशयः। तदनभ्युपगमेऽप्याह।। आद्युदात्तस्येति।। अनो नित्त्वादाद्युदात्तत्वमिति बोध्यम्।
सापेक्षत्वेऽपीति।। चतुर्थी तदर्थेत्यनुशासनादर्थशब्देन समस्यामानचतुर्थ्यन्तपुत्रशब्दार्थस्य विशेषणतया समासाघटकार्हच्छब्दार्थसाकाङ्क्षत्वेऽपीत्यर्थः। पुत्रार्थमिति क्रियाविशेषणम्। प्रयुज्यमानस्येत्यध्याहारः। एवञ्चार्हत्पुत्रोपकारकप्रयोगविषयस्य मातृशब्दस्य मातजादेश इत्यक्षरार्थः। तत्र विशिष्टोपकारकत्वस्य विशेषणोपकारकत्वाधीनतया पुत्रसम्बन्धिश्लाघ्यत्वोपकारकत्वं प्रयोगे पर्यवस्यति। शिखी ध्वस्य इत्यत्र ध्वंसे शिखाप्रतियोगिकत्वमिवेत्याशयः। तदाह।। अर्हत्त्वं चेति।। मातृद्वारकमेवेति।। प्रकारणादिना श्लाघ्यत्वेन प्रतीतस्य स्वरूपकीर्तनमात्रप्रयोजनकतया मातृशब्दप्रयोगे नायमादेश इति सूचयितुमेवकारः। इदञ्चार्थशब्दोपादानाल्लभ्यते। तद्वारकत्वाभावतात्पर्यकत्वे हि पुत्रेऽर्हतीत्येव ब्रूयादिति तात्पर्यम्।। नन्वाकारोऽयमिति।। न ह्यत्राकारत्वमतिदेशतो लभ्यमल्विधित्वात्। किन्त्वाप्त्वमेव, येनोक्तयुक्तेरवकाशस्स्यादिति भावः।। अभिमान इति।। वर्णग्रहणे प्रकृतपरिभाषाया अप्रवृत्तौ प्रमाणाभावः। प्रगृह्यसंज्ञाप्रकरणभाष्यविरोधश्चेति। क्रापयतीत्यादौ पुगागमसम्पत्तये तदप्रवृत्तेरावश्यकत्वे भुवश्च महाव्याहृतेरिति सूत्रे महाव्याहृतिग्रहणेन सामान्यतस्तदनित्यत्वस्यैव ज्ञापनीयत्वादौत्सर्गिकप्रवृत्त्या प्रकृते न दोष इत्युक्तावयुक्तमेव प्राचीनोक्तमित्याशयः।
ननु यू स्त्य्राख्यावित्यत्र ह्रस्वयोरगहणे हि प्रकृते नदीत्वस्याप्राप्तिस्तत्रैव किं प्रमाणमत आह।। अत एवेति।। नेति निवृत्तमिति।। ह्रस्वयोरपि नदीत्वप्राप्तौ नञो निवृत्तिप्रतिपादनमयुक्तमिति भावः।। लाघवानुरोधेनेति।। यद्यपि निषेधस्य विधेर्वा विकल्पे नास्ति कश्चित्फलविशेषः। तथापि निषेधस्य विध्यालिङ्गितस्यैव प्रतीतेस्तद्विकल्पे वाक्यर्थगौरवम्। विधिविकल्पे तु निषेधस्याप्रविष्टत्वाल्लाघवमिति भावः।। स्वारस्येनेति।। भाष्ये विषयशब्दवाच्यस्यावधारणस्यैवकारो द्योतकस्तस्य च नित्यशब्दोऽनुवादकः। अवधारणं चात्रायोगव्यवच्छेदलक्षणो नियमः। स च प्रकृते स्त्रीत्वबोधकत्वाभावस्य व्यवच्छेदः। तादृशाभावस्य लिङ्गान्तरबोधकत्वसमनियतत्वात्तद्व्यवच्छेदे लिङ्गान्तरविशिष्टार्थबोधकत्वस्यैव व्यवच्छेदः पर्यवस्यतीत्याशयः। तेदेतदाह।। लिङ्गान्तरेत्यादि।। भिन्नक्रम इति।। पाठकमाद्भिन्नोऽन्वयकमो यस्य तथाभूत इत्यर्थः। स्त्रीविषयावित्यस्य स्त्रीत्वविशिष्टार्थबोधकावित्येवार्थ इत्यपि बोध्यम्। नित्यमिति।। स्त्रीत्वविशिष्टार्थबोधकसमानाधिकरणपदसमभिव्याहाराभावकालिकस्त्रीत्वविशिष्टार्थबोधकत्वाभावव्यवच्छेदार्थं सर्वदेत्यर्थकमव्ययं, तदर्थानुवादक एवकार इत्याशयः। तदेतदभिप्रेत्याह।। पदान्तरं विनापीत्यर्थ इति।। असति बाधके क्रमिकान्वयस्य त्यागायोगादत्र कैयटोक्तमेव युक्तम्। न च कैयटोक्तव्याख्यायां विषयशब्दैवकारयोर्नित्यमित्यस्य च तुल्यार्थत्वादन्यतमेनैव निर्वाहे तदितरवैयर्थ्यमिति वाच्यम्। समासाच्च तद्विषयादित्यादौ विषयशब्दस्य बोधकमात्रपरत्वेनापि दर्शनादवधारणार्थबोधकतासम्पत्तये निपातस्यैवकारस्य तद्‌द्योत्यार्थान्तरव्यवच्छेदाय तद्विवरणात्मना नित्यमित्यस्य च सार्थक्यात्। स्वोक्तीनामपि विवरणस्य भाष्यशैलीसिद्धत्वान्न किञ्चिदपूर्वम्। पक्षान्तरेऽपि कथमन्यथा नित्यमित्यस्यैवकारस्य च सार्थक्यमुपपादनीयमित्याहुः।। व्यावर्त्त्याभाव इति।। यद्यपि हरदत्तमते प्रभुपतिशब्दप्रवृत्तिनिमित्तयोः प्रभुत्वपालकत्वयोर्ग्रामनयनादिवदुत्सर्गतः पुन्धर्मतया पदान्तरं विना स्त्रियां वर्तमानत्वायोगेन तयोश्शब्दयोर्व्यावर्त्यत्वसम्भवस्तथापि व्याख्यानादेव पक्षद्वयेऽपि नित्यस्त्रीलिङ्गावित्यर्थकस्य स्त्य्राख्यावित्यस्य ह्रस्वघटितवाक्ये सम्बन्धाभाव इति बोध्यम्। नित्यस्त्रीत्वार्थकमपहायेति।। स्त्य्राख्याविति ह्रस्वघटितवाक्ये सम्बध्यमानं शब्दाधिकारात्स्त्रीवाचकावित्यर्थकं सम्पद्यते, स्त्रीशप्दमात्रस्याख्यापदव्यतिरेकेण सम्बन्ध इति तु न युक्तमेकदेशे स्वरितत्वप्रतिज्ञायामत्रैकदेशस्य सम्बन्धः। पूर्वत्र विशिष्टस्येति व्याख्यानेनैव निर्णेयतया लाघवाच्छब्दाधिकारस्यैव कल्पयितुं युक्तत्वादित्याशयः।।
केनापीति।। रभावविषये सर्वत्रैकस्य कस्याप्यप्राप्तेरिति भावः।। व्यावस्थापकाकाङ्क्षयेति।। व्यवस्थासन्देहो ह्याकाङ्क्षामूलम्। स च सन्देहः प्रकृतेऽप्यस्त्येवेति कुतस्तदाकाङ्क्षया व्यवस्थापकन्यायानां प्रवृत्तिर्न स्यादिति भावः। वार्तिकमिति।। मध्येपवादन्यायेन दीर्घोत्वयोरपवादो रादेशो न तु गुणस्येति वार्तिककृदाशयः। यद्वा रादेशोऽयमनन्तरस्येति न्यायादुत्वस्यापवादो दीर्घस्य परत्वाद्बाधकस्ततोऽपि परत्वाद्गुणो बाधकस्स्यादिति तदाशयः।। ध्वनितत्वेनेति।। तत्र हि भाष्ये नुमचिरेति वार्तिकमुपक्रम्य रादेशांशे सामान्यचिन्तया बाध्येन नुटा विप्रतिषेधायोग इति वार्तिकमनादृत्य न तिस्रिति ज्ञापकेन नुडागमे रादेशप्रतिषेध इत्युक्तम्। तेन प्रकृतवार्तिकस्यापि तुल्यरीत्या प्रत्याख्यानमनुक्तमपि प्रतीयत इत्याशयः। ननु भाष्ये बाध्यसामान्यचिन्ताश्रयणपूर्वकत्वेनापूर्वरादेशप्रतिषेधवचनकल्पनया पूर्वविप्रतिषेधप्रत्याख्यानमपेक्ष्य विशेषचिन्ताबोधनद्वारेण पूर्वविप्रतिषेधस्यान्यथासिद्धस्य ज्ञापनमेव युक्तमत आह।। सामान्यचिन्ताश्रयण एवेति।। न तिस्रित्यनेन विशेषचिन्ताज्ञापनपूर्वकं पूर्वविप्रतिषेधवचनद्वयकल्पनापेक्षया सामान्यचिन्ताज्ञापनपूर्वकं रादेशप्रतिषेधस्यैकस्य कल्पने लाघवमित्याशयः। तदाह।। औचित्यादिति।। यद्वा तस्येत्यस्य जसि रादेशो वक्तव्य िति वार्तिकस्येत्यर्थः। विशेषचिन्ताश्रयणे परत्वाद्गुणेन बाध्येत, ततस्सामान्यचिन्तामाश्रित्य रादेशो वक्तव्य इत्येवार्थो न त्वन्यथा गौरवपराहतत्वादित्याशयः।।
तात्पर्यग्राहकस्येति।। त्रिशब्दस्य विशेष्यनिघ्नतया स्त्रीत्वविशिष्टविशेष्यवाचकपदसमभिव्याहारं प्रकरणं वा विना स्वातन्त्र्येण स्त्रीत्वबोधकतायाः क्वाप्यदर्शनादिति भावः।। अन्तरङ्गाभावादिति।। इत्थं चान्तरङ्गे चरितार्थस्य बहिरङ्गे तस्मिन्नप्रवृत्तिरित्याशङ्काया अनवकाश एवेत्याश्यः। अर्थनिमित्तकत्वेनान्येषां बहिरङ्गत्वमनिच्छतामर्थस्यान्तरङ्गबहिरङ्गविचारो न विरुद्ध इति बोध्यम्।। जहत्स्वार्थावृत्तेरभाव इति।। ``जहत्स्वार्था तु तत्रैव रूढिर्यत्र विरोधिनी त्यभियुक्तैरावेदितत्वादिति भावः। यदि च तुशब्दैवकारयोस्सम्बन्धव्युत्क्रमेण यत्र तु रूढित्विरोधिनी तत्र जहत्स्वार्थैवान्यत्र तूभयमित्यभियुक्तवचनार्थ इत्युच्यते तावतापि नेष्टसिद्धिरित्याशयेनाह।। किञ्चेति।। जहति स्वान्यवयवपदानि यं स जहत्स्वस्तथाभूतोऽर्थो यस्यास्सा जहत्स्वार्था, तदन्या त्वजहत्स्वार्थेति तद्‌व्युत्पत्तिर्द्रष्टव्या। अन्त इत्यस्याजहत्स्वार्थापक्षे इत्यर्थः।। न चेत्यादि।। यतस्तुल्यमतस्तादृशाशय इति न वाच्यमित्यान्वयः। समुदायशक्यत्वादिति तौल्यहेतुः।। तुल्यमिति।। पक्षद्वयेऽप्येकार्थीभावपर्याप्तेर्विशिष्ट एवाभ्युपगमादित्याशयः। ततश्च समासघटकस्य त्रिशब्दस्य प्रियत्रिरित्यादौ पुन्नपुंसकान्यतरमात्रविषयक प्रतीतिजनकतापर्याप्त्यधिकरणत्वं प्राचीनोक्तं युक्तमेव। परं तु जहत्स्वार्थायामारोपितमजहत्स्वार्थायामनारोपितं तदित्यन्यत्। एवमेव वृत्तिघटकयोस्त्रिचतुर्शब्दयोःस्त्रियां वर्तमानात्वम्। तच्च स्त्रीत्वविशिष्टार्थविषयकप्रतीतिजनकतापर्याप्त्यधिकरणत्वमेवेति पक्षद्वयेऽपि प्रियतिसा ब्राह्मण इत्यादयो निर्बाधकाः प्रयोगाः। स्त्रीनिष्ठसंख्यासमर्पकयोरित्यर्थे जहत्स्वार्थायामारोपेण निर्वाहेऽपि त्रिशब्दस्य तन्निष्ठसंख्यायां लक्षणाश्रयणादन्यो न कश्चिद्विशेष इत्याहुः।।
पूर्वपदप्रकृतिस्वर इति।। इगन्तकालकपालभागालशरावेषु द्विगाविति विहित इत्यर्थः।। अन्तरङ्गत्वादिति।। विशिष्टसमुदायात्मकाङ्गनिमित्तको बहिर्भूतविभक्तिनिमित्तकश्च नुमागमो बहिरङ्ग इत्याशयः। नन्वतिराभ्यामित्यत्र कृते नुमि निर्दिश्यमानस्य व्यवधानादात्वानापत्तिरत आह।। अतिराभ्यामिति।। वृद्धिशब्देनेति।। प्रत्यासत्त्या तथाभूताया एव वृद्धेर्वार्तिके ग्रहणमयं तु न तथेति भावः।। न स्वरे विशेष इति।। बहूनां कुलानामित्यत्र पूर्वविप्रतिषेधेन नुटि सकृद्गतिन्यायेन नुमोऽप्राप्तेः। षट्त्रिचतुर्भ्यो हलादिरित्यस्याप्यप्राप्तिरिति बोध्यम्। न च शयवासेत्यलुकि वारिषुशयेत्यत्र नलोपस्य संज्ञायामसिद्धत्वेन गुरुसंज्ञायां रेफोत्तरवर्तिन इकारस्य गुरोरनृत इति प्लृतस्स्यान्नुमभावे तु नेति विशेष इति वाच्यम्। ज्ञापनपरभाष्यप्रामाण्येनैतादृशानामनभिधानादिति वदन्ति।। ननु प्रियतिसृ इत्यत्रानित्यत्वेन न लुमतेत्यस्याप्रवृत्तौ तिस्रादेशवदनङादेशोऽपि किं न स्यादत आह।। तथैव भाष्ये इति।। इदमनित्यत्वं भाष्यप्रामाण्यात्कार्यविशेषपुरस्कारेण प्रवृत्त्यप्रवृत्तिरूपमपीत्याशयः।। चो हेताविति।। न तु समुच्चये, तथासति न यासयोरित्यस्य सत्येव परिभाषविरोधे टाप्रत्ययस्यापूर्वत्वेन ज्ञापकत्वकल्पनायां क्लेश इत्याशयः।
क्वचिद्दृष्टाविति।। इदं च निषेधारम्भसामर्थ्याल्लभ्यते। अन्यथा हि वेयङुवङ्स्थानावस्त्रियावित्येव वदेत्। नञं च न ब्रूयादिति बोध्यम्।। अप्रयोजकमिति।। स्त्रीत्वाविवक्षायां विरहदुःखायोगात्। परं तु नदीसंज्ञानिषेधपरिज्ञाननाशकस्सीताविरहजश्शोको रामभद्रस्यासीदिति सूचयितुमेतदृशो भट्टेः प्रयोग इति युक्तमत्रोत्तरमित्याशयः।
के चित्तु साधुशब्दस्वरूपनिरूपणोद्देशेनैव भट्टेः काव्यनिर्माणोद्योगादनुकरणरूपेणाप्यसाधुशब्दप्रयोगस्तस्यानुचितस्तस्मादयं लेखकस्य प्रमादस्सुभ्रूरित्येव तु पाठः। यद्वा भ्रूशब्दोऽयमूङ्‌ च गमदीनामितिवार्तिकेन क्विबन्ततया भ्रमेश्च डूरित्यौणादिकसूत्रेण डूप्रत्ययान्ततया च शास्त्रे द्विधा निष्पन्नः। डूप्रत्ययान्तस्य धातुत्वाभावेऽपि विशिष्य ग्रहणादुभयविधस्याप्युवङादेशो निर्बाधः। नदीत्वनिषेधे च साहचर्याद्धात्ववयवस्यैवोकारस्य ग्रहणं, न ह्यधात्ववयव इयङादेशस्थानभूत ईकारस्सम्भवति। स्त्रीशब्दस्य पर्युदस्तत्वात्तस्मान्नदीत्वनिषेधस्य भ्रूशब्दे पाक्षिकत्वं पर्यवस्यतीति युक्त एव ह्रस्वान्तप्रयोगो भट्टेरेवमन्यत्रापीत्याहुः।।
।। इत्याजन्ताः स्त्रीलिङ्गाः ।।

अथाजन्ता नपुंसकलिङ्गाः।

एकवाक्यतयेति।। तल्पक्षे झलन्तस्य संयोगान्तस्य लोप इत्येक एव वाक्यार्थ इत्यझलि मकारे लोपाप्राप्तेर्ज्ञानमित्यादौ द्वित्वमन्तरापि प्रसक्तं मकारद्वयश्रवणं वारयितुममादेश इत्याशयः।। वाक्यभेदेनेति।। अमो मशिति सूत्रस्थं भाष्यं चेह प्रमाणं,तत्र हि मकारद्वयात्मकमादेशमाश्रित्य मशशिशत्त्वं प्रत्याख्यातम्। यदि तदुदाहरणे मद्वयादेशोत्तरं संयोगान्तलोपाप्रवृत्त्या तच्छ्रवणं स्यात्तदा प्रत्याख्यानस्यारम्भसमानफलकता न सिद्ध्येदिति तदसङ्गतिस्स्पष्टैवेत्याशयः। यद्यपि मद्वयादेशे वधीमित्यादौ संयोगान्तलोपस्यासिद्धत्वादपृक्तत्वलक्षण ईडागमो न प्राप्नोतीत्याशङ्क्य यकारमकारसङ्घातोऽयमादेशो लोपो व्योर्वलीति यकारलोप इति सिद्धान्तितम्। तथापि संयोगान्तलोपानुपपत्तेरनुद्भावनात्पूर्वपक्षस्य प्रकृतार्थे प्रामाण्यं निर्बाधमिति बोध्यम्।। अन्तरङ्गत्वादिति।। यद्यपि बहिरङ्गपरिभाषायामङ्गशब्देन सप्तम्याद्यन्तत्वेनोपादीयमानं शब्दस्वरूपमेव निमित्तं गृह्यते शब्दशास्त्रे तस्य प्राधान्यादिति बह्वपेक्षत्वलक्षणबहिरङ्गत्वस्य बहुशस्स्वयं निराकृतत्वाद्विभक्तित्वज्ञानसापेक्षतामात्रेण जरसादेशस्य विभक्त्यादेशेभ्यो बहिरङ्गत्वमयुक्तम्। जराया इति सूत्रस्थं अजरांसीत्यत्र नुम्जरसोर्विप्रतिषेधविचारऽपि भाष्यकारस्य न प्रकृतोपयोगी, किन्तु शिभावस्य नित्यत्वेन प्रथमप्रवृत्तेर्विघटकः। यतश्शिभावोत्तरं नुमागमं परत्वाज्जरसादेशो बाधते ततश्शिबावजरसोरुभयोरपि नित्यत्वेन परत्वस्यैव व्यवस्थापकतया प्रथमतो जरसादेश इत्यार्थकत्वेन तद्भाष्यस्य सुवचत्वात्। तथापि तत्सूत्र एव नपुंसकप्रथमैकवचने सोरमादेशे सन्निपातपरिभाषया जरसादेशाभाव इति व्यवस्थायां द्वितीयैकवचनेऽप्यमादेशोत्तरं तया परिभाषया तादृशादेशो न स्यादित्येकदेशिन आक्षेपस्य भाष्ये इष्टमेवैतत्संगृहीतमतिजरमित्येव भवितव्यमिति निराकरणादिह विभक्त्यादेशानां पूर्वविप्रतिषेधेन प्रथमप्रवृत्तिरावश्यकीति तत्वम्। [टि- तत्त्वमिति।। वस्तुतो नुम्‌जरसोर्विप्रतिषेधविचारपरं भाष्यमपि विभक्त्यादेशानां पूर्वं प्रवृत्तिरित्यत्र प्रमाणं भवितुमर्हति। न च शिभावस्य नित्यत्वेन प्रसक्तां प्रथमप्रवृत्तिं विघटयितुं जरसादेशस्यापि नित्यत्वमुपपादयितुं तद्भाष्यं प्रवृत्तमिति वाच्यम्। उक्तविचारमन्तरापि जरसादेशस्य क्वचित्कृताकृतप्रसङ्गित्वमात्रेणापि नित्यतेत्यनेन नित्यत्वस्य सिद्धतया विप्रतिषेधेन नुम्‌बाधकत्वोपपादनपूर्वकनित्यत्वोपपादनस्यानावस्यकत्वात्। ``नुमोऽनङ्‌जरसौ विप्रतिषेधेन इति वार्तिकस्यानङ्‌विषये तत्प्रवृत्तिफलकत्वस्यैव वक्तव्यतया जरसादेशविषयेऽन्यादृशफलकत्वस्यार्धजरतीयत्वेनानौचित्याच्च। एवञ्च मूलोक्तभाष्यस्य प्रामाण्यासम्भवाभ्युपगमो नातीवादरणीय इति बोध्यमिति दिक्।] तदाह।। जरसभाव इति।। मकारादेशे तु परिभाषाप्रवृत्तिमन्तरैव निमित्ताभावादादेशाप्रवृत्तिरित्यपरमनुकूलमिति भावः।
ननु मकारादेशे हे ज्ञानेत्यादावदन्ताङ्गसम्बुद्धिसन्निपातेन जातस्य तस्य तथाविधसन्निपातविघातकत्वायोगादेङ्‌ह्रस्वादिति सम्बुद्धिलोपानापत्तिरमादेशे तु मकारलोपेऽप्यकारस्यावशेषान्न तद्विघात इति चेत्तर्हि गुणात्सम्बुद्धेरित्येव सिद्धे लोपविधौ ह्रस्वग्रहणेन सम्बुद्धिलोपे सन्निपातपरिभाषाया अप्रवृत्तिबोधनेन हे नदि हे गौरीत्यादाविव सम्बुद्धिलोपो निर्बोधः। परन्तुः भाष्याननुगृहीतत्वादयुक्तोऽयं पक्ष इत्याहुः।।
व्यावर्त्त्याप्रसिद्धेरिति।। यद्यपि ह्रस्वदीर्घयोरु इति समाहारद्वन्द्व इत्यदसोसेरिति सूत्रस्थप्राचीनपक्षपरिहाराय शेखरोक्तरीत्या परनिमित्तकत्वाभावप्रयुक्तेनान्तरङ्गत्वेन पर्जन्यवल्लक्षणप्रवृत्त्या वासुदेववाचकाकारस्याऽङा सहाव्ययीभावे ह्रस्वे कृते सवर्णदीर्घप्रवृत्त्या व्यावर्त्यसम्भवः। न चाव्ययीभावत्वप्रयुक्तेनाव्ययत्वेनाव्ययादाप्सुप इति लुकि न तत्र स्वामोस्सम्भव इति वाच्यम्। परत्वान्नपुंसकत्वप्रयुक्तस्य स्वमोर्लुगित्यस्यैव प्रसक्त्या तदपवादत्वेनामादेशस्य दुर्वारत्वात्। न चामादेशोत्तरमव्ययादाप्सुप इत्यस्य प्रवृत्त्या फलाभाव इति वाच्यम्। तपरकरणेन सकृद्गतिन्यायाब्यनुज्ञाबोधनेन तदप्रवृत्तेः। तथापि सामासिकलुकः पूर्वमेव प्रसक्त्या सवर्णदीर्घस्यापि प्रकृते पूर्वोपस्थितनिमित्तकत्वप्रयुक्तेनान्तरङ्गत्वेन तुल्यतया परत्वस्यैव व्यवस्थापकत्वेन सवर्णदीर्घोत्तरमेव ह्रस्वप्रवृत्तेस्तदप्रसिद्धिरित्याशयः। अत एव निपात एकाजनाङिति सूत्रे शेखरे तत्रत्यानाङ्ग्रहणस्य पर्युदासपक्षगतदोषपरिहारार्थमा आत् अमित्युदाहरणमुपन्यस्तमिति दिक्।।
विभक्तित्वाश्रयणेनेति।। विभक्तिस्थानिकस्य विभक्तितया शीरूपविभक्तावित्यर्थे विशेष्यगतस्त्रीत्वानुरोधेन तथा निर्देश इति भावः।।
येनानुबन्धेनेति।। धर्मिग्राहकसाजात्यलब्धमेतत्। इयं च परिभाषा ययतोश्चातदर्थ इत्यत्र ग्रहणाभावार्थेन वामदेवाड्यड्याविति सूत्रस्थेन यप्रत्ययस्य डित्त्वेन ज्ञाप्यते।।
प्रामाण्यज्ञापनमिति।। एकदेशानुमत्या प्राक्तनशिष्टोपदिष्टोऽयं मार्गो न त्वपूर्व इति प्रकृतशास्त्रस्य प्रामाण्यलाभ इति बोध्यम्।।
आदेशेनुवर्तत इति।। परिभाषायां सन्निपातशब्दस्सम्बन्धपरः। स च सम्बन्धो व्यपवर्ग इव विशेषणविशेष्यभावोऽपि, विनिगमनाविरहात्। यादेशविधाववर्णस्य ह्रस्वत्वेनाकारत्वेन च विशेषणविशेष्यभावो निमित्तम्। दीर्घप्रवृत्तौ च ह्रस्वत्वप्रतियोगिकविशेषणविशेष्यभावरूपसम्बन्धविनासेऽप्यवर्मत्वसामान्यप्रतियोगिकस्तथाविधसम्बन्ध आदेशद्वारेणावतिष्ठत इति भावः।। गुणेनेति।। सार्वधातुकार्धधातुकयोरित्याकारस्यान्तरतम्यादकार एव गुण इति भावः।। व्यर्थमिति।। आकारनिवृत्त्यर्थमिको गुणवृद्धीति सूत्रस्थमिग्ग्रहणं व्यर्थमित्यर्थः।।
उक्तभावश्चेति।। नन्वेतावता यादेशस्सन्निपातपरिभाषया भसंज्ञाद्वारेणात्वसन्निपातविघातकमातोलोपं प्रत्यनिमित्तमित्यर्थः पर्यवसन्नस्तत्रेदं वक्तव्यम्। जातिपक्षे व्यक्तिविशेषानुपहिताकारत्वादिजातेरेव प्रधानतया व्यक्तिगततदीयविशेषणविशेष्यभावसन्निपातस्य यादेशविधिनिमित्तताया दुर्वचत्वेन तथाविधसन्निपातस्य दीर्घोत्तरमनुवर्तमानस्य लोपेन निवृत्तिमाश्रित्य परिभाषाविरोधप्रतिपादनमनुचितम्। किञ्च दीर्घनिमित्तभूतपौर्वापर्यलक्षणसन्निपातविघातकमातोलापं प्रति दीर्घस्य साक्षान्निमित्तत्वविघाटनेन तत्प्रवृत्तिप्रतिपादनमनुपयुक्तमित्यतः प्रकारान्तरेण परिभाषाविरोधं प्रदर्शयन्ति।।
परे त्विति।। व्याप्यात्वजातिश्चात्र दीर्घप्लृतान्यत्वविशिष्टाकारत्वजातिस्तत्र सुपि चेति दीर्घेण वैशिष्ट्यांशविनासेऽप्यकारत्वजातेरव्याघातात्तदीय यञादिपौर्वापर्यविघातकस्यातोलोपस्य परिभाषाविषयत्वं निर्बाधमिति तात्पर्यम्। ननु प्रकृतशास्त्रे विशिष्टं शुद्धादतिरिच्यते, अत एव तपरसूत्रमत्र पक्षे चरितार्थमन्यथा प्रदेशेषु सामान्यजातेरप्यभेदेन ग्रहणे तदसङ्गतिरेव। किञ्च तस्यापत्यमिति सूत्रे भाष्यकारैरुक्तमदन्तप्रातिपदिकसम्बन्धिविशिष्टापत्यरूपार्थस्योक्तत्वेऽपि सामान्यभूतस्यापत्यार्थस्यानुक्तत्वरूपं शेषत्वमिति। तच्च विशिष्टशुद्धयोरनतिरेके न संगच्छते। अपि च ह्रस्वत्वसमनियता व्यापकजात्यपेक्षया विलक्षणैव काचिदकारत्वजातिः। पृथिवीत्वव्याप्यघटत्वादिवत्। ततश्च तपरसूत्रस्य जातिपक्षे नियामकतया दीर्घविधावत इत्यनेन विशेषजातेरेव स्थानित्वेन बोधनात्तस्याश्च स्वाश्रयद्वारा दीर्घादेशेन निवृत्तौ तदीयसन्निपातस्य दुरुपपादत्वेन तद्विघातकत्वमाश्रित्यलोपस्य परिभाषाविषयत्वमयुक्तमिति चेत्तर्हि दीर्घविधावत इति तपरकरणेन विशेषजातेरेव बोधनेऽपि तदाश्रयव्यक्तौ वस्तुसती सामान्यजातिरप्युपतिष्ठत एव, सापि दीर्घविधौ तद्भावभावितामात्रेण निमित्तं, परिभाषायां च शब्देनोपात्तस्यैव निमित्तत्वमिति नाग्रहस्तत्र च गापोष्ठगिति सूत्रस्थमेव भाष्यं प्रमाणमथवा दीर्घाणां दीर्घेण फलाभावात्प्लृतस्यासिद्धत्वाच्च व्यावर्त्यालाभेन तत्र तपरत्वमविवक्षितम्। सामान्यजातिरेव निमित्तत्वेनाश्रीयते ततश्च सामान्यजातेर्दीर्घोत्तरमप्यव्याहतत्वेन तद्विघातकत्वादातोलोपस्य परिभाषाविषयत्वमिति विभावनीयमित्याहुः।
यत्तु श्रीपायेत्यादौ लाक्षणिकत्वादातोलोपाभाव-। ओत्सूत्रभाष्यप्रामाण्याच्च वर्णग्रहणेऽपि लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेर्निर्विवादत्वादिति वदन्ति। तदसत्। आतो लोपस्य विषये तत्परिभाषाप्रवृत्तौ पशुष इत्यादि वैदिकप्रयोगविरोधापत्तेः। पशुशब्दोपपदकात्सनोतेर्विटि विड्वनोरित्यात्वे पशुषाशब्दस्तस्मादिह सन्निपातपरिभाषैव लोपनिवारणे शरणमिति दिक्।।
उपलक्षणमिति।। अन्तरङ्गानपीति परिभाषायामपिशब्दः परनित्ययोस्समुच्चायक िति तया वार्तिकस्य गतार्थता, पूर्वविप्रतिषेधाश्रयणे हि क्लेश इत्याशयः।। वार्तिकानुरोधेनेति।। इदमुपलक्षणं, तत्रत्यभाष्यानुरोधस्य। त्यदादिभ्यश्चेति।। `स्वमोर्लुक्य त्यदादीनां कृते ह्यत्वे न लुग्भवेदि' ति श्लोकवार्तिकस्यायमर्थतोऽनुवादः।
केचित्त्वन्तरङ्गानपीति परिभाषायाः प्रत्ययोत्तरपदयोश्चेति सूत्रस्था मपर्यन्तानुवृत्तिर्ज्ञापिका। सा हि त्वदीयो मदीय इत्यादावन्तरङ्गत्वात्तवममादिप्रवृत्तौवैयर्थ्यादिमां परिभाषां ज्ञापयति।। ज्ञापितायामस्यां लुक इव तत्प्रयोजकतद्धितादेरप्यनया प्राबल्यबोधनात्प्रथमतो लुकि तवममादेरप्राप्तौ मपर्यन्तस्यादेशार्था तदनुवृत्तिर्भविष्यतीति स्पष्टं भाष्ये। इत्थं च धर्मिग्राहकसाजात्यादस्य अन्तरङ्गबाधकत्वमेव युक्तम्। परिभाषायामपिशब्दस्तु बहिरङ्गसमुच्चायकः। यथा बहिरङ्गान्विधीनन्तरङ्गो लुग्बाधते, एवमन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधन इति तदर्थात्। अथान्तरङ्गपरिभाषाया अनित्यत्वेन प्रकृतपरिभाषायस्सिद्धिस्तदा सुतरामेव परनित्ययोर्बाधकत्वं परिभाषया न लभ्यते। यदि च पूर्वविप्रतिषेधसिद्धं लुकः परबाधकत्वं परिभाषायामपिशब्देन क्रोडीक्रियते, नित्यत्वं तु त्यदाद्यत्वस्य लुकि कृते न लुमतेतिनिषेधेन प्रवृत्तिविघातादयुक्तमेवेत्युच्यते, तर्हि वार्तिकस्यैव तत्सिद्धत्वं न विरुद्धम्। सर्वथा परिभाषाया अपूर्वत्वमनिष्टम्। अत एव भाष्ये परिभाषामाश्रित्य वार्तिकं न प्रत्याख्यातम्। तस्मादत्र मूलोक्तमपि नात्यन्तमयुक्तमित्याहुः।।[टि- आहुरिति।। परे त्वत्र धर्मिग्राहकसाजात्यं परबाधकत्वेऽपि समम्‌। किञ्चोक्तव्यवस्थायां न किञ्चत्फलम्। प्रत्युत पूर्वविप्रतिषेधवार्तिकमप्यपूर्वतया आश्रयणीयमिति गौरवमत्र पक्षे। अन्तरङ्गपरिभाषानित्यत्वेनान्तरङ्गानपीति परिभाषाप्रत्याख्यानमपि न सम्यक्। अनित्यत्वस्यांशतोऽनुगमरूपत्वादस्याः परिभाषाया अनुगमसम्भवे तत्परित्यागस्यानौचित्यात्। अनित्यत्वानुगमभूतस्यापि यत्रानित्यत्वमावश्यकं, यथा नाजानन्तर्यपरिभाषायाः, तादृशस्यानित्यत्वेन अननुगतस्य प्रत्याख्यानस्य न्याय्यत्वेऽप्यनित्यताशून्याया अन्तरङ्गपरिभाषानित्यत्वस्यानुगमभूताया अस्याः परिभाषाया अनित्यत्वाश्रयणेन प्रत्याख्यानमनुचितमेव। अत उपलक्षणतया व्याख्यानमेवोचितमित्याहुः।।]
नाब्विषयस्येत्यस्य नपुंसकत्वविशिष्टार्थबोधकस्येत्यर्थः। नबिति नपुंसकस्य प्राचां संज्ञा। शान्तनवाचार्यकर्तृत्वात्फिट्‌सूत्राणां भिन्नकर्तृकत्वं बोध्यम्। ननु पुंवदित्यनेन नपुंसकत्वप्रयुक्तकार्याभावोऽत्रातिदिश्यते, स चाभावः प्रकरणान्तरस्थितस्य ह्रस्वस्येव भिन्नकर्तृकस्य स्वरस्याप्यतिदिशयतां व्याप्तिन्यायादत आह।। विषयपदेनेति।। नपुंसकत्वेन दृष्टस्य नपुंसकत्वे तदभावे वा इसन्तभिन्नस्यादिरुदात्त इत्यर्थान्नपुंसकत्वाभावेऽपि प्रवर्तमानस्य तन्निमित्तकत्वाभावेन स्वराभावो नातिदेष्टुं शक्य इति तात्पर्यम्।
केचित्तु तथासति त्रिलिङ्गानां पटुमृदुप्रभृतीनां लिङ्गान्तरबोधकतायामप्याद्युदात्तप्रसङ्गः। इष्यते हि तत्रान्तोदात्तत्वम्। तस्मादिह प्रत्यासत्त्या प्रकृतशास्त्रीयनपुंसकत्वप्रयुक्तकार्याभावस्यैवातिदेशो नान्यस्येत्येव युक्तस्समाधिः। आतिदेशिकस्यानित्यत्वमिति वा प्रकृतार्थे शरणमित्याहुः।।[टि- आहुरिति।। परे तु नब्विषयस्येति सूत्रे शेखरे ह्रस्वान्तस्य स्त्रीविषयस्येत्यतो विषयपदानुवृत्त्यैव सिद्धे पुनर्विषयपदं लिङ्गव्यत्ययप्रत्ययलोपान्यतरेण लिङ्गान्तरोपसङ्क्रान्तस्य विषयतामात्रेणैतत्प्रवृत्त्यर्थमिति व्याख्यातम्। एवञ्च सर्वनाभ्नो वृत्तिमात्रे इत्यत्रेव नपुंसकस्य सतः सम्प्रत्यनपुंसकत्वेऽपि स्वर इष्ट एव। ध्वनितं चेदमी च द्विवचन इति सूत्रे भाष्ये ``ननु च पुंवद्भावातिदेशादेव स्वरो भविष्यति, अशक्यः पुंवद्भावातिदेशस्तत्राश्रयितुम् इत्यादिना। स्फुटीकृतं च कैयटे ``तस्माद्यस्यान्यत्र नपुंसकत्वं दृष्टं, तस्यासत्यपि नपुंसकत्वे आद्युदात्तत्वमिष्यत इति पुंवद्भावेऽपि स्वरनिवर्तनात्स्वरार्थ ईकारो विधेय इति ग्रन्थेन। एवञ्च तादृशस्य पुंसः स्वरप्रवृत्त्या पुंवदित्यनेन पुंस्यविद्यमानस्यैवातिदेश इत्यर्थस्यातिदेशस्वभावलब्धत्वेन प्रकृतातिदेशाविषयत्वाद्युक्तमेव मूलोक्तम्। पटुमृद्वादिशब्दानां लिङ्गभेदेन शब्दभेद एवेष्ट इति न तत्राद्युदात्तप्रसङ्गः। एवञ्च व्याप्तिन्यायाश्रयणेऽपि न किञ्चिद्धाधकम्। आतिदेशिकमनित्वमित्यस्य भाष्यानुक्तत्‌वेनाप्रामाणिकत्वस्य परिभाषेन्दुशेखरे निरूपितत्वेन स्वयं च तन्निरुपणस्य युक्तताया वाक्यार्थचन्द्रिकायां प्रतिपादितत्वेन तेनात्र निर्वाह इत्यपि न युक्तमिस्याहुः।]
नार्थ इति।। न चैवं बहूनि श्रेयांसि यस्यास्सा बहुश्रेयसी तामतिक्रान्तं कुलमतिबहुश्रेयसीत्यादावपि ह्रस्वानापत्तिरिति वाच्यम्। ईयसः परस्य स्त्रीप्रत्ययस्य प्रत्यासत्तिवशादीयसन्तप्रकृतिकस्यैव ग्रहणमित्याशयात्।। दुर्वारत्वापत्तेरिति।। न च समुदाये विहितं पुंवत्त्वं सामर्थ्यादवयवप्रयुक्तं ह्रस्वं वारयतीति वाच्यम्। बह्य्वुः श्रेयस्यो यासां ताः बहुश्रेयसीर्ब्राह्मणीरित्यत्र तस्माच्छसो न इत्यनिष्टनत्वसम्पादकतया सामर्थ्योपक्षयात्।। ध्वनितत्वादिति।। अत एव पस्पशायां भाष्ये लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिकवैदिकेष्विति वार्तिके लोकवेदयोरिति प्रयोक्तव्ये लौकिकवैदिकेष्विति तद्धितप्रयोगो व्यर्थ इत्यालोच्य प्रियतद्धिता दाक्षिणात्या इत्युक्तम्। तथा व्याकरणशब्दस्य कर्मव्युत्पत्त्या शब्दपरत्वे व्याकरणे भवो वैयाकरणो योगः, पाणिनिना प्रोक्तं पाणिनीयं व्याकरणमित्यादिव्यवहारानुपपत्तिरित्याशयेन प्रवृत्ते भावे प्रोक्तादयश्च तद्धिता इति वार्तिके प्रोक्तादय इत्येव सिद्धे भाव इत्यनर्थकमित्युद्भाव्य भाष्यकारैरुक्तम्। ``न चेदानीमाचार्याः कृत्वा निवर्तन्त इति।। न तु तत्र गौरवं दोष इत्युक्तम्। नापि तेनार्थान्तरमुपवर्णितम्। अतो वार्तिकाक्षराणामाधिक्यमकिञ्चत्करमिति भावः।।
तेनास्येति।। दीर्घवचनस्य बहुव्रीहिमात्रविषयकत्वमित्यपि तेन लभ्यते। अन्यथा निष्क्रान्तश्श्रेयस्या निश्श्रेयसिरित्यादावपि दीर्घसम्पादकस्य तादृशवचनस्य बहुव्रीहिमात्रविषयकेण पुंवद्वचनेन प्रत्याख्याने फलभेदादसङ्गतिस्स्पष्टैव। केण इति ह्रस्वस्तु वचनद्वयस्याप्यविषयः। पुंवत्त्वेन वारणायोगात्प्रत्यासत्तिविरोधाच्च। किञ्च दीर्घवचनप्रत्याख्यानपरभाष्यप्रमाण्येन पुंवद्वचनस्योपसर्जनह्रस्वातिरिक्तह्रस्वबाधकत्वं कल्प्यमानं प्रत्यासत्त्या तत्प्रकरणस्थस्यैव नान्यस्येत्यदोषः। अत एव सम्बुद्धिनिमित्तकस्याम्बार्थनद्योरिति ह्रस्वस्यापि न बाधकत्वमित्याहुः।। सामान्यत इति।। पुंवद्वचनस्योपसर्जनह्नस्वापवादत्वे दीर्घस्य ह्नस्वमात्रापवादत्वे च फलभेदस्स्पष्ट एवेत्यर्थः। ततश्च बहुश्रेयसीशब्दस्य स्त्रीपुंसयोरिव नपुंसकेऽपि ह्रस्वाभावो निर्विवाद इति भावः।
ननु पुंवद्वचनस्य नपुंसकह्रस्वापवादत्वे बहुश्रेयसीमतिक्रान्तं कुलमतिबहुश्रेयसीत्यत्रोपसर्जने स्त्रीप्रत्यये तदादिनियमादुपसर्जनस्त्रीप्रत्ययान्तोत्तरपदकसमासत्वप्रयुक्तस्य गोस्त्रियोरिति ह्रस्वत्वस्याप्राप्तावपि नपुंसकत्वप्रयुक्तस्य ह्रस्वस्याभीष्टस्य प्रवृत्तेर्दौर्लभ्यापत्तिः। न च प्रत्यासत्तिवशादीयसन्तप्रकृतिकस्त्रीप्रत्ययान्तोत्तरपदकबहुव्रीह्युद्देश्यकस्यैव नपुंसकह्रस्वस्योपसर्जनह्रस्वस्यैव वा पुंवत्त्वमपवादो नान्यस्य, प्रकृते च बहुव्रीह्युत्तरपदकस्तत्पुरुषो नपुंसकह्रस्वस्योद्देश्यमिति नास्ति शङ्कावकाश इति वाच्यम्। तथा सति न बहुश्रेयसी कुलमबहुश्रेयसीत्यत्रापि पुंवत्त्वानापत्तौ ह्रस्वापत्तेः। अत्राहुः। प्रत्यासत्त्या बहुव्रीहिनिरूपितोपसर्जनत्वप्रयुक्तो यो ह्रस्वो यश्च तदर्थगतनपुंसकत्वप्रयुक्तस्तयोरुभयोरेवेदमपवादः पुंवत्त्वम्। एवञ्च बहुव्रीह्युत्तरपदस्यातिबहुश्रेयसीत्यादेस्तत्पुरुषस्यातिक्रान्ताद्यर्थप्राधान्यात्तद्गतमेव नपुंसकत्वं ह्रस्वप्रयोजकं, न तु बहुव्रीह्यर्थगतमिति नात्र पुंवत्त्वातिदेशः। नञ्तत्पुरुषे तूत्तरपदार्थः प्रधानमारोपो नञर्थ इति सिद्धान्ताद्बहुव्रीह्यर्थगतमेव नपुंसकत्वं ह्रस्वप्रयोजकमिति भवत्येव पुंवत्त्वातिदेशः। अत एव श्रेयसीवाचरति कुलं श्रेयसि तानि बहूनि यस्य सोऽयं बहुश्रेयसिरित्यत्रापि न पुंवत्त्वमिति, तदेतदाह।। इति दिगिति।।
अत्रेदं बोध्यम्। पुंवदित्यनेन पुंवाचकस्य वातप्रम्यादेरीकारस्य यद्रूपं दीर्घत्वं तद्बहुव्रीहिघटकस्येयसः परस्य स्त्रीप्रत्ययस्य नपुंसकोपसर्जनह्रस्वव्यावृत्त्यर्थमतिदिश्यते, न तु पुमर्थः। स्त्रीत्वनिमित्तकस्य नदीत्वस्य नपुंसकत्वप्रयुक्तानां शिशीलुङ्‌नुम्विधीनां चाप्रवृत्तिप्रसङ्गात्। नापि कार्यं, ह्रस्वनिवृत्तेः पुंस्त्वनिमित्तकत्वाभावेन तदसिद्ध्या दीर्घवचनप्रत्याख्यानविरोधात्, बहुश्रेयसीर्ब्राह्मणीरित्यत्र तस्माच्छसो न इति नत्वाप्रसङ्गाच्च। लिङ्गान्तरप्रयुक्तकार्यसामान्याभावस्यातिदेशे निरुक्तदोषध्रौव्याच्च। अत एव प्रथमलिङ्गग्रहणं चेति वार्तिकस्यावयवस्त्रीविषयत्वात्सिद्धमिति भाष्यकाराणां प्रत्याख्यानमुपपद्यते। अन्यथा बहुश्रेयस्यादौ पुंवत्त्वातिदेशादप्राप्तनदीत्वसम्पत्त्यर्थमावश्यकस्य तस्य कार्यकालयथोद्देशोभयपक्षसाधारणं प्रत्याख्यानमसम्बद्धमेव स्यात्। कैयटे च यथा पुंविषये ईकाश्र्श्रूयते न तु ह्रस्वत्वं प्रतिपद्यते। तथेयसोऽपि पर इत्येवार्थो वर्णितो न तु नुमादयो निवर्तन्त इति। एवञ्च शिशीलुङ्‌नुम्विधिनदीत्वानि बहुश्रेयस्यादेः क्लीबे प्रवर्तन्त एव। यदि पुंवदिति षष्ठ्यन्ताद्वतिः, पुंवाचकस्येकारस्य स्थाने यन्न भवति लिङ्गान्तरप्रयुक्तं कार्यं तद्बहुव्रीहिघटकस्येयसः परस्येकारस्यापीत्यभावातिदेशस्तदा ह्रस्वव्यतिरिक्तानां तत्तल्लिङ्गकार्याणां प्रवृत्तेरविरोधः। ततश्चेयं प्रक्रिया क्लीबे स्वमोर्लुक् बहुश्रेयसी, न लुमतेति निषेधस्यानित्यत्वादप्रवृत्तौ प्रत्ययलक्षणेन सम्बुद्धावम्बार्थनद्योरिति ह्रस्वः। तस्योक्तनिषेधानित्यत्वमूलकस्सम्बुद्धिनिमित्तकः पाक्षिको गुणस्तु न प्रवर्तते। नद्यन्तानां ह्रस्वविधानसामर्थ्यात्। अन्यथा ह्यम्बार्थानां ह्रस्वो नदीह्रस्वयोर्गुण इत्येव ब्रूयादत एव हे गौरीत्यादौ गुणाभाव इत्यन्यत्र विस्तरः। हे बहुश्रेयसि, निषेधप्रवृत्तौ तु सम्बुद्धिपरत्वाभावेन ह्रस्वाप्रवृत्त्या दीर्घान्तमेव हे बहुश्रेयसी, औङश्शीभावे जश्शसोश्शिभावे च नुम्। बहुश्रेयसिती, बहुश्रेयसीनि। तृतीयादिषु पुंवद्भावविकल्पात्पाक्षिके नुमभावे बहुश्रेयस्या बहुश्रेयसिनेत्यादि। हलादौ नुमागमाप्राप्तेः पुंवदेव। बहुश्रेयसीभ्यामित्यादि। आमि नुमचिरेति नुटि नुमि वा नास्ति विशेषः।
यत्तु ङेप्रभृतावजादौ नदीत्वप्रयुक्तेनाऽडागमेव परत्वाद्बाधितो न प्रवर्तते नुमागमः। पुनः प्रसङ्गविज्ञानाश्रयणे तु बहुश्रेयस्यामित्यत्र ङेरामि नुडपि प्रवर्तेत। तस्मादिह बहुश्रेयस्यै बहुश्रेयस्या इत्याद्देकविधमेव रूपमिति तन्न। नित्यतया नुमागमस्य प्रथमप्रवृत्त्यौचित्यात्। नुमि कृते नदीत्वाभावादाडागमस्याप्रवृत्तिरिति स्पष्टमेव। यदपि नुम्विधावुकारादिसाहचर्यादिकारोऽपि ह्रस्व एव गृह्यते, ततोऽत्र नुमागमाप्राप्तिस्तृतीयादौ पुंवदेव रूपम्। एवमौङि जश्शसोश्च बहुश्रेयसीत्येव नुम्रहितं रूपमित्याहुः। तदपि न। लक्ष्यानुरोधेन शास्त्रनिवर्तकतया प्रवर्तमानस्य लोकन्यायस्य प्रामाणिकलक्ष्यविसंवादेन प्रवृत्त्ययोगात्। किञ्च नुम्विधौ साहचर्यपरिभाषाश्रयणे ऋकारस्य सन्ध्यक्षरस्थानिकस्यासम्भवादिदुतोरपि तथाभूतयोरग्रहणापत्तौ बहुपप्लवापत्तिरित्यलम्।।
षष्ठीनिर्देशाभावादिति।। स्थानषष्ठ्यन्तपदनिष्ठशक्तिनिरूप्यत्वं निर्दिश्यमानत्वमिह तु क्रोष्टुशब्दः प्रथमानिर्दिष्ट इति नास्ति निर्दिश्यमानपरिभाषायाः प्रवृत्तिरित्याशयः।। सामर्थ्यादिति।।
केचित्तु स्थानयादेशभावतात्पर्यविषयीभूतशास्त्रघटकोद्देश्यसमर्पकपदनिष्ठशक्तिगम्यत्वं निर्दिश्यमानत्वमित्यवश्यमभ्युपेयम्। अन्यथा प्रकरणप्राप्ताङ्गरूपविशेष्यमूलकेन तदन्तपिधिना प्रसक्तस्य प्रियक्रोष्टुप्रभृतेरपि विशिष्टस्य क्रोष्टुशब्दात्मकतृजन्तरूपापत्तेः। न हि विधेयांशे तदन्तविधिरस्ति, विशेष्यासन्निधानात्। न वा प्रियक्रोष्टृप्रभृतेश्तृजन्तत्वं, प्रत्ययग्रहणपरिभाषाविरोधात्। एवमसमासे निष्कादिभ्य इति सूत्रस्थेनासमासेग्रहणेन ज्ञापितात्तदन्तविधेस्सुनभ्यमित्यादौ नाभिनभं चेत्यतो यत्प्रत्ययसन्नियोगेन विधीयमानो नभादेशस्सुशब्दविसिष्टादौ प्रसज्येत। न चैवंविधेषु स्थान्यादेशभावकल्पने षष्ठीनिर्दिष्टस्य ह्यादेशा उच्यन्त इति स्थानिवत्सूत्रस्थभाष्यविरोध इति वाच्यम्। शब्दस्य शब्दान्तरस्वरूपप्राप्तेः स्थान्यादेशभावमन्तरेण दुर्वचनया कल्पयमानवाक्यगतषष्ठीनिर्देशमाश्रित्य तदुपपत्तेः। तस्मान्निर्दिश्यमानपरिभाषयैव निर्वाह इति विप्रतिषेधसामर्थ्यवर्णनं विफलम्। [टि- सामर्थ्यवर्मनं विफलमिति।। अत्रेदमवधेयम्। अत्रत्यमूलग्रन्थः प्रियक्रोष्टृणीति रूपं वदतां प्राचां ग्रन्थस्य खण्डनाय प्रवृत्तः। यदि नुमः पूर्वं तृज्वद्भावस्तदा पूर्वविप्रतिषेधपरवार्तिकविरोध इति पूर्वं नुम् प्राचाप्यवश्यमभ्युपेयः। नुमि कृते तृज्वद्भावस्य प्राप्तिरेव न । निर्दिश्यमानस्य नुमा व्यवधानात्। यदि प्राचीनैः स्वपक्षसिद्ध्यर्थं निर्दिश्यमानपरिभाषाप्रवृत्तिविघटककुकल्पना मूलप्रदर्शिता क्रियेत, तदापि पूर्वविप्रतिषेधवचनस्य वैयर्थ्यापत्त्या तत्सामर्थ्यात्सकृद्गतिन्यायप्रसरे न तदभीष्टसिद्धिरिति बोधयितुं प्रवृत्तेऽस्मिन् ग्रन्थे सामर्थ्यवर्णनं सफलमेव। अत्रत्यस्सर्वोऽपि ग्रन्थः प्राचीनरीत्यैवेत्यनास्थाबोधकेन ``व्यवधानमित्यस्याभावेऽपि इत्यपिना सूचितमित्यलम्।] किञ्चोक्तरीत्या नुमि कृते तृज्वत्त्वाप्रवृत्तेरनित्यतया कृताकृतप्रसङ्गित्वेन नुमागमस्य नित्यतया च तृज्वत्त्वांशे पूर्वविप्रतिषेधारम्भो नापूर्व इत्यपरमनुकूलमित्याहुः।।
परत्वात्तृज्वत्त्वे इति।। तृज्वद्भावोत्तरं नुमागमस्य प्रसक्तावपि शब्दान्तरप्राप्त्या न नित्यत्वमित्याशयादेवमुक्तम्। यदि तु कृताकृतप्रसङ्गितामात्रेण भुवो वुकइव नित्यत्वमेव, तत्सिद्धार्थानुवाद एव तदंशे पूर्वविप्रतिषेधारम्भ इत्युच्यते, तदा नात्र [टि- नात्र शङ्कासमाधानयोरवकाश इति।। नित्यत्वमनादृत्य प्रवृत्तस्य पूर्वविप्रतिषेधवचनस्य विषयविशेषविषयत्वं वदतां मतस्य विमर्शावसरे नित्यत्वप्रसङ्गस्यनुचितत्वेन युक्ते एवात्र शङ्कासमाधाने इति बोध्यम्।] शङ्कासमाधानयोरवकाश इति बोध्यम्।। चतुर्थ्यन्तोदाहरणेति।। प्रियक्रोष्टुने हितक्रोष्टुन इति हि भाष्योदाहरणमिति भावः।। आवश्यकत्वद्योतनायेति।। वचनारम्भेऽपि शब्दानां नियतविषयताया आवश्यकत्वेन तामाश्रित्य वचनारम्भ एव लघीयानिति भाष्यकाराश्यः प्रकृतोदाहरणस्वारस्यात्प्रतीयत इति भावः।। सर्वनामस्थानविषयकतापीति।। न च प्रथमातिक्रमणे कारणाभावादिति न्यायेन प्रथमतस्सर्वनामस्थानोदाहरणोपन्यासस्यावश्यकतया तदनुपन्यासत्तद्विषयोदाहरणानामनभिधानमित्येव किं न स्यादिति वाच्यम्। णिजां त्रयाणामिति सूत्रस्थात्त्त्रयाणामिति ग्रहणादत्र शास्त्रे कपिञ्जलाधिकरणन्यायस्यानाश्रयणावगमेनादोषात्।।
उपजीव्यविरोधेनेति।। इगन्तत्वमुपजीव्य प्रवृत्तः पुंवद्भावो ह्रस्वनिवृत्तावोकारादिप्रवृत्तौ च स्वोपजीव्येन विरुध्येतेति भावः।। अन्तरतमाज्रूप इति।। लृकारात्मक इत्यर्थः।। द्व्यच्कत्वविनाश इति।। न च लृकारस्य यणादेशे नास्ति द्व्यच्कत्वविनाश इति वाच्यम्। यणादेशोत्तरं तदभावेऽपि प्रवृत्तिकालिकस्योपजीव्यभूतद्व्यच्कत्वविनाशस्य दुर्वारत्वात्।। अदूषकत्वादिति।। [टि- अदूषकत्वादितीति।। माधवाद्यनुरोधेनास्य ग्रन्थस्य सत्त्वादित्यनन्तरं ``पुंवत्त्वेन स्त्रियाः पुंवदित्यादौ स्त्य्रर्थकत्वद्वारा उपजीव्यस्यैव स्त्रीप्रत्ययस्य निवृत्तेर्दर्शनेनैतद्विषये तस्यादूषकत्वादिति भावः इत्यधिकः शब्दरत्नपाठः क्वचिद्‌दृश्यते। तदनुसारेणायं ग्रन्थ-। इदानीन्तनपुस्तकेष्वयं न दृश्यते।] यदि तु प्रत्यासत्तिवशादिगन्तपुंवाचकप्रवृत्तिनिमित्तवतो नपुंसकस्य तथाभूतस्य पुंवत्त्वमित्यर्थ आश्रीयते, तदा नास्ति नपुंसके प्रद्युशब्दादौ पुंवत्त्वमिति वदन्ति।।
।। इत्यजन्ताः नपुंसकलिङ्गाः ।।

श्रीगणेशाय नमः।।

अथ हलन्ताः पुंलिङ्गाः।

ननु धुड्विधौ लाघवार्थतया सीति सप्तम्याष्षष्ठ्यर्थत्वात्पदाङ्गाधिकार इत्यनुशासनेन पदस्येत्यधिकारप्राप्तं विशेष्यमादाय सामानाधिकरण्येन सम्बन्धे सान्तस्य पदस्येत्यर्थात्कथमिह धुडागमप्रसङ्ग इत्यत आह।। पदस्येति व्यधिकरणमिति।। नलोपसूत्रस्थेनान्तग्रहणेन पदाधिकारस्य क्वचिद्वैयधिकरण्येनापि सम्बन्ध इत्यर्थस्य भाष्यकृता ज्ञापितत्वादिति भावः। एवञ्च पदाधिकारस्योत्तरत्र मण्डूकानुवृत्तिनिरासार्थमेवात्र सम्बन्धोन तु लक्ष्यविशेषे प्रवृत्तिनिरोधाय, सकारस्य पदावयवत्वाव्यभिचारादिति तत्त्वम्।
अचर्त्वभाजमिति।। नन्वीदृशार्थोपलक्षकत्वे वत्थसर इति भाष्यकारोपदर्शितप्रकृतवार्तिकोदाहरणासङ्गतिः। तस्य वदेरौणादिके सरप्रत्यये निष्पत्त्या तकारस्य चर्त्वनिष्पन्नत्वादिति चेन्न। उणादीनामव्युत्पन्नत्वपक्षे तत्र चर्त्वनिष्पन्नतकाराभावेनादोषात्। कथमन्यथा यथाश्रुतेऽप्यप्फ्‌सरा इति तदुपदर्शिततदीयोदाहरणोपपत्तिः। अप्शब्दपूर्वकात्सर्तेरसुन्यौणादिके तन्निष्पत्त्या पकारस्य पदान्तत्वात्, व्युत्पत्तिपक्षे तु पूर्वत्रासिद्धीयमद्विर्वचने इति परिभाषया द्वित्वे द्वित्वाश्रयस्य कार्ये च कर्तव्ये त्रैपादिकासिद्धत्वाभावबोधनेन द्वित्वनिष्पन्नस्य सिद्धतया वार्तिकरीत्या प्रसक्तस्य द्वितीयादेशस्य प्रापणाय शिक्षावचने त्रैपादिकासिद्धत्वोपहितचत्वाभावविशिष्टमित्यर्थस्यावश्यकतया प्रकृतेऽपि चर्त्वनिष्पन्नस्य द्वित्वे तदाश्रयस्य द्वितीयादेशसौलभ्यान्नोक्तदोषावकाशः। अत एव द्वित्वप्रकरणे भाष्यकृदुक्तमावसानिकद्वित्वोदाहरणं वाक्क् वाग्ग्‌ इति सङ्गच्छते। अन्यथा झलां जश्‌ झशीत्येतदपेक्षया वावसान इत्यस्यासिद्धतया चरमककारे गकारबुद्ध्या पूर्वस्य जश्त्वे प्राथमिकोदाहरणे ककारद्वयनुपपत्तिस्स्पष्टैव। एवञ्च सन्नन्तप्रघट्टके ईर्त्सतीत्यत्रर्धेस्सनि निरुक्तपरिभाषाप्रवृत्त्यभिप्रायकं चर्त्वोत्तरं द्वित्वमित्युक्तमप्युपपद्यते। द्वित्वोत्तरं चर्त्वासिद्धत्वे च द्वितीयादेशाप्रवृत्त्या फलाभावेन सफलप्रवृत्ति सम्प्रदायस्य परिभाषाशास्त्रस्य प्रवृत्त्ययोगात्तदसङ्गतिरेव। अत एव यक्ष्यमाण इत्यादौ ककारखकाराद्योर्द्वयोर्द्वयोर्वर्णक्रमे पृथगुल्लेखो वैदिकसम्प्रदायप्रसिद्धः। किञ्च द्वित्वशास्त्रेण पूर्ववर्णसजातीयः कश्चनान्यो वर्णः प्रादुर्भाव्यते। न तु स एवायमिति चर्त्वशास्त्रनिष्पन्नत्वाभावस्स च चरम एव न प्रथमः। आगन्तूनामन्ते निवेश इति न्यायात्। तथा च नादिन्याक्रोश इत्येतत्सूत्रपठितद्वितीयादेशविधायकप्रकृतवार्तिकदृष्ट्या तदुत्तरसूत्रदृष्ट्या च तस्य द्वित्वाश्रयस्यासिद्धत्वाभावोऽपि न्यायसिद्ध एव। द्वित्वप्रकरणस्थं भाष्यमप्यत्रैवार्थे प्रामाण्यमधिरोहतीति मास्तु परिभाषायामर्थान्तरानुसरणक्लेशः। एतदर्थमेव द्वित्वप्रकरणे वार्तिकस्यास्य पाठः। अप्सु तत्थ्सवितुरित्यादौ चर्त्वोत्तरं द्वित्वे द्वितीयादेशः। यथाश्रुते तु शिक्षावचने छान्दसमुक्तोदाहरणेषु भत्वमाश्रयितव्यमतो युक्तमत्र सुधीभिराकलनीयमित्याहुः।
उपलक्षणमित्यास्य लक्षणाया बोधकमित्यर्थः। ननु शक्यसम्बन्धो हि लक्षणा, ततश्च कोऽसौ शक्यलक्ष्ययोः प्रकृते सम्बन्धस्तत्राह।। पदान्त इत्यादि।। स्वगतपदान्तवृत्तित्वसमानाधिकरणधर्मकत्वमिह लक्ष्यगतश्शक्यसम्बन्धः। पदान्तभाक्‌शब्दस्यैव लक्षणा, नञा च तत्पुरुषो न तु विशिष्टस्यानुपयोगात्। प्राय इत्युक्तेरुपयोगं सूचयन् लक्षणायाः प्रयोजनमाह।। अत एवेति।। यथाश्रुते तु ङकारणकारान्तयोः कुक्‌टुकावित्यर्थाद्यदागमन्यायेन विशिष्टयोः पदत्वे तयोः पदान्तभाक्त्वेन द्वितीयादेशानुपपत्तिरित्याश्यः।। चर्त्वस्याप्यभावादिति।। फलाभाव एवात्र हेतुः।।
उभयं सिद्ध्यतीति।। ननु धातुपदावृत्तावप्युपदेशकाललक्षणाया एव मूले स्पष्टतया वचनविपरिणामेन तस्य दादेरित्यनेन सम्बन्धे सिद्ध्यत्येवाभीष्टमुभायमत आह।। उपदेशकालमित्यस्येति।। नन्वेवमुपदेशे दादेरिति परममूलोक्तमयुक्तमेव स्यादत आह।। फलितार्थ इति।। न तु शाब्दोऽर्थः। स एव किं न स्यादत आह।। वाच्यार्थत्वे इति।। शाब्दार्थत्वे इति तदर्थः।। गौरवमिति।। ननु दादिपदावृत्तावप्युपदेशकालिकदादित्ववति लक्षणाभ्युपगमे तदितरस्य दादेरित्यस्य वैयर्थ्यम्। उपदेशकालिकमात्रलक्षणायां च दादिपदप्रतिपाद्यदादित्वान्वये पदार्थैकदेशान्वयदोषः। विशिष्टेन धातुना सम्बन्धे प्रागुक्तदोषानुद्धारः। तस्मादुपदेशकालमात्रलक्षणाविभक्तिविपरिणामवैयधिकरण्यान्वयानामावश्यकतया नास्ति दादिपदस्य धातुपदस्य वाप्यावृत्तौ लाघवगौरवप्रयुक्तो विशेष इति चेत्सत्यम्। एकविशिष्टेऽपरवैशिष्ट्यमिति न्यायेन दादित्वविशिष्टे धातावृपदेशकालिकत्वसम्बन्धे दादित्वेनोपदेशकालवर्तिनो धातोरित्यर्थः। प्रतीयत इत्याशयाददोषः। यद्येवं धातुपदस्याप्यावृत्तिलभ्यस्योक्तार्थलक्षणायामीदृशरीत्या सम्बन्धे च का क्षतिः। एकत्र द्वयमितिन्यायेन सम्बन्धे हि प्रागुक्तो देषः। न चायं नियमोऽस्ति ``आवृत्तिलभ्यपदजन्यप्रतीतिविषयस्यावर्तमानपदप्रतिपाद्यतावच्छेदकावच्छेदेनैवान्वय इति। एरनेकाच इत्यत्राचि श्नुधातुभ्रुवामिति सूत्रादनुवर्तमानस्य धातुपदस्यावृत्तौ परस्परान्वयस्य भाष्यादावदर्शनात्। अतो मूलोक्तरीत्या धातुपदस्यावृत्तावप्युक्तरीत्या सम्बन्धे न दोष इति दर्शयति।। धातोरित्यस्यैवेति।। वस्तुतो विशेषाभावेऽपि दादिपदावृत्तिरेव युक्ता, समूलत्वात्। न तु धातुपदावृत्तिरित्याह।। अत एवेति।। ढत्वस्यापीति।। निपातानामनेकार्थत्वात्समुच्चयार्थकोऽयं वाशब्दः। तद्बलाच्च ढत्वघत्वयोरुभयोरपि विधानमिति तात्पर्यम्।। फलान्तराभावेनेति।।
केचितु भाष्यकारीयन्यसे धातोरित्यत्र दादिपदसम्बन्धेन दादेर्धातोर्घत्वमित्यर्थे पर्युदस्यमानसमर्पकोऽपि पूर्वत्रार्थाधिकाराद्दादिर्घातुपर एवेति समासे दामलिडित्यत्र ढत्वघत्वाभावयोस्सिद्धिः। अन्यथा ह्यर्थाद्दादेरेव धातोर्घत्वेऽपि पूर्वत्र सामान्येन पर्युदासे तदसिद्धिस्सपष्टैव। ततो न दादिपदानुवृत्तेर्नैष्फल्यम्। किञ्चोक्तर्थे दादिपदस्य लक्षणायां धातुपदानर्थक्यम्। औपदेशिकदादित्ववतो हान्तस्य धातुव्यतिरिक्तस्याप्रसिद्धेः। भाष्यकृता च वैयधिकरण्यान्वयस्योत्तरत्रावश्यकत्वमुक्तम्। न तु धातुग्रहणस्य। किञ्च धातुपदस्यौपदेशिकधातुपरत्वकल्पनायां दामलिडादिनामधातावतिव्याप्तिवारणेऽप्यधोगित्यादावव्याप्तेः परिहारासम्भवेन `कथमधोगिति' भाष्यकारीयतदुत्तरशङ्काग्रन्थस्योपपत्तौ दादिपदस्य निरुक्तलक्षणामाश्रित्य तादृशभाष्यस्यैकदेश्युक्तित्वकल्पनमपि सुतरामयुक्तम्। वैयधिकरण्यान्वयस्योत्तरत्रावश्यकतामुप पादयित्रा भाष्यकगृता सूचितमत्रत्यमनावश्यकत्वमपि न दादिपदलक्षणायास्साधकम्। उपदेशकालपरस्योपदेशकालिकपरस्य वा धातुपदस्य दादेरित्यनेन सम्बन्धादपीह निर्वाह इत्याशयकतयापि तद्भाष्यसौष्टवात्। किञ्च वैयधिकरण्यान्वयमुपपादयतो भाष्यकारस्य लक्षणया धातुपदेनौपदेशिकधातोर्ग्रहणमावश्यकमन्यथा दोग्धेत्यादाविव दामलिडादावपि नामधातौ व्यपदेशिवद्भावेन प्राप्तस्य घत्वस्य परिहारान्तराप्रदर्शनेन न्यूनताप्रसङ्गः। तस्मादिह मूलोक्तरीत्या धातुपदस्यैवाव्याप्त्यतिव्याप्तिद्वयपरिहारोपायतया लक्षणाश्रयणं न्याय्यम्। न तु दादिपदस्येति सुधीभिराकलनीयमित्याहुः।। [टि- आहुरिति।। परे तु अत्र मन्दमध्यमाधिकारिणां धातोरित्यस्यावृत्त्यावा दादेरित्यस्यावृत्त्या वा औपदेशकालिकत्वं लक्षणीयमिति सर्वसम्मतम्। तत्र कस्यावृत्तिरुचितेत्यंशे विप्रतिपत्तिः। उत्तमाधिकारिणां तु आवृत्तिमन्तरैव यस्य कस्य वा पदस्यौपदेशकालिकलक्षकत्वमुचितम्, लाघवात्। तत्र कस्य वा तादृशार्थलक्षकत्वमित्यंशे विप्रतिपत्तिश्च। अत्र दादेरित्यस्यैवावृत्तेः तस्यैवौपदेशकालिकलक्षकत्वस्य वा औचित्यं मन्यते हरिदीक्षितः। तथा हि। यदि दादेरित्यस्यौपदेशकालिकदादिपरत्वलक्षणायां धातोरित्यस्य वैयर्थ्यापत्त्या धातोरित्यस्य लक्षकत्वमभ्युपेयते, तदा औपदेशकालिकधातुत्ववतो दादेरित्येवार्थः स्यात्। शक्यसम्बन्धानुरोधात्। तथाच सति दामलिडित्यादिसिद्धावप्यधोगिति न सिद्ध्येत्। अदादित्वात्। न च तत्र वैयधिकरण्यान्वयेन निर्वाह इति वाच्यम्। वैयधिकरण्येनान्वयस्य इहानावश्यकतासूचकभाष्यविरोधापत्तेः। यदि तु ``एकविशिष्टेऽपरवैशिष्ठ्यम् इति न्यायेन धातुत्वविशिष्ठे दादापुपदेशकालिकत्वसम्बन्धे दादित्वेनोपदेशकालवर्तिनो धातोरित्यर्थः पर्यवस्यतीति नाधोगित्यत्र दोष इत्युच्यते, तदा घातोरित्यस्य वैयर्थ्यं तवापीति दादिपदलक्षकतावादे धातुग्रहणानर्थक्यरूपदोषापादनमयुक्तमेव स्यात्। यस्तूभयोस्समो दोष इति न्यायात्। धातुग्रहणस्यानुवृत्त्यर्थत्वं तूभयोस्समम्। किञ्च धातुपदस्य लक्षकत्वेऽर्थाधिकारे च गर्धबित्याद्यसिद्ध्या न्याय्यस्यार्थाधिकारस्य बाधो वक्तव्यः। दादेरिति सूत्रे धातुग्रहणं तु दादिपदस्योक्तार्थलक्षकतायां तात्पर्यग्राहकत्वेनाप्युपयुज्यते। भाष्यं वैयधिकरण्यान्वयस्येव धातुपदस्योत्तरत्रावश्यकत्वानुक्तिस्तु ``इह किंचित्रूपो इति न्यायेन तात्पर्यग्राहकत्वेनाप्युपयुज्यत इत्याशयिका। ``दादेर्धातोर्घत्वमित्त्यर्थे पर्युदस्यमानसमर्पकोऽपि पूर्वत्रार्थाधिकाराद्दादिधातुपर एवेति समासे दामलिडित्यत्र ढत्वघत्वाभावयोः सिद्धिः, अन्यथा ह्यर्थाद्दादेरेव धातोर्घत्वेऽपि पूर्वत्र सामान्येन पर्युदासे तदसिद्धिः स्पष्टैव। ततो न दादिपदानुवृत्तेर्नैष्फल्यम् इति ग्रन्थेन भाष्यकृत्कृतयोगविभागपक्षे उत्तरत्र दादेरित्यनुवृत्तेः फलान्तरसम्पादनमयुक्तमेव। उत्तरत्र दादेरित्यस्य धातुपदार्थान्वयेन वस्तुतो दादेर्धातुत्वेऽपि दादेरित्यस्य धात्वर्थकत्वाभावेनार्थाधिकारेण पूर्वत्र दादिर्धातुरेव गृह्यत इत्युक्तेश्शिथिलत्वात्। अतो मूलकृदूहितं दादिपदलक्षकत्वमेव ज्याय इत्याहुः।।]
तद्वाडिति।। तच्छब्दोपपदाद्वहेर्ण्विन् वाहयतेर्वा क्विपू। अत्र दकारस्य धात्ववयवैकाज्घटकत्वाभावाद्भष्भावाभावः। ननु वाह ऊठ्‌सूत्रस्थस्योठ्‌ग्रहणस्य बहिरङ्गपरिभाषाज्ञापनपरभाष्यप्रामाण्यादकारान्तोपसर्गोपपदादनकारान्तोपपदाच्च वहेर्वाहेर्वा ण्विन्क्विपोरनभिधानस्यावश्यकतया चिन्त्यमिदं प्रत्युदाहरणमिति चेन्न। यत्रोठ्‌सम्प्रसारणयोर्विशेषो भविषये तत्रानभिधानेऽप्यन्यत्र तथात्वे मानाभाव इत्याशयात्। नन्वेवमपि दकारस्य भष्भावोत्तरं जश्त्वे विशेषाभावात्कथमिदं प्रत्युदाहरणमिति चेत्सत्यम्। दद्वाडित्यस्योपलक्षणमेतत्। तत्र हि दद दान इत्यतः क्विपि निष्पन्नो दच्छब्द इति चरमदकारस्य भष्भावे तमादाय पूर्वस्यापि तत्प्रवृत्तावनिष्टप्रसङ्ग इत्याशयोऽत्र विभावनीयः।।
अलमिति।। यत्त्वाहुः। भाष्यकारीयन्यासे धातुग्रहणं दामलिडादौ समासे घत्वाभावाय, दादिपदानुवृत्तिरपि पूर्वत्र धातोरेव दादेर्ढत्वपर्युदासेनोक्तस्थले ढत्वलाभाय, ततश्च साफल्यात्तयोरुभयोरपि पदयोर्लक्षणायां मानाभावः। न च वैयधिकरण्यान्वयस्योत्तरत्रावश्यकत्वप्रतिपादनेन भाष्यकृता सूचितमत्रत्यमनावश्यकत्वमेव तन्मानमिति वाच्यम्। दाद्यन्तस्य धातोरिति सामानाधिकरण्येन सम्बन्धेऽप्यधोगित्यादावव्याप्तिपरिहार इत्याशयकतयापि तद्भाष्योपपत्तेः। तस्मादिह लक्षणाकल्पनाभिनिवेशेन प्रवृत्ताः कैयटादिग्रन्थाः प्रामादिकाः। प्रवर्तमाने घत्वे दकारादिषु नामधातुष्वभीष्टमेव संगृहीतम्। इत्थं च परत्र नामधातोरपि धातुपदेन ग्रहीतव्यतया शब्दाधिकाराश्रयणक्लेशोऽपि नेत्यपरमनुकूलमिति तच्छिन्त्यम्। दामलिटट्‌पुत्रीयतेः क्विपि दामलिट्‌पुत्रीरित्यादौ वैयधिकरण्यान्वयेन प्राप्तस्य घत्वस्य दाद्यन्तस्य धातोरिति सामानाधिकरण्यान्वयेन दुर्लभतया विरोधात्तत्तात्पर्यकतया प्रकृतभाष्यस्योपपादयितुमशक्यत्वात्। किञ्च दादेरित्यस्य बहुव्रीहित्वेनान्यपदार्थाकाङ्‌क्षायामुपस्थितस्य धातोरेव तथात्वेन कल्पयितुमोचित्याद्दादिपदार्थस्य तदन्तविध्युत्तरं सामानाधिकरण्येन सम्बध्यमानस्य विशेषयान्तरस्याप्रसिद्ध्या तदन्तविधेरयोगः। अत एवेजादेश्च गुरुमत इत्यत्रापि न तदन्तविधिः। अन्यथा वेपतिप्रभृतिभ्योऽप्याम् प्रसज्येत। यदि तु `अलैवानर्थकेन तदन्तविधिरिति, येन विधिरिति सूत्रस्थवार्तिकबलेन प्लीहन्नादीनां हन्नन्तत्वादिनेव वेपतिप्रभृतीनामपीजाद्यन्तत्वेन ग्रहणमसम्भवीत्युच्यते तर्हि कथमधोगित्यादेर्दाद्यन्तत्वेन घत्वं स्यात्। आगमसमवधाने केवलस्यानर्थक्यादित्यास्तां तावत्।।
अङ्गं द्विधेति।। यद्यपि भविष्यामीत्यादौ विकरणान्तमामुष्यायण इत्यादौ विभक्त्यन्तं चाङ्गमेव तथापि त्योरत्रासम्भवादुक्तद्वैविध्योपपत्तिः। लक्षणया च धातुप्रातिपदिकोभयपरत्वमङ्गशब्दस्येति तेषामाशयः। निर्मूलत्वं भाष्याद्यनारूढात्वात्। निष्फलत्वं धुग्भ्यामित्यादेः पदान्तत्वादेव सिद्धत्वाच्चेति भावः। ननु फलितार्थोऽयमुपवर्णितो न त्वङ्गपदानुवृत्त्यादिपरिक्लेशे तात्पर्यं तत्राह।। अतिव्याप्तेश्चेति।।
भाष्यप्रयोगेणेति।। यद्यपि गुणो यङ्‌लुकोरित्यभ्यासस्य यङ्‌लुकि गुणविधानमस्याः परिभाषाया अनित्यत्वे प्रमाणमित्यपि युज्यते वक्तुम्। अन्यथा द्वित्वस्यैकाच इत्यधिकृत्य विधीयमानस्याप्रवृत्तावभ्यासाभावेन तदसङ्गतेः। तथापि विशेषापेक्षत्वे तादृशज्ञापकस्य द्वित्वमात्रविषयकता स्यादित्येवमुक्तमिति बोध्यम्।।
सम्प्रसारणशब्देनेति।। विहितेष्वेव सम्प्रसारणसंज्ञाप्रवृत्त्या विधाने विशेषणत्वायोगादुपलक्षणतया भाविसम्प्रसारणसंज्ञकस्स्यादित्येवं विधिप्रदेशीयो वाक्यार्थः। संज्ञाशास्त्रस्य तु यण स्थाने सम्प्रसारणशब्देन भावित इक्सम्प्रसारणसंज्ञ इत्येवं तद्भावितपक्षानुसारी वाक्यार्थ इत्याशयः। तद्भावितपक्षाश्रयणप्रयोजनं दर्शयति।। तेनेति।। न सम्प्रसारणत्वमिति।। अन्यथा द्युभ्यामित्यादौ हल इत्यनेन द्युलोक इत्यादावुत्तरपदाधिकारीयेण सम्प्रसारणस्येत्यनेन च दीर्घापत्तिरिति भावः।।
इत्येतद्विषयमिति।। प्रपूर्वादूहतेः क्विपि गुणे वाहेः क्विपि ऊठि वृद्धौ च विशेषसद्भावादिति भावः।।
विजिति।। इदमुपलक्षणं तत्प्रकृतिकण्यन्तात्क्विपोऽपि। अनभिधानबीजमाह।। अत एवेति।।
वार्तिकेनेति।। तत्प्रत्याख्याने तु दकारस्थानिकोऽयं चर्त्वनिष्पन्नस्तकार आदेशेष्वित्यभ्युपगमेन तित्त्वाभावात्तदप्रवृत्तिरिति स्पष्टं भाष्ये।
के चितु व्यञ्जनानां स्रंसनधर्मत्वाद्वकारस्थानिकस्यौकारस्यान्तरतम्यादनुदात्तत्वे फिट्स्वरेणोदात्तस्येकारस्य यणि सति शिष्टत्वेनोदात्तस्वरितयोर्यण इत्यस्य प्रवृत्त्या द्यौरित्यत्राभीष्टमेव स्वरितत्वम्। पुनरौकारस्य फिट्‌स्वरस्तु न, सुनिमित्तस्यौकारस्य बहिरङ्गत्वादिति वदन्ति।। [टि- वदन्तीति।। परे तु द्योदिवौ द्वे इति कोशाद्दिव्‌शब्दस्य स्त्रीलिङ्गतया पुंलिङ्गप्रकरणे दिव औदित्यस्योपन्यासो दिव्‌शब्दान्तबहुव्रीहिविषयक इति स्फुटमेव। तादृशे उदाहरणे औकारस्य स्वरितत्वाभावार्थं तकारस्योच्चारणार्थत्वमङ्गीचकार मनोरमाकारः। तत्र तकारस्येत्संज्ञामभ्युपेत्य तित्स्वरितमिति स्वरिताप्रवृत्त्युपायं विवृणोति शब्दरत्नकारः। अस्मिन्प्रस्तावे केवलदिव्‌शब्दस्य प्रसङ्ग एव नेति द्यौरित्यत्रान्यथास्वरितत्वोपपादनप्रयासो विफल एव। प्रस्तुतोदाहरणे बहुव्रीहौ स्वरितत्वस्य सर्वथानिष्टत्वेन तद्वारणोपायस्यावश्यप्रदर्शनीयत्वात्। द्यौरित्यत्र स्वरितत्वोपपादनमपि नैवापूर्वम्, शेखरग्रन्थ एव तदुपपादनदर्शनात्। अतोऽत्र के चिदित्यादिना कृतस्य प्रयासस्य किं फलमिति न जातीम इत्याहुः।]
अतद्भावितस्यापीति।। ननु द्युभ्यामित्यादावत्र पक्षे सम्प्रसारणदीर्घो दुर्वारः। दिव उतस्तपरत्वस्य ``भाव्यमानोऽप्युकारस्सवर्णान् गृह्णातीति परिभाषाज्ञापनद्वारेण दिव्‌शब्दादाचारक्विबन्तात्कर्तरि क्विपि वकारस्य छ्वोश्शूडित्यूठ्यान्तरतम्याद्दीर्घस्य स्थाने प्रसक्तस्य दीर्घस्य निवर्तनेन चरितार्थतया निरुक्तदीर्घनिवर्तकत्वायोगात्। न च सामर्थ्यात्सम्प्रसारणदीर्घस्यापि तादृशतपरत्वेन निवृत्तिरिति वाच्यम्। ऊठ्स्थानिकस्योकारस्य सम्प्रसारणत्वभावेन प्रकृतदीर्घाप्रवृत्तेस्सामर्थ्यायोगात्। न च वकारस्थानिकस्योठस्सम्प्रसारणतया तत्क्थानिकस्याप्युकारस्य स्थानिवत्त्वेन तथात्वं सुवचमिति वाच्यम्। अल्विधौ स्थानिवत्त्वायोगात्, न च कास्प्रत्ययादिति विधीयमानस्यामो मकारस्य प्रयोजनाभावेनेत्संज्ञावारणपरे ह्रस्वनद्याप इति सूत्रस्थे भाष्ये प्रत्ययान्तादाम्विधीयते तत्र नास्तिविशेषो मिदचोन्त्यात्परत्वे प्रत्ययपरत्वे वेत्युक्त्या हरन्तेभ्य आचारक्विपोऽनभिधानस्य ध्वनितत्वेन दिव उदित्यस्य निरुक्तरीत्या दीर्घस्थाने प्रवृत्त्ययोगे स्वांशे चारितार्थ्याभावादुक्तपरिभाषाज्ञापकत्वानुपपत्त्या तपरत्वेन सम्प्रसारणदीर्घनिवर्तने बाधकाभावः। सति प्रयोजने ऋत उदिति विधेयांशे तपरत्वमेवोक्तपरिभाषायां ज्ञापकमाश्रयितव्यमिति वाच्यम्। एवमप्यदुहितरामित्यादौ लस्थानिकस्येटस्सम्प्रसारणतया सम्प्रसारणदीर्घापत्तेः। न च प्रत्यासत्त्या सम्प्रसारणप्रयोजकप्रत्ययनिरूपिताङ्गसंज्ञावदवयवाद्धलः परं यत्सम्प्रसारणं तदन्ताङ्गस्य दीर्घ इत्यर्थस्य निरुतमित्यादावतिव्याप्तिवारणार्थमावश्यकतया प्रकृतेऽपि न दोषो लादेशस्येटः परनिमित्तकत्वाभावादिति वाच्यम्। एवमप्यपाचीत्यादौ च्लिस्थानिकचिण्‌प्रवृत्तिप्रयोजकतप्रत्ययनिरूपिताङ्गसंज्ञावदवयवहलः परत्वेन दोषध्रौव्यादिति चेदत्राहुः। यथासंख्यविज्ञानादिकारस्य यकारस्थानिकस्यैव सम्प्रसारणत्वाभ्युपगमेन च्लिलकारस्थानिकचिणिकारस्य तथात्वाभावादापादितदीर्घाभावः।`` विधौ परिभाषोपतिष्ठते नानुवाद इति त्वेको गुणवृद्धी अचश्चेति सूत्रयोर्विधीयत इत्यध्याहारलब्धतया तन्मात्रविषयम्। अत एवोदात्तस्वरितयोर्यणस्स्वरित इत्यत्र षष्ठी स्थान इत्यस्याः प्रवृत्तिः। प्रकृते च यण स्थाने प्रयुज्यमानो य इगित्यर्थसङ्गतिः। अतोऽत्र तद्भावितपक्षाश्रयणस्य नोपयोग इति दीक्षितानुसारिणः।
नव्यास्तु तद्भावितपक्षोऽत्रावश्यकः। अक्षद्युवावक्षद्युव इत्यत्र वकारस्थानिकस्योठस्सम्प्रसारणतया सम्प्रसारणाच्चेत्यस्य प्रसङ्गात्। सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणमिति वार्तिकेन तु न निर्वाहः। तदीयप्रयोजनानां शकह्वर्थमित्यादीनां सम्प्रसारणक्थानिकपूर्वरूपादावल्मात्रवृत्तिसम्प्रसारणत्वस्य स्थानिवत्त्वेनातिदेशासम्भवादेव सिद्धिरित्याश्रित्य भाष्ये तस्य प्रत्याख्यानादित्यायुः।
अत्रेदं बोध्यम्।। यदा यण स्थाने प्रयुक्त इक्‌ सम्प्रसारणसंज्ञ इति वर्णसंज्ञापक्षस्तदा विधिप्रदेशेष्वन्योन्याश्रयदोषवारणाय सूत्रशाटकवद्भावेन भाविसंज्ञाश्रयणम्। अनुवादेषु दोषवारणाय संज्ञायां तद्भावितपक्षाश्रयणं चावश्यकम्। यदा [टि- यदात्विति।। वस्तुतस्तु वाक्यसंज्ञापक्षे भाविसंज्ञाश्रयणस्य तद्भावितपक्षस्य च सम्भवस्यैवाभावेनानेन ग्रन्थेन तयोरुपयोगाभावकथनमयुक्तमिति बोध्यम्।] तु वाक्यस्यैवेग्यण इत्यस्य सम्प्रसारणसंज्ञा, प्रदेशेषु सामार्थ्यादर्थपरत्वं, तदा विधिप्रदेशेष्वन्योन्याश्रयाप्रसक्त्या न भाविसंज्ञाश्रयणोपयोगः। सम्प्रसारणाच्चेत्यादावनुवादे यण्त्वावच्छिन्नस्थानिकादिक इत्याद्यर्थसम्भवेन चिणादेरतथात्वाद्‌दूषणाप्रसक्त्या नैव तद्भावितपक्षस्योपयोग इति दिक्।
शब्दात्परत्वमेवेति।। आम्प्रत्ययगतपरत्वावधित्वं शब्दगतमर्थे आरोप्यत इति भावः।। एतत्सामर्थ्येनेति।। बहुवचनान्तत्वेन निर्देशसामर्थ्येनेत्यर्थः। यद्यपि सामर्थ्यादर्थपरत्वे प्रधानाप्रधानयोरिति न्यायेनैव प्राधान्यलाभस्तथापि प्रकृते सामर्थ्यादेव तल्लाभेन्यायान्वेषणमनुपयुक्तमित्याशयः।। प्राचामनुरोधेनेति।। वस्तुतो नात्रार्थप्राधान्यसम्भवो निर्मूलत्वादिति भावः। नन्वेवं बहुवचनान्ततया निर्देश सम्भवत्येकमात्रया लाघवमत आह।। समाहारेणेति।। नन्वितरेतरयोगे द्विवचनं समाहारे त्वेकवचनं वात्रोपपन्नमुभयथापि बहुवचनमनुपपन्नमेवेत्युक्तार्थ साधकमिति चेदत्राह।। षट्‌संज्ञकानामिति।। ननु संज्ञिनां बहुत्वेऽप्येकत्वेन जातिपुरस्कृतस्संज्ञाशब्दानामङ्गस्य भस्य धातोस्सर्वनाम्न इत्येवं निर्देशस्सूत्रकारशैलीसिद्ध इत्येकवचनान्तेन षट्‌छब्देन द्वन्द्वे कथं बहुवचनोपपत्तिरित्यत आह।। किञ्चेति।। ननु षट्‌छब्दस्यैकवचनान्तत्वेऽपि तद्भिन्नस्य स्वस्रादिशब्दस्य बहुव्रीहेरन्यपदार्थगतबहुत्वमादाय बहुवचनान्ततया तयोर्द्धन्द्वे युक्तमेव तत्र बहुवचनम्। प्रकृते तु न तथेत्यत आह।। तिसृभ्यो जस इति।। तिसृभ्यः परो जसुदात्त इत्यर्थः। यद्यप्यत्र बहुवचनस्यार्थप्राधान्यसूचकतामाश्रित्य प्राधान्ये नित्यबहुवचनान्तत्वात्तिसृशब्दस्यान्तोदात्तत्वाच्च शस्युदात्तयणो हल्पूर्वादिति नामि षट्त्रिचतुर्भ्यो हलादिरिति च विभक्त्युदात्तत्वमभीष्टमेवान्यत्र झल्युपोत्तममित्युपोत्तमोदात्तत्वं परत्वादस्य बाधकम्। अतो जस्येव प्रवर्तत इति वैयर्थ्याज्जस्ग्रहणं प्रत्याख्यातं, ``जस्ग्रहणानर्थक्यमन्यत्राभावादिति कात्यायनेन, तथापि तस्य प्रयोगबाहुल्याभिप्रायकतामाश्रित्य प्रयतिस्रावित्यौङि समासे गौणेस्वरव्यावृत्तिस्तादृशजस्ग्रहणस्य प्रयोजनमुक्त``मुपसमस्तार्थमेके इति वदता भाष्यकृता, यथोत्तरं मुनीनां प्रामाण्यमित्याशयः। नन्वे के इत्युक्तेर्नायं भाष्यकाराशयः, अन्यथा ह्यवश्यं जस्ग्रहणं कर्तव्यमुपसमस्तार्थमित्येव वदेदिति वितण्डायामप्याह।। किञ्चेति।। प्रियचतसृणामिति।। त्रेरित्यनुवृत्तस्य वाक्यभेदेन नुड्विधायकत्वादेकवचनान्तत्वाच्च गौणेऽपि प्रवृत्तेर्निर्विवादतया न प्रियतिसृणामित्यत्र चारितार्थ्यमुद्भावितमिति द्रष्टव्यम्।। न भाष्यतात्पर्यमिति।। ननु छन्दस्युभयथेति विकल्पाद्दीर्घाभावे ``धाता धातृणां पितृणां च मन्वभिरित्यादौ नुट्‌प्रवृत्त्यर्थमुपायान्तराप्रदर्शनेन न्यूनताप्रसक्त्या ऋन्नद्याप इति न्यासतात्पर्यकता भाष्यस्यावश्यकीति चेत्सत्यम्। श्रीग्रामण्योश्चन्दसीत्यत्र छन्दसीति योगोविभज्यते। तेनैतादृशेषु वैदिकप्रयोगेषु नुट्‌सिद्धिः। योगविभागस्येष्टसिद्ध्यर्थत्वाच्छन्दसि सर्वविधीनां व्यवस्थितत्वाच्च नानिष्टप्रसङ्ग इत्याशयो विभावनीयः। विपक्षे बाधकमस्तीत्याह।। त्रिशब्दानुवृत्तीति।। ननु नेदं भाष्यमसङ्गतं, त्रिशब्दानुवृत्तिप्रतिपादनकाले नृणामित्यादिलक्ष्याणामपर्यालोचनेऽपि पश्चात्तत्पर्यालोचने बाधकाभावात्। यथोक्तं पस्पशायां भाष्यकृता शब्दो व्याकरणं चेद्भवे तद्धितः प्रोक्तादयश्च सद्धिता इति कात्यायनयोदितायामापत्तौ प्रोक्तादयश्च तद्धिता नोपपद्यत इत्येव सिद्धे भवे तद्धित इत्यधिकमित्याक्षेपे पुरस्तादिदमाचार्येण दृष्टं भवे तद्धित इति तदुत्तरकालमिदं दृष्टं प्रोक्तादयश्च तद्धिता इति।। ``न चेदानीमाचार्यास्सूत्राणि कृत्वा निवर्तयन्तीति प्रकृते।टपि त्रिशब्दानुवृत्तिपरं च भाष्यं प्राथमिकं, निरुक्तन्यासतात्पर्यकं च पाश्चात्यमतस्ततोऽत्र न किञ्चिद्वैषम्यम्। तस्मात्त्रिशब्दानुवृत्तिपरं भाष्यं न प्रकृतार्थे प्रतिबन्धकमत आह।। नैकमुदाहरणमिति।। उदाहरणानामनेकत्वादेकमित्यस्यासङ्गतिरिति तात्पर्यम्। नन्वेकशब्दस्यैकजातीयर्कारान्तपरत्वं ऋकारपरत्वे वा का क्षतिः। ततश्च नुड्विधौ बहुवचनेन गौणे नुडागमनिवृत्तिकल्पनायां न किञ्चित्प्रतिबन्धकमिति पर्यालोच्याह।। गौणे नुट इति।। वहुवचननिर्देशप्रयुक्तस्यार्थप्राधान्यस्य भाष्ये क्वाप्यनाश्रयणादव्ययसर्वनाम्नामित्यादौ संज्ञाशव्दयोर्द्वन्द्वस्य प्रयोजनमन्तरापि बहुवचनान्ततया निर्देशदर्शनाच्च नुड्विधौ नार्थप्राधान्यलाभ ित्याशयः। नन्वङ्गाधिकारे पञ्चम्या यदुच्यते गृह्यमाणविभक्तेस्तद्भवतीति सर्वादिसूत्रभाष्यबलादेव लुक इव नुटोऽपि गौणे न प्रवृत्तिरिति चेन्न। तद्भाष्यस्याड्डतरादिभ्यष्षड्‌भयो लुगित्यनयोरेव सूत्रयोर्विहितविशेषणतात्पर्यकतायास्तत्रत्योपक्रमोपसंहाराभ्यां प्रतीत्या प्रकृतानुपयोगात्। अन्यथा परमचतुर्णामित्यादवभीष्टस्य नुटः प्रवृत्त्यनापत्तेरिति दिक्।।
इमावित्यत्रेति।। तदन्तविधिस्तु दुर्लभः। `अलैवानर्थकेनेति' येन विधिरिति सूत्रस्थभाष्यात्।। अङ्गकार्ये इति।। एतत्परिभाषामनभ्युपगच्छतामिह टेरित्येव न्यास इति बोध्यम्।। अधिकारादिति।। ननु प्रातिपदिकाधिकारे सत्यपि कुत्सित इति सूत्रोक्तेन स्वार्थे परिपूर्णमिति न्यायेन सुबुत्पत्त्यनन्तरमेव प्रातिपदिकस्याकच्प्रवृत्तेरौचित्याद्युगपत्प्राप्त्त्या परेण बाधो दुर्वार एवेत्यत आह।। शब्देनेत्यादि।। अन्तरङ्गपरिभाषायामङ्गशब्देन सप्तम्याद्यन्तत्वेन गृहीतमेव निमित्तं गृह्यते, न तु वस्तुगत्या स्थितमित्यन्यत्र प्रपञ्चितम्।। गौरवमिति।। उश्तिहोरिति न्यासे शित्त्वात्सर्वादेशत्वे च नास्त्यत्र नानर्थक इति परिभाषाश्रयणप्रयुक्तं गौरवमित्यत आह।। क्लेश इति।। यदि तु वोतीति न्यासेन इमो वशब्दादेशे नास्त्यङ्गवृत्तपरिभाषाश्रयणमित्युच्यते, तदा साकच्कात्किम्‌शब्दात्त्रलादिषु कुत्रेत्यादिसिद्धये कुक्वादेशौ किमोनुवृत्तिश्चेति निष्कर्षः।। वार्तिकमिति।। त्यदादेर्भवतस्सम्बोधनाभावे सम्बुद्धिनिमित्तकत्वेन भवच्छब्दस्य रुत्वविधानाय प्रवृत्तं तद्वार्तिकं विरुध्यत इत्याशयः। इदं सर्वमत्र द्विशब्दात्परेषामपि त्यदादित्वमित्यभ्युपगमेन। यदि द्विपर्यन्तानामेव त्यदाद्यत्वं, तदा सत्यपि भवतस्सम्बोधने क्षत्यभावः।
सकृद्गतिन्यायेनेति।। पुनः प्रसङ्गविज्ञाने तु स्मैभावस्य नित्यतया परबाध्यत्वं दुरुपपादमित्याशयः। ननु स्मायादेशोत्तरमनादेशस्य प्रसक्तिरस्त्येव, बाधकेन हलिलोपेन बाध्यत इत्यन्यत्। ततश्च कृताकृतप्रसङ्गत्वरूपनित्यत्वस्योभयसाधारणतया कथमिह नित्यत्वं व्यवस्थापकं स्यात्तत्राह।। रक्ष्यानुरोधेनेति।। नन्वेकस्य द्विकार्ययोगो विप्रतिषेधः। प्रकृते च प्रकृतेरनादेशः प्रत्ययस्य स्मैभाव इति विप्रतिषेधाभावात्कथमिह परबलीयस्त्वप्रसक्तिरत आह।। युगपदसम्भवेनेति।। [टि- युगपदसम्भवेनेतीति।। नानादेशो नित्य इति भावः, इति शब्दरत्नग्रन्थानन्तरं ``यगपदसम्भवेन विप्रतिषेधोऽत्र इत्यधिकः पाठः क्वचिद् दृश्यते। परन्त्विदानीन्तनग्रन्थेष्वयं नोपलभ्यते।।] तदुक्तं विप्रतिषेधसूत्रे भाष्ये।। ``नावश्यं द्विकार्ययोग एव विप्रतिषेधः। किन्तर्हि युगपदसम्भवोऽपीति प्रकृतिप्रत्यययोरिह निमित्तत्वं स्थानित्वं च युगपदसम्भवीत्याशयः।।
न तु प्रवर्तनाविषयत्वमिति।। अन्यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेत्यादौ पूर्ववाक्यीयाध्ययनादेर्लिङ्‌लोट्‌तव्यप्रत्ययान्तगम्यप्रवर्तनाविषयत्वाभावेनोत्तरवाक्यीयाध्यापनादेरन्वादेशविषयत्वाभावादेनादेशानुपपत्तिः।। सखीवाक्यमिति।। एतेन राधिकां प्रति नन्देन कृष्णसम्बन्धिभीरुत्वमज्ञातमेव बोध्यत इति कथमनुवाद्यतेत्यपास्तम्।। आरोपितमिति।। सखीराधिकयोस्सङ्केतसिद्ध एवायमारोप इति नाज्ञातं राधिकाया भीरुत्वमित्याशयः।। नन्दनीयनिधेशादिति।। आकृतिगणत्वात्पचादेरजन्तोऽयं यौगिको नन्दशब्दइति मन्यते।
केचित्तु करिष्यमाणकामुकव्यापारसङ्गोपनाय भूतस्वकीयबाल्याभिव्यञ्जकभीरुत्वनटनामनोहरं श्रीकृष्णमालोक्य नन्दस्यैवेयमुक्तिः। त्वमेवेत्यस्य जानासीत्यध्याहारेण त्वं जानास्येवेत्यर्थः। इत्थं च राधिकया दृष्टमेव कृष्णभीरुत्वमनुवदन् गृहप्रापणमाज्ञापयति नन्द इति नान्वादेशविषयत्वं, नापि जयदेवशैलीविरुद्धं नन्दशब्दस्य क्लिष्टार्थकत्वमित्याहुः।।[टि- आहुरिति।। परे तु निरुक्तव्याख्याने जानासीत्यध्याहारे क्लेशः। अध्याहारेऽपि युष्मच्छब्दसमभिव्याहृतस्यैवेत्यस्य जानासीत्यनेन योजने सुतरां क्लेशः। तदपेक्षया नन्दपदस्य नन्दनीयेत्यर्थकत्वेऽक्लिष्टार्थतैव। किञ्च मूलोक्तव्याख्याने श्लोकप्रथमपादस्योद्दीमनविभावबोधनतात्पर्यकतया स्वारस्यमपि घटते। अत्र युक्तमुत्पश्यन्तु सुधिय इत्याहुः।।]
भाष्ये ध्वनितत्वादिति।। तत्र हि ण्यन्ताद्यङन्ताच्च णिचि चिणि णिलोपाल्लोपयो स्थानिवत्त्वेन चिण्णमुलोरिति दीर्घविकल्पो न प्रवर्तेतेत्युद्भाव्य कात्यायनेनारब्धं णेर्णिच्युपसंख्यानं यङ्‌लोपे चेति वार्तिकं दीर्घविधौ स्थानिवत्त्वनिषेधमाश्रित्य भगवता प्रत्याख्यातम्। एवञ्च सपादसप्ताध्यायीस्थदीर्घस्यापि स्थानिवद्भावनिषेधे निमित्तत्वमेतदर्थमेव चिण्णामुलोरित्यत्र दीर्घग्रहणमन्यथा प्रकृतो मितां ह्रस्व एव विकल्पितस्स्यादिति तदभिप्रायस्सपष्ट एव। कमेर्णिङिति सूत्रेऽपि भाष्ये स्फुटमेतत्। तथा च हेडतेर्मित्त्वमनार्षमेतद्भाष्यविलोधात्। न पदान्तसूत्रे पूर्वत्रासिद्धीये न स्थानिवदित्यवष्टभ्या वरेयलोपस्वरवर्जं द्विर्वचनादीनि प्रत्याख्येयानीति भाष्ये वर्ज्यकोटौ दीर्घोऽप्युपलक्षणीयः। यथाश्रुतं तद्भाष्यमुपादाय तद्विरुद्धस्य भाष्यान्तरस्यानेकस्यैकदेश्युक्तित्वकल्पनं नोचितमित्युपाध्यायनिषकर्थ इति दिक्‌।।
अस्य विधित्वमिति।। सामान्यशास्त्रस्योक्तरीत्या सङ्कोचे स्वघटकेषु नियमशास्त्रस्यैव कार्यसमर्पकत्वादिति भावः।। इदमेवेति।। समान्यशास्त्रसङ्कोचकत्वमेवेत्यर्थः।। गुरुत्वमिति।। यद्यपि सामान्यविधिसङ्कोचकल्पना सकलविशेषविधिसाधारणी। तथापि विशेषविधेरुपात्तविशेषविषय एव सामान्यसङ्कोचकल्पना, नियमस्य त्वनुपात्तविषयेऽपीति गुरुत्वमित्याशयः। नन्वेतादृशगौरवपरिहाराय नियमशास्त्राणां निषेधमुखेनैव प्रवृत्तिराश्रयतां तत्राह।। नेषेधवादिनोऽपीति।। निषेधमुखेन प्रवृत्तिमभ्युपगच्छतोऽपीत्यर्थः।। विकल्पापत्तेरिति।। तत्तल्लक्ष्यविषयकत्वेनोपप्लृतयोरुत्सर्गनियमलक्षणयोरनवकाशत्वान्मुनिवचनत्वाविशेषाच्च साम्येन पर्यायताप्रसङ्ग इति भावः। इदमुत्सर्गापवादभावविषये सर्वत्रैवावश्यकम्। ननु नियमशूस्त्राणां विधिमुखेन प्रवृत्त्यब्युपगमेतेषां निषेधशास्त्रत्वेन भाष्यकृतां व्यवहारो विरुध्येतेत्यत आह।। अर्थसिद्धमिति।। सिद्धस्य पुनरारम्भबलेन गम्यमानमित्यर्थः। अनुमितस्य श्रौतबाधकत्वमपि शास्त्रारम्भसामर्थ्यादेवेत्यवधेयम्।। अत्रार्थे तन्त्रान्तरसामरस्यमाह।। पञ्च पञ्चनखा इति ।। ``शशकश्शशली गोधा खड्गः कूर्श्च पञ्चमः। पञ्च पञ्चनखा भक्ष्या न भक्ष्यो ग्राम्यकुक्कुट इति मानवी स्मृतिः।। तेनान्येषामिति।। यतस्तेनान्येषां भक्षणनिषेधः प्रायश्चित्तं च गम्यते, ततो रागप्राप्तभक्षणस्य तदितराविषयकत्वकल्पनमित्यर्थः।।
ननु लौकिकस्य रागप्राप्तमांसभक्षणस्य गम्यमानेनापि शास्त्रारम्भमूलकेन निषेधेन स्मृतौ तत्र सङ्कोचो युक्तः। प्रबलस्य दुर्बलबाधकत्वप्रसिद्धेः। इह तु श्रुतस्य शास्त्रीयविधेः कथमनुमितेनात्यन्तिकी निवृत्तिस्स्यात्। शास्त्रारम्भसामर्थ्यं तु पाक्षिकबाधकल्पनेनाप्युपक्षीयत इति चेन्न। पतिस्समास एवेत्यनेन नियमितस्यि समासाघटकपतिशब्दघित्वस्य षष्ठीयुक्तश्छन्दसि वेति छन्दसि विकल्पारम्भेण नियमशास्त्रानुमितनिषेधस्य स्वविषये सर्वथा सामान्यशास्त्रप्रवृत्तिनिरोधकत्वकल्पनेनादोषात्। किञ्च नियमशास्त्रेषु तत्समर्पकपदानामुपचारादवधारणविषयस्वार्थबोधकत्वम्। अवधारणं च स्वातिरिक्तावृत्तित्वेन गृहीतसमभिव्याहृतपदार्थ--प्रकारकज्ञानरूपं, स्वातिरिक्तं च पर्युदासन्यायेन स्वसजातीयमेव, तथा च समाससजातीयसमासातिरिक्तवाक्यावृत्तित्वेन गृहीतप्रातिपदिकत्वप्राकारकज्ञानविषयस्समासः प्रातिपदिकसंज्ञक इत्यादिक्रमेणार्थात्सामान्यशास्त्रस्य तदंशे सर्वथा निवृत्तिरर्थत एव सिद्धा। पञ्च पञ्चनखा भक्ष्या इत्यत्रापि पञ्चत्वसंख्यावच्छिन्नपञ्चनखातिरिक्तपञ्चनखावृत्तित्वेन गृहीतभक्षणविषयत्वप्रकारकज्ञानविषयाः पञ्चनखा भक्ष्या इत्यर्थस्य पर्यवसानादन्येषां भक्षणाभावसङ्गतिः। पार्थ एव धनुर्धर इत्यादावपि निपातानां द्योतकत्वादवधारणविषयपार्थादिबोधकत्वं समभिव्याहृतस्य, तत्रैव तात्पर्यग्राहकतामात्रमेवकारस्येत्यादिमञ्जूषायां विस्तरः।।
ननु पतिस्समास एवेत्यादौ शास्त्रारम्भादेव नियमलाभादेवकारोपादानं व्यर्थमत आह। पतिस्समास एवेत्यादि।। मा भूदिति।। एवकारस्य स्वसमभिव्याहृतपदार्थानुरोधेन नियमबोधकत्वस्वाभाव्यादित्याशयः। यद्यपि पत्यावैश्वर्ये धात्वादेष्षस्स इत्यादिनिर्देशबलेन विपरीतनियमो न स्यात्तथापि त्वन्मुखं त्वन्मुखेनैव तुल्यं नान्येन केन चिदित्यादावेवकारार्थावधारणानुवादकत्वेन नान्येनेत्यादेरिवप्रकृतेपि शास्त्रारम्भमूलकावधारणानुवादकस्यैवकारस्य प्रयोगः। एवंविधानां प्रयोगे साधुत्वबोधनोपाय एवायं निर्देश इति तत्त्वम्। ननु नियमशास्त्राणां विधिमुखेन प्रवृत्तौ सामान्यशास्त्रसङ्कोचात्मकान्ययोगव्यवच्छेदस्य फलितत्वेपि वाच्यवृत्त्या प्रतीत्यभावाद्विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदार्थकत्वरूपप्राचीनप्रवादविरोधापत्त्या तद्धटितानां निषेधमुखेनैव प्रवृत्तिरुचिता तत्राह।। अन्ययोगव्यवच्छेद इत्यादि।। नेयमिति।। कथं चिदुपपादनीयमित्यर्थः।। अनुपराभ्यामिति।। तत्र हि क्रियाफलस्य कर्तृगामितायां शेषादित्यस्याप्राप्तौ परस्मैपदस्यानुपरपूर्वात्करोतेरनेन विधानेपि निषेधाभावात्स्वरित ञित इत्यनेन पाक्षिकमात्मनेपदं प्रवर्तेतेत्याशङ्क्य, अन्यत्र क्रियाफलस्य कर्तृगामितायां स्वरित ञित इत्यात्मनेपदेन यथा परस्मैपदं बाध्यते, एवमिहापि परस्मैपदेनात्मनेपदं बाधिष्यत इत्युक्तम्। स्वरित ञित इत्यस्य नियमकतया निषेधमुखेन प्रवृत्तौ तस्य परस्मैपदनिषेधबोधकत्वेऽप्यात्मनेपदविधायकत्वाभावात्तद्विहितेनात्मनेपदेन परस्मैपदं बाध्यत इत्युक्तिरयुक्ता स्यादित्याशयः। इह तु ध्वनितं पस्पशायां तु भाष्ये स्पष्टमेवाभिहितमित्याह।। पञ्च पञ्चनखा इत्यादि।। निषेधमुखेन प्रवृत्तौ वाच्यवृत्त्यैव निषेधप्रतीत्या भाष्ये गम्यत इत्युक्तिरयुक्ता स्यादिति भावः।। असिद्धत्वस्येते।। न तु नलोपस्य, प्रकरणोच्छेदापत्तेः। अत एवेत्यस्य लक्षणाबलेनार्थान्तरबोधकत्वादेवेत्यर्थः।। अयं व्यवह्रियत इति।। शाब्दिकैर्नियमत्वेन व्यवह्रियमाणो मीमांसकैः परिसंख्येति व्यवह्रियत इत्यर्थः। अवङ्‌स्फोटायनस्येति विहितस्यावङादेशस्य पाक्षिकीं प्राप्तिमनूद्य पक्षान्तरीयाया अप्राप्तेर्निवारणार्थस्य इन्द्रे चेत्यस्य व्रीहीनवहन्तीतिवत्तदीयनियमपदव्यवहार्यत्वमेव। ``विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयत इति तेषां तन्त्रे परिभाषणादिति बोध्यम्।
ननु परिसंख्याया विधिमुखेन प्रवृत्तौ लक्षणाप्रयुक्तयोस्सवार्थहानिपरार्थकल्पनयोरभावेन गौरवाधायकस्य दोषत्रयस्य दुर्वचतया नियमापेक्षया गुरुत्वस्य तत्र मीमांसकैर्व्यवह्रियमाणस्यासङ्गत्यापत्त्या निषेधमुखेनैव प्रवृत्तेरावश्यकतया तत्स्थानीयानां प्रकृतशास्त्रीयनियमशास्त्राणामपि तथैव प्रवृत्तिरुचितेति चेन्न। विधिमुखेन प्रवृत्तावपि सिद्धस्यानुवादबलेन स्वविषये सामान्यशास्त्रसङ्कोचेन स्वघटकसजातीयव्यवच्छेदे मुख्यतात्पर्यात्स्वार्थे तदभावाच्च तत्प्रयुक्तयोस्स्वार्थहानिपरार्थकल्पनयोस्सम्भवेन तद्व्यवहारोपपत्तेः।
अथात्र पक्षे तन्त्रान्तरीयपरिसंख्यायास्स्वार्थे तात्पर्याभावात्तत्र शशकादिपञ्चनखभक्षणस्य विधानतात्पर्यविषयत्वाभावप्रयुक्तापूर्वजनकत्वाभाववत्प्रकृतेपि धातोस्तन्निमित्तस्येत्यादेर्यकारादिप्रत्ययपरकस्य यकारादिप्रत्ययनिमित्तकस्य धात्ववयवस्यैचो वान्तादेश इत्यर्थस्य शब्दतः प्रतीतावपि तत्र तात्पर्याभावात्सामान्यशास्त्रस्य चैतद्विषये सङ्कोचाच्च लव्यमित्यादेर्विधेयत्वेन शास्त्रतात्पर्यविषयत्वाभावात्साधुत्वं दुर्लभमिति चेदत्राहुः। तन्त्रान्तरीयपरिसंख्याविषये पञ्च पञ्चनखा इत्यत्र रागप्राप्तभक्षणस्य शास्त्रेऽनुवादबलेनानूद्यमानांशस्याभ्यनुज्ञाद्वारा प्रत्यवायाभावकल्पकत्वेऽप्यपूर्वजनकताकल्पकत्वे मानाभावः। तस्य लौकिकानुवादरूपत्वात्। प्रकृते च सामान्यशास्त्रसिद्धस्यानुवादः। स च साधुत्वविशिष्टस्यैव। अनुवाद्यानुवादकयोस्सजातीयतानियमात्। अन्यथा ह्यनुवादस्वरूपभङ्गापत्तिः। तस्मादेवंविधेष्वसाधुत्वशङ्काया अनवकाश एवेत्युपाद्यायानुयायिनः।।
गौरवमिति।। शक्यार्थबोधे जननीये शक्तिग्रहाधीनपदार्थोपस्थितेरवकारणत्वाल्लाघवम्। लक्ष्यार्थबोधे तु शक्तिग्रहाधीनपदार्थोपस्थितिमूलकविरोधप्रतिसन्धानप्रयुक्तलक्षणाधीनपदार्थोपस्थितेः कारणत्वाद्गौरवमतो लक्षणा नाश्रयितव्येति भावः। ननु गौरवदोषाल्लक्षणानाश्रयणे तस्या उच्छेद एव स्यादत आह।। फलाभाव इति।। अनुपपत्तिपरिहारेण फलवती लक्षणा, यथा गङ्गायां घोष इत्यत्र घोषे भगीरथरथखातावच्छिन्नप्रवाहवृत्तिताया अनुपपत्तिपरिहारार्था तीरलक्षणा, न तथा प्रकृते प्रयोजनं लक्षणाया इति भावः। ननु न केवलमन्वयानुपपत्तिपरिहार एव लक्षणायाः प्रयोजनं, किन्तु तात्पर्यानुपपत्तिपरिहारोपि, यथा काकेभ्यो दधिरक्ष्यतामित्यत्र दध्युपघाताभावविषयकतात्पर्यानुपपत्तिपरिहारः काकपदस्य दध्युपघातकजन्तुमात्रलक्षणायाः प्रयोजनम्। एवं च प्रकृतेपि लोकसिद्धभाक्षणविधानवैयर्थ्योन्नीततात्पर्यानुपपत्तिपरिहारो भवतु लक्षणायाः प्रयोजनमत आह।। अनौचित्यं चेति।। अस्वारसिकत्वमिति तदर्थः। अत एवेयं विरुद्धलक्षणा जघन्येति व्यवह्रियते, अतो न युक्ता तदभावलक्षणेति परमार्थः। ननु स्वरविधौ व्यञ्जनमविद्यमानवदिति परिभाषणात्सत्यपि नलोपासिद्धत्वे पञ्चार्ममित्यादावदन्तपूर्वपदत्वप्रयुक्तस्य स्वरस्य दुर्वारत्वाद्व्यर्थमेव स्वरविधौ नलोपासिद्धत्वोपवर्णनमत आह।। स्वरविधाविति।। धर्मिग्राहकस्येति।। धर्मो व्यञ्जनानामविद्यमानवद्भावः। बोधकतया तद्वद्धर्मि प्रकृतपरिभाषाशास्त्रं तस्य ग्राहको यः पृथिव्यादिपर्युदासः तस्य स्वरोद्देश्यकत्वादित्यर्थः। ज्ञाप्यांशे ज्ञापकसाजात्यस्य न्याय्यत्वादिति भावः। अचः कर्तृयकीति।। कर्मकर्तृबोधके यक्युपदेशेऽजन्तस्य धातोरादिरुदात्तो वेति तदर्थः। व्यञ्जनानामविद्यमानवद्भावे सर्वेषामेवाजनतत्वादय इति व्यर्थं सदुक्तपरिभाषायास्स्वरोद्देश्यकविधिविषयत्वं बोधयतीति भावः। नलोपासिद्धत्वमपीदमुक्तार्थे प्रमाणयितुं युक्तम्।। यतो नाव इत्येतत्प्रतिषेधमूलकमिति।। यतो नाव इत्येतच्छास्त्रघटकनौशब्दप्रकृतिकयदन्तपर्युदासमूलकमित्यर्थः। यदन्तस्य द्व्यच्कस्य नौशब्दप्रकृतिकयदन्तभिन्नस्यादिरुदात्त इति हि तदर्थः। नाव्यामित्यत्र नकारस्यादेर्व्यञ्जनस्योदात्तगुणविधानायोगादनर्थकः पर्युदासो हल्स्वरप्राप्ताविति परिभाषां ज्ञापयतीति प्रपञ्चितमन्यत्र।
ननु प्रतिदिवन्शब्दप्रकृतिकादाचारक्विबन्तात्कर्तृक्विप्यल्लोपे [टि- नन्वित्यादि।। इदानीन्तनपुस्तकेषु ``प्रतिदीव्यति, कनिन्‌, हलि चेति दीर्घः। यत्तूपधायां चेत्युपन्यस्तं तन्न इति मनोरमापठो दृश्यते। नन्वित्याद्येतद्गन्थपर्यालोचनायामेतन्मूलभूतशब्दरत्नग्रन्थपर्यालोचनायां चायमपपाठः। किन्तु ``प्रति दिवेति, कनिन्‌, हरि चेति दीर्घः। यत्तूपधायां चेत्युपन्यस्तं तन्न इत्ययं पाठःसाधुरिति निश्चीयते।।] नान्ते धातुत्वस्य वकारे चोपधात्वस्य सुवचतया प्रतिदीव्न इत्यत्र दीर्घप्रवृत्तये पुराणवैयाकरणानामुपधायां चेत्यस्योपन्यासो युक्त एव किं न स्यादत आह।। प्रतिदिवन्‌शब्दादिति।। दुर्लभमिति।. प्रतिदिवन्शब्दप्रकृतिकात्साध्वर्थकयदन्तादाचारक्विप्कर्तृक्विपोरल्लोपयलोपाभ्यां निष्पन्नेपि तस्मिन्ननुनासिकस्येति दीर्घो दुर्वारः, कौ विधिं प्रति स्थानिवत्त्वायोगादिति बोध्यम्।।
असम्बद्धोपधापदानुवृत्तेरिति।। सर्वनामस्थानपदसम्बन्धे तु तन्निमित्तकस्यैवोपधादीर्घस्य नियमापत्तौ वृत्रहणीत्यादावनुनासिकस्येति दीर्घो दुर्वार एव स्यादिति भावः। स्पष्टं चेदमत्रैव सूत्रे भाष्ये।
अनित्यत्वादिति।। सर्वथा पञ्चमीसमासपक्षानाश्रयणे तु प्रत्यैषिषन्नित्यादौ शबकारसनकारयोरेकादेशोत्तरमानुमानिकस्थानिवत्त्वेनान्तादेशे झित्त्वमाश्रित्य प्रसक्तस्याभ्यस्तलक्षणस्य जुसः पञ्चमीसमासप्रयुक्तेन स्थानिवद्भावेन प्रार्थ्यमानः परिहारो दुर्लभस्स्यादिति भावः।। माषवपनीति।। माषा उप्यन्तेऽस्यामित्यधिकरणे ल्युटि ङीपि यस्येति लोपे नान्तस्यैकदेशविकृतन्यायेनोत्तरपदात्मकप्रातिपदिकत्वमादाय प्रसक्तस्य णत्वस्य स्थानिवद्भावेन वारयितुं प्रतिप्रसववार्तिके तद्‌ग्रहणमिति द्रष्टव्यम्।। अभिमानेनेति।। अन्तरङ्गशास्त्रत्वलिङ्गेन परिभाषायास्त्रिपाद्यामुपस्थितावपि वाक्यैकवाक्यतया त्रैपादिकान्तरक्ष्गदृष्ट्या बहिरङ्गासिद्धत्वबोधनात्पूर्वमेव तदेकवाक्यतापन्नपूर्वत्रासिद्धमित्यनेन प्रत्यक्षसिद्धवचनेन परिभाषादृष्ट्यान्तरङ्गविधेरसिद्धत्वबोधने पश्चादविद्यमानमन्तरङ्गं प्रति बहिरङ्गासिद्धत्वस्य बोधयितुमशक्यत्वात्फलाभावेन त्रिपाद्यामस्याः परिभाषाया अप्रवृत्तिरित्याशयः।। सन्निपातपरिभाषयेति।। वृत्रघ्नः प्रघ्न इत्यादौ हो हन्तेरिति नकारनिमित्तकत्वेन प्रवृत्तं कुत्वमुत्तरपदस्य कवर्गवत्त्वसम्पादनद्वारा तादृशनकारविघातकणत्वविधिं प्रति निमित्तत्वायोग इति भावः।। सर्वणत्वेष्विति।। अट्‌कुप्वाङित्यनेन णत्वावच्छेदेन कवर्गव्यवायस्य निमित्तत्वबोधनात्तद्विरोधेन कुमतीत्येतच्छास्त्रविषये वृत्रघ्न इत्यादो प्रकृतपरिभाषया निमित्तत्वबाधानुपपत्त्या परिभाषाया अनित्यत्वमूलकाप्रवृत्तिरिह युक्तेन्याशयः।
ननु बाधकविषयपरिहारेणैवोत्सर्गप्रवृत्तिर्युक्ता, अन्यथा तत्तल्लक्ष्यविषयकत्वेनोपप्लृतयोरुत्सर्गापवादयोर्निरवकाशत्वेन तुल्यतया विकल्पापत्तौ लक्ष्यविसंवादस्स्यात्। इत्थं च कथमेतत्परिभाषाप्रवृत्तिविषये णत्वनिमित्तत्वमट्कुप्वाङित्यनेन बोध्यते। न च विशेषविहितं कवर्गांशे णत्वनिमित्तत्वं, परिभाषाप्रयुक्तो निमित्तत्वबाध एव सामान्यविहित इति युक्त एव परिभाषाबाध इति वाच्यम्। स्वतस्सिद्धकवर्गवद्विषये हरिकामेण हरिकामिणावित्यादौ चारितार्थ्येन तदयोगात्। न च कवर्गंशे निमित्तत्वं प्रत्यक्षसिद्धवचनबोधितत्वात्प्रबलं, परिभाषाप्रयुक्तो निमित्तत्वबाधश्चानुमानिको वा लौकिको वा दुर्लभ इति युक्त एव तद्विषये परिभाषाबाध इति वाच्यम्। सर्वत्रैवात्र शास्त्रे निमित्ततायाश्शास्त्रैकसमधिगम्यत्वेन वाचनिकतया तद्बाधानुपपत्तौ परिभाषाया निर्विषयत्वप्रसङ्गादिति चेत्सत्यम्। कवर्गवदुत्तरपदघटितसमासघटकपूर्वपदस्थरेफषकारान्यतरपरस्याट्कवर्गादिव्यवहितस्य प्रातिपदिकान्तनुम्विभक्तिस्थान्यतमस्य नकारस्य ण इत्यर्थेनोभयथा शास्त्रबोधितस्य द्विर्बद्धन्यायविषयस्य कवर्गीयनिमित्तभावस्य क्लृप्तक्वाचित्कप्रवृत्तिकेन परिभाषाप्रयुक्तबाधेन निराकरणमसमञ्जसमित्याशयोऽत्र विभावनीय इत्याहुः।
वस्तुतः कुव्यवाये हादेशप्रतिषेध इति वार्तिकस्य वृत्रघ्नः प्रघ्न इति भाष्योदाहरणादेतद्विषये सन्निपातपरिभाषाया अनित्याया अप्रवृत्तिः। अन्यथा सर्वस्मिन्नपि णत्वे व्यवायांशे कवर्गस्य निमित्तत्वेनाश्रयणान्नकारनिमित्तकस्य तस्य नकारविघातकणत्वविधिं प्रति प्रकृतपरिभाषया निमित्तत्वाभावे केनापि णत्वाप्राप्त्या तदसङ्गतिरेवेत्याशयः।। प्राघानीत्यत्र दोष इति।। प्रपूर्वाद्धन्तेः कर्मणि चिण्युपधावृद्धिरिति पदद्वयसमबन्धिवर्मद्वयापेक्षणत्वापेक्षया न बहिरङ्गमित्याशयः। वस्तुतस्त्रिपाद्यामन्तरङ्गपरिभाषायाः कार्यकालपक्षेपि प्रवृत्त्यभावस्य स्वमतसिद्धतया बहुवृत्रहाणीत्यत्र तया परिभाषया णन्वसमर्थनमपि प्राचामनुरोधेनेति द्रष्टव्यम्। भूमार्थबहुव्रीहिणेति।। [टि- भूमार्थबहुव्रीहिणेतीति।। अत्पूर्वस्येत्यनेनेत्यतः प्राक्‌ ``अत्पूर्वस्येति भूमार्थबहुव्रीहिणा अकारः पूर्वो बाहुल्येन यस्माद्धन्तिनकारादित्यर्थकेन इत्येवं शब्दरत्नग्रन्थः क्वचिद्दृश्यते। तदनुरोध्ययं ग्रन्थः। परन्त्वधुनातनपुस्तकेषु न दृश्यते।] अत एव पूर्वशब्दघटितनिर्देशः। अन्यथा ह्यत इत्येव ब्रूयादिति भावः। उपलक्षणेनेत्यस्य लक्षमया बोधनेनेत्यर्थः।। औचित्यादिति।। निर्देशबलेनागारैकदेश इति सूत्रस्थयोः प्रघणप्रघाणशब्दयोरुभयोरपि प्रत्येकं णत्वनिपातनकल्पनामपेक्ष्यान्तर्घनो देश इति निर्देशबलादेकत्रान्तर्घनशब्दे णत्वाभावनिपातनकल्पनायां लाघवमुक्तार्थस्यौचित्ये हेतुः।।
नलोपिनोऽञ्चतेरिति।। तेन पूजायां नलोपाभावात्प्राङित्यादौ नुमागमाभावः। स्त्रीत्वे ङीबभावश्चाभीष्टस्सिद्ध्यतीति भावः।। सामान्यापेक्ष इति।। धातोश्चेन्नुमागमस्तर्हि नलोप्यञ्चतेरेवेति विशेषापेक्षनियमाभ्युपगमे नियम्यकोटावनन्तर्भावादुखास्रदित्यादौ ङीब्दुर्वारः। यदि चौपदेशिकधातोश्चेदुगित्कार्यं तथाविथस्याञ्चतेरेवेति नियमोऽभुयुपगम्यते, तदा नामधातुप्रकृतिके गोमानित्यादौ ङीब्नुमोरुभयोरनियतत्वात्स्त्रियामनिष्ठो ङीप्‌ प्रसज्येत। अधातुग्रहणमप्यनर्थकं स्यात्। अतोऽत्र सामान्यपेक्ष एव नियम इति निष्कर्षः। नन्वधातुग्रहणवैयर्थ्यान्यथानुपपत्त्या मा भूदौपदेशिकधातुमात्रविषयको नियमः, प्रत्यासन्ननुमागममात्रविषयकनियमानभ्युपगमे किं प्रमाणमत आह।। स्पष्टं चेदं भाष्ये इति।। असति बाधके प्रमाणानां सामान्ये पक्षपात इति तदाशयः।। तच्छान्दसमिति।। त्रादेशविधावुद्देश्यत्वेनगृहीतमर्वन्मघवन्नित्येतत्प्रातिपदिकद्वयं छन्दोमात्रविषयकं, छान्दसलक्ष्यसमर्थने च प्रायो बाहुलकमेव मूर्थाभिषिक्तो हेतुः। अतस्तदर्थं पृथक्‌शास्त्रारम्भो विफल इत्याशयः।। दीर्घमध्योदात्तत्वयोरिति।। [टि-दीर्घमध्योदात्तत्वयोरितीति।। एतदादिमतुब्वनिभ्यामित्येतत्पर्यन्तो ग्रन्थः ``न तदर्थं शास्त्रारम्भः इत्यनन्तरं ``छान्दसत्वं च मघवानृजींषीत्यादौ पट्यमानदीर्घमध्योदात्तत्वयोरर्घे तवाप्यावश्यकम्। एवञ्च छन्दसि वनिपावित्यनेनैव नकारस्य तकारोऽपि सिद्धः इति क्वाचित्कशब्दरत्नपाठानुसारीति बोध्यम्।।] संयोगान्तलोपस्यासिद्धत्वात्त्रादेशपक्षे दीर्घानुपपत्तिः। कनिप्रत्ययान्तस्याव्युत्पन्नस्य वा मघवन् शब्दस्यान्तोदात्ततया त्रादेशेन तत्परावृत्त्ययोगात्स्वरानुपपत्तिरिति बोध्यम्।। आवश्यकमिति।। सूत्रारम्भे बहुलग्रहणात्संयोगान्तलोपस्यासिद्धत्वाभावमूलकदीर्घत्वं मध्योदात्तत्वं च कल्पनीयम्। मघवानृजींषीत्यादिपाठानुरोधादतो वलं छान्दसत्वकल्पनमेवेत्याशयः।। नकारस्य तकार इति।। त्रादेशविधानेपि दीर्घमध्योदात्तत्वयोश्छान्दसत्वेनैव समर्थनीयतया छान्दसवर्णव्यत्ययेनैव धरुणमित्यादाविव तत्कल्पनायाः सूत्रानारम्भणमेव ज्याय इत्याशयः।। मतुब्वनिभ्यामिति।। छन्दसी वनिपौ चेत्यस्य केशाद्वोऽन्यतरस्यामित्येतच्छास्त्रस्थतया वार्तिकेऽप्यन्यतरस्यां ग्रहणसम्बन्धेन वनिपो वैकल्पिकत्वात्पाक्षिक औत्सर्गिको मतुबिति भावः। प्रत्याख्याने लाघवं दर्शयति।। दीर्घो घकाराकारोदात्तत्वं चेति।। मतुप्यत्वसन्तस्येति दीर्घो ह्रस्वनुड्‌भ्यां मतुबिति प्राप्तस्य मतुबुदात्तत्वस्य न गोश्वन्निति निषेधेन मतुपः पित्त्वेनानुदात्ततया फिषोन्त उदात्त इति प्राप्तस्य मघशब्दान्तोदात्तत्वस्यैवावशेषान्मध्योदात्तत्वमतो विनैव परिक्लेशमभीष्टसिद्धिरित्याशयः वार्तिकाक्षरस्वारस्येनेति।। छान्दसत्वमनादृत्य मतुब्वनिभ्यां तत्समर्थनाय प्रवृत्त्साय वार्तिकस्य पुनश्छान्दसत्वमूलकदीर्घाप्रवृत्तितात्पर्यकताकल्पनायां स्वारस्यभङ्गस्स्पष्ट एव।। तज्ज्ञापकस्येति।। तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोरिति मूत्रनिष्पन्नश्छान्दसो वयस्याशब्दस्सूत्रे प्रयुज्यमानो भाषायमपि छान्दसानां प्रयोगे प्रमाणमिति ज्ञापकतावादिनः।। तदाशय इति।। भाषायामर्वन्मघवन्शब्दयोरसाधुत्वोपपादनपरकैयटाशय इत्यर्थः।।
इदं चिन्त्यमिति।। केचित्तु सर्वनाम्नामुत्सर्गतः प्रधानपरमर्शित्वाद्यतस्तृ इत्येतच्छान्दसमतस्तन्न विधेयमित्येव वार्तिकाक्षरार्थः। तस्य छान्दसत्वं च तद्विशिष्टत्वेन समर्थनीयस्य वाजमर्वत्स्वित्यादौ पठ्यमानस्य तकारान्तस्यार्वन्‌शब्दास्य छान्दसमध्योदात्तत्वदीर्घाभ्यां समर्थनीयस्य मघवानृजींषीत्यादौ पठ्यमानतथाविधमघवन्शब्दस्य च छान्दसत्वेनेति द्रष्टव्यम्। एवं च तकारान्तार्वन्‌शब्दस्य तथाविधमध्योदात्तमघवन्शब्दस्य च भाषायामप्रयोग इत्येव युक्तम्। तदुक्तं प्रकृतसूत्रे कैयटे `भाषायामर्वन्शब्दस्य मघवन्शब्दस्य च नास्ति प्रयोग' इति।। मतुब्वन्योर्विधानाच्चेत्यग्रिमग्रन्थश्च वार्तिके नासूया कर्तव्या यत्रानुगमः क्रियते इति पङ्‌क्तिविंशतीति सूत्रस्थभाष्यकारोपदर्शितन्यायविरोधं प्रामाणिकानेकलौकिकप्रयोगविरोधं च पर्यालोच्य प्रवृत्तः। विधानाच्चेति चकारो वनो र चेति सूत्रभाष्यकारोपदर्शितस्याव्युत्पन्नस्य मघवन्‌शब्दस्य ऋधातुप्रकृतिकवनिबन्तार्वन्शब्दस्य च समुच्चायकः। एवं च छन्दसी वनिपाविति सूत्रबोधितवनिबन्ततया नकारान्तयोरर्वन्मघवन्शब्दयोर्मत्वन्तार्वच्छब्दस्य वेदे नकारान्तयोरर्वन्‌मघवन्‌शब्दयोर्मतुबन्तमघवच्छब्दस्य च लोकवेदयोस्सिद्धत्वात्सूत्रद्वयमिदमनारम्भणीयमिति तदाशयो न्याय्यः। अत एव कैयटे मघशब्दात्प्रत्ययद्वये यथाविषयं रूपद्वयं सिद्धमित्युक्तम्। विषयशब्दस्य प्रयोगपरतया लौकिकवैदिकप्रयोगनुरूपमित्यर्थ एव हि स्वरसः। मतुबन्तस्यार्वन्‌शब्दस्य तु नैव भाषायां प्रयोगो युक्तः। लोके विचः प्रमाणानुरोधितया ऋधातु प्रकृतिकविजन्तप्रयोगोपपादकप्रमाणानुपलम्भात्तत्प्रकृतिकमतुबन्तस्य लोके प्रयोगानर्हत्वात्। तदेतत्केशाद्व इति सूत्रे कैयटेनोक्तम्। ``मघवा बहुलमित्येतन्न वक्तव्यं श्वन्‌क्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयस्य सिद्धत्वादिति।। इत्थं च न पूर्वापरविरोधः कैयटस्य, नापि मूलकारोपदर्शितन्यासग्रन्थव्याकोपो नैव प्रामाणिकानेकप्रयोगवैगुण्यमतो दीक्षिताद्युत्प्रेक्षितमपि नात्यन्तमयुक्तमिति सुधीभिराकलनीयमित्याहुः।। [टि- आहुरिति।। परे तु मघवा बहुलमिति सूत्रे वनिबन्तस्य अव्युत्पन्नप्रातिपदिकस्य च सामान्यतो ग्रहणं, सङ्कोचे मानाभावात्। तच्च त्रादेशस्य छान्दसत्वमभ्युपगम्य प्रत्याख्यातं वार्तिककृता। तन्महिम्ना अन्तोदात्तस्य वा मध्योदात्तस्य वात्रादेशेन सम्पादनीयं यन्मघवानिति रूपं, तस्य सर्वस्यापि छान्दसत्वमभिहितं भवति। छान्दसार्थमपि प्रायशः सूत्रकृतः प्रयत्नदर्शनेन छान्दसत्वात्सूत्रप्रत्याख्यानमनुचितम्। अतोऽशिष्यत्वेऽछान्दसत्वं न पर्याप्तो हेतुरित्याशयेन ``मतुब्वन्योर्विधानाच्चेति हेत्वन्तरमुक्तं वार्तिके। तत्र चशब्दः पूर्वोक्तहेतुसमुच्चायकः। तत्समुच्चितं छान्दसत्वमशिष्यत्वे हेतुरिति वार्तिककाराशयः। एवञ्चाव्युत्पन्नस्यापि त्रादेशघटितरूपं छान्दसमिति स्पष्टं प्रतीयते। तथा च तत्समानफलकमतुबन्तस्यापि छान्दसत्वं स्पष्टमेवोक्तम्। चकारस्यानुक्तसमुच्चायकत्वं न युक्तम्। उक्तसमुच्चायकत्वस्यावश्यकत्वेन तत्त्वस्यायोगात्। किञ्च भवद्रीत्या अव्युत्पन्नसमुच्चायकत्वाभिप्रायेतु ``मतुब्वन्योश्च विधानात् इत्येव वदेत्। एवञ्च शब्दरत्नोक्तं चिन्त्यत्वमेव युक्तम्। अत एव भवतापि मनोरमोक्तपक्षे किञ्चदयुक्तत्वाभिप्रायेणैव दीक्षिताद्युत्प्रेक्षितमपि नात्यन्तमयुक्तमित्युक्तमित्याहुः।]
प्रामादिकानामिति।। शप्दानुशासनस्य प्रयोगानुसारित्वाद्भट्टिप्रमुखानेकमहाकविप्रयोगप्राचुर्येण निर्विचिकित्सनीयप्रामाण्यवतां प्रयोगाणां बुद्धिपरिकल्पितानुशासनिकविरुद्धार्थेन प्रसक्तमसाधुत्वमुपादाय प्रामादिकत्वकल्पनापेक्षया कथंचित्तेषां साधुत्वसमर्थनमेव युक्तमिति सहृदयानां समाचारः।। तेषामिति।। शब्दानुशासनमाचार्यस्येत्यादिप्रयोगनिर्वाहार्थमुभयप्राप्तौ कर्मणीत्यस्याकाकारात्मकस्त्रीप्रत्ययातिरिक्तकृन्मात्रविषये शेषे विभाषेत्यनेन विकल्पनीयत्वादिह षष्ठ्यास्साधुत्वामिति [टि- साधुत्वामिति।। तेषामार्षवचनसङ्कोचे न मानमिति मूलपाठमभिप्रेत्येदम्। तेषामित्यस्य सङ्कोचक्रियायां कर्तृतयान्वयतात्पर्येणोक्तम्। वस्तुतस्तथापाठेऽप्यार्षवचन सङ्कोच इत्यत्रार्षवचनानां सङ्कोचक्रियाकर्मत्वविवक्षायामुभयप्राप्तौ कर्मणीति षष्ठ्या एव न्याय्यतया तत्र कर्मणि चेत्यनेन समासनिषेधाच्छेषषष्ठ्या समास इत्यवश्यवाच्यतया अत्रोभयप्राप्तौ कर्मणीति नियमस्य विषय एव नेति कर्तृकर्मणोः कृतीति षष्ठ्यास्सौलभ्येन व्यर्थ एवायं षष्ठीसाधनप्रयासः। भाष्ये ``अथ शब्दानुशासन मिति प्रयोगे तु कर्तृवाचकपदसमभिव्याहृतकर्मवाचकस्यैवोभयप्राप्ताविति नियमविषयत्वस्य शब्देन्दुशेखरादावुक्ततया कर्तृवाचकाचार्यपदसमभिव्याहाराभावात्कर्तृकर्मणोरिति षष्ठ्यामपि न समासानुपपत्तिः। शब्दानुशासनमाचार्यस्येत्यस्य प्रमितत्वे तु तत्रापि शेषषष्ठ्या समास एव बोध्यः। वस्तुतस्तु तेषामार्षवचनसङ्कोचे न मानत्वमिति पाठस्येदानीन्तनपुस्तकेषूपलभ्भादत्र पाठे तेषामित्यस्य मानत्वमित्यनेनान्वयौचित्यादार्षवचनमित्यत्र कर्मषष्ठ्या समासोऽपि न दुष्यत इत्यवधेयम्।] द्रष्टव्यम्।। वनो र चेति सूत्रे भाष्ये इति।। न केवलं मघवन्शब्दस्यान्तोदात्ततायां न्यासकार एव प्रमाणामपि तु भाष्यकारोपीत्याशयः।।
उच्चारितगुणस्येति।। गुणानुपहितस्योच्चारयितुमशक्यत्वादुच्चारणोपयोगाय परिगृहीतो गुणो नान्तरीयकत्वाद्विवक्षाविषयो न भवतीति ज्ञापनद्वारेणोदात्तग्रहणेन गुणानामभेदकत्वमत्र शास्त्रे बोध्यत इति निष्कर्षः। गुणशब्देनात्र ह्रस्वदीर्घप्लृतसाधारणो जात्यतिरिक्तो वर्णमात्रवृत्तिस्स्वाभाविको धर्मः। स च सानुनासिकत्वनिरनुनासिकत्वस्वरितत्वोदात्तत्वानुदात्तत्वभेदेन पञ्चविध इत्यवधेयम्।। भेदकत्वेऽपीति।। अत्र च ग्राहकमूत्रस्थमण्ग्रहणं ज्ञापकम्। तद्धि वर्णसमाम्नायिकैर्निरनुनासिकयकारवकारलकारैर्ग्राहकसूत्रबलात्सानुनासिकानां ग्रहणे यर्त्वसम्पत्त्या संय्यन्तेत्यादौ परसवर्मनिष्पन्नानां तेषां द्वित्वसिद्ध्यर्थम्। गुणानामभेदकत्वे त्वजित्येव सिद्धे तद्वैयर्थ्यं स्पष्टमेव। लक्ष्यानुरोधाच्चानयोः पक्षयोर्व्यवस्थेति कैयटादयः।। अनणि विध्यर्थत्वादिति।। तपरसूत्रेऽण्ग्रहणाननुवृत्तेः सामान्यतः प्रवृत्त्स्य तस्यानणि विधायकत्वमणि तु परत्वाद्‌ग्राहकसूत्रबाधकत्वमष्टादशग्राहकत्वषड्‌ग्राहकत्वयोस्संख्याकृतविरोधस्य स्पष्टत्वादित्यन्यत्र विस्तरः।। मानाभावादिति।। अण्ग्रहणसन्नियुक्तस्य तन्निवृत्त्या निवृत्त्यौचित्यादिति भावः।।
तदन्तविध्यादीति।। [टि - तदन्तविध्यादीतीति।। तदन्तविध्याद्यभावाच्चेति मूलपाठमभिप्रेत्येदम्।] आदिग्रहणप्रियोजनं चिन्त्यम्। [टि- चिन्त्यमिति।। मनोरमायां तदन्तस्येत्यनुक्त्व तद्विशिष्टस्येति कथनेन न्यासकृदाशयो द्वेधा वर्णयितुं शक्यते। पथ्यादेस्थान्तस्येत्येकः प्रकारः। तत्र थान्तस्येत्यर्थः शब्दस्वरूपमध्याहृत्य येन विधिरित्यनेन सम्पादनीयः। तत्सूत्रं च तत्पदस्य तदन्तपरत्वे लक्षणायां तात्पर्यग्राहकमित्यन्यत्र स्पष्टम्। एवञ्च लक्षणाया अवश्याङ्गीकर्तव्यतया विनैव शब्दस्वरूपाध्याहारं थपदस्य थविशिष्टार्थे लक्षणायां थविशिष्टस्य पथ्यादेरिति सामानाधिकरण्येनान्वयोऽपि सम्पद्यत इत्यपरः। प्रकारद्वयेऽपि तदन्ते तद्विशिष्टे वा लक्षणाया आवश्यकतया तदपेक्षया पथ्यादेस्थकारस्येति वैयधिकरण्येनान्वय एव लघुरिति द्योतयितुमादिग्रहणस्यावश्यकतयाऽस्य चिन्त्यतोक्तिरसङ्गता।
इदानीन्तनशब्दरत्नग्रन्थेष्वादिग्रहणरहित एव पाठो दृश्यते। पूर्वोक्तदिशा तत्सहित एव पाठस्साधीयानिति प्रतिभाति।।]
ननु थोन्थ इत्यस्य पुंसः प्राप्तमिति क्लीबेन सामानाधिकरण्यानुपपत्तिरत आह।। सूत्रमिति।। केचित्तु नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्यामित्येकशेषे नपुंसकैकवद्भावाभ्यां निर्दिष्ठेन प्राप्तमित्यनेनात्त्वन्थादेशाटिलोपानां त्रयाणामन्वयस्य सुवचत्वात्सूत्रपरत्वपर्यन्तानुधावनपरिक्लेशो व्यर्थः। आत्त्वटिलोपाभ्यां कार्याभ्यां सूत्रस्य समुच्चये स्वारस्यभङ्गश्चेत्याहुः। [टि- आहुरिति।। परे तु मानोरमायां पथिमथीत्यात्त्वमित्युक्त्या आत्त्वविधायकस्य सूत्रस्योल्लेखोऽवगम्यत इति थो न्थश्चेत्यपि सूत्रपरमित्येव युक्तम्‌। कार्यमात्रपरत्वे तु थ इति स्थानिनिर्देशो व्यर्थः। एवञ्च थो न्थ इति सूत्रमिति व्याख्यानमेव सम्यक्‌। चाट्टिलोप इत्यत्र सूत्रोल्लेखानुरोधेन टिलोपविधायकं सूत्रमित्येवार्थः। तथा च स्थलद्वये सूत्रस्यैव ग्रहणादाद्यस्थलेऽपि सूत्रोल्लेखस्य दर्शनाच्च सूत्रस्य समुच्चये स्वारस्यभङ्ग इत्यपि निरसतमित्याहुः।।]
ननु यणपेक्षया नित्यत्वादित्येव सिद्धे परत्वादित्ययुक्तम्। परनित्यत्वयोरसमकक्षतया समुच्चयायोगादत आह।। अभ्युच्चय इति।। अनुपयुक्तार्थकथनमिति तदर्थः।। सुप्त्वतद्व्याप्येति।। सुप्त्वावच्छिन्ननिमित्तताको विधिस्सुपि चेत्यादिविहितदीर्घादिः। तद्व्याप्यधर्मावच्छिन्ननिमित्तताकश्चातो भिस एसित्यादिविहित एसादिः।। षत्वे इति।। तस्य प्रत्ययावयवोद्देश्यकत्वेन, वस्तुतस्सुब्निमित्तकत्वेऽपि सुप्त्वावच्छिन्ननिमित्तताकत्वाभाव इत्याशयः। विशेषापेक्षात्सामान्यापेक्षमन्तरङ्गं, विशेषस्योद्देश्यनिमित्तभावेनोपादाने तदविनाभूतसामान्योपस्थित्या विशेषापेक्षस्य सामान्यविशेषोभयसापेक्षत्वेनाधिकनिमित्तत्वादिति तु न युक्तम् विशेषस्य व्याप्यतया तदविनाभावेन व्यापकसामान्यस्यानुमानादुपस्थितावपि शाब्दान्वयप्रतियोगित्वाभावेन शब्दैकसमाधिगम्यनिमित्तवत्यत्र शास्त्रे निमित्तत्वायोगेन विशेषस्याधिकनिमित्तत्वरूपबहिरङ्गत्वस्य दुर्वचत्वादित्यन्यत्र निराकृत एवायमन्तरङ्गबहिरङ्गभावः। तथापि मूलकृन्मतमवष्टभ्य तादृशान्तरङ्गबहिरङ्गभावाभ्युपगमेऽपि नास्ति निर्वाह इत्याशयेन सङ्कते।। न च प्रकृतीति।। प्रातिपदिकस्यापीति।। यणादेशीयोद्देश्यत्वानुपहितपथ्यादिरूपनकारान्तनिष्ठोद्देश्यताकत्वेन तदीयनिमित्तत्वानुपहितसर्वनामस्थानान्तर्गतसुप्रत्ययनिष्ठनिमित्तताकत्वेन च न्थादेशस्य यणपेक्षया व्याप्योद्देश्यनिमित्तकत्वरूपविशेषापेक्षत्वासम्वइत्याशयः। ननूद्देश्यत्वनिमित्तत्वपर्याप्तयधिकरणतावच्छेदकधर्मावच्छेदेन न्थादेशीयोद्देश्यनिमित्तयोर्व्याप्यत्वाभावेपि निमित्तघटकसर्वनामस्थानत्वस्य यमादेशीयनिमित्तघटकप्रत्ययत्वव्याप्यत्वादुद्देश्यघटकपथयाद्यन्ताङ्गत्वस्य यणादेशीयोद्देश्यघटकानेकाच्काङ्गत्वापेक्षया व्याप्यत्वाच्च न्थादेशस्यादिकसापेक्षन्वरूपं बहिरह्गत्वमक्षतमेवेत्यतो युज्यत एव यणादेशस्य यणपेक्षया व्याप्योद्देश्यनिमित्तकत्वरूपविशेषापेक्षत्वासम्भव इत्याशयः। ननूद्देश्यत्वनिमित्तत्वपर्याप्त्यधिकरमतावच्छेदकधर्मावच्छेदेन न्थादेशीयोद्देश्यनिमित्तयोर्व्याप्यत्वाभावेपि निमित्तघटकसर्वनामस्थानत्वस्य यणादेशीयनिमित्तघटकप्रत्ययत्वव्याप्यत्वादुद्देश्यघटकपथ्याद्यन्ताङ्गत्वस्य यणादेशीयोद्देश्यघटकानेकाच्काङ्गत्वापेक्षया व्याप्यत्वाच्च न्थादेशास्याधिकसापेक्षत्वरूपं बहिरङ्गत्वमक्षतमेवेत्यतो युज्यत एव यणादेशस्य प्राथमिकप्रवृत्तिरित्यत आह।। तदोस्सः साविति।। विशेषापेक्षत्वस्य बहिरङ्गत्वेन सामान्यापेक्षस्य त्यदाद्यत्वस्यान्तरङ्गत्वात्प्रथमं प्रवृत्त्या सौगम्येनैवान्त्यग्रहणप्रत्याख्यानसम्भवे तदर्थमारब्धो भाष्यकारणां योगविभागादिपरिक्लेशो निरुक्तान्तरङ्गबहिरङ्गभावस्यासार्वत्रिकत्वे प्रमाणमितिभावः। नन्वसार्वत्रिकत्वेऽपि प्रकृते तदप्रवृत्तौ किं बीजमिति चेतसत्यम्। आत्त्वविधिघटकक्यजन्तप्रकृतिकक्विबन्ते ऋभुक्षीशब्दे संयोगपूर्वकेवर्णान्तत्वेन यणादेशस्याप्रवृत्त्या तत्साहचर्यात्पथिमथिशब्दप्रकृतिकक्यजन्तात्क्विपि निरुक्तान्तरङ्गभावस्यानाश्रयणेन प्रथमत एव न्थादेशप्रवृत्त्या संयोगपूर्वकेवर्णान्ततया प्रवृत्तिरिति मूलकाराशयोऽत्रोन्नेय इत्याहुः।। पदत्वाभावादिति।। वेतस्वानित्याद्यर्थमावश्यके भाष्यकारोपदर्शिते पदेऽन्त इति सप्तमीसमासपक्षे तदप्रवृत्तेश्चेति बोध्यम्। ह्रस्वे अत्त्वमिति।। ये विधिं प्रत्युपदेशोऽनर्थकस्स विधिर्बाध्यते। यस्य पुनर्निमित्तत्वमेव, नासो बाध्यत इति। ह्रस्वविधानसामर्थ्यमूलकतया कल्प्यमाननिवृत्तिर्यण एव, न त्वितोऽदिति विधीयमानस्यात्त्वस्येति तदाशयः।। लोपापत्तिरिति।। वेरपृक्तलोपाद्वलि लोपो विप्रतिषेधेनेति क्विलोपात्पूर्वं वकारनिमित्तकयलोपापत्तिरित्यर्थः।। असिद्धत्वादिति।। यत्तु वलि लोपेऽन्तरङ्गपरिभाषा न प्रवर्तते। अत एवाक्षद्यूरित्यादावूठो बहिरङ्गासिद्धत्वेन प्राप्तो यलोपो नेति प्राञ्चस्तदसत्। व्रस्छादिषु वलि लोपातिप्रसङ्गवारणप्रस्तावे भाष्यकारैरस्याः परिभाषायास्तद्विषये सञ्चारितत्वात्। अरिय्रतीत्यादौ वार्णपरिभाषायास्समानकार्यिताविषयत्वात्प्रथममन्तरङ्गतया यण स्थानिवद्भावादियङि प्रसक्तस्य यलोपस्य स्थानिबूतादचः पूर्वत्वाभावेन स्थानिवत्त्वाप्रवृत्त्या प्रकृतिप्रत्ययोभयसम्बन्धिवर्णद्वयश्रयत्वेन बहिरङ्गस्य यणादेशस्यैत्परिभाषाप्रयोज्यासिद्धत्वप्रयुक्तवारणस्याभीष्टस्य दौर्लभ्यापत्तेश्च। अक्षद्यूरित्यादौ चाजानन्तर्यनिमित्तकेऽन्तरङ्गे बहिरङ्गस्यासिद्धत्वाभावस्तत्र कृते यदन्तरङ्गं प्रसजति तस्मिन्नपि कर्तव्ये बहिरङ्गस्यासिद्धत्वाभाव इति नाजानन्तर्यपरिभाषार्थाभ्युपगमेन यलोपाप्रवृत्तेश्चेति दिक्।।
विशेष्यसाकाङ्क्षत्वादिति।। ष्णान्तेतिस्त्रीप्रत्ययान्तबहुव्रीहिणा स्त्रीत्वविशिष्टान्यपदार्थस्याकाङ्‌क्षितत्वादित्यर्थः। ननु संख्याशब्दस्य संज्ञिपरत्वेऽपि विशेषणासाङ्गत्यमेवेत्यत आह।। यद्यपीति।। लोके इति।। ष्णान्तेति विशेषणसामर्थ्यादिह लौकिकार्थावगतिरिति भावः।। तत्त्वेन विवक्षिताइति।। संख्यापदवाच्यत्वेन विवक्षिता इत्यर्थः। लोके गणनायां प्रसिद्धानां पञ्चादीनामेव तत्पदबोध्यत्वमित्यत्र तु न मानम्। तेन परमपञ्चादीनामपि षट्‌संज्ञाप्रवृत्तिरक्षता। संख्याप्रकारकसंख्येयविशेष्यकबोधजनकत्वाविशेषत्वात्। इत्थं च षड्‌भ्यो लुक्‌षट्‌चतुर्भ्यश्चेत्यनयोर्भाष्यकारोपदर्शितविहितविशेषणाश्रयणेपि परमपञ्चादिभ्यो लुङ्‌नुदोः प्रव़त्तेर्न किञ्चिद्बाधकमित्याशयः। ननु लौकिकगमनाप्रसिद्धिमन्तरा संख्याप्रकारकसंख्येयविशेष्यकबोधजनकानामत्र संख्यापदवाच्यत्वेन ग्रहणे द्वित्वादिशब्दप्रकृतिकमत्वर्थीयेनिप्रत्ययान्तानां द्वित्विनस्त्रित्विन इत्यादीनामपि षट्‌संज्ञाप्रसङ्ग इति चेन्मैवम्। सम्बन्धबोधकमत्वर्थीयेनिप्रत्ययान्तानां तथाविधानां सम्बन्धप्रकारकबोधसाधनत्वेपि संख्याप्रकारकनिरुक्तार्थविषयकबोधजनकत्वाभावात्। षान्तसाहचर्येण नान्तस्यपि तद्धितप्रत्ययनिरूपितावयवत्वानुपहितवर्णचरमावयवविवक्षणेनादोषात्। न च नव नवैकाशीतिर्दश दश शतमित्यादौ स्वप्रतिपाद्यसंख्यासजातीयसंख्याभिधायकसंख्यावाचकसमभिव्याहृतसंख्यावाचकस्य संख्येयावयवकसमुदायबोधकतानैयत्येन संख्याप्रकारकसंख्येयविशेष्यकबोधजनकत्वाभावात्प्रकृतसंज्ञाया अनुपपत्तिरिति वाच्यम्। बोधशब्देनात्रोपस्थितेरेव विवक्षिततया संख्याप्रकारकसंख्येयविसेष्यकोपस्थितिजनकत्वस्यैव संज्ञानिमित्तत्वेन निरुक्तस्थले लक्षणया तथाविधसमुदायबोधकत्वेपि शक्तिज्ञानाधीनतादृशोपस्थितेर्लक्षणाप्रयोजकतया प्रथमते जायमानत्वेन क्षत्यभावादतो न काप्यनुपपत्तिरिति दिक्‌।। अत्र सूत्रे शतानि सहस्रणीत्यादौ सर्वनामस्थाननिमित्तकनुमन्तस्य नान्तसंख्यावाचकतया प्रसक्तायाः षट्‌संज्ञायाः परिहारार्थं भागवता कात्यायनेनोपदेशग्रहणं कर्तव्यमित्यभिहितम्। तदुपादाय प्राचीनैरुपदेशे यौ षकारनकारौ तदन्तेति व्याख्यायोपसर्जनयोष्षकारनकारयोर्वृत्त्यघटकोपदेशपदार्थसापेक्षत्वात्सामर्थ्याभावेन समासानुपपत्तिमुद्भाव्य समुदायेन सम्बन्धान्नासमर्थसमास इति परिहृतम्। तदेतन्मूलकृता दूषितम्। अवयवेन सम्बन्धं व्याख्यायेत्यादिना, तत्रावयवपदार्थमाह।। ष्णान्तपदावयवेनेति।। बोधाभाव इति।। वृत्तिष्वनुभूयमानविशिष्टबोधोपायतया कल्प्यमान एकार्थीभावस्समासदीनां निमित्तम्। यत्र च विशिष्टबोधात्मकस्य कल्पकस्याभावस्तत्रैकार्थीभावस्य कल्पयितुमशक्यत्वात्तन्निमित्तकसमासादीनामभावः, तदेतद्भाष्यकारैरुपपादितम्। ``सविशेषणानामगमकत्वाद्वृत्त्यभाव इति एवमृद्धस्य राज्ञो मातङ्ग इत्याद्यर्थे ऋद्धस्य राजमातङ्ग इत्यादिको न प्रयोगः। आगमकत्वात्। देवदत्तस्य गुरोः कुलमित्याद्यर्थे तु भावत्येव देवदत्तस्य गुरुकुलमित्यादिकः प्रयोगः। गमकत्वादिति निष्कर्षः। न च गमकत्वागमकत्वाभ्यामेव वृत्तितदभावयोर्व्यवस्थासिद्धावनर्थकमेव समर्थसूत्रमिति वाच्यम्। अकिञ्चित्कुर्वाणममाषं हरमाणमित्यादिनां गमकत्वेनाभिमतानामसमर्थसमासानामसाधुत्वबोधनाय तदावश्यकताया भाष्ये स्पष्टत्वादिति असमर्थसमासानामपि केषां चिदसूर्यंपश्या इत्यादीनां सुडनपुंसकस्येति ज्ञापकात्साधुत्वमिति स्फष्टं भाष्यकैयटयोः।। उपदेशकालं प्रतीति।। अधिकरणकारकस्य कर्त्राद्यन्वयद्वारा क्रियान्वयनियमादुपदेशकालात्मकस्याधिकरणस्य कर्तृभूतान्तपदार्थसापेक्षत्वंऽप्यन्तपदार्थस्य तदपेक्षत्वे मानाभाव इत्याशयः।। अन्यपदार्थबोधकत्वेनेति।। स्त्रीप्रत्ययान्ततया स्त्रीत्वविशिष्टान्यपदार्थबोधकत्वेनेत्यर्थः।। तत्सम्पादकमिति।। ननु ष्णावित्युक्तावपि वर्णयोस्संज्ञायाः प्रयोजनाभावाद्विशेष्यापेक्षेण तदन्तविधेरावश्यकत्वात्संख्यापदस्यैवोपस्थितस्य विशेष्यसमर्पकत्वे सम्बन्धस्य न्याय्यत्वेनाभीष्टसिद्धावतिरिच्यमानमन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थमिति युक्तमेव प्राचीनोक्तमिति चेन्न। शब्दस्वरूपपरत्वेन क्लृप्तस्य पूर्वसूत्रघटकसंख्यापदस्य प्रकृतसूत्रे लौकिकसंख्यावाचकपरत्वेन सम्बन्धकल्पनापेक्षया शब्दस्वरूपविशेष्याध्याहारस्यैव लाघवोपहिततया न्याय्यत्वेनानिष्टप्रसङ्गात्। यदि तु प्रकृत्या अकेराजन्यमनुष्ययुवान इत्यादिनिर्देशबलात्संख्यापदस्यैव निरुक्तार्थकस्य सम्बन्ध इति नानिष्ठप्रसङ्ग इति मन्यते; तथापि न निर्वाहस्सामर्थ्यवादिनामित्याह।। किञ्चेति।। औपदेशिकपरत्वेन समानाधिकरणे बहुव्रीहावुपदेशकालपरत्वेन व्यधिकरणे वा तस्मिन्सप्तमी वेशेषणे बहुव्रीहावित्यनुशासनेन पूर्वनिपातोऽन्तशब्दस्यैव स्यादित्याशयः। ननु समुद्राभ्राद्ध इत्यादिनिर्देशबलेन तद्गुणसंज्ञान इत्यादिप्रयोगोपपत्तये सामान्यंतः पूर्वनिपातप्रकरणानित्यत्वस्य ज्ञापनीयतया प्रकृतेपि न पूर्वनिपातवैपरीत्यापत्तिर्दोष इत्यत आह।। उणादीनामित्यादि।। ननु वार्तिककारबोधितस्योपदेशग्रहणस्य सन्निपातपरिभाषया फलान्यथासिद्धिमास्थाय भाष्यकृता प्रत्याख्यानेपि प्रातिपदिकानामुपदेशाभावात्कथमुक्तिसम्भव इत्यत आह।। वार्तिकस्येति। वक्तुमशक्य इति।। बहुव्रीहिघटकान्तपदप्रतिपाद्योपदेशस्यान्यपदार्थभूतप्रातिपदिकेनैव समन्वयस्य प्राप्तत्वादिति भावः।।
नलोपस्यासिद्धत्वादिति।। अयं भावः। सन्निपातपरिभाषा हि सन्निपातनिमित्तकविध्यैकवाक्यतया तदुपकारिणी। एवं च नुड्विधायकशास्त्रैकवाक्यतया ष्णान्तसंख्यावाचकत्वरूपषट्‌त्वोपहिताङ्गानन्तर्यरूपसन्निपातनिमित्तकस्य नुड्विधेस्तदीयनिमित्तभूतसन्निपातविघातकविधिनिरूपितनिमित्तत्वाभावस्य बोधनीयतया निमित्तत्वाभावबुद्धेर्विघातप्रतिपत्तिप्रयोज्यत्वेन नुड्विध्यपेक्षया त्रैपादिकासिद्धत्वेन नलोपस्याविद्यमानतायां तत्कृतसन्निपातविघातस्य दुर्ज्ञेयत्वेन तं प्रति नुड्विधेर्निमित्तत्वाभावो नीपपद्यत इति।। ननु नलोपस्सुबिति नियमात्सुब्विधित्वेन नुड्विध्यपेक्षया नलोपस्यासिद्धत्वेऽपि तदेकवाक्यतापन्नपरिभाषादृष्ट्या तदभावात्सन्निपातविघातप्रतिपत्तिपूर्वकनिमित्तत्वभावबोधने बाधकाभावात्कथं तदनुपपत्तिरिति चेन्न। परिभाषया नुड्विधेर्नलोपनिमित्तकत्वाभावबोधनेऽपि गुणशास्त्रस्य साक्षात्प्रधानशस्त्रबाधाक्षमत्वेन विघातकविधिनिरूपितनिमित्तत्वाभावबोधनद्वारेण सन्निपातनिमित्तकविधेः पाश्चात्यविघातकविधिप्रवृत्तिप्रतिबन्धकीभूतलक्ष्यसङ्कोचात्मकबाधप्रयोजकप्राबल्यमेव बोध्यत इत्यर्थस्य न्याय्यतया विघातकविधिबाधस्य विघातप्रतिपत्तिमूलकत्वेन लोपविधेश्शास्त्रबोधिताहार्याभावोप7तत्वेन तत्कृतविघातप्रतिपत्तिप्रयोज्यविघातकविधिबाधायोगादनुपपत्तिरित्याशयात्।। कृन्मेजन्त इति सूत्रे भाष्ये इति।। तत्र हि स्वीक्रियमाणायामस्यां परिभाषयां नदीह्रस्वत्वं सम्बुद्धिलोपस्यानिमित्तं स्यादित्युक्तम्।। स्थानिवत्त्वेनेति।। प्रत्ययलक्षणसूत्रस्य नियामकत्वमित्याशयः।। अतिव्याप्तीति।। ननु गौरीत्यादौ नद्यन्ताङ्गसम्बुद्धिपौर्वापर्यरूपह्रस्वनिमित्तभूतसन्निपातस्य ह्रस्वप्रवृत्त्यैव विहतत्वात्सम्बुद्धिलोपेन विहन्तव्यस्य तदीयनिमित्तभूतसन्निपातस्याभावत्कथमिह परिभाषाप्रवृत्तिप्रयुक्तमतिव्याप्त्यापादनमिति चेत्सत्यम्। नद्यन्तत्वविशिष्टाङ्गसम्बुद्धिप्रत्ययैतदुभयपौर्वापर्यमत्र ह्रस्वप्रवृत्तिर्निमित्तम्। तत्प्रवृत्त्या च नद्यन्तत्वोपघातादङ्गसम्बुद्धिपौर्वापर्यलक्षण एकाङ्गविकलस्तदीयनिमित्तभूतसन्निपातोऽनुवर्तत एव। सम्बुद्धिलोपे तु सुतरां तद्विघात इत्यस्ति परिभाषायाः प्रवृत्तिरिति भागवदाशयः। न च कृते ह्रस्वे विभिन्नत्वादङ्गस्य ह्रस्वप्रवृत्त्यैव यावत्सन्निपातविघात इति वाच्यम्। एकदेशविकृतन्यायेन तत्त्वप्रत्यभिज्ञया ह्रस्वप्रवृत्तावप्यङ्गविभेदाभावात्। नद्यन्तत्वं तु नैतन्न्यायलभ्यम्। विकृतावयवनिबन्धनधर्मत्वादिति विभावनीयमार्यैः।। अशास्त्रीयत्वादिति।। सिद्धान्ते त्वशास्त्रीयस्याप्यतिदेशो भवत्येव। अत एबान्तरङ्गत्वाद्वेरपृक्तलोपे लिट्‌धुगित्यादौ यस्माद्विहिततदादित्वतदन्तत्वरूपकृदन्तत्वनिबन्धनप्रातिपदिकत्वस्य सिद्धिरित्याद्यन्यत्र निरूपितम्।। विभावयेति।। एतद्भाष्यबलाच्छास्त्रबोधिताहार्याभावबुद्धिगोचरस्यापि निमित्तविघातस्य प्रकृतपरिभाषाप्रवृत्तिप्रयोजकत्वामाश्रीयत इत्याशयः। ननु स्थानिवत्सूत्रविधेयस्य स्थानिधर्मातिदेशस्याधिष्टानमादेशः, स च लक्ष्यसमवायोत्तरमेवातिदेशोपयोगी, न ततः प्रागधिष्टानसिद्धिमन्तरेणातिदेशायोगात्। इत्थं च प्रवृत्तिकालिकाहार्याभावारोपानुपहितनिमित्तविधातबुद्धिमास्थाय गौरीत्यादौ सम्बुद्धिलोपविषये परिभाषाप्रवृत्तेर्दुर्वारतया युक्तमतिव्याप्त्यापादनं भाष्यकाराणां, त्रैपादिकविषये तु शास्त्रासिद्धत्वस्यैव सिद्धान्ततया नलोपविधेश्शास्त्रबोधिताहार्याभावबुद्धिविषयत्वेन तद्बोधितकार्यप्रवृत्तिप्रयोज्यनिमित्तविघातबुद्धेरनुत्पादात्परिभाषाप्रवृत्तेरसम्भवेन वैजात्यात्कथमिह तद्भाष्यबलान्निरुक्तार्थसिद्धिरत आह।। किञ्चेति।।
मानाभाव इति।। केचित्तु सिद्धान्तभूते शास्त्रासिद्धत्ववादे पूर्वत्रासिद्धमित्यत्र कर्तव्ये इत्यस्याध्याहारो न युज्यते। शास्त्रस्यैवेदानीं कर्तव्यत्वायोगात्। न च कार्यद्वारिका कर्तव्यता शास्त्रे स्वीक्रियत इति वाच्यम्। तुल्यन्यायादसिद्धत्वस्यापि तथात्वे शास्त्रासिद्धत्ववादस्यैव विलोपापत्तेः। पूर्वत्रासिद्धमित्यत्र पूर्वपरशब्दयोस्तद्बोध्यकार्यपर्यन्तलक्षणाप्रयुक्तगौरवदोषेण कार्यासिद्धत्वमनाद्रियमाणानां शास्त्रासिद्धत्वे कार्यद्वारेण शास्त्रे कर्तव्यतास्वीकारस्यानौचित्याच्च। तस्मादिह ज्ञातव्यपदाध्याहारेण पूर्वशास्त्रविषयकज्ञानविषयत्वाभाववत्परशास्त्रमित्यर्थः। इत्थं च द्वयोर्युगपदेकबुद्ध्युपारोहासम्भवेन परिभाषाबोधितनिमित्तत्वाभावपुरस्कारेण सन्निपातनिमित्तकशास्त्रप्रयोज्यविघातकशास्त्रीयनिमित्ततासङ्कोचस्य विघातप्रतिपत्तिमूलकस्य नास्ति सम्भवः। किञ्च शास्त्रेषु चेतनत्वारोपस्य बहुशस्तत्र तत्र भागवता व्यवहृतत्वात्पूर्वत्रेत्यस्य विषयसप्तमीत्वेन पूर्वशास्त्रीयबुद्धिविषयत्वाभाववत्परशास्त्रमित्यर्थादविद्यमानपरशास्त्रकृतसन्निपातविघातस्यासम्भवग्रस्ततया तत्प्रयोज्यसन्निपातलक्षणपूर्वशास्त्रकर्तव्यविघातकपरशास्त्रप्रवृत्तिप्रतिबन्धकनिमित्ततासङ्कोचो दुरुपपादः। ततश्च प्रकृतपरिभाषायास्त्रिपाद्यामप्रवृत्तिः। अन्यथा पञ्चानामित्यादौ षट्त्वनिमित्तको नुट्‌ नलोपस्यानिमित्तं स्यात्। दोग्धेत्यादौ झषस्तर्थोरिति धत्वं जश्त्वस्यानिमित्तं स्यात्। सञ्छम्भुरित्यादौ शवर्णनिमित्तकस्तुक् छादेशस्यानिमित्तं स्यादिति महदनिष्टमापद्येत्। परिभाषाया अनित्यत्वेनैतेषां समर्थनं तु न समञ्जसम्। अनित्यत्वेन समर्थनीयेषु भाष्यकृत्परिगणितेष्वेतेषामभावात्। साकल्येन परिगणिता इत्यनेन परिगणितातिरिक्तेषु परिभाषाप्रवृत्तेरेव भाष्यकारेणाभ्यनुज्ञानाच्च। न च सन्निपातनिमित्तकशास्त्रजन्यवाक्यार्थबोधवेलायां तद्विघातस्यासम्भवात्सम्भावनाविषयस्यैव तस्य परिभाषाप्रवृत्तिप्रयोजकतया सन्निपातनिमित्तकविध्यैकवाक्यतापन्नप्रकृतपरिभाषाशास्त्रेण वाक्यैकवाक्यतया येनैतन्निमित्तभूतसन्निपातविघातस्स्यात्तन्निरूपिततन्निमित्तत्वाभाववानयमित्येवं सामान्येन सापादित्रैपादिविधिप्रयुक्तनिमित्तविघातसम्भावनामादाय निमित्तत्वाभावबोधने तदनुसारेणैव सन्निपातलक्षणशास्त्रेण निमित्ततासङ्कोचस्य न्याय्यतया भावत्येव परिभाषायास्त्रिपाद्यां प्रवृत्तिरिति वाच्यम्। शास्त्रबोधिताविद्यमानतानिश्चयविषयभूतत्रैपादिकविधिप्रयुक्तविघातस्य सामान्यतोऽपि सम्भावयितुमशक्यत्वेन तत्प्रयुक्तसापादिकशास्त्रप्रयोज्यनिमित्ततासङ्कोचस्य दुर्वचतया परिभाषायास्त्रिपाद्यां प्रवृत्त्यसम्भवात्। ध्वनितश्चायमर्थः परिभाषादोषेषु त्रैपादिकानामपरिगणनेन भागवता भाष्यकृतेत्याहुः।। [टि- आहुरिति।। परे तु पूर्वत्रासिद्धमित्यनेन पूर्वशास्त्रप्रवृत्तिकाले तत्प्रापकतया प्रतिबन्धकतया वा उपस्थितं परशास्त्रं शास्त्रेषु चेतनत्वारोपेण पूर्वशास्त्रबुद्धिगोचरं न भवतीत्येवार्थो बोध्यते। न तु पूर्वशास्त्रविषये पूर्वशास्त्रप्रवृत्त्युत्तरकालप्राप्तिकमपि शास्त्रं बुद्धिगोचरं न भावतीति। अन्यथा स सजुषोरुरित्यादिशास्त्राणां साधुत्वबोधकता न स्यात्। तैस्स्वोत्तरकालप्रवृत्तिकखरवसानयोर्विसर्जनीय इत्यादिशास्त्रविधेयविसर्गादिघटितपरिनिष्टितरूपज्ञापयस्यैव साधुत्वबोधनस्य शेखरे प्रतिपादितत्वेन सर्वथा परशास्त्रस्य पूर्वशास्त्रबुद्धयगोचरत्वस्य वक्तुमशक्यत्वात्। एवञ्च प्रकृते नुट्‌प्रवृत्तिकाले नलोपशास्त्रस्य कथमप्यनुपस्थितत्वेन तस्य तद्‌दृष्ट्याऽसिद्धत्वं दुर्वचमेव। तथा च पूर्वत्र कर्तव्ये तदसिद्धत्वेऽपि तत्र कृते तस्यासिद्धत्वे मानाभाव िति मूलोक्तसरणिरेव युक्ता। त्रिपाद्यां सन्निपातपरिभाषा न प्रवर्तत इति तु निराकृतमेव पूर्वमित्याहुः।।]
धर्मविशेषरूपस्येति।। षान्तनान्तान्यतरसंख्यावाचकत्वस्य गुरुभूतस्य शक्यतावच्छेदकत्वायोगादनुगतं षट्‌त्वरूपमतिरिक्तं षट्पदस्य शक्यतावच्छेदकमाश्रितमित्याशयः। एवेन धातुप्रत्ययत्वादिकमप्येवंजातीयकमेव, तुल्यन्यायादिति सूचितम्।। एकदेशविकृतन्यायेनेति।। षट्‌त्वस्य विकृतावयववृत्तिधर्मघटितत्वाभावादतिदेशसौलभ्यान्नुटस्सौलभ्यमिति बोध्यम्।। मुख्ये कार्यकालपक्षे इति।। अस्य पक्षस्य मुख्यत्वमुत्तमाधिकारिविषयत्वात्। यथोद्देशापक्षो हि भविष्यति किञ्चित्प्रयोजनमित्यभिसन्धिमात्रेण प्रशान्ताकाङ्क्षाणां मन्दमध्यमाधिकारिणां विषय इत्यतो जघन्य इति मन्यते।। ह्त्रस्वेष्विति।।[टि- ह्रस्वेष्वितीति।। ह्रस्वेषूदात्तव्यावृत्त्यर्थमित्यर्थः इति क्वाचित्कं शब्दरत्नपाठमनुसृत्येदम्। अयमेव पाठस्साधीयानिति बोध्यम्।] न च प्रियाष्ट्नः प्रियाष्ट्नेत्यादौ विभक्त्युदात्तत्वव्यावृत्तिर्दीर्घग्रहणस्य प्रयोजनमिति वाच्यम्। अन्तोदात्तादुत्तरपदादित्यत उत्तरत्रानुवर्तनीयस्यान्तोदात्तादित्यस्य सम्बन्धेन प्रियाष्टन्‌शब्दस्य बहुव्रीहितया पूर्वपदप्रकृतिस्वरेण मध्योदात्ततया प्रकृतसूत्रविषयत्वा भावात्। न चैवमपि समसिमशब्दयोः `त्वत्वसमसिमेत्यनुच्चाने' इति फिट्सूत्रेण सर्वानुदात्ततया तद्धटितबहुव्रीहौ समाष्ट्नः सिमाष्ट्न इत्यादौ बहुव्रीहौ प्रकृत्येत्यस्याप्रवृत्त्या घृतादिपठिताष्टन्‌शब्दस्वरस्यैवावशेषादन्तोदात्ततया प्रसक्तं विभक्त्युदात्तत्वं वारयितुं दीर्घग्रहणमिति वाच्यम्। अनुदात्तस्य च यत्रोदात्तलोप इत्यनेनैव तत्र विभक्त्युदात्तत्वसिद्धेः। न चैवमपि समाष्टनि सिमाष्टनीत्यादौ विभाषा ङिश्योरित्यल्लोपाभावे चारितार्थ्यमिति वाच्यम्। सर्वनामसंख्ययोरुपसंख्यानमिति पूर्वनिपातविधायके संख्याया उत्तरत्र सन्निवेशाच्छब्दपरविप्रतिषेधाश्रयणेन संख्यासर्वनाम्नोस्समावेशे संख्याया एव पूर्वनिपात इत्यर्थस्य सर्वसम्मतत्वेन निरुक्तप्रयोगाणामुपपत्त्यभावात्। अतो ह्रस्वव्यावृत्त्यर्थमेव दीर्घग्रहणमित्याहुः।। अनित्यत्वज्ञापनादिति।। ननु भाष्ये प्रकृतसूत्रे दीर्घग्रहणेन कृतात्वेऽपि षट्‌स्वरज्ञापनद्वारेणाष्टन्‌स्वरस्य षट्‌स्वरापवादत्वमेव समर्थितमित्ययुक्तमिदं सकृद्गतिन्यायानित्यत्वज्ञापनमत आह।। यद्वेति।। यद्यपि भाष्ये कृतात्वेपि षट्‌त्वं ज्ञाप्यते। अष्टानामित्यत्र नुडर्थमित्येबोक्तम्; तथापि षट्‌त्वमतिरिक्तं, लाघवात् यथोद्देशपक्षज्ञापनद्वारेण कृतात्वे प्राक्प्रवृत्तं षट्‌त्वमतिदेशतस्सुलभमिति भगवदाशयमुत्प्रेक्षते।। औश्विधानसामर्थ्यादिति।। सर्वथा निरवकशत्वेन लुकमौशादेशो बाधत इत्याशयः।। यद्धि तु परमिति।। तत्र हि भाष्ये तत्सूत्रस्य नियमार्थत्वेन जाये श्वो रोहावेहीत्यत्र लोट् चेति सूत्रेण प्राप्तस्य निघातनिषेधस्य निवृत्तावेहीत्यत्र निघातश्रवणं प्रयाजनमित्युक्तम्। नित्यत्वादेकादेशेऽव्यपवर्गाभावात्पदात्परत्वाभावेन तिङतिङ इति निघाताप्रवृत्त्या तदसङ्गतिरेवेति तेनायमर्थो ध्वन्यत इत्याशयः। स्पष्टं चेदं कैयटे।। प्रियाष्टाभ्यामिति।। अष्टनो दीर्घादित्यत्रान्तोदात्तादित्यस्यानुवृत्तेरुत्तरत्र सम्बन्धार्थमावश्यकत्वेन प्रियाष्टन्‌शब्दस्य पूर्वप्रकृतिस्वरेण मध्योदात्ततया कथमत्र सावकाशताऽष्टन् स्वरस्येति चिन्त्यमेतत्।। [टि- विन्त्यमेतदिति।। वस्तुतस्तु सिद्धान्तेऽष्टनो दीर्घादिति सूत्रेऽन्तोदात्तादित्यनुवृत्तेः फलाभावेनासम्बन्धस्य न्याय्यतया तदानीमष्टन्रस्वरः सावकाश इति शङ्कितुराशयः। प्रियाष्टादीनामनभिधानस्य वक्ष्यमाणतया तत्रान्तोदात्तादित्यनुवृत्तेः फलाभावः स्पष्ट एव। अत एवान्तोदात्तादित्यस्वोत्तरार्थत्वेऽपीह सम्बन्धे बाधकाभावकथनं शेखरकृतस्सङ्गच्छते। यदि तूत्तरार्थत्वेऽपि मण्डूकानुवृत्तिवारणायेह सम्बन्धस्य न्याय्यतया तत एवाष्टन्‌स्वराप्राप्तिरिति सावकाशत्वकथनमसङ्गतमेवेत्युच्यते, तर्हि समाष्टभ्यामित्यादावष्टन्स्वरस्सावकाश इति शङ्कितुराशयः। अत एव प्रियाष्टाभ्यामित्यादावित्यादिपदं तत्सङ्‌ग्राहकमुपात्तम्। समशब्दस्य ``त्वत्वसमसिमेत्यनुच्चाने इति सर्वानुदात्ततया ``बहुव्रीहौ प्रकृत्या पूर्वपदम्‌ इत्यस्योदात्तस्वरितयोगिपूर्वपदकबहुव्रीहावेव प्रवृत्त्या समासस्येत्यनेन समाष्टन्शब्दस्यान्तोदात्तत्वेन तत्राष्टन्स्वरस्य सावकाशत्वं स्पष्टमेवेत्यस्य चिन्तयतोक्तिरसङ्गतेत्याहुः।] प्रियाष्ट्न [टि- प्रियाष्ष्ट्न इतीति।। अन्यथा प्रियाष्ट्न इत्यादेस्सम्भवेनेति शब्दरत्नपाठाभिप्रायेणेदम्। इदानीन्तनपुस्तकेषु अन्यथा प्रियाष्टान इत्येवं पाठो दृश्यते।] इति।। विहितविशेषणाभावे विभक्त्युपस्थापिततदाद्यंशविशेषणतया तदन्तविधौ षट्‌संज्ञकान्तात्परीभूतविभक्तेरुदात्तवारणाय हल्ग्रहणस्यावश्यकतया चतसृशब्दातिरिक्ते प्रयोजनाभावकथनं भाष्यकृतामसम्बद्धं स्यादित्याशयः।। एकादेशस्वरेणेति।। सत्यमति वा हल्‌ग्रहणे न तत्र षट्‌त्रीत्यस्य प्रसङ्गो, नाप्यष्टनो दीर्घादित्यस्येति न हल्ग्रहणस्य तत्र व्यावर्त्यसम्भव इति भावः।। कदष्टाविति।। अव्ययपूर्वपदप्रकृतिस्वरेणाष्टन्शब्दस्यानुदात्ततया न तत्रैकादेशस्वरेण निर्वाहः। ननु संख्यायास्तत्पुरुषस्योपसंख्यानमव्ययपूर्वपदस्येति समासान्तेन डच्प्रत्ययेन भाव्यमिति कदष्टन्शब्दस्यैवाभावान्नात्र शङ्कावकाश इति चेत्तर्हि समासान्तविधेरनित्यत्वात्कत्त्रय इत्यत्रेव तदप्रवृत्तिरित्यभिमानः।। अनभिधानादिति।। समासान्तविरहितस्य कदष्टन्‌शब्दस्य प्रामाणिकप्रयोगाभावादित्यर्थः।। विहितविशेषणाश्रयणेनेति।। ज्ञापनपरभाष्यस्यान्तोदात्तग्रहणानुवृत्तिकल्पनयैवोपपत्तौ विहितविशेषणश्रयणमयुक्तम्। किं च सिद्धान्ते दीर्घान्तादष्टनो विहिताया विभक्तेरसम्भवो विभक्तौ परत एवात्वविधानादत आह।। प्रियाष्टादीनामनभिधानस्येति।। षट्‌संज्ञासूत्रे भाष्ये इति।। तत्र ह्यष्टानामित्यत्र षट्‌संज्ञाप्रयुक्तस्य नुटस्सिद्धये कात्यायनचोदितस्योपदेशग्रहणस्य प्रत्याख्यानाय अष्टन आ विभक्तावित्यत्र रायो हलीत्यतो हल्ग्रहणापकर्षणमुक्त्वा प्रियाष्टा इत्यत्रात्वानुपपत्तिमाशङ्क्य ``यथालक्षणमप्रयुक्ते इत्युक्तम्। अप्रयुक्ते लक्षणप्रवृत्त्यभावस्यैव योग्यतेति कैयटोक्तद्वितीयव्याख्यानमाश्रित्यैवंविधानामनभिधानमेव युक्तमित्याशयः। नन्वष्टनो दीर्घादिति दीर्घग्रहणसामर्थ्यादष्टानामित्यत्र कृतात्वेऽप्यष्टन्‌शब्दे यथोद्देशपक्षैकविषयतामाश्रित्य ष्णान्तसंख्यावाचकत्वसमानाधिकरणधर्मविशेषरूपस्य षट्‌त्वस्यातिदेशतो लाभेन नुडागमसमर्थनपरषाष्ठभाष्यविरोधाद्धल्ग्रहणापकर्षणप्रतिपादनपरं षट्‌संज्ञासूत्रस्थं भाष्यमेकदेशिन एवेति तदनुरोधात्प्रियाष्टादीनामनभिधानमनुचितम्। विनिगमनाविरहादिदमेव सिद्धान्त्युक्तमित्याग्रहे तु वृत्तिकारादिबहुग्रन्थविरोधादुदाहरणपक्षपातेन प्रियाष्टन्‌शब्देपि हलादावेवात्वप्रवृत्तिर्न त्वजादावित्यभिप्रायकमप्रयुक्ते यथालक्षणं कार्यं कर्तव्यमिति कैयटोक्तमाद्यव्याख्यानमाद्रियतां, किमनभिधानदुराग्रहेणेत्यत [टि- अनभिधानदुराग्रहेणेति।। षट्‌संज्ञासूत्रस्थभाष्यस्य विना विरोधमेकदेश्युक्तित्वं परिकल्पयानभिधानोक्तेर्दुराग्रहमूलकत्वकथनमसङ्गतमेव। न च मूलोक्तषाष्ठभाष्यविरोधात् षट्‌संज्ञासूत्रस्थभाष्यस्यैकदेश्युक्तित्वमभ्युपेयमिति वाच्यम्। दीर्घग्रहणस्यात्वविध्यनित्यत्वज्ञापनपरभाष्यादप्येषामनभिधानबोधनेनैतद्भाष्यद्वयविरोधेन षाष्ठभाष्यस्यैवैकदेश्युक्तित्वकल्पनाया न्याय्यत्वात्। किञ्च भागवतो भाष्यकारस्य लक्ष्यैकचक्षुष्कतया तेनानभिधानस्य स्पष्टमुक्ततया लक्षणैकचक्षुष्कतया प्रवृत्तेन षाष्ठभाष्येण तेषामभिधानस्य समर्थनमसमञ्जसमेव। अपि च लक्ष्यैकचक्षुष्कतया षट्‌संज्ञासूत्रभाष्यस्य लक्षणैकचक्षुष्कतया षाष्टभाष्यस्य च प्रवृत्तिरिति व्यवस्थायास्सुशकत्वेन न कस्याप्येकदेश्युक्तित्वमित्यपि वक्तुं शक्यम्। अतस्तद्विरोधेन षट्‌संज्ञासूत्रस्थभाष्यस्यैकदेश्युक्तित्वकल्पना शब्दरत्नग्रन्थखण्डनदुराग्रहमूलकैव। यथालक्षणमप्रयुक्ते इत्यस्य कैयटोक्तमाद्यव्याख्यानं नादरणीयमित्यग्रे निरूपयिष्यते। एतेन नन्वित्याद्याहेत्यन्तस्तिसृभ्योजस इत्यादिग्रन्थावतरणग्रन्थः प्रत्युक्तः। अतोऽत्रैवमवतरणं युक्तम्। ``एवं चतुरश्शसीति सूत्रशेखरोक्तकेचिदित्यादिमतरीत्या षट्‌त्रिचतुर्भ्य इत्यत्र विहितविशेषणाश्रयणेन प्रियाष्टाभ्यामित्यादौ गौणे तदप्राप्त्याऽष्ठन्‌स्वरस्य सावकाशताशङ्कामभ्युपेत्य तदनुरोधेन समाधाय चतुरश्शसीति सूत्रशेखरोक्तसिद्धान्तपक्षे विहितविशेषणस्यैवाभावात्तदन्तेऽपि ष्ट्‌स्वरप्राप्त्या अष्टन्‌स्वरस्य सावकाशता नास्तीत्याशयेनाह।। तिसृभ्यो जस इत्यादि।। इति। अत्र युक्तमुत्पश्यन्तु सुधियः।] आह।। तिसृभ्यो जस इत्यादि।। उक्तत्वादिति।। उक्तप्रायत्वादित्यर्थः। एवं च षट्‌त्रीत्यत्र विहितविशेषणायोगात्प्रियाष्टाभ्यामित्यादावपि षट्‌स्वरप्रवृत्तिरव्याहतेत्याशयः। तदन्तेऽपि षट्‌स्वरप्रवृत्तौ ``हल्ग्रहणानर्थक्यमन्यत्राभावादिति चतुरश्शसीति सूत्रस्थभाष्यव्याकोप इत्यत आह।। दूष्यमिति।। दोषबीजमेकदेश्युक्तित्वमेव।। एके इति।। उपसमस्तार्थमेके इत्युपसर्जनतायामतितिस्रावित्यादिषु स्वरव्यावृत्तिर्जस्ग्रहणप्रयोजनमित्यभिप्रायकतत्सूत्रभाष्यघटकैकशब्दो मुख्यार्थको न तु पूर्वपक्षसमकक्षान्तरसूचकान्यार्थबोधकः। समो मलोपमेकेष छन्दसि क्नमेक इत्यादौ त्वन्यार्थक एव, उभयविधप्रामाणिकप्रयोगनिर्वाहायेत्याशयः।।
इति दिगिति।। अत्रायं निष्कर्षः। षट्‌स्वरश्चाष्टन्‌स्वरश्च तदन्तेपि प्रवर्तत एव। विहितविशेषणाश्रयणे मानाभावात्। अत एव परमचतुर्णामित्यादौ षट्‌स्वरो बहुज्घटितबह्वष्टाभिरित्यादावष्टन्‌स्वरश्च निर्बाधः। अष्टन्शब्दान्तबहुव्रीहेरन्तोदात्तत्वासम्भवेनाष्टन्स्वराप्रवृत्त्या तदंशे दीर्घग्रहणस्य व्यावर्त्यालाभादात्वविध्यनित्यताज्ञापकत्वोपपत्त्या न तद्भाष्यं प्रियाष्टादीनामनभिधानसाधकम्। षट्‌संज्ञासूत्रस्थमपि भाष्यमेतेषामभिधानेप्युपपद्यत एव। तिसृभ्यो जस इत्यत्र जस्ग्रहणप्रयोजनोपपादनावसरे बहुवचननिर्देशसूचितार्थप्राधान्यमहिम्ना गौणे प्रवृत्त्यभावमभिप्रेत्य संज्ञायां कन्युपसंख्यानमिति तिस्रादेशेन निष्पन्ने तिसृकाशब्दे नित्स्वराविघातो जस्ग्रहणस्य प्रयोजनमित्यभिसन्धाय सूत्रेषु लिङ्गवचनयोर तन्त्रत्वाद्गौणेऽपि प्रवृत्तिसम्भवादतितिस्रावित्याद्येव तद्व्यावर्त्यमित्याशयेनोपसमस्तार्थमेक इत्युक्तं भागवता। तेनातितिस्र इति गौणेपि तत्प्रवृत्तिरभ्यनुज्ञाता। एवं षट्‌त्रीत्यत्रापि बहुवचनेन प्राधान्यविवक्षणायोगात्प्रियचतुरामित्यादेर्हलादिग्रहणव्यावर्त्यसम्भवेन ज्ञापकत्वानुपपत्त्या चतसर्याद्युदात्तनिपातनस्य चतस्रः पश्येत्यत्रान्तोदात्तवारणार्थस्य चतसृणामित्यादौ प्रसक्तविभक्तिस्वरबाधकतायाः प्रतिविधानसम्भवादनिष्टापत्तिः, उक्तस्थले चतुरश्शसीत्येतद्वारणाय स्त्रियां प्रतिषेध इति वचनमेव शरणमिति भगवतो भाष्यकारस्य गूढाशय इत्याहुः।। [टि- आहुरिति।। अत्रेदं बोध्यम्। अष्टन्‌शब्दान्तबहुव्रीहेस्समाष्टादेरन्तोदात्तत्वसम्भवेनाष्टन्‌स्वरप्रवृत्त्या तदंशे दीर्घग्रहणस्य व्यावर्त्यलाभादात्वविध्यनित्यत्वज्ञापकत्वानुपपत्त्या तद्भाष्यमष्टन्‌शब्दान्तबहुव्रीहेरनभिधाने साधकमेव। षट्‌संज्ञासूत्रस्थमपि भाष्यमेतेषामनभिधानं द्रढयतीत्यवोचाम। प्रियचतुर्‌शब्दे नुट्‌प्रवृत्तेरन्यत्र सिद्धान्तितत्वेन प्रियचतुरामित्यादेर्हलादिग्रहणव्यावत्यंसम्भवेनेत्युक्तिरनुपपन्ना। सत्यभिधाने हलादिग्रहणव्यावर्त्यन्तु टाङेप्रभृत्यन्तमुपदर्शनीयम्। अन्यत्सर्वं चतुरश्रमिति।।]
लत्वस्यैवेति।। अत एव हरितयतेः क्विपि हरिल्लुनातीत्यादौ परसवर्णलकारे स्थानिवद्भावनिषेधसिद्धिरित्याशयः। ननु सिद्धान्ते प्रविगणय्येति भाष्यप्रयोगबलात्पञ्चमीसमासपक्षस्यानित्यत्वमाश्रयणीयं, न तु प्रत्याख्यातुं शक्यं प्रत्यैषिषन्नित्यादिप्रामाणिकानेकलक्ष्यविरोधादत आह।। वस्तुत इति।। कालावधारणार्थमिति।। निष्ठायां णेर्लोपः। स च सेट्येवेति वाक्यार्थेन कालावधारणं सम्पद्यत इति भावः।। चिन्त्यप्रयोजनमिति।। प्रत्याख्यातप्रायमित्यर्थः। प्रशमय्येति।। हलन्ताण्णिचि स्थानिवत्त्वाप्रसक्तेरित्याशयः। ननु बहुवचनसूचितार्थप्राधान्यपुरस्कारेण गौणे प्रवृत्त्यभावस्य तिसृभ्यो जस इति सूत्रास्थेनोपसमस्तार्थमेके इत्यनेन विरोधाद्बहुवचननिर्देशादिति मूलकारोक्तमयुक्तमत आह।। वस्तुत इति।। न लोपश्शाकल्यस्येति।। [टि- न लोपश्शाकल्यस्येतीति।। ``आवादेशे वकारस्य न लोपश्शाकल्यस्येति लोपोऽत्र इति शब्दरत्नपाठमभिप्रेत्यायं ग्रन्थः। अयमेव पाठो युक्तः। नञ्घटितस्त्वपपाठ एव। तदुत्तरग्रन्थस्यालग्नकत्वापत्तेः।] अन्यथा निस्सन्दिग्धोच्चारणेन स्वाभिप्रायाविष्करणस्य भाष्यकारशैलीसिद्धत्वात्प्रियाष्टावित्येव ब्रूयादिति भावः।। वाक्यशेषासङ्गतिरिति।। अर्थासङ्गतिप्रयुक्ता चेयं वाक्यशेषासङ्गतिः। तदाह।। प्रयुक्तेष्वपीति।। ननु प्रयुक्तत्वं शास्त्रप्रणयनकालिकशिष्टप्रयोगविषयत्वं, तदितरविषयत्वं चाप्रयुक्तत्वम्। व्याकरणस्मृतेश्शिष्टप्रयोगमूलकत्वात्तादृशलक्ष्यानतिक्रमो लक्षणस्य न्याय्यः। अत एव लक्षणैकचक्षुष्कता शास्त्रकृतां, पृषोदरादिसूत्रारम्भादप्ययमेवार्थोऽवगम्यते। तथा च शिष्टव्यवहार एव प्रयुक्ते साधुत्वावगतिहेतुः, तद्विषये शास्त्रोपयोगस्तु प्रक्रियास्मरणपूर्वकसाधुशब्दप्रयोगस्यैवाभ्युदयहेतुत्वेन श्रुतिसिद्धत्वात्। ये त्वप्रयुक्तास्तेषु लक्षणानतिक्रमेणैव साधुत्वमवगन्तव्यमित्याशयकतया युक्तमेव यथालक्षणमित्यस्य कैयटोक्तं प्राथमिकव्याख्यानमत आह।। प्रयुक्तानामित्यादि।। प्रयुक्तेषु सिष्टव्यवहारबलात्साधुत्ववदप्रयुक्तेषु तदभावादसाधुत्वस्यापि न्याय्यतया तेषामन्वाख्याने शास्त्रस्याप्रामाण्यप्रसङ्ग इत्याभियुक्ताभिप्रायः। ननु किमस्या अभियुक्तोक्तेर्मूलं तत्राह।। यथालक्षणमिति।। अक्षरार्थ इति।। अलक्षणं यथेत्यन्वयेनैतदर्थलाभः। एवमर्थकमिदमेव भाष्यं निरुक्ताभियुक्तोक्तिबीजमिति परमार्थः। ननु तादृशलक्ष्यान्वाख्यानगोचरशास्त्रप्रणयनाच्छिष्टप्रयोगविषयत्वमेव तेषां कुतो न कल्प्यते। न च भाष्यकृतामप्रयुक्तत्वाभिधानेन तत्परिपन्थितया प्रयुक्तेति कल्पना न युक्तेति वाच्यम्। शास्त्रप्रणयनकालिकशिष्टव्यवहाराभावमादाय भाष्यकारोपवर्णिताप्रयुक्तत्वोपपत्त्या देशकालपरिच्छेदविरहितयोगजप्रत्यक्षवतो भागवतः पाणिनेश्शास्त्रप्रणयनात्पुरातनक्वाचित्कशिष्टव्यवहारविषयताकल्पनायां बाधकाभावात्। अत एवाप्रयुक्ते दीर्घसत्रवदिति पस्पशास्थभाष्येण न विरोधः। वार्षशतिकेषु वार्षसहस्रेषु च सत्रेषु साम्प्रतिकव्यवहाराभावेपि यथा शास्त्रप्रवृत्तिस्तद्वदप्रयुक्तेष्विति हि तदर्थः। किञ्च प्रयुक्तानामिदमन्वाख्यानमित्यास्य प्रयुक्तानामेवान्वाख्यानमिति हि नार्थः, गाणपाठवैयर्थ्यात्। किन्तु शिष्टप्रयोगविषयेष्वसाधुत्वं नापादनीयम्। तद्विसंवादे शास्त्रस्य प्रामाण्यसन्देहापत्तिरित्येव तदर्थः। अत एव टिघुभादीनामन्येषां च सङ्केतशब्दानां शास्त्रबोधितसंस्कारवत्तया शास्त्रकृतां व्यवहारस्य नासङ्गतिः। न चैवं देशभाषाशब्दानामपभ्रंशानामपि शास्त्रविषयतया साधुत्वप्रसङ्ग इति वाच्यम्। शास्त्रबोधितसाधुत्ववत्येव शास्त्रान्तरप्रवृत्त्यभ्युपगमेनादोषात्। प्रातिपदिकसंज्ञा च तत्तद्गणपाठबोधितसाधुत्वोपहितेषु प्रवर्तते। यानि चागृहीतानि प्रातिपदिकानि तेषामप्युपदेशो भाष्यकारैः प्रतिपादित एव प्रत्याहाराह्निके शेषे भाष्ये। धातुसंज्ञापि गणपाठादिवत्साधुत्वेनावगतेष्वेव प्रवर्तते। तस्माद्यथालक्षणमित्यस्य कैयटोक्तं प्राथमिकं व्याख्यानमेव युक्तमत आह।। किञ्चेति।। लक्ष्यैकचक्षुष्कतयेति।। भाष्यकारस्यापि योगजप्रत्यक्षवत्तया त्रैपादिकप्रयोगराहित्यमादायैवाप्रयुक्तत्वोक्तिरिति तथाविधानामन्वाख्याने शास्त्रस्याप्रामाण्यापत्त्या न युक्तं प्राथमिकं व्याख्यानमित्याशयः। ननु कादाचित्कप्रयोगराहित्यमुपादायापि पस्पशादावप्रयुक्तत्वस्य भाष्यकृता प्रतिपादनादिहापि तथैव किन्न स्यादत आह।। एकस्यैवेत्यादि।। पूर्वव्याख्याने प्रियाष्टन्‌शब्दस्याजादिप्रत्ययपरत्वावस्थायामात्वाप्रवृत्तावपि नान्तत्वेन साधुत्वं, द्वितीयव्याख्याने सुतरामप्रयुक्तत्वेन शास्त्रविषयत्वाभावादसाधुत्वमित्याशयः।। एवं व्याख्यातृकैयटेत्यादि।। अप्रयुक्ते लक्षणानतिक्रमेण कार्यप्रवृत्त्या साधुत्वमित्येवंव्याख्यातृकायटानुरोधेनेत्यर्थः।। अनभिधानमेवेति।। द्वितीयव्याख्यानुसारादिति भावः।।
केचितु यथाश्रुतसूत्रवशादजादिप्रत्ययपरत्वावस्थायामप्यात्वप्रवृत्त्या प्रियाष्टौ प्रियाष्टा इत्यस्य कृताकारस्य साधुत्वं, हल्ग्रहणापकर्षेण व्याख्यायामकृताकारस्य नान्तस्येति वैपरीत्यमूलकं विरोधमाशङ्क्य यथालक्षणमप्रयुक्ते इत्युक्तं भाष्ये। तत्र यथालक्षणमित्यस्य मसासव्याससाधारण्येनान्यतरनिश्चायकप्रमाणानुपलम्भादुभयथा कैयटेन व्याख्यातम्। यद्यप्रयुक्तत्वं प्रकृतशास्त्रप्रणयनकालवृत्तिशिष्टप्रयोगविषयताशून्यत्वं, तदा पस्पशास्थभाष्योक्तरीत्या दीर्घसत्रवत्पुरातनशिष्टव्यवहारविषयतासम्भावनया शास्त्रविषयत्वावश्यम्भावेनात्वविधौ हल्ग्रहणापकर्षणेन व्याचक्षाणस्योत्तरमुनेः प्राबल्येन हलादावादन्तस्य परत्र तदभावतो नान्तस्य च गौणे प्रियाष्टन्शब्दादेस्साधुत्वमित्यभिप्रायकं समासप्रयुक्तं प्राथमिकं व्याख्यानम्। यदि तु शिष्टप्रयोगविषयतासामान्याभावरूपमप्रयुक्तत्वं, तदा यादृशनुपूर्व्यवच्छेदेन यादृशार्थे निरुक्तमप्रयुक्तत्वं तादृशानुपूर्व्यवच्छिन्नस्य तादृशार्थकस्य देशभाषाशब्दवच्छस्त्रविषयत्वायोगादजादिपरत्वावस्थायामादन्तस्य प्रियाष्टन्शब्दादेरसाधुत्वमित्यभिप्रायकं वाक्यप्रयुक्तं द्वितीयव्याख्यानम्। न हि प्रियाष्टन्‌शब्दादेस्सामान्येनाप्रयुक्तत्वामसाधुत्वं च कल्पयितुं शक्यं, मानाभावात्। कर्मधारयादावपि तदापत्तेश्च। तस्मादिदमनभिधानमालोचनीयमित्याहुः।।[टि- आहुरिति।। परे तु सूत्रस्य यथाश्रुतार्थे गौणेऽजादिप्रत्ययपरत्वावस्थायां कृतात्वस्य साधुत्वं लभ्यते। हल्ग्रहणापकर्षे तु नान्तस्य साधुत्वमित् विरोधमाशङ्क्य यथालक्षणमप्रयुक्त इति भाष्ये उक्तम्। तस्य च भाष्यस्य द्वेधा व्याख्या कृता कैयटेन। तत्राद्यव्याख्यायां नान्तस्य साधुत्वं लभ्यते। द्वितीयव्याख्यायान्त्वसाधुत्वम्। सन्देहनिवर्तकतया प्रवृत्त्स्य भाष्यवाक्यस्यार्थद्वयपरताया अनौचित्येनैकतरार्थपरत्वं निर्णेयम्। तन्निर्णयाय शब्दरत्नकृता काञ्चन रीतिं प्रदर्श्य द्वितयीव्याख्याया एवौचित्यं प्रदर्शितम्। युक्तं चैतत्। यद्याद्यव्याख्यारीत्या नान्तस्य साधुत्वमभ्युवैष्यत्तदा प्रियाष्टान इति प्राप्नोतीत्येतदुत्तरं ``ई चाक्रवर्मणस्येति सूत्रे भाष्ये तत्रेग्रहणेन नार्थः, अविशेषेण चाक्रवर्मणस्याप्लृतवदितयेव, इदमपि सिद्धं, वशा इयं वशेयमितिवत्, जराया इति सूत्रे भाष्ये यद्येवमतिजरमतिजरैरित्यत्र न प्राप्नोतीत्याशङ्क्य इष्टमेवैतदतिजरमतिजरैरिति भवितव्यमितिवच्च सिद्धमिष्टमेवैतदित्येवावदिष्यत्। तथानुक्त्वा यथालक्षणमप्रयुक्ते इत्युक्त्या शब्दरत्नोक्तयुक्तिभिश्च द्वितीयव्याख्यैव भाष्यकाराभिप्रायगोचरेति स्फुटं प्रतीयते। फ्रयोगसामान्याभावबोधकस्य यथालक्षणमिति वाक्यस्थस्याप्रयुक्तशब्दस्य विना प्रमाणं सङ्कोचेन पुरातनकालमात्रवृत्तिप्रयोगविशेष्टत्वरूपशास्त्रप्रणयनकालिकप्रयोगाभाववत्परत्वं वक्तुमशक्यम्। अप्रयुक्ते दीर्घसत्रवदित्यत्रेदानीमननुष्टीयमानानां दीर्घसत्राणां बोधकश्रुतीनामुपलम्भेन तासामननुष्ठापकत्वलक्षणाप्रामाण्यवारणाय पूर्वमनुष्ठानस्यावश्यकल्प्यतया तद्‌दृष्टान्तबलेन तत्रत्याप्रयुक्तशब्दस्य प्रयोगसामान्याभावबोधकस्य विशिष्टप्रयोगाभाववत्परत्वेन सङ्कोचेन व्याख्यानेऽप्यत्र सङ्कोचेन व्याख्याने मानाभावात्। किञ्च शास्त्रस्य प्रक्रियाज्ञानपूर्वकप्रयोगे धर्मनियामकत्वोक्त्या शास्त्रप्रमयनसमकालं तदुत्तरं वा प्रयोगशून्यानामन्वाख्यानं निष्फलमेव। तेषां प्रयोगस्यैवाभावेन तस्य धर्मनियमबोधनस्यानावश्यकत्वात्। यदि प्रमाणान्तरेण केषां चित्सत्त्वमनुमीयते, तदा तेषां कदाचिदुपलम्भे प्रयोगप्रसक्त्या तद्विषये धर्मनियामकं शास्त्रमावश्यकं स्यात्। न च तथा प्रकृते तेषामनुमापकं किञ्चित्प्रमाणमस्ति। न चान्वाख्यापकं शास्त्रमेवानुमापकं प्रमाणमिति वाच्यम्। तेषां प्रयोगाभावस्य तत्र तत्र लक्ष्यैकचक्षुष्काभ्यां वार्तिकभाष्यकाराभ्यां कण्ठतो बोधनात्। यत्र तु तावुदासीनौ, तेषां सत्त्वं शास्त्रमनुमापयति। तदनुरोधेनैवोक्तं ``अप्रयुक्ते दीर्घसत्रवत् इति। स्फुटीकृतं चेदमप्रयुक्ते दीर्घसत्रवदिति भाष्यव्याख्यानावसरे ``इदमपि यत्र भाष्यवार्तिककाराभ्यामप्रयुक्तत्वं नोक्तं तदभिप्रायकमनुमानं बोध्यम् इति वदता उद्योतकारेण। अत एव येषां शब्दानामप्रयुक्तत्वेनाभिमतानामन्वाख्यानेन शास्त्रस्याप्रामाण्यमाशङ्कितं, तेषां प्रयुक्तत्वं सर्वलक्ष्यद्रष्ट्रा भाष्यकृता प्रदर्शितं सर्वे देशान्तरे इत्यादिना। एवं स्थितेऽसन्देहार्थ प्रवृत्तायां भाष्यफक्किकायामप्रयुक्तपदस्य सन्दिग्धार्थबोधकत्वं परिकल्प्य तद्बलेन परस्परविरुद्धार्थबोधककैयटकृतव्याख्याद्वयस्याप्यर्थभेदेन व्यवस्थां परिकल्प्य प्रामाण्यपरिकल्पनं लक्षणैकचक्षुष्कैर्नादरणीयम्। एवमपूर्वव्यवस्थाकल्पनां मनसि निधाय शब्दरत्नग्रन्थव्याख्यानावसरे तत्तद्गन्थावतरणग्रन्थरूपेण ये विषया उद्भावितास्ते सर्वेऽपि न विमर्शकानां हृदये पदमादधति। तथा चेदमनभिधानं सम्यगेवेति विभावयन्त्वित्याहुः।]
लोपोऽन्तरङ्ग इति।। अपरनिमित्तकत्वादात्वापेक्षमन्तरङ्गत्वमिति भावः।। उभयसापेक्षत्वेनेति।। लोपस्येति शेषः।। समत्वादिति।। यद्यप्युभयसापेक्षत्वविशेषापेक्षत्वयोरुभयत्र तौल्येऽपरनिमित्तकत्वप्रयुक्तमन्तरङ्गत्वं हल्ङ्यादिलोपस्याधिकं, तथापि यस्स इत्यादौ त्यदाद्यत्वात्पूर्वं हल्ङ्‌यादिलोपवारणाय तदंशे परिभाषाया अनित्यत्वस्याश्रयणीयतया प्रकृतेपि तथैव निर्वाह इत्याशयः।।
चयोगे कुत्वाभाव इति।। चोः कुरित्येतत्सूत्रविधेयस्य झल्‌निमित्तकस्य कुत्वस्याभावो निपात्यते। क्रुङित्यादौ क्विन्प्रत्ययस्येति कुत्वं तु भवत्येव। क्विनो विधानादिति तत्त्वम्।। न्यायसिद्धार्थकथनमिति।। न तु निरुक्तकार्यप्रवृत्तिवैपरीत्ये फलविशेष इति तात्पर्यम्।।
अलाक्षणिकानामिति।। शास्त्रान्तरेणाप्राप्तानामपि कार्याणां निपातनाल्लाभार्थमित्यर्थस्तदाह।। तत्रेति।। इति भाष्येणेति।। उक्थशश्शब्दस्येति ण्विनिमित्तकवृद्धिराहित्येन भाष्ये निर्देशात्तदभावोऽत्रानुमीयते। ततश्च डस्विधानेऽप्यवया इत्यत्र ग्रहणाभावादसम्बुद्धौ सावत्वसन्तस्येति दीर्घोऽन्यत्र ह्रस्व एवोक्थश उक्थशसावित्यादीत्याशयः।
केचित्तु भाष्ये उक्थशश्शब्दस्येत्यस्य तत्प्रकृतिकोक्थशाश्शब्दस्येत्यर्थः। यथाश्रुतार्थमुपादाय वृद्ध्यभावकल्पना तु न युक्ता। अत एव शुचीदयन् दीघितिमुक्थशास ित्यादिवैदिकप्रयोगनिर्वाहः। किं चोक्थशोभ्यामित्यादिप्रयोगोपपत्तये डस्विधानादुक्थशा यज सोमस्येत्यादिप्रयोगनिर्वाहाय सम्बुद्धौ दीर्घनिपातनार्थमवया इत्यत्र चकारेणास्य समुच्चयोऽप्यावश्यकः। न च शास्तेर्विचि तथाविधप्रयोगाणामुपपत्तिरिति वाच्यम्। तथा सत्यसम्बुद्धिप्रथमैकवचनान्तस्याप्युक्थशा इत्यस्य शासिप्रकृतिकविचैव निर्वाहे ह्रस्वघटितप्रयोगाणां शंसुधातुप्रकृतिकेन क्विपा निर्वोढुं शक्यत्वात्सूत्रकृतो ण्विन्विधानस्य वार्तिककृतो ढस्विधानस्य चासाङ्गत्यापत्तेः। न च छन्दस्यसम्बुद्धावुक्थश इत्यस्य वारणाय तयोर्विधानमिति वाच्यम्। छन्दस्यपाद्यमानरूपायोगात्। उक्थश उक्थशास इत्यादीनामुक्थशंसनकर्तृत्वपुरस्कारेणैव स्वार्थबोधकताया वेदभाष्यकारादिसम्मतत्वाच्च। तस्माच्छंसेर्ण्विन्युक्थशासावित्यादय एव प्रयोगा इत्याहुः।। [टि- आहुरिति।।परे तु भाष्ये उक्थशश्शब्दस्येत्यस्य तत्प्रकृतिकोक्थशाश्शब्दस्येत्यर्थकथनमयुक्तम्। तादृशाशयकत्वे ह्युक्थशाश्शब्दस्येत्येव वक्तुं युक्तत्वात्। जघन्यवृत्त्यार्थबोधनस्यानौचित्यात्। लक्षणाफलीभूप्रयोजनस्य तत्र दुर्निरूपत्वात्। रूढिलक्षणायां मानाभावाच्च। किञ्च तत्प्रकृतिकोक्थशाश्शब्दस्येति भावदीयग्रन्थे तत्प्रकृतिकण्विनन्तोक्थशाश्शब्दस्येत्यर्थो वाच्यः। यथाश्रुते उक्थशाश्शब्दस्य तत्प्रकृतिकत्वाभावात्। तादृशलक्ष्यार्थस्वीकारेऽपि ण्विन उक्थशश्शब्दप्रकृतिकत्वं न घटते। तस्योक्थशश्शब्दप्रकृतिकत्वात्। न च नलोपस्य निपातनादुक्थशश्शब्दप्रकृतिकत्वं तस्य युज्यत इति वाच्यम्। लुप्तनकारोच्चारणसामर्थ्यादुक्थशंश्शब्दात् ण्विन्, तत्सन्नियोगेन प्रकृतेर्नलोप इत्येवमर्थस्य पर्यवसानेन ण्विन्प्रत्ययोद्देश्यताया नकारविशिष्ट एव विश्रान्तेः। एवञ्च प्रकृतभाष्यनिर्देशबलेन वृद्ध्यभावनिपातनमिति शब्दरत्नकृदुक्तसरणिरेव ज्यायसी। तथा चासम्बुद्धौ सावत्वसन्तस्येति दीर्घघटितः, अन्यत्र ह्रस्वघटितश्च प्रयोग इष्ट एव। न च डस्विधाने सम्बुद्धावुक्थशा इति दीर्घघटित इष्टः। अत एव अवया इति सूत्रेऽनुक्तसमुच्चायकचकारेणैतस्यापि सङ्ग्रहस्य कैयटादावुक्तमिति वाच्यम्। ``आतश्च र्वर्थं, स उक्थशश्शब्दस्यान्येन रुस्सिद्धः। न तस्य निपातनं क्रियत इति भाष्येण र्वर्थत्वोपपादनाय उक्थशश्शब्दस्यान्येन रुस्सिद्ध इति निपातनाभावबोधकेन तद्विरोधादनुक्तसमुच्चायकत्वकथनस्य कैयटादेरयुक्तत्वात्। उक्थशा यज सोमस्येत्यादिप्रयोगास्तु राजा भव युध्यस्वेत्यादिवदसम्बुद्ध्यन्ततयापि नेतुं शक्याः। यदि सम्बुद्ध्यन्ततैव तत्रेष्टा, तदा शास्तेर्विचि तत्प्रयोग उपपाद्यः। एवमेव शुचीदयन् दीधितिमुक्थशास इत्यादयोऽप्युपपाद्याः। न च दीर्घघटितप्रयोगस्य तत्र तत्र दृष्टस्य शासुधातुप्रकृतिकविजन्तेन, ह्रस्वघटितप्रयोगस्य शंसुधातुप्रकृतिकक्विबन्तेन च निर्वाहे सूत्रकृतो ण्विन्विधानस्य वार्तिककृतो डस्विधानस्य च वैयर्थ्यमिति वाच्यम्। ह्रस्वघटिंतरूपस्याद्युदात्तस्याभीष्टस्य निर्वाहार्थं सूत्रवार्तिकयोरावश्यकत्वात्। अत एव डसः प्रत्ययान्तरत्वं निरस्य ण्विनादेशत्वसमर्थनं स्वरसत उपपद्यते। यदि दीर्घघटितरूपे वाद्युदात्तत्वमभीष्टं, तदा विजन्तत्वे तत्कथमुपपद्यत इति तु न शङ्क्यम्। विजन्तस्य वृषादित्वकल्पनेन तत्सिद्धेः। डसः प्रत्ययान्तरत्वमभ्युपगच्छतामेषैव सारणिराश्रयितव्या। न चैवं डस्विधानं व्यर्थ, उक्थशोभ्यामित्यादेर्ण्विनन्तत्वेनैव सिद्धेरिति वाच्यम्। इष्टापत्तेः। ध्वनितं चेदं ``डसपि वक्तव्यः, उत्वार्थं, श्वेतवोभ्यामुक्थशोभ्यामिति। एवञ्चोक्थशा इत्यपि सम्बुद्ध्यर्थं निपातनं कर्तव्यं यदि मन्त्रे दर्शनमस्ति, इति वदता तादृशानां मन्त्रे प्रयोगाभावं सूचयता कैयटेन। स्फुटीकृतं चेदं ``निपातनाद्वद्ध्यभावे उक्थशोभ्यामित्यस्य सिद्धेः। शासेर्विचि सम्बुद्धापुक्थशा इत्यस्यापि सिद्धेर्द्वयमपि न कार्यम् इति वदता उद्योतकारेण। छन्दस्यापाद्यमानरूपाभावान्नातिप्रसङ्गशङ्का। एवञ्च भायस्य यथाश्रुतार्थकत्वेन मूलोपपत्तौ तस्य जघन्यवृत्त्याऽर्थान्तरपरत्वं परिकल्प्य मूलग्रन्थनिरसनप्रयासो विफल एवेत्याहुः।]
सूत्रकृन्न जानातीति।। अवया इति निपातनं पदान्तमात्रविषयकमित्युक्तावपि रुत्वयत्वयलोपैश्श्वेतवाभ्यामित्येव सूत्रकृन्मते स्यादित्याशयः। वर्णव्यत्ययेन सूत्रकृन्मते तदुपपत्तावपि व्याख्यानाद्वरं करणमिति न्यायेन कात्यायनस्यायं डस्वचनारम्भ इति साम्प्रदायिकाः।
ज्ञापनार्थत्वादिति।। अनन्त्यग्रहणात्सामान्यापेक्षाद्विशेषापेक्षमन्तरङ्गमित्यस्याल्पविषयत्वमनाश्रयणं वा कल्पनीयसित्याशयः।। सापि सुवचेति।। नित्यतापि त्यदाद्यत्वस्य प्राथमिकप्रवृत्तिप्रयोजकत्वेन वक्तुं शक्येत्याशयः।।
प्रकारान्तरमिति।। एवञ्च प्रथमाशब्दस्य प्रथमाद्वितीयोभयसमुदायाभिधायकताया वक्ष्यमाणत्वेन समासमन्तरा द्विवचनोपपत्तेर्दुर्वचत्वेपि पक्षान्तरपरत्वादिह पृथक्पदत्वकथनं नासङ्गतमिति भावः। वस्तुतो नेदं पक्षान्तरम्। प्रथमाद्वितीयोभयसमुदाये इत्यस्य च विभक्तिसमुदाये प्रथमाद्वितीययोः प्रथमाशब्दो गौण्या बोधक इत्यर्थकतया वृथक्पदत्वस्यैवोद्बोधकम्। अत एव भाष्ये प्रथमयोरित्युच्यते, कयोरिदं प्रथमयोर्ग्रहणं विभक्त्योः प्रत्यययोर्वेति विकल्प्य विभक्त्योरिति विवरणं स्वरसत उपपद्यते। ननु प्रथमयोः पूर्वसवर्ण इत्यत्र प्रथमाशब्देन गौण्या वृत्त्या प्रथमाद्वितीयोभयबोधकत्वं युक्तम्। तस्माच्छसो नः पुंसीति पूर्वसवर्णदीर्घानुवादेन शसस्सकारस्य नत्वानुशासनात्। इह तु प्रथमाशब्देन तयोर्ग्रहणे किं प्रमाणमिति चेत्सत्यम्। द्वितीयायां चेत्यात्वविधानमत्र विभक्तिसमुदायनिरूपितप्राथम्यविशिष्टयोः प्रथमाद्वितीययोर्ग्रहणे प्रमाणम्। अमादेशाभावे हि युष्मदस्मदोरनादेश इत्येव सिद्धे तद्वैयर्थ्यं स्पष्टमेव। न च युष्मानित्यत्र नादेशोत्तरमात्वसिद्धये तदावश्यकमिति वाच्यम्। सुपि चेत्यनेनान्त्यलोपोत्तरं दीर्घेण निर्वाहात्। न च तत्रादेशाभावेपि योचीति यत्वबाधनार्थमात्वविधानमिति वाच्यम्। योऽच्यसुटीति न्यासेन यत्वनिवृत्त्या युष्मदस्मदोरित्यात्वस्य सुवचत्वात्। अतो युक्तमेवात्र प्रथमाशब्देन प्रथमाद्वितीययोर्ग्रहणमित्याहुः।।
तस्यैवेति।। शेषग्रहणाट्टिलोपपक्ष इव ससुट्‌कनिर्देशादन्त्यलोपपक्षोऽपि सूत्रकृत्सम्मतः। लक्ष्यानुसाराद्व्यवस्थया टाबभाववार्थष्टिलोपोऽन्त्यलोपस्तु भ्यमादेशे सत्यकारश्रवणार्थ इति दीक्षितानां निष्कर्षः। ननु टिलोपपक्षानभ्युपगमे त्वं स्त्रीत्यादौ टाबापत्तेर्दुर्वारत्वात्कथमन्त्यलोपपक्ष एव सूत्रकृत्सम्मत इत्युच्यते, तत्राह।। किं चेति।। सन्निपातपरिभाषयेति।। यद्यपि साम आकमिति सूत्रे भाष्ये युष्मदस्मदोरलिङ्गत्वादेव टापो निवृत्तेस्तदर्थं टिलोपस्यानावश्यकत्वादन्त्यलोपपक्षे प्रसक्तस्य सुटो वारणाय ससुट्‌कनिर्देश इति व्यवस्थापितम्। ततश्चात्र टाब्निवृत्तये परिभाषोपन्यासो न युक्तस्तथापि नपुंसकादेशेभ्यो युष्मदस्मदादेशा विप्रतिषेधेनेति स्वमोर्नपुंसकादिति सूत्रस्थवार्तिकतद्भाष्याभ्यां तदंशे लिङ्गवदर्थकतापक्षस्यापि प्रतीत्या तदनुसारेणायं परिभाषाप्रयुक्तष्टापः परिहार इत्याहुः। ननु सन्निपातनिमित्तकविधेर्विधातकविधौ साक्षात्परम्परया वा यत्र शब्दतो निमित्तत्वमाश्रीयते यथा बुद्धावित्यत्र सन्निपातनिमित्तकाकारस्य टाब्विधौ निमित्तत्वं तत्रैवास्याः परिभाषायाः प्रवृत्तिर्न्याय्या, प्रत्यासत्तेः। अत एवागत्य वितत्येत्यादावनुनासिकलोपोत्तरं तुक्सिद्धिः। प्रकृते च शेषे लोपस्य टाब्विधौ कथमपि शब्दतो निमित्तत्वानाश्रयणान्न तया परिभाषया निर्वाहः। अत एव लिङ्गवदर्थकतापक्षे टिलोपष्टाबभावार्थ इति टिलोप एव टाब्निवृत्त्युपायत्वेन प्रदर्शितस्त्यदादीनाम इति सूत्रे भाष्ये इति चेत्सत्यम्। वृत्रहभ्यामित्यादौ कृन्निमित्तकतुग्निवृत्तेस्सन्निपातपरिभाषाप्रयोजनत्वोपवर्णनपरकृन्मेजन्त इति सूत्रस्थभाष्यबलेन सामान्यतः सन्निपातनिमित्तकविधिप्रयोज्यधर्मनिमित्तकत्वेन विघातकविधेः प्रवृत्त्यभावस्यैव परिभाषाविषयताया आवश्यकत्वेन प्रकृतविषयेपि तत्प्रवृत्तिस्सुलभा। आगत्त्येत्यादौ च परिभाषाया अनित्यत्वमेव शारणम्। टिलोपष्टाबभावार्थ इति त्यदादीनाम इति सूत्रभाष्यस्य मतान्तरपरत्वान्न तद्विरोधो दोषायेति विभावनीयमित्याहुः। नन्वन्त्यलोपपक्षस्यैव स्वीकारे विशेषविहिताभ्यामात्वयत्वाभ्यां बाधादेव निर्वाहाच्छेषग्रहणं सूत्रकृतो निरर्थकं स्यादत आह।। प्रत्याख्यातमिति।। भाष्ये इत्यस्य शेषे लोप इति सूत्रे इति शेषः। तत्र हि शेषग्रहणं शक्यमकर्तुमित्युक्तमित्याशयः। अथ सन्निपातपरिभाषया त्वं स्त्रीत्यादौ टाब्निवारणेपि युष्माकमित्यादौ सुड्‌निवारणाय टिलोपसम्पत्तये शेषग्रहणमाश्रित्यि ससुट्‌कनिर्देश एव कुतो न प्रत्याख्यायते तत्राह।। ससुट्‌कनिर्देश इत्यादि।। ज्याय इति।। शेषग्रहणप्रत्याख्याने लाघवमित्याशयः। यद्येवं टिलोपष्टाबभावार्थ इति त्यदादीनाम इति सूत्रभाष्यासङ्गतिरत आह।। त्यदादीनाम इति।। आहुरित्युक्त्येति।। तत्र हि भाष्ये ``टिलोपष्टाबभावार्थः कर्तव्य इति तत्स्मतम्। अथवा शेषसप्तम्या शेषे लोपो विधीयते। लुप्तशिष्टे हि तस्याहुः कार्यसिद्धि मनीषिण इत्युक्तम्। अत्र मनीषिण आहुरित्यनेन स्वानभिप्रेतत्वावगमादरुचिग्रस्तत्वं प्रतीयत इति तात्पर्यम्।।
ननु जानातीत्यादावृक्तपरिभाषयैव प्वादित्वप्रयुक्तह्रस्वनिवृत्त्या जा इति दीर्घान्तादेशविधानसामर्थ्येन ह्रस्वनिवारणपरकौमुदीग्रन्थासङ्गतिस्तत्राह।। जानातीत्यादि।। कथमिति।। एवं च व्यर्थमेव दीर्घग्रहणमित्याशयः।। अनन्त्यस्य पदस्येति।। तदवयवस्याच इत्यर्थः। ननु विधेयत्वादनण्त्वाच्च सवर्णान्तराप्रसक्त्या क्रियामाणं तपरकरणं प्लृतव्यावृत्त्यर्थ भाविष्यति। न च तपरसूत्रस्यानणि विध्यर्थत्वात्समानकालिकव्यक्तिपट्‌कसंग्रहार्थं तपरकरणं, अत एव पचामीत्यादावनुदात्तः, पुत्रीयामीत्यादावुदात्तश्च सिद्ध्यतीति वाच्यम्। अपेक्षितव्यक्तीनां पश्लेषेण निर्देशेऽप्यान्तरतम्येनोदात्तादिव्यवस्थायास्सुवचत्वात्। तस्माद्व्यर्थमेव दीर्घग्रहणमत आह।। तपरकरणेनेति।। वर्णान्तरोच्चारणे सहायसम्पादनेन कृतार्थस्य तपरत्वस्यैतादृशफलनिष्पादकत्वे मानाभावादित्याशयः। नन्वाकारप्रश्लेषाद्दीर्घात्मक एवाकारो न तु प्लृत इत्यर्थात्तदप्रवृत्तिरिति युक्तं ज्ञापकत्वमत आह।। पश्लेषेणेति।। उपायान्तरमिति।। प्रश्लेषेपि तत्सामर्थ्यात्त्रैपादिकासिद्धत्वबाधापूर्वकं प्लृतव्यावृत्तेः कल्पनीयतया विनिगमनाविरहाद्दीर्घग्रहणेनैव तन्निवृत्तिकल्पनाभ्युपगमे ज्ञापकत्वानुपपत्तिरित्यभिसन्धिः। वैकल्पिकेनेत्यस्य व्यवस्थितविकल्पविषयत्वेनेत्यर्थः।। हल्यशीति।। इदम इद स्थाने अकारो हलादावपीत्यर्थादकारे पररूपे सिद्धमाभ्यामित्याशयः।।
इति दिगिति।। दिगर्थस्तु नास्याः परिभाषायाः अनन्यथासिद्धं प्रयोजनम्। यूयं वयमित्यत्र मकारप्रश्लेषाच्छीभावाभावः। युष्मभ्यमस्मभ्यमित्यत्र चाभ्यमादेशटिलोपाभ्यां निर्वाहः। अन्यत्र द्वयोरित्यादावनित्यत्वेन परिहरणीय एव दोषः। न च पिबेर्गुणप्रतिपेधश्चोदितस्स न वक्तव्यो भवतीति ज्ञापकसिद्धया प्रकृतपरिभाषया गुणप्रतिषेधवचनकल्पनाक्लेशपारहारः प्रयोजनमित्युपदर्शितमेव भाष्यकारैरिति वाच्यम्। पिबेत्यदन्तादेशविधानेन तत्र गुणनिवारणस्य स्थानिवत्सूत्रै भाष्ये स्पष्टतया तस्याप्यन्यथासिद्धत्वात्। न च गुरुं गरयत्युरुं वरयतीत्यादाविष्टवद्भावप्रयुक्ते गराद्यादेशे सत्यत उपधाया इति वृद्धेः प्रसक्तायाः परिहारस्तत्प्रयोजनमिति वाच्यम्। संज्ञापूर्वकविधेरनित्यत्वेनापि तदुपपत्त्या तस्याप्यन्यथसिद्धत्वात्। तत्परिभाषानभ्युपगमे चानन्यथासिद्धमेतादृशप्रयोजनं विहाय गुणप्रतिषेधस्यान्यथासिद्धस्य प्रयोजनत्वोपवर्णनपरभाष्यप्रामाण्येन तत्र वृद्धेरभीष्टत्वस्यैव कल्पयितुं युक्तत्वाच्च। तस्मादियमनावश्यकी परिभाषा, स्मभवमात्रेण तु ज्ञापनप्रदर्शनं भाष्यकाराणां युक्तमेव। अत एवेयं लक्ष्यसमर्थनार्थं यत्र क्वापि न व्यवहृतेत्याहुः।।
एवं चेति।। अन्त्यलोपपक्षेऽभ्यमादेशीयाकारनिवर्तकतायास्सामर्थ्योपक्षये सतीत्यर्थः।।
पररूपबाधनार्थमिति।। अन्त्यलोपपक्षे प्रकृत्यकारेण प्रसक्तपररूपबाधनार्थमित्यर्थः।। परिशेषसिद्धोऽर्थ इति।। अविशेषेणात्वं विधाय यत्वस्याजादौ विधाने हलादावेवात्वं पर्यवस्यतीति भावः। यदि तु यत्वमेवोत्सर्गमाश्रित्य रायो हलीत्यतो हलीत्यनुवर्त्य हलादावात्वं विधीयते तदा यत्वविधावज्ग्रहणमनुपयुक्तमिति बोध्यम्।। यत्वं स्यादिति।। ननु ज्ञापनात्पूर्वं यत्वविधिगृहीतपर्युदस्यमानसमर्पकादेशपदेन प्राथमिकाकारस्थानिकादेशविशिष्टविभक्तेर्ग्रहीतुमशक्यत्वेन तद्भिन्नत्वस्याक्षततया यत्वनिवृत्त्यर्थमभीष्टरूपसम्पत्त्यर्थं च सार्थकमेव शित्त्वमिति कथं तस्य मूलकारोक्तसर्वे सर्वपदादेशा इत्यर्थज्ञापकता, यदि तु आदेः प्रवृत्तौ फलाभावेनादेः परस्येत्येतद्बाधितत्वाच्चरमवर्णस्य प्रवृत्त्या पररूपे सामुदायिकादेशरूपविभक्तितया यत्वनिवृत्तिरूपसिद्ध्योस्स्पष्टतया शित्त्ववैयर्थ्येन ज्ञापकत्वमिति मन्यते, तर्हि स्वांशे चारितार्थ्यासम्भवः, शित्त्वमन्तरापि निर्वाहात्। अतस्स्वांशे चारितार्थ्यस्योपपत्तये निरुक्तार्थज्ञापकतां द्रढयितुं शङ्कते।। नन्वेवमिति।। प्रत्यासत्त्येति।। यावता विनानुपपत्तिपरिहाराभावस्तावत्पर्यन्तं ज्ञाप्यत इति प्रत्यासत्तिमूलकयुष्मदाद्युच्चारणेन विहितसामुदायिकादेशस्यैव पर्युदासविषयतया पररूपस्य तथात्वाभावे शित्त्वज्ञापितसमुदायादेशकल्पकेनादेः प्रवृत्तेनाकारदेशेन यत्वनिवृत्त्या सार्थक्येनादेः परस्येत्येतद्बाधे मानाभावादभीष्टरूपसम्पत्तये शित्त्वमावश्यकमिति न स्वांशे चारितार्थ्यविरोध इति सुस्थं ज्ञापकत्वमित्याशयः। तदेतदाह।। एवं चेति।। ननु मास्तु प्रत्यासत्तिज्ञापकता, नाप्यानुमानिकादेशविकल्पना। शित्त्वमपि मास्तु, तव ममेति त्वादेरकारविधाने फलाभावादेवादेः परस्येत्येतत्परिभाषां बाधित्वा चरमवर्णस्य सकारस्य प्रवृत्तौ पररूपे सामुदायिकादेशरूपविभक्तितया यत्वनिवृत्त्या सूपपादमतो वृथैवेदं शित्त्वमानुमानिकस्थान्यादेशभावज्ञापनं चेति चेन्न। सर्वे सर्वपदादेशा इत्येतादृशाभियुक्तवचनसिद्धस्यैरुरित्यादौ कल्प्यमानस्य तेस्तुरित्याद्यानुमानिकस्थान्यादेशभावस्य स्थानिवत्सूत्रविषयताप्रयोजकशास्त्रीयत्वसम्पादनेन प्रयोजनवतश्शित्त्वस्य वैयर्थ्यायोगात्। इत्थं च ज्ञापनोपपत्तये टाङ्योर्यादेशवारणाय च प्रत्यासत्तिकल्पनाप्यवश्यमाश्रयितव्या। अन्यथा टकारङकारयोरित्संज्ञायां तस्य लोप इत्येतद्बोधितानुमानिकादेशरूपानुबन्धविनिर्मुक्तयोष्टाङ्योर्यत्वगृहीतपर्युदासविषयसामुदायिकादेशलूपतया यत्वानुपपत्तिस्स्पष्टैव। प्रत्यासत्त्याश्रयणे तु नायमादेशो युष्मदाद्युच्चारणेन विहित इति न दोष इति वदन्ति।। कृत्त्वा इत्यादाविति।। प्रकृत्येत्यादाविति शेषः।। अपास्तमिति।। क्त्वामात्रस्याप्यर्थवत्त्वेन तथाविधस्थान्यादेशकल्पनायां मानाभाव [टि- मानाभाव इत्याशय इति।। स्थानिवद्भावस्य कार्यार्थतया यत्रार्थंवदवयवकसमुदायस्य स्थान्यादेशभावकल्पनामन्तराऽभीष्टस्यासिद्धिस्तत्र तादृशसमुदायस्य स्थान्यादेशभावकल्पनेऽप्यन्यत्र तत्कल्पनायां मानाभाव इत्याशय इत्यर्थः। ध्वनितं चेदं स्थानिवत्सूत्रे शब्दरत्ने। विवेचितं चेदं तत्रैवास्माभिः। तदेतदाविष्करोति वस्तुत इत्यादिना निष्कर्ष इत्यान्तेन ग्रन्थेन । एवञ्चात्रैवं मूलग्रन्थनिष्कृष्टाशयमुपवर्ण्य ग्रन्थकारः स्थानिवत्सूत्रशब्दरत्नव्याख्यायामेतत्समानार्थकस्य शब्दरत्नग्रन्थस्य चिन्त्यतां कथमवोचदिति सुधीभिराकलनीयम्।] इत्याशयः।।
वस्तुतस्त्वर्थवत्येव स्थान्यादेशभावविश्रान्तिरित्यनेनानर्थकस्य न स्थानिवत्त्वमित्येव बोध्यते; न त्वर्थवदवयवकसमुदायस्य स्थानित्त्वं नेति। अत एव राजपुरुष इत्यादौ सुपो धातुप्रातिपदिकयोरित्यनेन परिकल्पितसामुदायिकस्थानिवद्भावेन तदादेशस्य समासत्वादिकमुपपद्यते। वीवधशब्देऽप्युपसर्गस्य घञिति परीकल्पितोपसर्गविशिष्टसङ्घातरूपविवधशब्दात्मकस्थानिनिष्ठविवधशब्दत्वस्यातिदेशः। तथा च यत्र प्रकृत्येत्यादौ समुदायादेशे प्रकृतिप्रत्ययादिविभागसम्मोहस्तत्र तुगाद्युपपत्तये तदवयवानामप्यर्थवत्त्वात्स्थानित्वमिति निष्कर्षः।।
भाष्यविरोधादिति।। ज्यादादीयस इत्यत्र लोपानुवृत्त्यकृत्सार्वेतिदीर्घभ्यां सिद्धावादादेशविधानं ज्ञापकमित्युक्तं भाष्ये। यद्यङ्गोद्देश्यककार्यप्रवृत्तौ पुनरङ्गोद्देश्यकं कार्यं नेत्येव परिभाषार्थस्तदा ज्ञापकभूमिविरोधाद्भाष्यविरोधापत्तिः। तस्मादकारप्रश्लेष एव मूलकारेक्तस्तवममेत्यत्र स्यादेशवारणोपाय इत्याशयः।।
केचित्तु युष्मदस्मदोरनादेश इत्यत्रादेशशब्देन यस्यादेशो भावी स गृह्यते। अत एवानादेश इति चरितार्थम्। अन्यथा युष्मदस्मदोरविशेषेणात्वयत्वे विधायादेशे लोप इत्येव ब्रूयात्। एवं च विभक्त्यादेशात्पूर्वमेव यत्वात्वलोपानां प्रवृत्तिरिति तव असित्याद्यवस्थायामशादेशस्यादेशयोर्यौगपद्येन प्रवृत्तौ विशेषविहितेनाशादेशेन स्यादेशस्य बाधादभीष्टसिद्धिः। यदि तु तक्रकौण्डिन्यन्यायस्य त्यदादिकार्येषु न प्रवृत्तेः, अत एव नेदमदसोरिति सार्थकम्। अन्यथा हलि लोपेन बाधात्त्यदाद्यत्वस्याप्रवृत्तौ तद्वैयर्थ्यं स्पष्टमेव। अत एव स इत्यादेस्शिद्धिः। अन्यथा तदोस्सस्सावित्यत्रानन्त्यग्रहणस्य प्रत्याख्यानाद्विशेषविहितेन सत्वेन बाधात्त्यदाद्यत्वस्याप्रवृत्तौ तदसङ्गतिरेव, सिद्धान्ते तु परत्वात्सत्वे पुनः प्रसङ्गविज्ञानात्त्यदाद्यत्वमित्युच्यते, तर्हि प्रकृतेऽपि परत्वादशादेशे सकृद्गतिन्यायात्स्यादेशाप्रवृत्तावभीष्ठसिद्धिरित्याहुः।। [टि- आहुरिति।। परे तु युष्मदस्मदोरनादेश इत्यत्रादेशशब्देन यस्यादेशो भावी स गृह्यत इति न युक्तम्। ``सुट्‌प्रतिषेधस्तु आदेशे लोपविज्ञानात् इति साम आकमिति सूत्रवार्तिकस्वारस्यभङ्गापत्तेः। यस्या विभक्तेरादेशो भावी तस्यां हलादौ विभक्तावित्यर्थसम्पत्त्याऽदेशे हलादित्वस्यानपेक्षणाद्युष्मदस्मदोरनादेश इति सूत्रे ``न चादेशो हलादिरस्ति इति भाष्यविरोधापत्तेश्च। अनादेश इत्यानेनायमर्थो ज्ञाप्यत इत्यप्ययुक्तम्। आदेशे लोप इति म्यासेऽपि आदेशशब्दस्यैतादृशस्यैव ग्रहणे तादृशन्यासस्य सुवचतयाऽनादेश इत्येतद्वैयर्थ्यस्य तदवस्थत्वात्। भाष्याविचारितफलकसूत्राक्षराणां पारायणमात्रफलकताया अन्यत्रोक्तत्वाच्च। तस्मादशादेशस्यादेशयोर्यौगपद्येन प्रवृत्तेर्दुरुपपादतया तत्र स्यादेशवारणाय मूलोक्तैव सरणिराश्रयितव्येत्याहुः।]
ननु [टि- नन्वित्यादीति।। नन्वित्यादिरवहेलनं सूच्यत इत्यन्तो ग्रन्थो मूलाननुगुण इति दर्शयितुं मूलयोजनाप्रकारः प्रथमं निरूप्यते। तथाहि। ननु कृते हि शेषे लोपेऽकारान्तत्वात्प्राप्तस्सुठ्‌ ससुट्‌कस्य स्थानित्वेन निर्देशसामर्थ्यान्निवर्तत इति मनोरमोक्तमयुक्तम्। आकम्प्रवृत्तिकाले शेषे लोपस्याप्रवृत्तत्वेनानदन्तत्वात्सुटोऽप्रवृत्त्या तस्य स्थानित्वेन निर्देष्टुमशक्यत्वात्। अतो मूलकाराशयं विवृणोति शब्दरत्नकारः अयं भाव इत्यादिना सकारोच्चारणसामर्थ्यादित्यन्तेन ग्रन्थेन। ननु शब्दानित्यत्ववारणाय साम आकमित्यस्य सुडामोर्बुद्धिप्रसङ्गे आकम्बुद्धिः कार्येत्यर्थस्याङ्गीकारेऽप्येतच्छास्त्रजन्याकम्बुद्धिकाले आम्बुद्धिसत्त्वेऽपि सुट्‌बुद्धेरभावेन विशिष्टबुद्धेर्दुर्वचत्वात्प्रसक्ताम्बुद्धेरेव निवर्तयितुं शक्यतया कथं सुट्बुद्धेर्निवृत्तिसम्भवस्तत्राह।। तत्र सकारबुद्धेरित्यादि।। यथा तत्तद्वचनसामर्थ्यादन्यत्र साम्प्रतिकाभावे भूतपूर्वगतिराश्रीयते, तथा प्रकृते समुट्‌कनिर्देशसामर्थ्याद्भाविन्या बुद्धेर्गहणमभ्युपेयम्। अन्यथा सकारोच्चारणवैयर्थ्यापत्तिरिति भावः। न चैवं युष्माकमित्यादेर्निर्वाहेऽपि प्रत्ययोत्तरपदयोश्चेति सूत्रभाष्योदाहृतस्यातित्वाकमित्यस्यासिद्धिः। तत्र सुट्‌बुद्धेर्भावित्वस्याप्यसम्भवेन साम आकमित्यस्याप्रवृत्तेरिति वाच्यम्। तत्र सुड्‌ग्रहणस्य सूत्रे सकारग्रहणस्य चागमोपलक्षकत्वेन यत्रामागमयोर्बुद्धिः प्रसक्ता तत्राकम्बुद्धिः कार्येति सूत्रार्थस्य पर्यवसन्नत्वेनान्यत्र सुड्‌पुद्धेरिव प्रकृते नुडागमबुद्धेर्भाविन्यास्सम्भवेन सूत्रप्रवृत्तेरव्याघातात्। स्पष्टं चेदमुद्योते। उक्तमर्थं प्रमाणयति भाष्ये स्पष्टमित्यनेनः। अस्य इतीत्यादिः। यद्वा सामर्थ्यादितीत्यत्रेति शब्दो मध्ये मणिन्यायेनोभयान्वयीति बोध्यम्। एवं कैयटाद्याशयमुपवर्ण्य तन्मतेऽतित्वाकमित्यादिसिद्धये तत्र तत्र सुड्‌ग्रहणस्य सूत्रे सकारग्रहणस्य चोपलक्षणत्वे गौरवं मत्वा लघूपायमाह।। तन्निवृत्तिश्चेत्यादिना।। भाष्ये स्पष्टमिति मध्ये मणिन्यायेनात्रापि सम्बध्यते। नन्वामि साग्त्वस्याभावात्कथं तन्निष्ठस्थानितायाः साम्त्वमवच्छेदकं, तत्राह।। आहार्यारोपेणेति।। न चैवमविद्यमानस्य साम्त्वस्याहार्यारोपेणामीव भिस्यपि सुवचतया तत्राप्याकमादेशापत्तिरिति वाच्यम्। साग्त्वस्य सकारविशिष्टाम्त्वरूपतया तत्र सामर्थ्यात्सकारवैशिष्ट्यांशे आरोपाङ्गीकारेऽप्यन्यांशे तदङ्गीकारे मानाभावात्। ससकारग्रहणसामर्थ्यादिति भाष्येण सकारवैशिष्ट्यांश एवारोप इति स्पष्टं प्रतीतेः। अतित्वाकमिति रूपमनभ्युपगच्छतां मतमाशङ्क्य खण्‍डयति।। न चेत्यादिना।। एवं स्थिते शब्दरत्नग्रन्थस्यायं भाव इत्याद्याकम्नुडभावौ सिद्धावित्यन्तस्यैकाभिप्रायकतया योजनं, आम्येव साम्त्वस्याहार्यारोपेणेत्यादिग्रन्थस्य प्राचीनाशयपरतया योजनं च कैयटोद्योतादिग्रन्थापरिशीलनमूलकमिति स्फुटीभावति विमर्शकानाम्। किञ्च सामर्थ्याद्भाविबुद्धेर्ग्रहणस्योपपादितत्वेऽपि तन्निवृत्तिश्चेति ग्रन्थावतरणे स्थान्युच्चारणाभावस्य समकालिकत्वनियमादित्यादिकथनं कथं घटेत। भिन्नकालिकत्वस्य सामर्थ्यमूलकत्वेन सिद्धेः। न च नियमभङ्ग िति वाच्यम्। न हि वचनस्यातिभारोऽस्तीति न्यायेनोक्तनियमस्य सामर्थ्येनैव विघटयितुं शक्यत्वात्। किञ्च तन्निवृत्तिश्चेत्यादिग्रन्थस्य पूर्वग्रन्थशेषत्वे सकारबुद्धेः प्रकृते साम्प्रतिक्या अभावेन भाविन्या ग्रहणमिति पूर्वग्रन्थस्य, स्थानिवद्भावेन साम्त्वमेव न त्वाम्त्वमित्युत्तरग्रन्थस्य च परस्परं विरोधापत्तिः। स्थानिवत्त्वेनाम्त्वाभावेन भाविन्या अपि सकारबुद्धिप्रसक्तेरेवासम्भवात्। किञ्चैवं सत्येतत्सर्वोपपादनानन्तरमेवोक्तार्थं प्रमाणयितुं भाष्ये स्पष्टमिति वक्तव्ये तन्निवृत्तिश्चेत्यतः पूर्वं मध्ये तदुक्तेः स्वारस्यं भज्येत। किञ्च सर्वत्र अयं भाव इत्युपक्रमे इतिशब्देन ग्रन्थसमाप्तिर्ग्रन्थकारशैलीसिद्धा भवदुक्तसमन्वये भज्येत। किञ्चैतत्समानाकारकशेखरग्रन्थे सामर्थ्यादित्यनन्तरमितिशब्दस्य पूर्वोक्तग्रन्थपरिसमापकतया दृष्टत्वेन तत्समानाशयकशब्दरत्नग्रन्थस्य मदुक्तरीत्यैव समन्वय उचित इति विभावनीयम्। आम्येव साम्त्वस्याहार्यारोपेणेत्यादिग्रन्थस्य खण्ड्यमानप्राचीनमताभिप्रायकत्वे तत्खण्डनप्रकारस्याप्यवश्यवक्तव्यतया तदनुपलम्भेन न्यूनतापत्तिः। भाष्यविरुद्धकल्पना व्यर्थेत्याद्येव तत्शण्डनपरमिति तु न शङ्कयम्। तस्य ग्रन्थस्य न चेत्यादिशङ्काग्रन्थखण्‍नपरताया एवौचित्यात्। अन्यथा न नुडित्यनन्तरमेव ``इति भाष्यविरुद्धकल्पना व्यर्था इति ब्रूयात्। मतान्तरपरग्रन्थव्यवहितस्य तस्यात्र योजनायास्सर्वथाऽनुपपन्नत्वादित्यलं पल्लवितेन। अत्रत्यं तत्वं विदांकुर्वन्तु सुधिय इत्याहुः।।] साम आकमित्ययुक्तम्। उद्देश्यत्वेन गृहीतस्य सामः कदाप्यभावात्। न ह्युद्देशयतावच्छेदकरूपेणोद्देश्यसिद्धिमन्तरा कार्यविधानं युज्यते। तदुक्तं वृद्धिसूत्रे भाष्ये ``सतो हि कार्यिणः कार्येण भवितव्यमिति। इत्थं च कथं साम उद्देश्यत्वेन ग्रहणं कथं वा तत्सामर्थ्यात्सुडागमव्यावृत्तिरित्यतो निष्कर्षमाह।। अयं भाव इति।। सामः प्रसङ्गे इति।। सङ्घातस्याप्रसिद्धत्वेपि खण्डशः प्रसिद्धिमास्थाय तथा निर्देशस्सुडादिव्यावृत्त्यर्थः। साम इति स्थानषष्ठ्या निवर्त्यनिवर्तकभावसम्बन्धबोधकतया साम्निवर्तक आकमित्युक्तावाकमात्मकादेशनिरूपितनिवर्त्यता द्वयोरपि सुडामोरविरुद्धा। रोपधयोरुभयोरपि रमागमीयनिवर्त्यतावत्। निवर्त्यता च प्रयोगाभाव एव, तदाह।। अत्यन्तमप्रयोगो बोध्यत इति।। एवमेवेति।। प्रसक्तनिवृत्तिमात्रमेवेत्यर्थः। ननु शब्दनित्यतायामादेशांशे कदाप्यप्रयुज्यमानस्य स्थानित्वेनाभिमतस्य प्रसङ्ग एव दुर्वचः। ततश्च स्थान्यादेशभाव एव विलीनस्स्यादिति महाननर्थापात इत्यत आह।। प्रसक्तबुद्धेरिति।। बुद्धीनामेवायं निवर्त्यनिवर्तकभावः, न तु शब्दानाम्। तत्र निवर्त्यमाना चावास्तवी भ्रान्तिरूपा बुद्धिः तन्निवर्तिका तु वास्तवी निश्चयात्मिका, यथा नेदं रजतमिति प्राश्चात्यनिश्चयबुद्धिः प्राक्तनशुक्तिगोचररजतबुद्धेर्निवर्तिका तद्वत्। स्पष्टं चेदं स्थानिवत्सूत्रे भाष्ये। इत्थं च युष्माकमित्यादावाकमि प्रसक्तायास्साम्त्वबुद्धेर्निवृत्तिरनुशासनेन बोध्यते। न तु सामो निवृत्तिराकमः प्रवृत्तिश्चेति परमार्थः। नन्वाकमादेशात्पूर्वं शेषेलोपाभावेन प्रकृतेरदन्तत्वाभावात्सुटोऽप्रवृत्त्या विशिष्टस्य सामः प्रसङ्गो दुर्वचः। किन्तु विशकलित एव सुडागमप्रसङ्गो वाच्यः। ततश्चाकमदेशेन स्वप्रवृत्तिकाले सन्निहितप्रसङ्गत्वादामो निवृत्तिः कर्तुं शक्यते। भाविनमसन्निहितं प्रसङ्गमास्थाय सुडागमः कथं निवर्तयितुं शक्येत, तत्राह।। तत्र सकारेत्यादि।। भाविनस्तात्कालिकस्य च प्रसङ्गस्य सामान्येन निमित्ततामाश्रित्य निवृत्तिर्बोध्यते। सा च सुडामोः क्रमेण पर्यवस्यतीत्याशयः। नन्वेवमपि निवृत्तिर्नाम स्थानिन उच्छारणाभावः। स च यस्मिन्नवकाशे यस्योच्चारणप्रसङ्गस्तस्मिन्नवकाशे तदन्यस्योच्चारणाद्भवति। अवकाशश्चोच्चारणकाल एव। इत्थं चादेशोच्चारणप्रयोज्यस्थान्युच्चारणाभावस्य समकालिकत्वनियमाद्विभिन्नकालिकसुडुच्चारणाभावस्य कथमाकमादेशीयोच्चारणप्रयोज्यत्वमित्यत आह।। तन्निवृत्तिश्चेति।। सुड्निवृत्तेराकमुच्चारणं न साक्षात्प्रयोजकं, किन्तु तदुच्चारणप्रयुक्तस्वकीयोच्चारणप्रयोजकनिमित्ताभाव इति तात्पर्यम्। तदाह।। आमोऽभावादिति।। निमित्ताभावमेव स्फुटयति।। साम्त्वमेवेति।। ननु विशकलितप्रसक्तिकयोस्सुडामोः पूर्वपरयोरिव प्रत्येकमेव स्थानिताविशान्तेर्न्याय्यतया सङ्घातधर्मस्य साम्त्वस्यातिदेशो दुर्वच इति चेत्सत्यम्। साम इति समाहारद्वन्द्वनिर्देशबलात्समुदायस्य प्राधान्येनोपस्थित्या तत्रैव स्थानषष्ठ्युपस्थापितस्थानितापर्याप्तेश्शब्दमर्यादया लाभेन तद्गतधर्मस्य स्थानिवत्त्वेन सौलभ्यान्न काप्यनुपपत्तिरित्याहुः। इत्थं भाष्यकृत्सम्मतमात्मीयसिद्धान्तमुपवर्ण्य प्राचीनोद्धोषं दूषयति।। आहार्यारोपेणेत्यादिना।। युष्मदस्मद्भ्यां परस्य साम आकमादेश इत्युक्तावनाहार्यसाम्त्ववतोऽप्रसिद्ध्या शास्त्रवैयर्थ्यादाहार्यारोपविषयसाम्त्ववतो ग्रहणं, तादृशश्च प्रकृते आमेव नान्यः। फलाभावात्। न च भिसस्साम्त्वारोपेणाकमदेशे स्थानिवत्त्वेन भिस्त्वातिदेशाप्रवृत्तेरन्त्यलोपपक्षे प्रसक्तस्यैसो निवृत्तिः प्रयोजनमिति वाच्यम्। मकारान्तरप्रश्लेषेण यूयं वयमित्यादावमश्शीभाववदैसादेशस्याकमो निवर्तयितुं शक्यत्वेन भिस आकमित्युक्तावपि तत्फलसिद्ध्या साम आकमित्येतद्वैयर्थ्यस्य तदवस्थत्वात्। यद्वा साम आकमित्यत्रामपि तन्त्रेण निर्दिष्टः। एवं च साम्त्ववत आम आकमित्यर्थान्न कश्चिद्दोष इति प्राचीनानामाशयः।। भाष्यविरुद्धक्रल्पनेति।। भाष्ये हि `ससकारग्रहणाद्भाविनस्सुट आकमादेशो विज्ञायत, इत्युक्तम्। आरोपस्याभीष्टत्वे हि ससकारग्रहणादित्यस्य स्वारस्यभङ्ग इत्याशयः। व्यर्थेत्यनेन भाष्यकारानुगृहीतेन मदुक्तप्रकारेण सुगमतया निर्वाहादारोपाश्रयणं प्राचीनानां वृथा प्रयास इत्यावहेलनं सूच्यते।।
अभिमानेनेति।। `जहत्स्वार्था तु तत्रैव रूढिर्यत्र विरोधिनी'त्यभियुक्तवचनबलाद्यत्र रथन्तरादौ रूढ्यर्थावयवार्थयोः परस्परविरोधस्तत्रैव जहत्स्वार्थावगमात्प्रकृते तादृशवृत्तिप्रयोजकीभूतस्य विरोधस्य दुर्वचतया जहत्स्वार्थताय अभिमान एवात्र मूलकारस्य हेतुरित्याशयः।
केचित्तु वृत्तावुपसर्जनांशे संख्याविशेषानवगमस्य समर्थसूत्रस्थभाष्यकारीयसिद्धान्तसिद्धतया वचनग्रहणसामर्थ्यादिद्वत्वादिबोधकत्वानुवादेन विधीयमानानां युवद्यादेशानां वृत्तिघटकोपसर्जनीभूतयुष्मदस्मदोः प्रवृत्तौ जहत्स्वार्थतायामजहत्स्वार्थतायां वा भूतपूर्वगतिरेव शारणमिति मूलकाराशयमुत्प्रेक्षन्ते। [टि- उत्प्रेक्षन्त इति।। परे तु वृत्तावुपसर्जनाशे संख्याविशेषानवगमस्य समर्थसूत्रभाष्यसम्मतस्यौत्सर्गिकत्वमभ्युपगतं दीक्षितादिभिः। यत्र तु संख्याविशेषावगतिर्मानान्तरसिद्धा तत्र तदवगतिरिष्टैव। अत एव ``वृत्तौ ह्युपसर्जनानामेकत्वसंख्या औत्सर्गिकी। द्वित्वादिकन्तु प्रयत्नलभ्यमिति भाष्ये स्थितम् इत्युक्तं मनोरमायाम्। अत्रैकत्वसंख्येति प्रतीकमुपादाय ``अभेदैकत्वसंख्येति तदर्थः इति शब्दरत्ने व्याख्यातम्। अनेन यत्र संख्याविशेषावगतिप्रयोजकप्रयत्नो दृश्यते, तत्र संख्याविशेषावगतिरिति स्पष्टं प्रतीयते। अत एव मासजात इत्यत्र मासे एकत्वमतीतिस्सिद्धा। तत्रैकत्वप्रतीतिमन्तरा परिच्छेदकत्वासम्भवेन जातस्य परिच्छेद्यत्वासम्भवात्कालाः परिमाणिनेति समासो दुर्लभ िति तत्र समास एवैकत्वप्रतीतौ मानम्। एवं तावकीन इत्यादौ तवकाद्यादेशादिकम्। एवञ्च प्रकृते त्वाद्यादेशादिकमेव युष्मादाद्यर्थे संख्याविशेषावगतौ मानं भवतीत्याजहत्स्वार्थायां भूतपूर्वगत्याश्रयणं तन्मते नोपयुज्यत इति भूतपूर्वगतिमाश्रयतो मनोरमाकारस्य जहत्स्वार्थापक्ष एवादरस्य वक्तव्यतया तस्याभिमानोक्तिस्सम्यगेवेति मनोरमाकारस्याभिमानरूपदोषस्य निराकरणसंरम्भोऽभिमानुमूलक एव। मासजातादावपि संख्या न भासत इति सिद्धान्तस्य दीक्षिताद्यसम्मतत्वात्तमवलम्ब्य दीक्षितस्याभिमाननिरसनं तुमतविवेचनचतुरा नाद्रियन्त इत्याहुः।]
ननु वचनग्रहणसामर्थ्यात्कृत्रिमाकृत्रिमन्ययो बाध्यत इत्ययुक्तम्। द्वयोरेकस्मिन्नित्युक्तौ हि विभक्त्यपेक्षया प्राधान्यद्युष्मदस्मदोरेव स्यादतो वचनग्रहणादुक्तन्यायप्रवृत्तिर्दुर्वारैवेत्यत आह।। उभयगतिरित्यादि।। एवं चोभयगतिरिह भवतीति परिभाषैव तन्नयायाप्रवृत्त्युपायो न तु वचनग्रहणमित्याशयः।।
केचित्तु द्वयोरेकस्मिन्नित्युक्तौ द्व्येकशब्दयोस्संख्यापरत्वात्त्रिकपक्षे वाचकत्वेन पञ्चकपक्षे द्योतकत्वेन च विभक्तिविशेषणतैव स्यान्न तु प्रकृतिघटकयोर्युष्मदस्मदोर्विशेषणता, प्राधान्येन द्वित्वादिबोधकत्वासम्भवात्। ततश्च कृत्रिमाकृत्रिमन्यायप्रयोजनस्य वचनग्रहणमन्तरापि सिद्धतयाऽतिरिच्यमानं वचनग्रहणमप्राधान्येन द्वित्वादिबोधनपरतया विभक्तिविशेषणत्वविरोधात्प्रकृतिघटकयुष्मदस्मद्विशेषणत्वं कल्पयतीत्यतो न्यायाप्रवृत्तिः पर्यवस्यतीति मूलकारस्याशय इत्याहुः।। [टि- आहुरिति।। परे त्वसति संख्यापरत्वप्रत्ययाके एकद्व्यादिशब्दानां सेख्येयपरतैव। आदशतः संख्याः संख्येय इत्यभियुक्तोक्तेः। द्व्येकयोर्द्विवचनैकवचने इत्यत्र द्व्येकयोरिति द्विवचनमेव संख्यापरत्वप्रत्यायकम्। अन्यथा संख्येयानां बहुत्वाद्धहुवचनापत्तेः। प्रकृते त्वेकस्मिन्द्वयोरित्युक्तावेकत्वसंख्याविशिष्टबोधकयोरित्यादिक्रमेणार्थापत्त्या वचनग्रहणमन्तरा न कृत्त्रिमाकृत्त्रिमन्यायफलसिद्धिः। अतो वचनग्रहणसामर्थ्यात्कृत्रिमाकृत्रिमन्यायबोधो न कल्पियितुं शक्यते। तस्मादुभयगतिरिति परिभाषैव कृत्रिमाकृत्रिमन्यायबाधे शरणम्। किञ्च रत्नाकरोक्तदिशा द्वित्वे एकत्वे इत्युक्तौ एकस्मिन्नित्याद्युक्तावपि आदशतः संख्याः संख्येय इत्यस्य प्रायिकत्वमभ्युपगच्छतामेकस्मिन्नित्यादेरेवैकत्वादिपरत्वे वा स्वादिविभक्तेस्संख्यायाः प्रकृत्यर्थविशेषणत्वानुरोधेन द्योतकत्वावश्यम्भावेनैकत्वादिबोधकयोरित्याद्यर्थे युष्मदादिविशेषणत्वापत्त्या वचनग्रहणं कृत्रिमयोरेव ग्रहमसम्पत्त्यर्थमिति वैपरीत्यस्य सुवचत्वान्मनोरमोक्तं चिन्त्यम्। न चैकत्वं इत्याद्युक्ते विभक्तिविशेषणतैव स्यान्न तु युष्मदस्मद्विशेषणता। प्रकृतेः प्राधान्येन द्वित्वादिबोधकत्वासम्भावत्। ततश्च कृत्रिमाकृत्रिमन्यायप्रयोजनस्य वचनग्रहणमन्तरापि सिद्धतयाऽतिरिच्यमानं वचनग्रहणमप्राधान्येन द्वित्वादिबोधनपरतया विभक्तिविशेषणत्वविरोधाद्युष्मदस्मद्विशेषणत्वं कल्पयतीति न्यायाप्रवृत्तिः पर्यवस्यतीति मनोरमाकाराशय इति वाच्यम्। सिद्धान्तभूते पञ्चकपक्षे प्राधान्येन द्वित्वादिबोधकतायाः कस्याप्यसभ्भवेनाप्राधान्येन तद्बोधकताया एव लाभेन तदर्थं वचनग्रहणस्या नावश्यकत्वात्। न च पञ्चकपक्षेऽपि प्रत्ययानां द्योतकत्वेन प्राधान्येन द्वित्वादिबोधकत्वं विभक्तेस्सम्भवतीति वाच्यम्। अत्र द्योतकत्वस्य प्रकृतेः तत्तत्संख्याविशिष्टार्थे शक्तौ तात्पर्यग्राहकत्वरूपतया द्वित्वादेः कस्यां चिदप्युपस्थितौ प्राधान्यस्य दुर्निरूपत्वात्। अतो रत्नाकरोक्तदिशा मनोरमायाश्चन्त्यत्वमपरिहार्यमेवेति वदतां मतं खण्‍यितुमुभयगतिरिति परिभाषाऽश्रिता शब्दरत्नकृता। एवञ्च तत्परिभाषासहकृतवचनग्रहणसामर्थ्यादिति मनोरमाकाराशय इति शब्दरत्नकृदाशय इत्याहुः।।]
सर्वनामत्वाभावादिति।। सुटस्सर्वनामसंज्ञानिमित्तकत्वात्तस्याश्च संज्ञोपसर्जनयोर्निषिद्धत्वात्प्रकृते सुडभाव इति पर्यवसन्नम्। ननु तन्त्रपक्षेपि गौणे नुटो वारणायोगादयुक्तत्वेन स्वाभिमतसिद्धान्तत्वमूचकवस्तुतस्त्वित्यादिमूलकारोक्तमयुक्तमित्याशयेनान्यथा योजयितुमाह।। एवमित्यादि।। वस्तुतोऽत्र समासात्पूर्वं पश्चाद्वा तन्त्रस्यासम्भव एवेत्यन्त्यं दूषयति।। असारूप्यादिति।। ननु तन्त्रस्य सहविवक्षानपेक्षसारूप्यमात्रनिमित्तकप्रवृत्तिकत्वात्प्रकृते शब्दतन्त्रस्यैवाभ्युपगन्तव्यत्वाच्च समासघटकस्याम् इत्यास्य सारूप्यनिमित्तकतन्त्राङ्गीकारे बाधकाभाव इति चेन्न। विभक्त्यन्ततन्त्रस्यैवात्र स्वीकर्तव्यतया तस्यैकजातीयप्रातिपदिकप्रकृतिकविभक्त्यन्तसारूप्यप्रयोज्यत्वेनाभियुक्तैर्व्यवस्थापितत्वेन प्रकृते तदप्राप्तिरित्याशयात्। आद्यं दूषयति।। उभयत्र सम्बन्धबोधापत्तिरिति।। अन्यथा ह्यसामर्थ्यात्समासानुपपत्तिरित्याशयः। अथ नेदं समस्तं साम इति, किन्तु सेति पृथक्पदम्। विनापि तद्योगं तृतीयेत्येषा तृतीया, स्तोश्चुनेतिवत्। ततश्चाम इत्यस्य तन्त्रमूलकावृत्तौ सेत्यस्यैकत्र सम्बन्वदपरत्र तदसम्बन्धाच्चाभीष्टार्थलाभः। प्रागुक्तदूषणद्वयानवकाशस्छेत्यत आह।। किञ्चैवमिति।। नुड्‌व्यावर्तयितुमशक्य इति।। तद्व्यावृत्तेः प्रत्ययोत्तरपदयोश्चेति सूत्रस्थाकरसम्मतत्वादिति भावः।। अशक्यत्वाच्चेति।। गौणे सकृत्प्रवृत्त्यैव निर्वह इति वदता तदंशे नुड्विशिष्टस्य पुनराकम्प्रवृत्तितात्पर्यस्योक्तार्थकस्य स्वीकारे सन्दर्भविरोध इत्याशयः। ननु किमर्थमयं प्रमाणविहीनस्यार्थस्यानुवादस्तत्राह।। परस्परविरोधेति।। न केवलं भाष्यविरोध एवात्रार्थे, किन्तु परस्परविरोधोपीति सूचयितुमयमनुवाद इति परमार्थः।। न मानमिति।। नन्वतियुष्मानत्यस्मानित्यादावादेशवारणाय युष्मदस्मत्प्रकृतिकश्रूयमाणषष्ठ्याद्यवयवकस्य पदस्येत्यर्थस्यावश्यकतया विनापि सर्वग्रहणसम्बन्धमभीष्टार्थलाभाद्व्यर्थ एवायं सर्वस्येत्यस्यानुवृत्तिप्रयास इति चेत्सत्यम्। षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य द्विवचनबलेन युष्मदस्मद्विशेषणताय एव न्याय्यतया षष्ठीचतुर्थीद्वितीया स्था ययोरित्यवयव्यन्यपदार्थकबहुव्रीहिणा सौत्रत्वप्रयुक्तपूर्वनिपातवैपरीत्यवता श्रूयमामषष्ठ्याद्यवयवकयोः पदावयवयोर्युष्मदस्मदोरित्येवार्थः स्यात्। तथा च निर्दिश्यमानपरिभाषया युष्मदस्मदोरेवादेशप्रवृत्तावनिष्टप्रसङ्ग इति मूलव्याख्याकृतोराशयोऽत्र विभावनीय इत्याहुः।
केचित्तु युष्मदस्मच्छब्दरूपोपाधिभेदेन तत्प्रकृतिकषष्ठ्यादिविशिष्टयोर्भिन्नत्वेन प्रसंभ्यां जानुनोर्ज्ञुरित्यत्रेव द्विवचनोपपत्त्या प्रकृत्यंशे षष्ठ्यादीनां नित्यसाकाङ्क्षतया च युष्मदादिप्रकृतिकश्रूयमाणषष्ठ्यादिविशिष्टयोरित्यर्थेन निर्वाहात्सर्वग्रहणसम्बन्धो द्विरुक्तिविषये युष्मान् युष्मानित्यादाववयवभूतस्यान्यतरखण्डस्यादेशनिवृत्त्यर्थ इति वदन्ति।। [टि -वदन्तीति।। परेतु सर्वस्येत्यस्याभावे षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य श्रूयमाणषष्ठीचतुर्थीद्वितीयासम्बन्धिनोरित्यर्थेऽन्यपदार्थाकाङ्‌क्षायां समानवचनकत्वेन श्रुतत्वेन च युष्मदस्मदोरित्यस्यैवान्यपदार्थसमर्पकतया तत्र षष्ठ्यादिसम्बन्धित्वस्या तत्प्रकृतिरूपत्वेन श्रूयमाणषष्ट्यादिप्रकृतिभूतयोर्युष्मदस्मदोरत्यिर्थः पर्यवस्येत्। अधिकारलब्धस्य पदस्येत्यस्य न लोपः प्रातिपदिकान्तस्येति सूत्रेऽन्तग्रहणेनावयवषष्ठ्यन्तत्वस्यापि बोधनेन प्रकृते तादृशस्यैव सम्बन्धयोग्यतया पदावयवयोः श्रूयमाणषष्ठ्यादिप्रकृतिभूतयोर्युष्मदस्मदोरित्याद्यर्थः स्यात्। तथा चानिष्ठं प्रसज्येत। तत्सत्त्वे तु तत्सामर्थ्यात् षष्ठ्यादिविशिष्टयोरित्यर्थः पर्यवस्यति। न च युष्मदस्मच्छब्दरूपोपादिभेदेन तत्प्रकृतिकषष्ठ्यादिविशिष्टयोर्विभिन्नत्वेन प्रसंभ्यां जानुनोर्ज्ञुरित्यत्रेव द्विवचनोपपत्त्या द्विवचनानुरोधेन युष्मदस्मद्विशेषणतायाः षष्ठीत्यादेर्निश्चेतुमशक्यतया षष्ठ्यादीनां प्रकृत्यंशे नित्यसाकाङ्क्षतया युष्मदस्मदोरित्यस्य व्यधिकरणषष्ठ्यन्तत्वेन तत्प्रकृतिकश्रूयमाणषष्ठ्यादिविशिष्टपदयोरित्यर्थेन निर्वाह इति वाच्यम्। प्रसंभ्यां जानुनोर्ज्ञुरित्यत्र जानुशब्दार्थस्य विरोष्यत्वेनैकवचनस्य स्वारसिकत्वेऽपि बाधकाभावेन प्रसंशब्दरूपोपाधिभेदेन विभिन्नतां प्रकल्प्य द्विवचनस्योपपादनीयत्वेऽप्यस्य बहुव्रीहित्वेन विशेषणतया विशेष्यवाचकपदोत्तरविभक्तिप्रतिपाद्यसंख्याविरुद्धसंख्याया अविवक्षितत्वे विशेषणविशेष्ययोस्समानवचनकत्वनियमेन पदस्येत्येतद्विशेषणत्वे द्विवचनस्य बाधाद्युष्मदस्मदोरित्यस्य समानवचनकत्वाच्छ्रुतत्वात्सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यायुक्तत्वाच्च युष्मदस्मद्विशेषणताया एव न्याय्यतया षष्ठीत्यादेरश्रुतविभिन्नवचनकपदस्येत्येतद्विशेषणताया अयुक्तत्वात्। षष्ठीत्यादेः पदविशेषणत्वं न मानान्तरसिद्धं, येन तदनुरोधेन पदस्येत्यस्य वचनविपरिणामः कल्प्येत। अतो मनोरमाशब्दरत्नकृदूहितैव सरणिर्युक्तेत्याहुः।]
अत एवेत्यस्य सर्वग्रहणानुवृत्त्या निरुक्तार्थस्वीकारादेवेत्यर्थः। नन्वेवमपि युष्मदाद्यवयवकत्वस्य व्यपदेशिवद्भावेन युवाभ्यामित्यादौ प्रकृतिभागस्यापि सुवचतया दोषो दुर्वार इत्यत आह।। असहाय एवेत्यादि।। अतितवेत्यादीनामिति।। युष्मदाद्यवयवकषष्ठ्यादिविशिष्टस्य पदस्येत्यर्थेन षष्ठ्यादीनां प्रकृतिविशेषनिश्चयानुपपादनादन्यप्रकृतिकतद्विशिष्टस्याप्यादेशप्रसह्ग इत्याशयः।। प्रत्त्यासत्त्येति।। युष्मदादिप्रकृतिकषष्ठ्यादिविशिष्टयोरित्यर्थे तु न प्रत्यासत्तेरुपयोग इति बोध्यम्।
अत्रेदं तत्त्वम्। स्थग्रहणादिह षष्ठ्यादीनां श्रावणप्रत्यक्षविषयतामात्रमेव न बोध्यते, किन्तु तत्प्रतिबन्धकीभूतलुग्विषयताराहित्यमपि। अन्यथा षष्ठीचतुर्थीद्वितीयान्तयोरित्युक्तावपि येनविधिरित्येतच्छास्त्रसिद्धान्तग्रहणानुवादबलादेव श्रावणप्रत्यक्षविषयत्वांशस्य सिद्धतया स्थग्रहणवैयर्थ्यं स्पष्टमेव। इत्थं च षष्ठ्या आक्रोश इत्यलुकि युष्माकं पुत्र इत्याद्यलुग्विषये लुको निषेधेऽपि विषयतानपायाल्लुग्विषयत्वानुपहितताया दुर्लभत्वान्नैते आदेशा इत्याहुः।।
हेतुकथनमिति।। परमपुरुषार्थप्रदत्वरूपहेतुबोधकमित्यर्थः। न प्रवर्तनारूप इति।। प्रवृत्तिजनकप्रवर्तकव्यापरोऽत्र न विधिः। अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमित्याद्यभियुक्तव्यवहारविरोधापत्तेरित्यर्थः।। शब्दमर्यादात्याग इति।। पाठक्रमवैपरीत्येनान्वयकल्पनैवात्र शब्दमर्यादात्यागः। तेनेत्यस्य त्राणे हेतुत्वेनान्वयाभावे वाक्यान्तरस्थतया समानवाक्यस्थत्वाभावेन हरिरिति प्रथमान्तस्य सपूर्वत्वाभावादुदाहरणत्वानुपपत्तिरिति तु न शङ्क्यम्‌। विशिष्टस्यैकतिङन्तघटितत्वेन पारिभाषिकवाक्यत्वानपायात्।। इति भाव इति।। शङ्कितुरिति शेषः।। दुरुपपादमिति।। तत्सजातीयशब्दान्तरकल्पनैवानुषङ्ग इत्युक्तौ नायं दोषः।। समानवाचीति।। इत्थं च विभिन्नानुपूर्वीकतिङन्तद्वयाघटितत्वे सति श्रूयमाणतिङन्तघटितत्वं पारिभाषिकवाक्यलक्षणम्। अत एव ब्रूहि ब्रूहीत्यस्य वाक्यत्वोपपत्तावनन्त्यस्यापीति प्लृलसिद्धिः। प्रकृते च त्रायत इत्यस्यावृत्तिवशादुभयत्र सम्बन्धे तत्सजातीयशब्दान्तरस्याध्याहारेण परत्र सम्बन्धे वा विशिष्टस्य वाक्यत्वमक्षतमेवेति नानुपपत्तिः। तिङतिङ इति निघातविधावतिङ्ग्रहणं कुर्वत्सूत्रकारस्याभिमतं समर्थसूत्रस्थभाष्यकारोपपादितमाख्यातं सविशेषणं वाक्यमिति तु लोकसाधारणम्। तत्राख्यातपदस्य प्राधान्येन क्रियोपस्थापकपरतया त्वया शयितव्यमित्यादीनामपि वाक्यत्वम्। तल्लक्षणं तु पदान्तरोपस्थापितविशेषणोपहितक्रियोपस्थापकपदघटितत्वम्। तेन पश्य मृगो धावति पचति भवतीत्यादीनां वाक्यत्वं निर्बाधम्। भाष्यवार्तिककारौ तु ब्रूहि ब्रूहित्यादेर्वाक्यत्वप्रयुक्तकार्यसम्पत्त्यर्थमतिङ्ग्रहणप्रत्याख्यानार्थं चैकतिङ् वाक्यमिति प्रकृतशास्त्रमात्रोपयोगि वाक्यलक्षणमादृषातामित्यन्यत्र विस्तरः।।
वैयर्थ्यापत्तेरिति।। पूर्वस्य प्रत्येकं मुत्वसिद्ध्यर्थमदसोऽद्रेः पृथङ्मुत्वमिति भिन्नवाक्यतया सम्बन्धे पूर्ववत्परस्यापि पृथङ्‌मुत्वास्य तैनैवोपपादनात्केचिदन्त्यसदेशस्येति पुनरुक्तिरनर्थिकेत्याशयः।।
तत्र सम्बन्ध इति।। अधातोरित्यस्य प्रसज्यप्रतिषेधपरत्वेनासन्तो यो धातुस्तदन्ताङ्गस्य नेत्यर्थ इत्याशयः। एतदपेक्षया लाघवमभिप्रेत्याह।। अतु इति वेति।। अत्र पक्षे धातुपदस्य तदवयवपरतया धात्ववयवभिन्नासन्ताङ्गस्येत्यर्थ इति पिण्‍डग्ल इत्यादौ विशिष्टस्य धातुभिन्नत्वेपि न क्षतिरिति बोध्यम्।
ननु द्वे इत्यस्य पूर्वत्र विधेयसमर्पकतया कथमत्रोद्देश्यसमर्पकत्वं तत्राह।। अनुवृत्तमित्यादि।। पूर्वोभ्यास इत्यत्र शब्दाधिकारादनूद्यमानपरस्य प्रकृतेऽपि तथा सम्बन्ध इति भावः।। प्रत्येकं स्यादिति।। अत्रेदं बोध्यम्। लोके वाक्यपरिसमाप्तिरुभयथा दृश्यते, प्रत्येकं समुदाये च । वाक्यपरिसमाप्तिश्च वाक्यार्थबोधीयोद्देश्यतापर्याप्तिः। तत्र ब्राह्मण भोज्यन्तामित्यत्र ब्राह्मणभोजनीयोद्देश्यता प्रत्येकमेव परिसमाप्यते, भोजनफलस्य तृप्त्यादेरेकैकव्यक्तिविश्रान्ततया समुदाये तदयोगात्। गर्गाश्शतं दण्ड्यन्तामित्यत्र तु शाब्दी दण्डनोद्देश्यता समुदाय एव न तु प्रत्येकम्। अर्धिनश्च राजानो हिरण्येन भवन्तीति वाक्यशेषसूचितमुख्यफलत्वेन द्रव्यस्य प्राधान्यादप्रधानीभूतगर्गानुरोधेनावर्तयितुमशक्यत्वात्। इत्थं च कात्यायनचोदितसहग्रहणार्थसमर्पकतया भाष्यकारैर्व्यवस्थापितेनोभेग्रहणेन गर्गदण्डनन्यायमनुसृत्याभ्यस्तसंज्ञीयोद्देश्यतापर्याप्तिरुभयावयवकसमुदाय एवाश्रीयते, गुणवृद्धिसंज्ञीयोद्देश्यतावदुभेग्रहणाभावे साहार्थकत्वाभावे वा ब्राह्मणभोजनन्यायेन प्रत्येकमेव परिसमाप्येत। ननु गुणवृद्धिसंज्ञयोः प्रत्येकग्रहणाभावेपि यथा ब्राह्मणभोजनन्यायेन प्रत्येकमेव परिसमाप्तिस्तथा प्रकृतेऽप्यभ्यस्तसंज्ञाया उभेग्रहणाभावेपि गर्गदण्डनन्यायेन समुदायपरिसमाप्तिर्भवेदेवेति किमुभेग्रहणेन, सत्यम्। यत्र समुदाये वाक्यपरिसमाप्तिरभीप्सिता, सह सुपेत्यादौ, तत्र शास्त्रकृतां प्रयत्नदर्शनेन गर्गदण्डनन्यायस्य प्रयत्न सापेक्षत्वावगमाद्गुणवृद्ध्यादिविषये यत्र सा प्रत्येकमभीप्सिता, तत्र प्रयत्नादर्शनेन ब्राह्मणभोजनन्यायस्यौत्सर्गिकत्वावगमाच्च उभेग्रहणाभावे ब्राह्णणभोजनन्यायेन प्रत्येकमेवाभ्यस्तसंज्ञा प्रवर्तेत। लक्ष्यानुसारान्न्यायाश्रयणमिति तु लक्षणैकचक्षुष्काणां दुष्करमित्याहुः।।
अधिकारबाध इति।। एवञ्चाध्यारोपितप्रेषणपक्ष एव ज्यायानिति सूचितम्।
ननु पिपक्षतेः क्विपि विपगित्यादौ पूर्वं पूर्वमन्तरङ्गमित्याश्रयणे संयोगान्तलोपमपेक्ष्य अतो लोपस्यापि बहिरङ्गतया संयोगान्तलोपस्यैवेत्ययुक्तमत आह।। बह्वपेक्षत्वरूपमित्यादि।। प्रबलमिति।। प्राबल्यं परिभाषाप्रवृत्तिप्रयोजकत्वम्। वस्तुतः कार्यकालपक्षे त्रिपाद्यामन्तरङ्गपरिभाषायाः प्रवृत्तिमभ्युपगच्छतो मूलकारस्य मतमनुसृत्येदं सर्वमिति द्रष्टव्यम्। विभक्त्याश्रयेत्यादि।। विभक्तयन्तगतस्यैकदेशविकृतन्यायलभ्यस्येत्यर्थः। यण्त्वादझल्त्वाच्चेति।। ``यणः प्रतिषेधो वाच्य इति वार्तिकारम्भे यण्त्वात्, प्रत्याख्याने झलो झलीत्यतो झल इत्यापकृष्य झलन्तस्यैव संयोगान्तस्य लोपविधानेन झलत्वाभावाच्छोक्तविषये संयोगान्तलोपो दुर्लभ इत्याशयः।।
निरनुबन्धकत्वेनापीति।। विदेश्शतुरित्यत्र सम्प्रसारणविधौ चेत्यर्थः। ननु क्वसुरपि वसुरेवास्तु, लिटो विधीयमानस्य तस्यासंयोगाल्लिट्किदित्यनेनैव कित्त्वसिद्धेरिति चेन्न। तरत्यादिभ्यो भूतसामान्ये विहितस्य लिटः क्वसावृच्छत्यॄतामिति प्रतिषेधविषये प्रतिप्रसूतस्य गुणस्य वारणोपायतया कित्त्वसम्पादनाय तदीयककारानुबन्धस्यावश्यकत्वात्। नन्वेवमारिवानित्यादावृधातोः क्वसावुक्तरीत्या गुणाभावे द्विरुक्तोत्तरखण्डे यणं बाधित्वा परत्वादाद्‌गुणे स्त्यरिवानित्यनिष्टरूपप्रसङ्गः। न च द्वित्वोत्तरमाङ्गत्वात्सवर्णदीर्घं बाधित्वा प्रथममुरदत्त्वे तत आद्गुण इत्येतदपवादत्वेनात आदेरित्यस्य प्रवृत्तौ पश्चादाद्गुण इत्येतस्यापवादविषये प्रवृत्त्ययोगादुत्तरखण्डे यणादेशस्य निर्बाधत्वेनाभीष्टरूपसिद्धिरिति वाच्यम्। प्रतिषेधविषयगुणसमर्पकर्धातुप्रश्लेषसूचकादृच्छत्यॄतामिति बहुवचनादभ्यासकार्येष्वपवादानामुत्सर्गनिवर्तकत्वाभावस्य ज्ञापनीयतया दीर्घोत्तरमाद्गुण इत्यस्य प्रवृत्त्या रूपवैकल्यात्। न च दीर्घविधानवैयर्थ्यमत आदेरित्यस्य प्रवृत्त्युत्तरमाद्गुण इत्यस्य प्रवृत्ताविति वाच्यम्। आनृजे इत्यादावाद्गुणं बाधित्वा नुटि दीर्घश्रवणेन तत्सार्थक्यादिति चेन्न। ऋच्छत्यॄतामित्यत्रर्कारान्तरप्रश्लेषेण प्रतिषेधविषयगुणनिवर्तकक्वसुप्रत्ययगतकित्त्वप्रयोज्यनिषेधपरिपन्थितया पुनर्गुणविधानेनादोषात्। अथ विदेश्शतुरिति विहितस्य वसोरुकारानुबन्धकरणसामर्थ्यात्प्रदेशेषु द्व्यनुबन्धकस्य क्वसोस्सामान्यग्रहणाविघात इत्ययुक्तम्। वसु स्तम्भ इति पठितस्य दैवादिकस्य धातोरेकानुबन्धकस्य सङ्ग्रहेण चरितार्थत्वेनैकानुबन्धकग्रहणे न द्व्यनुबन्धकस्येति परिभाषाबाधे मानाभावात्। न च प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणमिति परिभाषया धातुव्यावृत्तौ परिशिष्टमुदितत्वं द्व्यनुबन्धकस्य क्वसोस्सङ्ग्रहार्थमेवेति वाच्यम्। तिति प्रत्ययग्रहणं कर्तव्यमिति वार्तिकस्वारस्येन तत्परिभाषाया लक्ष्यसंस्कारकतया सिद्धान्तिसम्मतत्वाभावादिति चेत्सत्यम्। विदेश्शतुरिति विहितस्य वसोरुकारानुबन्धकरणेन प्रदेशेषु तद्‌ग्रहणस्यावश्यकतया तदितरस्य ग्रहीतव्यस्य तत्साहचर्येण द्व्यनुबन्धकस्यापि प्रत्ययस्य क्वसोरेव ग्रहणं न तु धातोरिति नायं दोषः। न च वसोस्सम्प्रसारणमित्यत्र क्वसोस्संग्रहमम्पादनेन विदेश्शतुरिति विहितस्य वसोरुगित्वास्य चरितार्थतया वसुस्रंस्वित्यत्र साहचर्याद्धातोरेव ग्रहणं स्यादिति वाच्यम्। ससजुषोरित्यतस्स इत्यनुवर्त्य सान्तस्यैव वसोस्तत्र ग्रहीतव्यतया धातोस्सकारान्तत्वाव्यभिचारेण प्रत्ययग्रहणस्य सुवचत्वेनादोषात्।
केचित्तु विदेश्शतुरित्यत्र भाष्ये शत्रादेशस्य वसुसिति सकारेण द्व्यनुबन्धकता क्वसोस्सहग्रहणाविघातायेत्युक्तम्। युक्ततं चैतत्। अन्यथा शत्रादेशस्य वसोरुगीतत्वस्य प्रदेशेषु वस आच्छादन इति पठितादादिकधातुव्यावर्तनेन चरितार्थस्य तदनुबन्धकपरिभाषाबाधनपूर्वकं क्वसोस्सहग्रहणार्थता कथं स्यादतस्छिन्त्यमत्र मूलोक्तमित्याहुः।।
 [टि- आहुरिति।। परे तु वसोरुकारानुबन्धकरणस्य मनोरमोक्ताशयमजानता वार्तिककारेण ``विदेर्वसोः कित्त्वं वक्तव्यम् इत्युक्ते तदनुसारेणैव प्रौढ्या यथान्यासेऽपि वसोर्द्व्यनुबन्धकत्वस्य सूपपादत्वेन ककारानुबन्धकरणं वृथैव वार्तिककृत इति बोधयितुं वसुसादेश उक्तो भाष्ये। न तु तत्र भाष्यकारस्य निर्भरः। वसुसादेशे विधेयतावच्छेदकगौरवापत्तेः। न चोकारानुबन्धकरणस्यादादिकवसधातुव्यावर्तनेन चरितार्थतया तत्सामर्थ्यात्तदनुबन्धकपरिभाषाप्रवृत्तिप्रतिबन्धो न सिद्ध्यतीति वाच्यम्। प्रत्ययाप्रत्यययोरिति परिभाषाया मनोरमाकृन्मते सत्त्वेन तेनैव धातुव्यावृत्तेस्सुशकत्वात्। धातोरनुदात्तेत्त्वलक्षणात्मनेपदसिद्ध्यर्थं सानुबन्धकत्वस्यावश्यकतया अत्र निरनुबन्धकस्य करणेऽपि निरनुबन्धकपरिभाषयापि तद्व्यावृत्तेस्सुवचत्वाच्च। तस्मादुकारानुबन्धकरणचारितार्थ्यं मूलोक्तसरणिमन्तरा दुरुपपादमेव। एतेनोकारानुबन्धकरणस्य वसधातुव्यावर्तकतया चरितार्थत्वादत्र द्व्यनुबन्धकपरिभाषानिवर्तने वसुसादेशकरणमेव शरणमिति वदन्तः परास्ताः। तत्र तत्र वसुसादेशकरणेन द्व्यनुबन्धकपरिभाषानिवर्तनं ग्रन्थकृतां वार्तिकानुसारेण भाष्यकारप्रदर्शितोपायान्तरप्रदर्शनाभिप्रायेणैव। न तु मूलोक्तसरणेरयुक्तत्वाभिप्रायेणेति मनोरमाकाराशयस्य वर्णयितुं शक्यत्वेन तदुक्तेः चिन्त्यत्वकथनमयुक्तमेव। अत्र युक्तमुत्पश्यन्तु सुधिय इत्याहुः।]
अन्तरङ्गत्वादिति।। मनुष्योयं प्रातरुत्थाय प्रथमं शरीरकार्याणि करोतोत्यादिलोकदृष्टान्तसिद्धं पूर्वोपस्थितनिमित्तकत्वरूपं लौकिकमिदमन्तरङ्गत्वामिति द्रष्टव्यम्।। अकृतव्यूहपरिभाषयेति।। मूले कृतोऽपीत्यस्य कर्तव्यत्वेन प्रसक्तोऽपीत्यर्थ इत्याशयः।। नास्त्येवेति।। एतेन बहिरङ्गपरिभाषोपमर्दकत्वादकृतव्यूहपरिभाषायास्तद्विषये बहिरङ्गासिद्धत्वोपवर्णनमयुक्तमित्यपास्तम्।। भाष्येपीति।। असुङ्युपदेशिवद्वचनं स्वरसिद्ध्यर्थं बहिरङ्गलक्षणत्वादित्युक्तम्। इत्थं चाकृतव्यूहपरिभाषाया अभाव एव भाष्यस्वारस्यात्प्रतीयत इति युक्तमेव कैयटाद्युक्तमिति भाव-। नन्वेतद्भाष्यबलादकृतव्यूहपरिभाषाया अभावस्यैव स्पष्टतया तामाश्रित्य प्रवृत्तो वस्तुतस्त्वित्यादिग्रहन्थो न युक्त इत्यत आह।। सत्त्वे इति शेष इति।। तत्परिभाषासत्त्वे परसप्तम्यामपि निर्वाहस्स्यात्। तदभावाच्च सर्वनामस्थानप्रत्ययोत्पत्तेः प्रागेवासुङुत्पत्तये विषयसप्तम्येवाश्रयितव्येति गूढाशयः। न च सर्वनामस्थानोत्पत्तेः पूर्वमेव विषयसप्तमीबलादसुडुत्पत्तौ बहुपुंसीत्यत्र ङीबसुङोः प्रसक्तौ परत्वादसुङ्यनिष्टप्रसङ्ग इति वाच्यम्। स्वार्थादिप्रयुक्तकार्याणां क्रमिकत्वस्य कुत्सित इति सूत्रस्थभाष्यसम्मतत्वेन लिङ्गबोधकप्रत्ययोत्पत्तिमन्तरा सुबुत्पत्तिविषयताया अभावेन ङीपः पूर्वमसुङो दुर्लभत्वेन दोषाभावात्। विषयत्वेन वा सर्वनामस्थानसापेक्षादसुङस्स्र्वथा तदनपेक्षस्य ङीपोऽन्तरङ्गत्वस्य निर्बाधत्वाच्चेत्यलम्।। कर्तव्ये इति।। ननु सखण्डेषु फिष इत्यस्य प्रवृत्तेर्नित्त्वेनैव ज्ञापनीयतया तदभावे फिष इत्यस्य प्रकृते कथं कर्तव्यता प्रस्तूयते, सत्यम्। ज्ञापितेपि स्वांशे चारितार्थ्याभावेन ज्ञापकत्वानुपपत्त्या नित्त्ववैयर्थ्यस्य तदवस्थतया यावता विना वैयर्थ्यपरिहारासम्भवस्तावत्सर्वं ज्ञाप्यत इति बहिरङ्गपरिभाषाया अनित्यत्वमपि ज्ञाप्यते। इत्थं च मकाराकारस्य फिष इत्यस्य प्रवृत्तौ प्रसक्तमनिष्ठं वारयितुमाद्युदात्तत्वेन पकारोकारस्य स्वरसिद्धये नित्त्वमित्याशयान्नानुपपत्तिः।। व्युत्पत्तिपक्षे इति।। अव्युत्पत्तिपक्षे तु बहिरङ्गत्वादसुङः पूर्वमेव फिष इत्यस्य प्रवृत्तिरिति व्यस्ते पुमानित्यादावाद्युदात्तत्वसिद्धिः। समासे तु विषयसप्तम्याश्रयणे सर्वनामस्थानोत्पत्तेः पूर्वमसुङि ततास्समासान्तोदात्तत्वेनासुङकारस्यैवोदात्तत्वसिद्धिरिति सकलेष्टसिद्धिः।।
आङ्गस्य [टि- आङ्गस्य बलीयस्त्वेनेतीति।। एतदादिप्रश्लेषसामर्थ्यादित्यन्तो ग्रन्थः नेत्त्वमिति शब्दरत्नग्रन्थानन्तरं दृष्टस्य ``वर्णादाङ्गस्य बलीयस्त्वेन वृद्धेः पूर्वं दुर्वारत्वात्। प्रश्लेषसामर्थ्यादित्त्वस्य बाधे इत्यधिकस्य पाठस्यानुरोधीति बोध्यम्। इदानीन्तनपुस्तकेषु न दृश्यतेऽयं पाठः।] बलीयस्त्वेनेति।। ननु धर्मिग्राहकसाजात्यादाङ्गवार्णयोस्समानकार्थित्व एव वार्णपरिभाषायाः प्रवृत्तिरित्यन्यत्र स्वयमेव व्यवस्थापितम्। अतः कथमसकावित्यत्र सकाराकारस्येत्त्वं ककाराकारस्य वृद्धिरिति कार्यभेदेन प्रवर्तमानयोराङ्गवार्णयोस्तया परिभाषया व्यवस्था स्यात्। तस्मादन्तरङ्गत्वाद्वृद्धावाकाररूपस्यापो दुर्लभत्वान्नायं दोषः। न चैवमचः परस्मिन्निति स्थानिवद्भावेनाकाररूपस्य सुलभत्वाद्दोषो दुर्वार इति वाच्यम्। प्रश्लेषसामर्थ्याच्छ्रूयमाण एवाकाररूपे तस्मिन्नित्त्वविधानेनादोषात्। अतोऽत्र युक्तमेव विभक्तेराकारविधानमित्याशङ्क्याह।। प्रश्लेषसामर्थ्यादिति।। इत्त्वानापत्तेरिति।। एवं चाव्याप्तिग्रस्तत्वात्सामर्थ्यगर्भं प्रश्लेषाश्रयणं न युक्तमित्याशयस्तदाह।। तस्मादिति।।
केतित्तु सोर्डावित्यस्तु डित्त्वाट्टिलोपे टापोऽप्रवृत्त्या न कश्चिद्दोषः। न च नित्यत्वाट्टिलोपे ततस्त्यदाद्यत्वे चासावित्यस्यासिद्धिरिति वाच्यम्। तदोस्सस्सवित्यत्रानन्त्यग्रहणप्रत्याख्यानायादस इति योगविभागेन दकारस्य यदि स्यात्तर्ह्यदस एवेति भाष्यकारोदीरितनियमानुपपत्तिभिया तद्विषये त्यदाद्यत्वाप्रवृत्तिकल्पनेनादोषात्। किञ्च शब्दान्तरप्राप्त्या टिलोपस्यानित्यत्वेन परत्वात्त्यदाद्यत्वे टिलोपे चासावित्यस्य निर्बाधत्वात्। न च वार्णादाङ्गमिति परिभाषया पररूपात्पूर्वं सकारस्थानिकस्याकरस्य लोपे दकाराकाराट्टापि स्त्रियामसावित्यत्रौङ आप इत्यस्य प्रवृत्तिरिति वाच्यम्। स्वादिसूत्रघटकयोः प्रथमाद्वितीयाद्विवचनयोरेबौङिति संज्ञेत्याश्रयणेनादोषात्। न चासकौ स्त्रीत्यत्र पूर्ववत्प्रत्ययस्थादितीत्त्वं दुर्वारमिति वाच्यम्। डित्त्वसामर्थ्यादाङ्गपरिभाषाया अनित्याया इहाप्रवृत्तिमाश्रित्य पररूपोत्तरं टिलोपेन टापोऽनुत्पत्त्या दोषाभावादित्याहुः।। [टि- आहुरिति।। अत्रेदं बोध्यम्। सोर्डाविति न्यासे अदस्‌+औ इति स्थिते नित्यत्वाट्टिलोपे ततस्त्यदाद्यत्वे चासावित्यस्यासिद्धिः। यदि तु टिलोपस्य शब्दान्तरप्राप्त्या अनित्यत्वेन परत्वात्त्यदाद्यत्वे चासावित्यस्य सिद्धिरित्युच्यते, तर्हि त्यदाद्यत्वोत्तरं पररूपात्पूर्वं वार्णादाङ्गमिति न्यायेन टिलोपे स्त्रियामदन्तत्वाट्टापि औङ आप इत्यस्यापत्तिः। न चौङिति प्रथमाद्वितीयाद्विवचनयोः प्राचां संज्ञेति नात्र तत्प्रसक्तिरिति वाच्यम्। तथा सति व्योन्नी इत्यादावनल्विधाविति निषेधेन श्यां द्विवचनत्वानतिदेशे प्रगृह्यत्वानापत्त्या प्राचां संज्ञानुरोधेनायं व्यवहार इति विहाय ससकारनिर्देशस्य आमः साम्त्वेन सथानितासमर्पकत्ववत् ङकारोच्चारणस्यौकारविभक्तेरौङ्त्वेन स्थानितासमर्पकताया अवश्यवक्तव्यत्वेन प्रकृते तदापत्तेर्दुर्वारत्वात्। असकौ स्त्री इत्यन्न प्रत्यय स्थादितीत्त्वप्रसङ्गाच्च। न च डित्त्वसामार्थ्यादनित्याया वार्णपरिभाषायाः प्रकृतेऽप्रवृत्तिं स्वीकृत्य पूर्वं पररूपेऽनन्तरं टिलोपे टापोऽप्राप्त्या नोक्तदोष इति वाच्यम्। तथा सति दकारस्यान्त्यत्वेन तदोस्सःसावित्यस्याप्रवृत्त्या असावित्यस्यासिद्धेः। न चैवं तदोरिति सूत्रे दकारग्रहणं व्यर्थमिति वाच्यम्। अकज्विषये तच्चारितार्थ्यात्। न चानन्त्यग्रहणस्य भाष्ये प्रत्याख्यातत्वेनात्र सत्वं सुलभमिति वाच्यम्। तत्प्रत्याख्यानापरभाष्यस्य ``पदगौरवाद्योगविभागो गरीयान् इति परिभाषया गुरुभूतयोगविभागाश्रयणमूलकत्वेनैकदेश्युक्तित्वेन प्रकृते तस्यानुपयोगात्। न च सा परिभाषा टाङसीति सूत्रस्थेनादेशसम्बन्धीकारप्रत्याख्यानपरभाष्यविरूद्धेति नैवोपादेयेति वाच्यम्। बहुषु स्थलेषु बहुविधैः क्लेशैरिनादेशसम्बन्धीकारप्रत्याख्यानपरभाष्यस्येकदेश्युक्तित्वेन तद्विरोधस्याकिञ्चित्करत्वात्। अन्यथा ``महतो वंशस्तम्बाल्लट्वानुकृष्यत इति ऋलृक् सूत्रभाष्योक्तेरसम्बद्धत्वापत्तेरिति ग्रन्थकृतैव परिभाषेन्दुव्याख्यानावसरे वाक्यार्थचन्द्रिकायामुक्तत्वेन तद्विरुद्धतया तैरेवात्रैवं वक्तुमशक्यत्वात्। न च तस्यैवंविरोधस्य सत्त्वंऽप्यन्येषां तदभावेन तस्याः परिभाषाया भाष्यविरुद्धत्वस्य परिभाषेन्दुसेखरे स्पष्टं प्रतिपादितत्वेन न सा प्रकृतभाष्यस्यैकदेश्युक्तित्वं कल्पयितुं क्षणत इति वाच्यम्। तादृशभाष्यविरुद्धत्वोक्तेर्नागेशासम्मतत्वात्। अत एव टाङसीति सूत्रशेषे योगविभागेनेकारप्रत्याख्यानस्य क्लिष्टत्वादिकारकरणमेव ज्याय इत्याशयकः ``प्रत्याख्यानेनेदं ध्वन्यते। एतत्क्लेशपरिहारार्थ एवेकारो, न त्वस्य फलान्तरकल्पनेऽभिनिवेष्टव्यमिति दिक् इत्युद्योतग्रन्थस्सङ्गच्छते। मास्तु वा पदगौरवात्केवलयोगविभागस्य गरीयस्त्वम्‌। गुरुभूतयोगविभागस्य गौरवं तु नागेशाभिमतमेव। अत एव हलन्त्यसूत्रे शेशरे ``उपदेशे इदन्त्यम् ``अच्‌ ``अनुनासिक इति योगविभागस्य गरीयस्त्वप्रतिपादनं सङ्गच्छते। प्रकृते अदस इति विभक्तसूत्रस्य नियामकत्वं, तदोरित्येतदेकदेशदकारमात्रस्यानुवृत्तिं तदनुवृत्तिप्रयोजकस्वरितत्वप्रतिज्ञां चान्तराऽनन्त्यग्रहणप्रत्याख्यानं न घटत इति स्पष्टमेव। एवं चासावित्यत्र सत्वाप्रवृत्तिरेव सोर्डाविति न्यासेऽसाधारणो दोषः। किञ्च पाणिनिन्यासेऽन्यादृशन्यासकरणं पाणिनिसूत्रानुसारेणैव युज्यते, न तु ऋष्यन्तरोहितसूत्रानुरोधेन। तथा चानात्त्यग्रहणं कुर्वतस्सूत्रकारस्य सोर्डाविति सर्वथा दुर्वचमिति।।]
इत्त्वापत्तेरिति।। ननु तदोरित्यतस्सम्बध्यमानस्य सावित्यस्यापि विषयसप्तमीत्वेन युगपत्प्रवृत्तयोष्टाबात्वयोः परत्वान्नित्यत्वाच्च प्रथममौत्वे नायं दोषः। न च सुलोपश्चेति चकारबोधितसमुच्चयेन सुलोपस्यौत्वस्य च समानकालिकत्वप्रतीत्या नात्र विषयसप्तमीत्वसम्भव इति वाच्यम्। जातां जनिष्यमाणां चेत्यादौ विभिन्नकालिकयोरपि समुच्चयदर्शनेन समानकालिकयोरेव समुच्चय इति नियमस्याशक्यत्वात्। तस्माद्विषयसप्तमीत्वे न किञ्चिद्बाधकमित्यरुचेराह।। निर्दिष्टपरिभाषायामिति।। दिगिति।। त्यदादीनाम इत्यात्र विभक्तावित्यस्य विषयसप्तमीत्वे त्यदाद्यत्वस्य विभक्त्युत्पत्तिप्राक्कालिकतया सुबुत्पत्त्युत्तरभाविनो लुको यौगपद्याभावेन विप्रतिषेधायोगात्पूर्वविप्रतिषेधमूलकेन त्यदादिभ्यश्चेत्यनेन वार्तिकेन क्लीबे प्रसक्तस्य त्यदाद्यत्वस्य निवर्तयितुमशक्यत्वादनिष्टप्रसङ्ग इति तदर्थः।। क्वचिदित्यादि।। अमुक इत्यत्र औत्वप्रतिषेधसन्नियोगेन विधीयमानस्योत्वस्य निरवकाशतया तदुपजीव्यत्वान्मुत्वस्यासिद्धत्वाच्च प्रथमं सत्वे मुत्वाप्रवृत्तिः। अमुकशर्मेत्यत्र सामासिकविभक्तिलुकि न लुमतेति निषेधेन त्यदाद्यत्वाप्रवृत्त्या सकारनिवृत्त्युपायाभावो मुत्वानुपपत्तिश्चेति द्रष्टव्यम्।
नन्वतो रोरिति सूत्रस्थस्य रोरित्यनुनासिकनिर्देशस्य मूले सूत्रान्तरीयलक्ष्यविषयकत्वेन व्यावृत्तिप्रदर्शनमयुक्तमत आह।। तदर्थमिति।। सामर्थ्यादिति।। उकारस्योकारविधाने फलाभावादिति भावः।। अत्र यद्वक्तव्यमित्यादि।। देवास्सन्नीत्यत्र यत्वस्यासिद्धत्वात्प्रथमतो विसर्गस्य प्रवृत्तावपि समुदायधर्मतया निषेधाभावात्स्थानिवद्भावेन रुत्वमाश्रित्य प्रसक्तस्य यत्वस्य वारणार्थमश्ग्रहणं भो भगोरिति सूत्रकृता प्रक्रान्तम्। युद्युकारस्येत्संज्ञालोपयोरभावाद्रेफस्य विसर्गो न ल्भ्येत, तर्हि व्यर्थमेव तदिति न मु न इत्यत्र योगविभागेन क्वचिदभीष्टस्यासिद्धत्वाभावस्य समर्थने प्रमाणमिति मूलकारो मन्यते।।
अत्रेदं वक्तव्यम्। अनल्विधावित्यस्याल्मात्रवृत्तिधर्मावच्छिन्नस्थानितावद्वृत्तिः स्थानिसम्बन्ध्यल्वृत्तिर्वा स्थानिवद्भावप्रयोज्यो यो धर्मस्तद्धर्मावच्छिन्ननिमित्तताकविधौ स्थानिवद्भावो नेत्यर्थ इति भो भगोरितिसूत्रस्थभाष्यतः प्रतीत्या विसर्गस्थानिभूतरेफवृत्तिस्थानिवद्भावप्रयोज्यरुत्वनिमित्तकयत्वविधेरल्विधित्वेन स्थानिवत्त्वायोगान्नाश्ग्रहणस्योपयोग इति यदवष्टम्भेन न मु न इत्यत्र योगविभागो ज्ञाप्यते, तदीयचारितार्थ्यविघटकं वैयर्थ्यमन्यत्रोक्तमित्यर्थः। न च रोस्सुपीति रुस्थानिकत्वेन विहितविसर्गस्य यशस्सु पयस्स्वित्यादौ स्थानिवद्भावात्प्राप्तस्य यत्वस्य वारणार्थमशग्रहणमिति सार्थक्यं सुवचमिति वाच्यम्। तत्र रोरेव विसर्गविधानेनेत्संज्ञालोपयोरभावेऽपि तदुपपत्त्या प्रकृतार्थसाधकत्वायोगात्। किञ्च अमुनेत्यथुनेतिवन्निपातनं न मु न इत्यस्य स्थाने यद्याश्रीयते, तर्ह्यदश्शब्दप्रकृतिकस्यैवेदं निपातनमिति कथमवगम्येत। न च पद्दन्न इत्यत्रादेशैस्तदनुरूपाणां स्थानिनामाक्षेपदर्शनेन प्रकृतेपि स्थान्यर्थाभिधानसमर्थस्यैवादेशतया तत्समानार्थकादश्शब्दप्रकृतिकाङन्तस्यैव स्थानित्वेनाक्षेपान्नानुपपत्तिरिति वाच्यम्। स्थानेन्तरतम इत्यत्र सप्तम्यन्तपाठं प्रत्याख्याय प्रयोगनियमपक्षमाश्रित्य पदादिविषये भाष्यकारैर्व्यवस्थापनेन प्रकृते तदयोगात्। न चादसोसेर्दादु दो म इति प्रकरणे निपातनाभ्युपगमेन विभक्त्यन्तरविशिष्टस्य स्त्रियां च नायं प्रयोग इति वाच्यम्। अदश्शब्दप्रकृतिकत्वस्य दुर्वचत्वात्। न चादसोऽमुनेति न्यासादाङोनुवर्तनाच्च निर्वाह इति वाच्यम्। अदसः परस्याङ एवामुनेत्यादेशपत्त्या महदनिष्टप्रसङ्गात्। गौरवप्रसङ्गाच्च। घेरित्यस्योत्तरत्र सम्बन्धविच्छेदापत्तेश्च। तस्मान्निपातनावलम्बेनापि न मु न इत्यत्र योगविभागसमर्थनं न समञ्जसं, किन्तु त्रिपाद्यामित्संज्ञालोपयोः प्रवृत्तौ निर्देशा एव साक्षाद्योगविभागद्वारा व् प्रमाणमित्युपाद्यायगूढाशय इत्यलं पल्लवितेन।
।। इति हलन्ताः पुंलिङ्गाः ।।

अथ हलन्ताः स्त्रीलिङ्गाः।

सन्निपातपरिभाषयेति।। त्रिपाद्यामस्याः परिभाषाया अप्रवृत्तिरेव, तद्विषये प्रकृतपरिभाषासाध्यप्रयोजनाभावात्। अत एव नद्धमित्यादौ जश्त्वसिद्धिः। असति प्रयोजने त्रिपाद्यां परिभाषाप्रवृत्तिमाश्रित्यानित्यत्वेन लक्ष्यसमर्थनं न युक्तिमदित्याहुः।। [टि- आहुरिति।। अत्र यद्वक्तव्यं तदुक्तमधस्तात्।]

।। इति हलन्ताः स्त्रीलिङ्गाः ।।

अत हलन्ता नपुंसकलिङ्गाः।।

औशशादिष्विति।। त्यदाद्यत्वेनैनादेशस्यैनदादेशस्य च प्रयोगे विशेषाभावादिति तत्वम्। ननु [टि- ननु क्लीबे इति।। औशशादिष्वेनेनैव सिद्धिरित्यनन्तरं ``सामार्थ्यादिति।। तत्सामर्थ्येन क्लृप्तबाधस्याप्रधानस्यातिदेशनिषेधस्य न लुमतेत्यस्यैव वाधो, न त्वन्यस्येति भावः इत्यधिकः शब्दरत्नपाठः क्वचिद्‌दृश्यते। ननु क्लीबे इत्यादि त्यादाद्यत्वस्येत्यर्थ इत्यन्तो ग्रन्थस्तत्पाठानुसारीति बोध्यम्। इदानीन्तनशब्दरत्नेषु नैव दृश्यतेऽयं पाठः।] क्लीबे द्वितीयैकवचनस्य लुका लुप्तत्वेन प्रत्ययलक्षणायोगात्सामर्थ्येनैव न लुमतेत्यस्य बाधनीयतया निषेधबाधापेक्षया विधिबाधस्यौचित्येन त्यदाद्यत्वमेव द्विवचनादिषु कुतो न बाध्यते तत्राह।। तत्सामर्थ्येनेति।। क्लृप्तबाधस्येति।। इकोऽचीति सूत्रस्थाज्ग्रहणज्ञापितानित्यत्वमूलकपाक्षिकबाधस्येत्यर्थः।। अन्यस्येति।। प्रधानस्याक्लृप्तबाधस्य त्यदाद्यत्वास्येत्यर्थः। येन नाप्राप्तिन्यायेनेति।। ननु त्यदादिकार्येषु तक्रकौण्डिन्यन्यायस्यानित्यत्वादप्रवृत्तिरवश्यमाश्रयितव्या। अत एव स इत्यादिसिद्धिः। अन्यथा सत्यपि सम्भवे बाधनं भवतीति विशेषविहितेन सत्वेन त्यदाद्यत्वबाधे तदसङ्गतिरेव।। तथा च तेन न्यायेन त्यदाद्यत्वस्यैनदादेशेन बाधापादनमयुक्तमिति चेन्न। बाध्यबाधकयोरुभयोरपि त्यदादित्वनिमित्तकत्वे तन्न्यायाप्रवृत्तिकल्पनेनापि निरुक्तोदाहरणनिर्वाहे तदन्यतरस्य त्यदाधित्वनिमित्तकत्वमात्रेण तदप्रवृत्तिकल्पनायां मानाभाव इत्याशयात्।। उपसर्जने इति।। प्रकारणान्तरस्थत्वेन त्यदादित्वनिमित्तकत्वाभावादुपसर्जनेपि प्रवृत्तौ तत्र त्यदाद्यत्वाप्रवृत्त्या चारितार्थ्यादपवादत्वानुपपत्तिरित्याशयः।। भाष्यासङ्गत्यापत्तेरिति।। उपसर्जने एनदादेशप्रवृत्तौ तत्र त्यदाद्यत्वाप्रवृत्त्या तदसङ्गतिरित्याशयः। ननु भाष्ये एनदादेशे एनौ एनानित्यादि कथमित्युदाहरणविशेषविषयकशङ्कायां त्यदाद्यत्वेन सिद्धमित्युक्तम्। एतावता तस्योपसर्जने प्रवृत्त्यभावः कथमवगन्तुं शक्यते, तत्राह।। एतदोपीति।। [टि- एतदोऽपीतीति।। मूले एतदोऽपीति क्वाचित्कं पाठमनुसृत्येदम्। सर्वत्र पुस्तकेषु एनदोऽपीति पाठो दृश्यते। अयमेव पाठो युक्तः। तस्यायं भावः। अत्रापिना अत्ववदेनस्यापि परिग्रहः। तत्र सोस्सर्वनामसंज्ञानिमित्तकत्वादुपसर्जने प्रवृत्त्यभावेन तयोः परत एनदोऽनुपसर्जनस्यैव सम्भवेन अर्थादिकारानुरोधाद्‌द्वितीयाटौस्वेन इत्यत्राप्यनुवृत्तस्यैतदोऽनुपसर्जनस्यैव ग्रहीतुमौचित्येन तत्साहचर्यात्तत्रानुवृत्तस्येदमोऽप्यनुपसर्जनस्यैव ग्रहीतव्यतया एनस्योभयत्राप्यनुपसर्जन एव प्रवृत्त्या तत्सूत्रपठितवार्तिकविधेयस्यैनदोऽप्यनुपसर्जन एव प्रवृत्तिरुचितेति।।
सूत्रान्तरसाहचर्यस्य नियामकत्वमनभ्युपगच्छतामेवमेवाशयवर्णनमुचितम्। यदि त्वेतदस्त्रतसोरिति सूत्रसाहचर्यं साक्षादेनस्योपसर्जनेऽप्रवृत्तौ नियामकमिति यथाश्रुतमूलाक्षरानुरोधेनाभ्युपगम्यते, तदा सूत्रान्तरसाहचर्यस्यात्र नियामकत्वे भाष्यासङ्गत्यापत्तेर्हेतुत्वमित्येकहेतुपरतया मूलग्रन्थो योजनीयः। अत एवाप्रवृत्तेः स्वीकारादिति चशब्दरहितः पाठस्सङ्गच्छते। एतत्समानार्थकश्शेखरग्रन्थोऽपि चकारस्य हेत्वर्थकत्वपरतया एवमाशयकतयापि योजयितुं शक्यते। मूले एतदेऽपीति पाठमपूर्वं प्रकल्पय तदनुरोधेनैतदाऽपीति प्रतीकमुपादाय लिखितोऽयं ग्रन्थस्सर्वथाऽलग्नकत्वादुपेक्ष्य इति बोध्यम्।] अपिशब्दादिदमः, एतच्छब्दात्र्रतसिलोस्सर्वनामसंज्ञानिमित्तकत्वादुपसर्जने प्रवृत्त्यभावेन तयोस्स्थाने विधीयमानयोरपि तथाभूततया तत्साहचर्यादयमप्यादेशो नैवोपसर्जने प्रवर्तत इत्याशयः।। इति वाच्यमिति।। प्राथमिकेन न चेत्यनेनास्य सम्बन्धः।। पूर्वमेवेति।। तथा च विभिन्नकालप्राप्तिकत्वेन बाध्यबाधकभावादेनदादेशोत्तरं सति सम्भवे त्यदाद्यत्वं निर्बाधम्। अत एनदादेश एव कर्तव्यो न त्वेनादेशोपीति परमार्थः। ननु प्रकरणन्तरविषयस्यार्धधातुक इत्यस्य साहचर्यमाश्रित्य द्वितीयाटौस्वित्यस्य विषयसप्तमीत्वं न युक्तिसहं, प्रमाणाभावादत आह।। एतत्सर्वमिति।।
ध्वनितमिति।। केचित्तु प्रकृतभाष्यप्रामाण्यात्सामान्येन त्यदादिकार्ये तक्रकौण्डिन्यन्यायाप्रवृत्तिकल्पनैव न्याय्या। निर्दिष्टपरिभाषाबाधोपहितप्रकरणान्तरसाहचर्यमूलकविषयसप्तमीत्वकल्पनायाः क्लेशभूयिष्टत्वादित्याहुः।
वक्ष्यमाणदूषणेन सर्वत्रैनदादेशविधानम्यायुक्तत्वं मन्यमान आह।। कैयटानुरोधेनेति।। तत्र ह्यन्तरङ्गानपीति न्यायेन प्रथमतो लुकि न लुमतेत्यत्राङ्गाधिकारप्रतिनिर्देशाभावे प्रत्ययलक्षणाभावादेनदादेशाप्रवृत्तावेतच्छ्रितक इति भवतीत्युक्तम्। बहिरङ्गपरिभाषाया अप्रवृत्तेरिति।। अनित्यत्वादिति भावः। अनित्यत्वेऽप्यत्राप्रवृत्तौ किं बीजमत आह।। अत एवेति।।
एतौ पृथग्वक्तव्याविति।। अत्रेदं तत्त्वम्। नपुंसकैकवचने एनद्वक्तव्य इति वार्तिकबलात्क्लीबे द्वितीयैकवचन एवैनदादेशोऽन्यत्र द्वितीयादावेना. देश एव सूत्रप्राप्त इति भागवतो भाष्यकारस्य सिद्धान्तः। तत्र नपुंसकैकवचने निरवकाशत्वात्प्रथममेनदादेशे ततस्त्यदाद्यत्वात्पूर्वमन्यत्र क्लृप्तेन पूर्वविप्रतिषेधेन लुकि तदुत्तरं प्रत्ययलक्षणनिषेधात्त्यदाद्यत्वाभावः। ``यद्येनत्क्रियते एनो न वक्तव्य इति तदग्रिमं तु भाष्यमेकदेशिनोरुक्तिप्रत्युक्तिरूपं, यदि गर्भत्वात्। किञ्च सर्वत्रैनदादेशारम्भे नपुंसकैकवचने प्रथममन्तरङ्गानपीति न्यायेन लुकि तकारोच्चारणसामर्थ्यस्यैनदादेशसमर्पकप्रत्ययलक्षणप्रयोजकत्वमाश्रयितव्यम्। तस्य च समाससाधारणत्वेनैतच्छ्रितक इत्यादावनिष्ठस्य तस्य व्यावृत्त्युपायाभावादनभिधानमाश्रयितव्यम्। अतः क्लेशभूयिष्ठत्वान्नेदं सिद्धान्तिसम्मतम्। न च तकारोच्चारणवैयर्थ्यस्यान्तरङ्गे नपुंसकलुकि प्रत्ययलक्षणनिषेधबोधनेन कृतार्थतया बहिरङ्गे समासिकलुकि तद्बाधे मानाभावादेतच्छ्रितक इत्यादौ तदप्राप्तिरिति वाच्यम्। तद्राजसूत्रस्थभाष्यस्वारस्यादन्तरङ्गानपीति परिभाषाया लुगतिरिक्तकार्यापेक्षयैव लुकः प्राबल्यबोधकतया नपुंसकस्वमोर्लुग्विषये नपुंसकत्वप्रयुक्तलुगुत्तरमेवाव्ययेष्विव प्रत्ययलक्षणेन सुबन्तत्वमाश्रित्य समासप्रवृत्तेर्निर्विवादत्वेन प्रकृतविषये सामासिकलुको दुर्लभत्वात्। न चैवं व्याससमासयोरुभयोरपि नपुंसकांशे स्वमोर्लुगित्यस्यैव प्रवृत्तावविशेषादेतच्छआितक इत्यादौ समासघटकस्यैतच्छब्दादेर्वार्तिकनयेप्येनदादेशस्य दुर्वारतया तदनिच्छायामनभिधानस्यैव शरणीकरणीयत्वादुभयवादिसम्मतत्वेन कथमनभिधानाश्रयणं परेषां दोषाय भवतीति वाच्यम्। प्रधानाप्रधानयोरिति न्यायेन स्वाश्रयविषयकवृत्तिजन्योपस्थितीयप्रकारतानवच्छेदकत्वलक्षणप्राधान्योपहितनपुंसकत्वविशिष्टार्थबोधप्रयोजकयोरेवेदमेतदोस्तत्प्रवृत्तेरौचित्येन सामासघटकयोर्नपुंसकत्वविशिष्टार्थबोधकयोस्तयोरादेशाप्रवृत्त्या तन्निवर्तकत्वेनानभिधानाश्रयणस्यानुपयोगात्। इत्थं च यद्येनदित्येकदेशिभाष्यगतानभिधानसहायेन सर्वत्रैनदादेशमाश्रित्य सूत्रकृदारब्धस्यैनादेशस्य प्रत्याख्यानं न युक्तिसहम्। तस्मान्नपुंसकैकवचनमात्रपरत्वेन तकारान्तो वार्तिकबलादन्यत्र सूत्रानुसाराददन्त इत्येवमनयोर्द्वयोरप्यादेशयोः पृथगारम्भो न्याय्यः। यदि तु न लुमतेत्यत्राङ्गाधिकारप्रतिनिर्देशपक्षे समासेष्वेतच्छ्रितक इत्यादिष्वेनादेशप्रवृत्त्या तदनिर्देशे तदप्रवृत्त्या फलवैषम्यात्सूत्रमतेऽप्यनभिधानमाश्रयितव्यमेवेति नायमतिरिक्तस्सर्वत्रैनदादेशमभीप्सतां दोष इत्युच्यते, तदा मास्तु पृथगारम्भ एनादेशस्य, एनदादेशेनैव त्यदाद्यत्वे सर्वनिर्वाहात्। न च तक्रकौण्डिन्यन्यायेन त्यदाद्यत्वापवादत्वादेनदादेशस्य तत्र कृते पुनस्त्यदाद्यत्वाप्रवृत्तेरेनावेनानित्यादिप्रयोगानुपपत्तिरिति वाच्यम्। त्यादादिकार्येषु तक्रकौण्डिन्यन्यायाप्रवृत्तेरसकृदावेदितत्वेनादोषात्। न च तन्न्यायाप्रवृत्तावपि परत्वात्त्यदाद्यत्वे तत एनदादेशे पुनस्त्यदाद्यत्वाप्रवृत्त्या रूपासिद्धिरेवेति वाच्यम्। त्यदाद्यत्वापेक्षया विशेषविहिततया प्रतिपदोक्तत्वमूलकेनान्तरङ्गत्वेन प्रथममेनदादेशस्य निर्बाधतया तदुत्तरं त्यदाद्यत्वेनाभीष्टसिद्धेर्न काप्यनुपपत्तिः। [टि- न काप्यनुपपत्तिरिति।। अत्रेदं बोध्यम्। सूत्रमतेऽनाश्रयणीयानभिधानस्यैतच्छ्रितक इत्यादेस्सर्वत्रैनदादेशवादिनामनभिधानस्याश्रयणीयत्वेन पृथगादेशद्वयरम्भ एव युक्तः। न च न लुमतेत्यत्राङ्गाधिकारप्रतिनिर्देशपक्षे एतच्छ्रितक इत्यत्रैनादेशप्रवृत्त्या तदनिर्देशे चादेशाप्रवृत्त्या फलवैषम्यात्सूत्रमतेऽप्यनभिधानस्याश्रयणीयतया नायमतिरिक्तस्सर्वत्रैनदादेशमभीप्सतां दोष इति वाच्यम्। न लुमतेति सूत्रेऽङ्गस्येत्यत्र स्वरितत्वप्रतिज्ञामन्तरा अङ्गाधिकारप्रतिनिर्देशपक्षस्यासिद्धतया गुरुभूतस्वरितत्वप्रतिज्ञाधीनस्यास्य पक्षस्याप्रतिनिर्देशपक्षसमकक्षत्वासम्भवेन न लुमता तस्मिन्निति न्यासान्तरे तस्य सुतरामसम्भवेन च निराकृतप्रायत्वात्तत्पक्षेण फलभेदस्यानभिधानसाधकत्वायोगात्। न च पृथगादेशारम्भेऽपि सम्से नपुंसकांशे लुकि तकारोच्चारणसामर्थ्यान्न लुमतेत्यस्याङ्गाधिकाराप्रतिनिर्देशपक्षेऽप्यनित्यत्वेनाप्रवृत्तेरभ्युपगन्तव्यतया एनदादेशप्रवृत्तेर्दुर्वारत्वेनानभिधानोक्तेः पक्षद्वयसाधारण्यप्रतीतेः पृथगादेशारम्भपक्षेऽप्यनभिधानाश्रयणक्लेशाभावो नोपपद्यत इति वाच्यम्। नपुंसकैकवचने एनदादेशं वदतो वार्तिककारस्य नपुंसकनिष्ठैकत्वबोधो यत्र तत्रैवादेशस्याभीष्टतया समासे उपसर्जने संख्याबोधाभावेन तत्रैनदादेशस्याप्रवृत्त्या एनच्छ्रितक इति प्राप्नोतीति भाष्यस्य पृथगादेशपक्षसाधारण्याभावेन तत्पक्षेऽनाभिधानाश्रयणस्यानावश्यकत्वात्। न च युष्मदस्मत्प्रकरणोक्तदिशा अत्रैनदादेशस्यैकत्वसंख्याबोधे तात्पर्यग्राहकस्य सत्त्वेनात्र तिद्भानप्रसक्त्या समासे एनद्दुर्वार एवेति वाच्यम्। तत्प्रकरणस्थग्रन्थस्य दीक्षिताशयवर्णनपरत्वेन नागेशसिद्धान्तप्रदर्शनावसरे तद्ग्रन्यथरीत्या शङ्काया अयुक्तत्वात्। नागेशेन हि मञ्जुषायां वृत्तिविचारे ``एकार्थीभावबलादेव वृत्तावुपसर्जनपदार्थे संख्याबोधकप्रातिपदिकाभावे एकत्वादिरूपसंख्याविशेषनवगतिः, तेन द्विपुत्रादौ न दोषः। मासजातादावपि शब्दान्न तद्बोधः। किन्त्वनेकमासजाते द्वित्रिशब्दादिपूर्वमासजातस्यैव प्रयोगादेकमासजातविषय एवायं प्रयोग इति निश्चयः। त्वत्पुत्रो युष्मत्पुत्र इत्यादावपि प्रयोक्तुरहङ्कारानास्पदचैत्रपुत्र इत्येव बोधः, विग्रहवाक्यीयैकवचनत्वारोपेणादेशः। अयं चारोपो न बोधफलकः, किन्तु शास्त्रप्रवृत्तिमात्रफलकः, वृत्तेस्तथाबोधे भाष्यकृताऽसाधुत्वबोधनात्। यत्तु आदेशतदभावाभ्यां तत्र संख्याविशेषावगतिः, भाष्ये तात्पर्यग्राहकाभावे सतीति पूरणीयमिति तन्न। तद्विधायकशास्त्राज्ञानवतः तद्बोधानापत्तेः। विग्रहे द्विवचनबहुवचनान्तत्वेऽपि एकार्थीभावबलाद् वृत्तौ तदबोधः इत्यादिना ईदृशेषु संख्यासामान्यस्य बोधाविषयत्वं स्फुटं प्रतिपादितम्। एवञ्ञ्च सर्वत्रैनदादेशपक्षस्यानभिधानाश्रयणक्लेशग्रस्तत्वेन ज्ञापकसिद्धस्य ज्ञापकसाजात्यादुभयोस्त्यदादिकार्यत्व एवाश्रयणीयस्यानित्यत्वस्य एनमित्यादावेनदादेशप्रवृत्त्युत्तरं त्यदाद्यत्वसम्पत्तयेऽन्यतरस्य त्यदादिकार्यत्वाभावेऽप्याश्रयणरूपगौरवग्रस्तत्वेन चायुक्तत्वमेवेत्याशयेन पृथग्वक्तव्यतापक्ष आदृतो मूलकारेण। तस्मान्मूलस्थस्याहुरित्यस्यारुचिबोधनपरतया योजनमयुक्तमेव। अत्र यथाकथं चिदेवं योजनेऽप्येतत्समानाशयकशेखरोद्योतयोरेवं योजयितुमशक्यत्वादित्याहुः।] तदेतदाहुरित्यनेन पृथक्कर्तव्यताविषयकस्वकीयनिर्भराभावबोधकेनोपाध्यायस्सूचयतीत्यलम्।
ननु नपुंसकस्य झलच इत्यत्राच इत्यस्य पञ्चम्यन्तत्वेन झल्विशेषणत्वे ज्ञानानीत्यादावदन्तेषु नुमागमो न सिद्ध्येदत आह।। आवृत्त्येति।। नन्विकोऽचि विभक्तावित्युत्तरसूत्रे प्रकृतसूत्रस्थस्याच इत्यस्य षष्ठ्यन्ततया सम्बन्धमाश्रित्य तत्रत्यस्येक इत्यस्य प्रत्याख्याने ज्ञानानीत्यादावदन्तेषु नुमागमस्य सौलभ्यादावृत्त्याश्रयणं व्यर्थम्। न चैवमौङ्यप्यदन्तानां नुमागमप्रसङ्ग इति वाच्यम्। औङः श्यामिति प्रतिषेधवार्तिकबलात्तत्र नुमागमाभावस्य कल्पयितुं शक्यत्वात्। न च टादावचि ज्ञानेनेत्यादावपि तदापत्तिरिति वाच्यम्। परत्वादादेशेषु सन्निपातपरिभाषया नुमो वारणसम्भवात्। षष्ठीचतुर्थ्येकवचनयोः परत्वात्स्यादेशयादेशयोरजादित्वाभावेन तदप्राप्तेश्च। न च ज्ञानयोरित्यादावपि तदापत्तिरिति वाच्यम्। परत्वादेत्वे सकृद्गतिन्यायेन तन्निवृत्तिसम्भवात्। आमि नुमचिरेति नुटः प्रथमतः प्रवृत्तौ तदप्राप्तेश्चेति चेन्न। सप्तम्येकवचने ज्ञाने इत्यादावाद्गुणं बाधित्वा परत्वादाङ्गत्वाच्च नुमागमप्रवृत्तावनिष्टापत्तेः। तस्माददन्ते सर्वनामस्थाने नुमागमप्रवर्तकत्वेनाजन्ताङ्गस्य नुमित्यर्थस्यावश्यकत्वादावृत्तिरेव शरणमिति युक्तम्। नन्वच इत्यस्य पञ्चम्यन्तत्वेन झल्विशेषणतायाः प्रमाणसिद्धत्वेप्यावृत्त्या षष्ठ्यन्तत्वेनाङ्गविशेषणतायां मानाभावात्कथं तल्लाभ इत्यत आह।। आवृत्तौ मानमिति।। एवं च हिरण्मयानीति निर्देशबलात्षष्ठ्यन्तत्वेनाङ्गांशे सूत्रस्थादज्ग्रहणाच्च पञ्चम्यन्तत्वेन झलंशे च विशेषणत्वमावृत्तिवशादिति निष्कर्षः। नन्वेवं काष्ठतङ्क्षीत्यादावचः परो यो झल् न तदन्तमङ्गं, यश्चाङ्गान्तो झल् नायमचः पर इति नुमागमानुपपत्तिरत आह।। काष्ठतङ्क्षीत्यादि।। झल्तवजातेरिति।। अचः परत्वमङ्गचरमावयवत्वं च तस्याः स्वाश्रयद्वारकं बोध्यम्। इत्थं चाचः परीभूतवर्णवृत्तिझल्त्वजात्याक्रान्तवर्णचरमावयवकस्याङ्गस्य नुमित्यर्थस्य पर्यवसानान्नैतादृशेषु दोष इति भावः।। ऊर्क्‌शब्दादाविति।। इमामूर्जमित्याद्यनेकवैदिकप्रयोगेषु देहि मे भूयसीमूर्जमित्यादिप्रामाणिकानेकलौकिकप्रयोगेषु चोर्क्‌शब्दस्य स्त्रीत्वविशिष्टार्थबोधकत्वेन सुप्रसिद्धत्वेऽपि नपुंसकत्वविशिष्टार्थबोधकत्वेन क्वाप्यदृष्टचरत्वात्तस्य नपुंसकत्वप्रयुक्तनुमागमप्रवृत्तिविचारो वन्ध्यापुत्रविवाहप्रचारान्नातिरिच्यत इत्याहुः।। [टि- आहुरिति।। ऊर्क्शब्दस्य बहुव्रीहौ नपुंसकत्वसम्भवादयं विचार आवश्यक एव। किञ्चादिपदग्राह्यानामूर्दादीनां केवलानामपि नपुंसके सत्त्वस्याबाधितत्वेन तद्विषयेऽप्यस्य विचारस्यावश्यकता। एवञ्चास्य विचारस्य बन्धयापुत्रविवाहप्रचारानतिरिक्तत्वोक्तिर्न युज्यत इति बोध्यम्।]
नित्यत्वादिति।। कृताकृतप्रसङ्गित्वमात्रेणास्य नित्यत्वमित्याशयः। यदि तु शब्दान्तरप्राप्त्या युजेरित्यस्य न नित्यत्वमित्याश्रीयते, तदा परत्वान्नपुंसकस्येत्यस्य प्रथमं प्रवृत्तौ पश्चाद्युजेरित्यस्याप्रवृत्तीच्छायां सकृद्गतिन्याय एव शरणम्।। वार्तिकानुरोधादिति।। तत्प्रत्याख्यानानुरोधादिति युक्तम्। फलभेदे प्रत्याख्यानायोगादित्याहुः।। भाष्यकैयटयोरिति।। दीधीवेवीटामिति सूत्रे कैयटे न पदान्तसूत्रे भाष्ये चेत्यर्थः। तत्राद्ये पिपठेषतेः क्विपि पिपठिषि ब्राह्मणकुलानीत्यत्राल्लोपस्य स्थानिवत्त्वेन झलन्तत्वाभावान्नुमभावः। क्वौ लुप्तं न स्थानिवदित्यस्य क्वौ विधिं प्रति न स्थानिवदित्यर्थो व्यवस्थापयिष्यते, न तु क्वौ लुप्तं न स्थानिवदिति कैयटे उक्तम्। द्वितीये च ``क्विलुगुपधात्वचङ्‌परनिर्हासकुत्वेषूपसंख्यानमिति वार्तिकव्याख्यावसरे क्वौ किमुदाहरणमित्युपक्रम्य लवशब्दात्पवशब्दाच्चाचक्षाणणिजन्तात्क्विपि लौः पौरित्यत्र स्थानिवद्भावाण्णेरूठ्‌ न प्राप्नोति, क्वौ लुप्तं न स्थानिवदिति भवति।। एवमपि न सिद्ध्यति, कथं, क्वौ णिलोपो, णावकारलोपः। तस्य स्थानिवद्भावादूठ् न प्राप्नोति। नैष दोषः। नैवं विज्ञायते, कौ लुप्तं न स्थानिवदिति, कथं तर्हि, क्वौ विधिं प्रति न स्थानिवदिति भाष्ये उक्तमिति द्रष्टव्यम्।
ननु शुष्कप्रक्रियापरिशीलनाभिनिवेशमूलकोयं मूलकारस्य रूपमालापरिसंख्यानं प्रत्याहारपरिसंख्यानवदनुपयुक्तमेवेत्यत आह।। मन्दबोधनमिति।। रूपपरिगणनाकौतुकिनस्तन्निष्पादनपूर्वकतदीयपरिगणनासमर्था मन्दाधिकारिणस्तदनुरञ्जनप्रयोजनकोऽयं प्रयास इत्यर्थः।। आक्षरसमाम्नायिकेष्विति।। अयोगवाहानामट्‌सु शर्षु च कात्यायनेन पाठस्योपसंख्यातत्वेप्याचार्योपदेशविषयकत्वाभावात्तद्विनिर्मुक्तस्यैवाक्षरसमाम्नायतया तेषामाक्षरसमाम्नायिकत्वाभाव इत्याशयः। आकारादीनामाक्षरसमाम्नायिकत्वमाक्षरसमाम्नायिकवर्णबोध्यत्वादिति बोध्यम्, स्वरेष्वेवाप्रगृह्यस्येति पर्युदासबलादनुनासिक इति युक्तम्।। असाधून्येवेति।। अन्यथा बहूर्जि नुम्प्रतिषेधमारभमाणस्य कात्यायनस्य मतेनैतादृशेषु नुमागमप्रवृत्तिः। अचः परीभूतझलन्तस्य नुमागममाश्रित्य तद्वार्तिकं प्रत्याचक्षाणस्य भगवतो भाष्यकारस्य मतेन तदप्रवृत्तिरिति प्रत्याख्यानमसम्बद्धं स्यादिति भावः। मानाभावादिति।। लक्षये तक्षणस्येतिन्यायमनादृत्य पुनर्द्वित्वाभ्युपगमे द्विवारमेव द्वित्वप्रवृत्तिरित्यत्र नियमाभावादित्यर्थः।। शास्त्रेणैवेति।। ननु समासान्तविधेरनित्यत्वमपि शास्त्रसिद्धमेव। प्रतेरंश्वादयस्तत्पुरुष इत्युत्तरपदान्तोदात्तविधायके शास्त्रे उद्देश्यत्वेन गृहीतांश्वदिगणस्थराजन्‌शब्दपाठेन ज्ञापितत्वात्। अतो नास्ति विशेष इति चेत्सत्यम्। अनुगतसमासान्ताभावबोधकेन शास्त्रेणैव तदभावोपपत्तावानुमानिकेनाननुगतानित्यत्वेन तदभावबोधनमनुचितमिति सुधियां विमर्श इत्यलम्।।
।। इति हलन्त नपुंसकलिङ्गाः। शब्दाधिकारस्समाप्तः ।।

अथाव्ययानि।

फलाभाव इति।। ननु पूर्वाङ्णेतरामधीयाना प्राह्णेतरामधीयानेत्यादौ सुबामन्त्रिते पराङ्गवत्स्वर इति प्राप्तस्य कात्यायनेनाव्ययेषु प्रतिषेधारम्भात्पराङ्गवद्भावाभावः। तथा संख्याव्ययादेर्ङीबित्यनेन अतितरामूर्ध्नी प्रतरामूर्ध्नीत्यादौ ङीपः प्रवृत्तिः । एवमुच्चैस्तरां मुखो नीचैस्तरां मुख इत्यादौ मुखं स्वाङ्गमिति प्राप्तस्योत्तरपदान्तोदात्तत्वस्य नाव्ययदिक्‌शब्देत्यनेन प्रतिषेधश्चामन्तस्याव्ययत्वे प्रयोजनमस्त्येवेति कथं नैष्फल्यमिति चेत्सत्यम्। तद्धितश्चासर्वविभक्तिरित्यनेन किमेत्तिङिति विहिताम्‌प्रत्ययान्तस्याव्ययत्वसिद्ध्या प्रकृतोदाहरणानामुपपत्तेः। कासूप्रत्ययादित्यादिना विधीयमानाम्‌प्रत्ययान्तानामेतादृशप्रयोजनासम्भवाच्च। तयोस्स्वरादिपाठादव्ययसंज्ञायाः प्रार्थनमनर्थकमित्याशयोऽत्र विभावनीय इत्याहुः। ``नन्ववदत्तं विदत्तं च प्रदत्तं चादिकर्मणि। सुदत्तमनुदत्तं च निदत्तमिति चेष्यते इत्यवदत्तादौ भाष्यकृता तादेशस्याच उपसर्गात्त इत्यनेन प्राप्तस्य निषेधारम्भादुपसर्गत्वाभावेन तदभावोपपादनमयुक्तमित्यत आह।। गुणभूतोपसर्गत्वबाध इति।। उपसर्गविभक्तिस्वरप्रतिरूपकाश्चेति चाद्यन्तर्गणसूत्रेण बोधितस्योपसर्गत्वाभावस्यैव तद्भाष्यमनुवादकं, न त्वपूर्वतया तादेशनिषेधकम्। अप्रधानीभूतोपसर्गसम्बन्धानुवादकत्वेनैवोपपत्तावपूर्वप्रधानबाधबोधकताकल्पनाया अनौचित्यादित्याशयः।। स्वरादीनुपक्रम्यान्तोदात्तः पठ्यत इतीति।। फिट्‌स्वरेणैव तेषामन्तोदात्तत्वसिद्ध्या तादृशपाठस्यानुपयोगात्प्रमादकृतमेतत्।। [टि- प्रमादकृतमिति।। काशिकाकृत इति भावः। अत एवोक्तं मूले काशिकायामिति।।] प्रापकशास्त्राभावादिति।। असति विशेषानुशासने स्वरादीनामन्तोदात्तत्वम्। येषामुभयमभीष्टं प्रामाणिकप्रयोगबलोत्तेषां स्वरादित्वं चादित्वं चेति निष्कर्षः।
अत्रेदं विचार्यते।। स्वरादिरव्ययमित्येव सूत्रमस्तु। चादीनामपि स्वरादिपाठेन स्वरादित्वादेवाव्ययत्वसिद्ध्या निपातसंज्ञानुवादेनाव्ययसंज्ञाविधानस्यानुपयोगात्। इत्थं च चादयोऽसत्त्व इति चादीनां निपातसंज्ञाविधानमपि न कर्तव्यमित्यपरमनुकूलम्। न च निपातसंज्ञानुवादेन अव्ययसंज्ञाया अभावे प्रादीनामभीष्टस्याव्ययत्वस्यानुपपत्तिरिति वाच्यम्। प्रादीनामपि चाद्यन्तर्गततया स्वरादिपाठेनादोषात्। न च चादयोऽसत्त्व इति निपातसंज्ञां विधाय तदनुवादेनाव्ययसंज्ञायामसत्त्ववाचिनामेव भवत्यव्ययत्वमत्र पक्षेतु सत्त्ववाचिनामपि चादीनामव्ययत्वापत्तिरिति वाच्यम्। अव्ययमिति महासंज्ञाकरणबलेन स्वरादीनामपि सत्त्ववाचिनामव्ययत्वस्यानिष्टतया स्वरादिष्विव चादिष्वपि सत्त्ववाचकेषु तदप्रवृत्तेः। न च चादीनां निपातत्वाभावे निपाता आद्युदात्ता इति न्यासेनापि तत्सिद्धेः। न च नमस्करोति तिरस्करोतीत्यादौ नमस्तिरश्शाब्दादेस्साक्षात्प्रभृतीनि च, तिरोन्तर्धावित्यादिशास्त्रबोधितनिपातसंज्ञामादाय प्रवर्तमानस्याद्युदात्तत्वस्यानुपपत्तिरिति वाच्यम्। चादेराकृतिगणत्वेन तेषामपि चादित्वाभ्युपगमेनाभीष्टसिद्धेः। इत्थं च प्राग्रीश्वरान्निपाता इति निपातसंज्ञाया अप्यनारम्भ एवेति महल्लाघवम्। न च निरुक्तलाघवसम्भवेपि निपातपदघटितेषु बहुषु सूत्रेषु पदद्वयात्मकचादिशब्दप्रयोगे गौरवमिति वाच्यम्। निपातपदस्यापि तथात्वेन सूत्राधिक्येन प्राग्रीश्वरान्निपाता इत्यस्य चादयोऽसत्त्व इत्यस्य निपातपदस्य चाव्ययसंज्ञायामकरणेन च लाघवाधिक्यात्। न चैवमपि प्रादय इत्यारभ्याधिरीश्वर इत्येतत्पर्यन्तानां गत्युपसर्गयोः कर्मप्रवचनीयसंज्ञायाश्च बाध्यबाधकभावोपपत्त्यर्थमाकडारीयत्वलाभायाष्टाध्याय्यां पाठश्चादित्वप्रयुक्ताद्युदात्तत्वलाभार्थं च चादिपाठस्तेषामिति महद्गौरवमिति वाच्यम्। प्रादय इत्यारभ्यादिरीश्वर इत्येतत्पर्यन्तानां चादिष्वेव पठित्वा कर्मप्रवचनीया इत्यत्र कर्मप्रवचनीया एव, न गत्युपसर्गसंज्ञा इत्यर्थसम्पत्त्यर्थमेवकारपाठेन निर्वाहात्। न चाव्ययादाप्सुप इति प्रत्याहारग्रहणात्सत्त्ववाचकानामपि केषां चित्स्वरादीनामुपकुम्भमित्याद्यव्ययीभावानां च यथैवाव्ययत्वं तथा चादीनामपि सत्त्ववाचकानां केषां चिदव्ययत्वापत्तिरिति वाच्यम्। स्वरादिष्वसत्त्वे इत्यारभ्य चादिपाठेनापि तदापत्तिपरिहारसम्भवात्। न च धिन्विकृण्व्योर्लोप इत्येव सिद्धेरकारादेशविधानान्न धातुलोप आर्धधातुक इत्येतत्सूत्रप्रत्याख्यानमपि सूत्रकारस्य भगवतः पाणिनेस्तात्पर्य विषयीभूतमित्यर्थज्ञापनपरादाकरात्संज्ञाशब्देषु लाघवावगमाद्बहूपदघटितसूत्रेषु पदगौरवविचार एव न तु मात्रागौरवविचार इति सिद्धान्ताच्च निपातप्रदेशेषु चतुर्षु पदद्वयात्मकचादिशब्दप्रयोगे निपातपदस्थानापन्नपदचतुष्टयातिरिक्तपदाधिक्यमूलकं गौरवं दुर्वारमेवेति वाच्यम्। पदगौरवस्य तत्तत्पदजन्यपदार्थोपस्थित्यादिक्लेशबाहुल्यमूलकतया चादिशब्दस्य समासरूपत्वेन समासप्रयोजकसुबन्तद्वयघटितत्वेऽप्येकार्थीभावमूलकपदार्थोपस्थित्यादेर्निपातपदादविशिष्टतया गौरवस्य दुर्वचत्वात्। न च स्वरादेरप्याकृतिगणत्वेन सङ्ग्रहीतव्यानामव्ययानां गणान्ते पाठकल्पनायां तेषां चादित्वेनान्तोदात्तत्वविघात इति वाच्यम्। आकृतिगणत्वेन सङ्ग्रहाभिप्रायविषयाणां गणान्त एव पाठकल्पनेत्यत्र प्रमाणाभावात्। ततश्च प्राग्रीश्वरान्निपाताश्चादयोऽसत्त्वे इति सूत्रद्वयघटकानां पदानां गणपठितैवकारासत्त्वशब्दाभ्यां निमानेन पदद्वयनिरासादतिरिच्यमानानि त्रीणि पदानि स्वरादिसूत्रे च निपातपदमेकमिति पदचतुष्टयाधिक्यप्रयुक्तं गौरवं किमित्युपेक्षितमाचार्यैरित्याहुः। [टि- किमित्युपेक्षितमाचार्यैरिति।। अत्रेदमुपेक्षाबीजम्। नमस्करोति तिरस्करोतीत्यादौ नमस्तिरश्शब्दादेस्साक्षात्प्रभृतीनि च, तिरोऽन्तर्धावित्यादिशास्त्रबोधितनिपातसंज्ञामादाय प्रवर्तमानस्याद्युदात्तत्वस्यानुपपत्तिः। न च चादेराकृतिगणत्वेन तेषामपि चादित्वाभ्युपगमेनाभीष्टसिद्धिः। इत्थं च प्राग्रीश्वरान्निपातसंज्ञाया अप्यनारम्भणीयत्वेन महल्लाघवमिति वाच्यम्। आकृतिगणत्वेन तत्सङ्ग्रहे तत्तत्सूत्रबोधितविषयातिरिक्तविषयेऽपि निपातसंज्ञापत्तावनिष्टप्रसङ्गात्। न च प्रादय इति सूत्रमारभ्याधिरीश्वर इत्येतदन्तान्यष्टाध्यायीस्थसूत्राणि चादिगणे गणसूत्रतया पाठ्यानि। एवञ्च तत्तद्विषयविशेषपुरस्कारेणैव तेषां चादित्वलाभाद्विषयान्तरे चादित्वप्रयुक्तकार्यस्यानिष्टस्य नापत्तिरिति वाच्यम्। एवं सति निपातत्वप्रयुक्ताद्युदात्तत्वाय तेषां सर्वेषां सूत्राणां गणपाठस्यावश्यकतया कर्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञाबाधसिद्ध्यर्थं तासामाकडारीयत्वसम्पत्तये सूत्रपाठेऽपि तेषां पाठस्यावश्यकतया च तावतां सूत्राणामुभयत्र पाठेऽतिगौरवात्। न च कर्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञाबाधसिद्ध्यर्थं कर्मप्रवचनीया इति गणसूत्रे एवकारो निवेशनीयः। तन्निवेशे च तत्तत्संज्ञाविषयेऽतिरिक्तसंज्ञानामेवकारेण व्यावृत्तेः कर्तुं शक्यतया तासां बाध्यबाधकभावोपपत्तये आकडारीयत्वसम्पत्त्यर्थं सूत्रपाठे तेषां पाठस्यानावश्यकतया नोक्तगौरवदोष इति वाच्यम्। एवं सत्येवकारेण गत्युपसर्गसंज्ञयोरिवाव्ययसंज्ञाया अपि निवृत्त्यापत्त्याऽनिष्टप्रसङ्गात्। न चैवं सति कर्मप्रवचनीयसंज्ञाविषयाणामन्यत्र स्वरादौ पाठवैयर्थ्यप्रसङ्ग इति वाच्यम्। कर्मप्रवचनीयसंज्ञाविषयातिरिक्तविषयेऽव्ययत्वादिसम्पादनाय तत्पाठसार्थक्यात्। किञ्च गणपाठे तथा सूत्रपाठकरणे गणसूत्रेषु सूत्रपाठ इवाधिकारानुवृत्त्यादेरन्यत्रादर्शनेन यत्र तत्तत्संज्ञाबोधकशब्ददर्शनं तत्तत्सूत्रगृहीतानां तत्तत्संज्ञासिद्धावपि सूत्रान्तरपठितानां तत्तत्संज्ञानापत्तिः। सूत्रान्तराणि तु पाठस्य विशेषविषयतासम्पत्त्यर्थं स्युः। एवञ्च महदनिष्टमापद्येत। अपि च गणसूत्राणां सूत्रविधेयकार्यविजातीयकार्यविधायकताया एव अन्यत्र दृष्टत्वेनात्रापि तथात्वापत्तौ गत्यादिसंज्ञाविधायकत्वं तेषां न स्यात्। तत्र तत्र तत्तत्संज्ञापदोच्चारणसामर्ध्यात्तत्र सजातीयकार्यविधायकत्वाङ्गीकारेऽपि तदघटितसूत्राणां गणपाठशैलीविरोधेन सजातीयकार्यविधायकताया अनौचित्यात्। तस्माच्छास्त्रकारशैलीविरोधेन बहुव्यवस्थाकल्पनापेक्षया पदचतुष्टयाधिक्येन यथान्यासकरणे न किञ्चिदपि गौरवमित्याचार्याणामाशयो विभावनीय इत्याहुः।]
नन्वादेच इति सूत्रस्थादुपदेशग्रहणाद्वर्णग्रहणेषु प्रकृतपरिभाषाया अप्रवृत्तेर्ज्ञापितत्वेन तद्विरोधादिह सामान्येनानित्यत्वज्ञापनमयुक्तमत आह।। क्वचित्पर्यायग्रहणेपीति।।[टि- पर्यायग्रहणेऽपीतीति।। ``क्वचित्पर्यायग्रहणेऽपि तत्परिभाषाप्रवृत्तिज्ञापकत्वं च तदनित्यत्वमात्रज्ञापकमिति भावः इति मूलपाठमनुसृत्येदं प्रतीकम्। पर्यायग्रहण इत्यस्य भुवश्च महाव्याहृतेरित्यत्रेत्यर्थः। अपिना आदेच उपदेश इत्यादिसङ्ग्रहः। एवञ्चाद्ये महाव्याहृतिग्रहणादन्त्ये उपदेशग्रहणाच्च सामान्यतोऽनित्यत्वज्ञापनमेव युक्तम्। उपदेशग्रहणाद्वर्णग्रहणेऽप्रवृत्तिरिति ज्ञापने तु महाव्याहृतिग्रहणस्य वैयर्थ्य तदवस्थमेव। अत उभयप्रामाण्यात्सामान्यतोऽनित्यत्वज्ञापनमेव युक्तमिति शब्दरत्नकारो मन्यते। व्याख्यानग्रन्थेऽपि अपीतिशब्दयोर्भिन्नक्रमत्वमपिशब्दस्य लुप्तषष्ठ्यन्ततां चाङ्गीकृत्य ``आदेच उपदेश इत्यत्रेत्यपेरर्थः इत्यर्थकत्वेनैव योजनीयम्। अत एवोत्तरत्र आदेच इत्यत्राप्युपदेशग्रहणादित्यत्र भिन्नक्रमतया उपदेशग्रहणादपीत्यर्थकमपिग्रहणं स्वरसतस्सङ्गच्छत इति बोध्यम्। इदानीन्तनपुस्तकेषूपलभ्यमानात् ``क्वचिद्वर्णग्रहणेऽपि तत्परिभाषाप्रवृत्तिः। तत्राप्रवृत्तिज्ञापकं च तदनित्यत्वमात्रज्ञापकमिति भावः इति पाठादयमेव पाठो ज्यायानिति प्रतिभाति।।] आदेच उपदेश इत्यत्रापीत्यर्थः।। अनित्यत्वमात्रज्ञापकमिति।। आदेच इत्यत्राप्युपदेशग्रहणात्सामान्येन प्रकृतपरिभाषाया अनित्यत्वज्ञापनद्वारेणैव वर्णग्रहणेषु तदप्रवृत्तिज्ञापनमिति मूलकारो मन्यत इत्याशयः। वस्तुत आदेच इत्यत्र घातुग्रहणस्याननुवृत्तेरेव भाष्यारूढतया गोभ्यां नौभ्यामित्यादावुद्देशांशे प्रसक्तस्यात्त्वस्य वारणेन कृतार्थस्योपदेशग्रहणस्य न प्रकृतार्थसाधकत्वसम्भवः। सति प्रयोजने भुवश्च महाव्याहृतेरिति सूत्रस्थान्महाव्याहृतिग्रहणादविशेषेण परिभाषाया अनित्यत्वं ज्ञापनीयम्। वर्णग्रहणेष्वस्याः परिभाषाया अप्रवृत्तिकल्पनं तु न युक्तमोत्सूत्रस्थभाष्यविरोधादित्यन्यत्र विस्तरः।
ननु भूतमियं ब्राह्मणीत्यत्र भूतशब्दो यदि पिशाचादिवाची नियतलिङ्गस्तदा ब्राह्मणीशब्देन सामानाधिकरण्यायोगात्तत्सामानाधिकरण्यनिबन्धनस्य टाबापादनस्यानुपपत्तिः। यद्ययमतिक्रान्ताद्यर्थवाची विशेष्यलिङ्गस्तर्हि स्त्रीत्वोपहितार्थबोधकविशेष्यवाचकब्राह्मणीशब्दसामानाधिकरण्यानुरोधाद्विशेषणवाचाकाद्‌भूतशब्दाट्टाबुत्पत्तेरभीष्टत्वान्नायमापत्तिविषयः। तस्मादिह कोऽसौ भूतशब्दार्थः। यत्र स्त्रीत्वविशिष्टार्थबोधकब्राह्मणीशब्दसामानाधिकरण्यप्रयुक्तस्यानिष्ठस्य टापः प्रसङ्ग इत्यत आह।। भूतशब्द इति।। पौतन्यवृत्तिरिति।। ब्राह्मणादेराकृतिगणतया तद्गणप्रयुक्ते पूतनाशब्दात्कर्मणि ष्यङि पौतन्यशब्दः। पूतना च कामरूपा बालघातिनी पिशाचयोनिः। ततश्च पिशाचविशेषवाची नियतनपुंसकोऽयं भूतशब्दः। पूतनाधर्मपुरस्कारेण गौण्य वृत्त्या ब्राह्मणीशब्दसामानाधिकरण्यमापन्न इह टाबापत्तिविषय इति भावः। ननु लक्षणायास्समभिव्याहृतपदार्थान्तरान्वयानुपपत्तिमूलकत्वाद्ब्राह्मणीशब्दसमभिव्याहारात्पूर्वमेव प्रातिपदिकसंस्कारवेलायामुपस्थितस्वकीयशक्तिगम्यार्थगतनपुंसकत्वप्रयुक्तेनामाद्यादेशेन संस्कृतस्य भूतमित्यस्य पश्चात्तत्समभिव्याहारदशायामन्वयोपपत्तये स्वीकरणीयया गौणलक्षणाया स्त्रीत्वोपहितार्थान्तरबोधकत्वेपि जातसंस्कारबाधायोगाद्विशिष्टस्य प्रातिपदिकत्वा भावाददन्तत्वाभावाच्च टाबापत्तेरसम्भवः। न च विशिष्टस्य भूतमित्यस्य टाबापत्तिप्रयोजकादन्तत्वप्रातिपदिकत्वयोरभावेपि मकारप्राग्वर्तिनः पूर्वान्तवद्भावेन प्रातिपदिकत्वापन्नस्यादन्तत्वान्निरूक्तापत्तिर्दुर्वारैवेति वाच्यम्। आनुमानिकादेशात्मकस्य विभक्त्यन्तस्यैव लाक्षणिकतया पूर्वान्तवद्भावेनादन्तस्य प्रातिपदिकत्वेऽपि तावन्मात्रस्य ब्राह्मणीशब्दसामानाधिकरण्यप्रयुक्तस्त्रीत्वविशिष्टार्थबोधकत्वाभावेन टाबापत्तेर्दुर्वचत्वादिति चेत्सत्यम्। यदा च वाक्यावधिकमन्वाख्यानं प्रातिपदिकसंस्कारवेलायामेव तात्पर्यानुपपत्तिप्रयुक्तया गौणवृत्त्या भूतशब्दस्य स्त्रीत्वोपहितार्थबोधकब्राह्मणीशब्दसामानाधिकरण्यं, तदा टाबापत्तेरवकाश इति ग्रन्थकृतामाशयो विभावनीय इत्याहुः।
ननु लक्षणया स्त्रीत्वविशिष्टार्थवाचकब्राह्मणीशब्दसामानाधिकरण्यप्रयुक्तस्त्रीत्वोपहितार्थबोधकत्वसम्भवेऽपि स्वगतनपुंसकत्वविशिष्टार्थविषयकशक्तिमत्त्वरूपतद्वाचकत्वस्यानपगमाट्टाबुत्पत्तावपि तत्प्रयुक्ते ह्रस्वे नास्ति दोष इत्यत आह।। तत्र पर्जन्यवदित्यादि।। अन्तरङ्गत्वादिति।। प्राथमिकोपस्थितिविषयनपुंसकत्वनिमित्तकत्वात्पूर्वोपस्थितनिमित्तकत्वरूपमत्र ह्रस्वस्यान्तरङ्गत्वम्।। पदान्तरसमवधानोत्तरमिति।। ब्राह्मणीशब्दसमवधानप्रयुक्तलक्षणाधीनस्त्रीत्वविशिष्टार्थविषयकनिश्चयोत्तरमित्यर्थः। ततश्च परकालोपस्थितनिमित्तकत्वरूपं टापो बहिरङ्गत्वम्। तेन सकृत्प्रवृत्तस्य ह्रस्वस्य लक्षये लक्षणास्येति न्यायेन टाबन्ते पुनरप्रवृत्त्या प्रयोगासिद्धिः। त्रिकं प्रातिपदिकार्थ इत्याश्रित्य स्त्रीवाचकात्प्रातिपदिकात्स्वार्थे टाबिति निष्कर्षे तु नैतादृशेषु टापः प्रसङ्ग इत्यभीष्टसिद्धिः।

।। इत्यव्ययानि ।।

अथ स्त्रीप्रत्ययप्रकारणम्।

बहुकुरुचरेति।। समासप्रत्ययविधाविति निषेधात्तदन्तविध्यभावे टित्त्वाभावादेव ङीपोऽप्रवृत्त्या व्यर्थोऽयमनुपसर्जनाधिकार इति तदन्तविधेर्ज्ञापक इति भावः। ननु तदन्तविधावप्यनुपसर्जनाधिकारस्य गृह्यमाणविशेषणताया एव न्याय्यतया टिद्रूपं यदनुपसर्जनं तदन्तादित्यर्थे कुरुचरेत्यस्य समासशास्त्रीयप्रथमान्तपदबोध्यत्वेन विग्रहवाक्यीयनियतविभक्तिकत्वेन वा बहुव्रीहिघटकस्य कुरुचरेत्यस्योपसर्जनत्वेपि टित्त्वेन गृहीतस्य चरेष्ट इति विहितस्य टस्य कथमप्युपसर्जनत्वाभावेन बहुकुरुचरेत्यस्यानुपसर्जनटिदन्तत्वानपायात्कथमिहानुपसर्जनाधिकारेण ङीपो व्यावृत्तिः। न च टितः प्रत्ययतया प्रतययग्रहणपरिभाषालभ्यतदन्तस्यापि गृह्यमाणताया आवश्यकत्वेन कृद्‌ग्रहणपरिभाषया कारकविशिष्टस्य कुरुचरेत्यस्य कृत्प्रत्ययात्मकटिदन्तत्वेन च टिदन्तं यदनुपसर्जनमित्यर्थस्य न्याय्यतया बहुकुरुचरेत्यस्यानुपसर्जनटिदन्तान्तत्वाभावेन तद्व्यावृत्तिरिति वाच्यम्। टित्त्वस्य धात्वादिसाधारणतया प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण प्रत्ययग्रहणाभावेन प्रत्ययग्रहणपरिभाषाविषयत्वाभावात्। कृन्मात्रग्रहणाभावेन कृद्‌ग्रहणपरिभाषाविषयत्वभावाच्च निरुक्तपरिभाषाद्वयबोधितगृह्यमाणातासम्पादकटिदन्तत्वस्य कुरुचरेत्यत्र दुर्वचत्वादिति चेत्सत्यम्। लौकिकमत्रोपसर्जनत्वं विवक्षितम्। तदुक्तं भाष्ये ``यावद्‌ब्रूयात्प्रधानादुत्पत्त्व्यम्। अप्रधानान्नेति। तावदनुपसर्जनादिति। उपसर्जनत्वं च स्वार्थनिष्ठप्रकारतानिरूपितविशेष्यतापन्नपदार्थोपस्थापकत्वम्। स्वार्थनिष्ठविशेष्यतानिरूपितप्रकारतापन्नपदार्थोपस्थापकत्वमेव चानुपसर्जनत्वम्। प्रकृते च बहुव्रीहिघटकस्य कुरुचरेत्यस्य स्वार्थनिष्ठप्रकारतानिरूपितविशेष्यतापन्नवृत्तिद्वारकान्यपदार्थोपस्थापकताया निर्विवादतया तद्धटकस्य टस्यापि तथात्वस्य सुवचत्वेन विशिष्टस्यानुपसर्जनटिदन्तत्वाभावादिह ङीपो व्यावृत्तिरिति विभावनीयमित्याहुः।। शब्दप्रवृत्तिनिमित्तकत्वरूपमिति।। संज्ञाशब्देषु भावप्रत्ययाभिधेयतया शब्दस्वरूपस्यैव प्रवृत्तिनिमित्तत्वमित्यर्थस्य तस्य भाव इति सूत्रस्थाकरनिरूढत्वात्। रूढिविषये तु रूढ्यर्थतावच्छेदकं जात्यादिरूपमेव प्रवृत्तिनिमित्तमिति संज्ञाशब्दाद्विशेष इत्याशयः। ननु संज्ञाशब्देन रूढेरेव ग्रहणे क्वुन् शिल्पिसंज्ञयोरित्यौणादिकसूत्रे शिल्पिनीति व्यर्थं, शिल्पोपजीविनि जातिविशेषावच्छिन्ने संज्ञायामित्यनेनैव क्वुन्प्रत्ययोपपत्तेरिति चेन्न। केवलयोगार्थपुरस्कारेणापि क्वचिद्रजक इत्यादौ क्वुन्प्रत्ययस्य साधुत्वोपपत्तये तत्सार्थक्यात्।।
लाक्षणिकत्वापरपर्यायमिति।। प्राथमिकोपस्थितिविषयतया तत्तदर्थविशिष्टवाक्यार्थबोधप्रयुक्तानुष्टापकत्वेन कृतार्थस्य शास्त्रस्य पाश्चात्योपस्थितिविषयार्थान्तरविशिष्टवाक्यार्थमूलकानुष्टापकताकल्पनायां मानाभाव एव हि गौणमुख्यन्यायस्य बीजम्। तच्च लक्ष्यमात्रसाधारणमतः पुंयोगलाक्षणिकस्यापि गौणत्वमिति मूलकृत्तात्पर्यम्। उपाद्यायस्तु गोणपदस्वारस्याद्गौणलाक्षणिकत्वमप्रसिद्धत्वं च गौणत्वम्। न तु लाक्षणिकमात्रमिति मन्यते। युक्तिबलेन व्यवहारबलेन च सकलविधलाक्षणिकस्यापि गौणत्वसम्भवे यत्किञ्चिल्लाक्षणिकविषयकत्वेन न्यायप्रवृत्तिकल्पनायां दृढतरमानाभाव इत्यत [टि- इत्यत आहेति।। सकलविधलाक्षणिकस्यापि गौणत्वमिति प्राचीनमतसाधारणं परिभाषाप्रवृत्तिविघटकमुपायमाहेत्यवतरणं युक्तम्। शुद्धलाक्षणिकानां गौणत्वस्य मूलकारानभिप्रेतत्वात्।] आह।। पदकार्यविषय इति।। न केवलं गौणत्वाभाव एव न्यायप्रवृत्तेर्विघटकः, किन्तु तत्प्रवृत्तिप्रयोजकत्वेनाभिमतस्य पदकार्यत्वस्याप्यभाव इत्याशयः। पदकार्यत्वं च स्त्रीत्वानिमित्तकत्वे सति प्रातिपदिकत्वप्रयुक्तप्रत्ययानिमित्तकत्वम्। सत्यन्तविशेषणाच्च स्थौल्यगुणप्रयुक्तसादृश्यमूलकलक्षणाधीनार्थान्तरबोधकगजवाचकनागशब्दाज्जानपदेति सूत्रेणाभीष्टस्य ङीषः प्रवृत्तिः। अन्यथा जातेरित्यनेन गजवाचकतायां सर्पवाचकतायां चाविशेषेण प्राप्तस्य नियमार्थत्वे तदनुपपत्तिस्स्पष्टैव।। विशेष्यदलं तु सदृशलाक्षणिकाद्यृभुक्षिन्‌शब्दादेः पथिमथीत्यादिशास्त्रविषयतासम्पत्त्यर्थं, त्वद्भवतीत्यादौ प्रत्ययोत्तरपदयोश्चेति च्विनिमित्तकत्वाद्यादेशलाभर्थं चेत्यन्यत्र विस्तरः।। स्त्रीत्यर्थे इति।। गौणलाक्षणिकाजशब्दात्तु स्त्रीत्वविवक्षायां जातिलक्षणस्य ङीषः प्रवृत्त्यभावाददन्तत्वप्रयुक्त एव टाबिति बोद्यम्।। न तु शूद्रत्वमिति।। अत एव त्यदादीनीति सूत्रे भाष्ये शूद्राभीरमित्यत्र द्वन्द्वसाधुत्वार्थमाभीरा जात्यन्तराणीत्युक्तम्। अनुलोमसङ्कराणां मातृजातिरिति प्रवादोऽपि गौणस्तज्जात्यारोपमूलक एवेत्याशयः।। शूद्रजातिवृत्तिमत्त्वेनेति।। शूद्रजातेर्यां वृत्तिः जीवनापायभूतो व्यापारस्तद्वत्त्वेनेत्यर्थः।। स्त्रीत्वस्य सत्त्वादिति।। आभीरणामारोपितशूद्रत्वपुरस्कारेण शूद्रशब्दाभिधेयतया शूद्रशब्दार्थसमवेतस्त्रीत्वस्याभीरव्यक्तौ महाशूद्रशब्दाभिधेयभूतायां सत्त्वादित्यर्थः।।
शूद्रशब्दादेवेति।। अत्रेदं बोध्यम्। शूद्रा चामहत्पूर्वा जातिरिति टाबन्तनिपातनेन शूद्राज्जातेरमहत्पूर्वादिति लक्षणस्यानुमेयतया ग्रहणवतेति निषेधेन तदन्तविधिनिषेधाच्छूद्रशब्दात्मकप्रातिपदिकाज्जातिवाचकात्प्रत्यासत्त्या शूद्रशब्दाभिधेयसमवेतस्त्रीत्वे टाबित्यर्थस्य पर्यवसानान्महत्पूर्वकशूद्रशब्दान्तात्सत्यपि शूद्रशब्दार्थसमवेतस्त्रीत्वे टापः प्रसक्त्यभावाद्व्यर्थममहत्पूर्वग्रहणं तदन्तविधिं ज्ञापयति।। ज्ञापिते तु तदन्तविधौ शूद्रशब्दान्तान्महाशूद्रशब्दादपि टापः प्रसक्त्या तन्निवृत्तये महाच्छब्दपूर्वकशूद्रशब्दान्तान्नेत्यर्थकममहत्पूर्वग्रहणम्। ननु तदन्तविधिज्ञापनस्य नास्त्युपयोगः। न च प्रियभवती आतिभवतीत्यादावृगितश्चेति तदन्तान्ङीपः प्रवृत्तिः प्रयोजनमिति वाच्यम्। ग्रहणवतेति निषेधस्य समासप्रत्ययविधावित्येवमात्मकतदन्तविधिप्रतिषेधघटकप्रत्ययांशानुवादरूपतया तन्निषेधस्योगिद्वर्णग्रहणवर्जमित्युगिदंशे प्रतिप्रसवारम्भादेव तत्र तदन्तविधेः सिद्धत्वेन निरुक्तप्रयोगाणां निर्बाधत्वादिति चेन्न। उगिदंशविषयकप्रतिप्रसवस्यापूर्वत्वसल्पनापेक्षया निरुक्तज्ञापकसिद्धार्थानुवादकत्वकल्पनायां लाघवात्। न च तदन्तविध्यभावे भावच्छब्दस्यैवाव्युत्पन्नस्योगितः प्रातिपदिकत्वेन सूत्रस्य तन्मात्रविषयकत्वापत्रौ न ह्येकमुदाहरणमिति न्यायेन सामान्यसूत्रारम्बवैफल्यात्तदन्तविधिना निरुक्तप्रयोगोपपत्त्या महत्पूर्वप्रतिषेधेन तदन्तविधिज्ञापनमनुपयुक्तमेवेति वाच्यम्। महच्छब्दस्याप्यव्युत्पन्नस्य शतृवद्भावप्रयुक्तोगित्त्वव्यपदेशवतस्सत्त्वेन सामान्यसूत्रारम्भसाफल्यात्। वनो र चेत्यत्र प्रत्ययग्रहणपरिभाषालभ्यतदन्तांशमादाय पुनस्तदन्तविधौ वन्नन्तान्तादित्यर्थस्य पर्यवसानादतिधीवरीत्यादिप्रयोगनिर्वाहार्थमावश्यकत्वाच्च। न चैवमपि जातिवाचकशूद्रशब्दान्ताट्टाबित्यर्थे व्यपदेशिवद्भावेन केवलशूद्रशब्दात्तदुपपत्तावपि समुदायशक्त्या जात्यन्तरबोधकमहाशूद्रशब्दघटकशूद्रशब्दस्य जातिवाचकत्वाभावात् ज्ञापितेऽपि तदन्तविधौ स्वांशे चारितार्थ्याभावात्कथं ज्ञापकत्वमिति वाच्यम्। आभीरत्वमहत्वोपहितारोपितशूद्रत्वैतदुभयधर्मपुरस्कारेणैव व्यक्तिविशेषे महाशूद्रशब्दस्य प्रवृत्तिरित्याभ्युपगमेन तद्धटकशूद्रशब्दस्यापि जातिवाचकतया टापो दुर्वारत्वेन चारितार्थ्यस्य सुवचत्वात्। पञ्चशूद्रीत्यादौ तु जातिवाचकशूद्रशब्दान्तत्वेपि शूद्रशब्दार्थसमवेतस्त्रीत्वाभावान्न टाप्प्रत्ययेन द्विगुलक्षणस्य ङीपो बाधः। शूद्रशब्दान्ताज्जातिवाचकादिति तु न युक्तम्। अशूद्रा परमशूद्रेत्यादौ कुक्कुटाण्डवत्समासकल्पनया स्त्रीत्वविवक्षायां सङ्घातस्य जातिवाचकत्वाभावेन टाप्प्रत्ययानुपपत्तेः। सच्छूद्रशब्दो यदि गोपनापितयोर्निरूढस्तदा तदवयवशूद्रशब्दस्यापि निरुक्तरीत्या जातिवाचकत्वेन टाप्प्रत्ययो निर्बाधः। महाशूद्रशब्दात्तु जातिविशेषावच्छिन्नव्यक्तिवाचकत्वे टाप्प्रतिषेधारम्भात्सङ्घातगतजातिवाचकत्वेन जातिवाचकान्तत्वेन वा ङीष्प्रत्ययः। सङ्घातस्य जातिवाचकत्वाभावे कुक्कुटाण्डवत्समासकल्पनया स्त्रीत्वविवक्षायां तु टाप्प्रत्यय एवेति परमनिष्कर्ष इत्याहुः।
अत्रत्यभाष्यासम्मतेरिति।। तत्रोगितः प्रातिपदिकादित्यर्थे भवती महतीत्युदाहृतम्। न्यासकारोक्तरीत्या व्युत्पन्नत्वेन चोगिदन्तत्वेप्युगित्त्वाभावात्तदसङ्गतिरेवेत्यव्युत्पन्नत्वमेवेह भाष्यकाराभिप्रेतमित्याशयः।।
घुमास्थेतीत्त्वमिति।। नन्वीत्त्वमवकारादाविति कात्यायनेन वकारादौ प्रतिषेधारम्भाद्दधातेः क्वनिपि कथमीत्त्वप्रवृत्तिरित्यत आह।। प्रत्याख्यानादिति।। ननु वार्तिकप्रत्याख्यानेपि वकारादवीत्त्वप्रवृत्त्यभ्युपगमे शेस्था सव्येष्ठा इति भाष्यकारीयः क्रिबन्तप्रयोगो विरुद्ध्येतेत्यत आह।। वाग्रहणमनुवर्त्येति।। ननु मण्डूकानुवृत्तौ परिक्लेशो व्यवस्थितविभाषा चेयं भाष्यानारूढा, ततो नायं तत्प्रयोगसमर्थनोपायो न्याय्य इति विप्रतिपत्तावुपायान्तरमाह।। विजेवेति।। अन्येभ्योपि दृश्यन्त इत्यनेन लोकवेदसाधारणतया प्रवर्तमानोऽयं विच्प्रत्यय इत्याशयः। ननु वचनारम्भदशायामप्रवर्तमानस्येत्त्वस्य वचनप्रत्याख्यानदशायां क्विबादौ प्रवृत्त्यभ्युपगमे प्रत्याख्यानस्यारम्भसमानफलकत्वनियमविरोधात्प्रत्याख्यानासङ्गतिः। प्रत्याख्यानं हि शास्त्रस्य लाघवप्रधानतया वचनारम्भप्रयोजनानामन्यथासिद्धौ भवति। किञ्च शंस्था इत्यादिभाष्यकारीयक्विबन्तप्रयोगबलादीदृशेषु प्रत्याख्यानेऽपि तदप्रवृत्तिरित्येव युक्तम्। धीवरी तु ध्यायतेस्सम्प्रसारणं चेति वार्तिकस्थचकारेण क्विप इव क्वनिपोपि समुच्चयात्सम्प्रसारणदीर्घाभ्यामुपपद्यते। अत एव प्यायतिप्रकृतिकानां पीवरी पीवान इत्यादीनां सिद्धिरतो वृथैवायमसार्वत्रिकविच्प्रवृत्तिपरिकल्पनाप्रयास इत्यत आह।। धीर्ध्यायतेर्दधातेर्वेति।। अयं भावः। प्रत्याख्यानमुभयथा भवति। लक्ष्यविसंवादात्प्रयोजनान्यथासिद्धेश्च। तत्र न बहुव्रीहाविति सूत्रस्य धिसकारे सिचो लोप इति वार्तिकस्य च प्रत्याख्यानं लक्ष्यविसंवादात्। त्वकत्पितृको मकत्पितृकश्चकाधीत्यादीनामेवाभीष्टत्वात्। न धातुलोप आर्धधातुके इति सूत्रस्य ऋवर्णान्नस्य णत्वं वाच्यमिति वार्तिकस्य च प्रयोजनान्यथासिद्धेः। जीरदानुर्मातॄणामित्यादौ गुणवृद्ध्यभावणत्वादीनां प्रकारान्तरेण सिद्धत्वात्। इह तु धीवरीत्यादिप्रयोगविरोधात्पावान इत्यादीनां वनिपा सिद्धत्वाच्च प्रत्याख्यानमतः क्विप्क्वनिपोरीत्त्वप्रवृत्तौ न विरोध इति दधातेर्वेति भाष्यादवगम्यत इति।। नन्वेवमपि ईत्त्वस्य हलादिकिङिन्निमित्तकत्वेन बहिरङ्गत्वाद्वेरपृक्तलोपस्यानैमित्तकत्वेनान्तरङ्गत्वाल्लोपस्य प्रथमप्रवृत्तेर्दुर्वारत्वेन प्रत्ययलक्षणसूत्रस्य नियामकत्वमभीप्सतो भाष्यकारस्य नये स्थानिवद्भावेनैवेत्त्वस्य प्रार्थनीयतया स्थानिसम्बन्ध्यल्वृत्तिधर्मघटितधर्मावच्छिन्ननिमित्तताकविधौ निषेधात्कथं दधातेः क्विपि तत्प्रवृत्त्या धीरित्यस्य सिद्धिरत आह।। घुमास्थेति।। अनजादाविति।। एतद्भाष्यप्रामाण्याद्धुमास्थेत्युत्सर्गः ङलीति च तन्निषेधः। तत्र हल्पदमुपचारादच्परं, स्यादित्यध्याह्रियमाणं च व्यवहितादपि न ल्यपीत्यस्मादपकृष्यमाणेन नञा सम्बध्यते। ततश्चाजादौ न स्यादिति तदर्थादभीष्टसिद्धिरल्विधित्वाभावोऽपीत्त्वस्येत्याशयः। प्रत्ययलक्षणकार्यं सुलभमित्यस्येत्त्वमत्र स्थानिवत्त्वेन लभ्यत इत्यर्थः। एतेन हल्पदस्योपचारादज्भिन्नपरत्वमाश्रित्याजतिरिक्तवर्णाद्यवयवकक्ङिदार्धधातुकपरतायामीत्त्वमित्युक्तावप्यल्विधित्वस्य तदवस्थतया निषेधविषयत्वात्स्थानिवद्भावसौलभ्योपपादनमयुक्तमित्यपास्तम्। प्रत्ययलक्षणसूत्रस्य विशेषणत्वेनालाश्रयणे विध्यर्थतामभ्युपगच्छतो वार्तिककारस्य मते घुमास्थेत्यत्र निरुक्तपरिक्लेशमन्तरैव प्रत्ययलक्षणेनेत्त्वं सुलभम्। न च वार्तिककृन्मते वकारादौ निषेधारम्भात्कथमीत्त्वप्रवृत्तिरिति वाच्यम्। अवकार इत्युक्तावपि तदादिविधिना [टि- तदादिविधिना सिद्धाविति।। अवकारे इत्यस्य विशेषणीभूताल्ग्राहकसप्तम्यन्तत्वाभावेन तदादिविधिर्दुर्लभः। नञ्‌समार्थकमेति पृथक्पदमाश्रित्य प्रसज्यप्रतिषेधाश्रयणे तु गौरवमिति चिन्त्यमेतत्।] सिद्धावादिग्रहणेन श्रूयमाणवकारादावेवप्रतिषेधप्रवृत्त्या वेरपृक्तलोपस्यान्तरङ्गत्वात्प्रथमं प्रवृत्तौ प्रत्ययलक्षणेन समर्थनीयस्येत्त्वस्य निर्विवादत्वात्। एवञ्च क्विब्विषये भाष्यवार्तिककारयोरप्यभीष्टमेवेत्त्वमिति नास्त्यारम्भप्रत्याख्यानयोः फलभेदः। नापि क्विबन्तवातप्रमीशब्दस्यारम्भप्रत्याख्यानफलवैगुण्यप्रयुक्तोऽनभिधानपरिक्लेशः। प्रतिषेधवार्तिकं च क्वनिबादिविषयकम्। प्रत्याख्यानमपि प्रयोजनान्यथासिद्धेरेव न तु लक्ष्यविसंवादात्। प्रत्याख्यानबीजतया भाष्यकारेण वार्तिककाराभिमतस्य पावान इति प्रयोजनस्य वनिप्प्रत्ययेनान्यथासिद्धेः प्रदर्शनेपि लक्ष्यविरोधस्याप्रदर्शनात्। तस्माद्धीवरीति ध्यायतिप्रकृतिकमेव सम्प्रसारणदीर्घाभ्यां तदुपपत्तिरित्याहुः।। इदमेवेति।। विहितविशेषणप्रयोज्यनिषेधातिव्याप्तिवारणं शर्वरीत्यत्र ङीब्रयोर्निषेधाप्रवृत्तिरूपमेव, तदितरस्याप्रसिद्धत्वादित्यर्थः।।
षट्‌त्वं नाल्धर्म इति।। षान्तनान्तान्यतरसंख्यावाचकत्वसमानाधिकरणस्तदतिरिक्तः प्रत्ययत्वादिवदखण्डो धर्मविशेष इत्याशयः। अत्रत्यं तत्त्वमधस्तान्निरूपितम्।।
किमर्थमिति।। डाबुभाभ्यामित्यत्रेति बोध्यम्।। अनुपसर्जनस्येति।। अनुपसर्जनादित्युचितम्। [टि- उचितमिति।। वस्तुतः सूत्रार्थविवरणे तु व्याख्याप्रदर्शितदिशा बहुव्रीहेरित्यस्य ङीपा सम्बन्धात्पञ्चम्यन्तताया एवावश्यकत्वेन तदनुरोधेनानुपसर्जनादिति पञ्चम्यन्तमेवोचितम्। तत्फलितार्थप्रदर्शनपरे मनोरमाग्रन्थे उपधालोपिन एवेत्यस्य विकल्प इत्यनेन सम्बन्धस्याभ्युपगन्तव्यतया तस्य षष्ठ्यन्तताया एव न्याय्यतया तदनुरोधादनुपसर्जनस्येति षष्ठ्यन्तमेवोचितम्। एवञ्चात्न पष्ठ्यन्तस्यानौचित्यसूचनमेवानुचितमिति बोध्यम्।] अनुपसर्जनीभूत उपधालोपविषयो योऽन्नन्तो बहुव्रीहिस्तदन्तादित्यर्थः। अनुपसर्जनाधिकारस्य गृह्यमाणविशेषणतानैयत्येऽपि बहुव्रीहेरप्यत्र तथात्वात्तद्विशेषणत्वमविरुद्ऱम्। इत्थं च प्रियबहुराजेत्यादावन्नन्तबहुव्रीह्युत्तरपदकबहुव्रीहेरपि प्रत्ययाप्रत्ययसाधारणरूपोपहितान्नन्तत्वस्याव्याघातात्प्रसक्तस्य ङीपो निवृत्तिरनुपसर्जनाधिकारप्रयोजनमित्याशयः। न चानुपसर्जनीभूतबहुव्रीह्यन्तात्प्रातिपदिकादित्यर्थे केवलाद्बहुव्रीहेर्बहुराज्ञीत्यादौ तदनुपपत्तिः, व्यपदेशिवद्भावोऽप्रातिपदिकेनेति निषेधविषयत्वादिति वाच्यम्। तादृशनिषेधस्य धर्मिग्राहकमानानुसारेण सूत्रोपात्तान्तादिशब्दविषयताया आकरसम्मतत्वेनादोषात्। नन्वन्नन्तबहुव्रीहेरुपधालोपिनो ङीबन्तडाबन्तनान्तत्वभेदेन रूपत्रयसम्पत्त्यर्थमनो बहुव्रीहेरित्युत्तरमुपधालोपिनो वा वचनमिति कात्यायनचोदितं प्रत्याचिख्यासुना भागवता पतञ्जलिना डाबुभाभ्यामित्येतत्सूत्रघटकस्यान्यतरस्याङ्ग्रहणस्य पृथग्योगताश्रयणेन प्रकरणान्तरस्थस्यान उपधेत्यस्य नियामकत्वं व्यवस्थापितम्। यदि तत्रानुपसर्जनाधिकारसम्बन्धेन निरुक्तरीत्या वाक्यार्थस्तदा वचनारम्भदशायामनुपसर्जनाधिकारबहिर्भावेनान्नन्तबहुव्रीहित्वाविशेषादुपधालोपिविषयत्वाच्च प्रियबहुराजेत्यादौ निश्शङ्कं प्रवर्तमानस्य ङीपः प्रकृतनियमेन निवृत्तिकल्पनायामारम्भ प्रत्याख्यानयोः फलवैगुण्यलक्षणदोषदूषितत्वाद्भाष्यासङ्गतिरिति चेत्सत्यम्। प्रत्याख्यानभाष्यस्वारस्याद्वचनारम्भेपि व्यवस्थितविभाषाश्रयणादेवंविधेषु ङीपो निवृत्तिरेवेति नास्त्यारम्भप्रत्याख्यानयोः फलवैगुण्यमित्याहुः।।
के चित्तु [टि- भाष्यानुक्तव्यवस्थितविभाषाणामप्रामाणिकत्वमित् वदतो नागेशस्य रीत्या इदं समाधानमनुचितमिति चेत्तद्रीत्यापि समाधत्ते।। केचित्त्विति।।] नियमविधावन उपधेत्यत्र नास्त्यनुपसर्जनाधिकारसम्बन्ध इत्येव प्रकृतभाष्यबलात्कल्पयितुं युक्तम्। मण्डूकानुवृत्तेरप्यत्र शास्त्रे बहुशो दर्शनेन तस्योत्तरत्र सम्बन्धोपि न विरुद्धः। स्पष्टं चेदमुद्योतशेखरयोः। इत्थं च प्रियबहुराज्ञीत्यादौ ङीपः प्रियबहुधीवरीत्यादौ ङीब्रभावयोश्च प्रवृत्तिर्निर्बाधैवेत्याहुः।।
ऋन्नेभ्य इति ङीप इति।। नन्वनो बहुव्रीहेरिति निषेधाड्डाब्विधानाच्च ऋन्नेभ्य इत्यस्याप्राप्तावन्यतरस्याङ्‌ग्रहणवैयर्थ्यमूलकेन योगविभागेन सम्पाद्यमानोऽयमन्य एव ङीप्प्रत्यय इति कथमृन्नेभ्य इत्युक्तिरिति चेन्न। निषेधडापोरनुवृत्त्या तयोरेव विकल्पनेन पाक्षिकतया प्रसक्तस्य ऋन्नेभ्य इत्यस्यैवाभ्युनुज्ञानमित्याशयात्। नन्वेवमपि वनो र चेत्यस्य ऋन्नेभ्य इत्येतच्छास्त्रविहितङीबनुवादेन रभावविधायकत्वस्य व्यवस्थापयिष्यमाणतया नियमशास्त्राणां च विधिमुखेन प्रवृत्तेर्लाघवोपहितत्वेन न्याय्यत्वात्प्रकरणान्तरस्थेनान उपधेत्यनेन विहितस्य तस्य रभावसम्पादकत्वायोगाद्बहुधीवरीत्याद्यसिद्ध्या कथं नियमोपपत्तिरित्यत आह।। नियमशास्त्राणामिति।। निषेधमुखेनेति।। अन्नन्तबहुव्रीहावृन्नेभ्य इत्यनेन पाक्षिकतया योगविभागेन प्रापितस्य तस्यानुपधालोपिनि निषेध एव मुख्यः। उपधालोपिनि तत्प्रवृत्तिश्चानुवाद एवेति नायमपूर्वो ङीबिति भावः। निषेधमुखेन प्रवृत्तौ विरुद्धलक्षणाप्रयुक्तं गौरवं दोषस्तदाह।। अभिमानेनेति।। ननु निषेधमुखेन प्रवृत्तेन नियमेन बहुधीवरीत्यादौ रभावोपपत्त्या न सिद्ध्येदित्यापत्तिरयुक्तेत्यत आह।। अन्यथेति।। नन्वनो बहुव्रीहेरित्यस्य ङीब्रभावोभयविधायकवनो र चेत्येतन्मात्रबाधकत्वे ङीब्निवृत्त्या रभावनिवृत्तेरभीष्टत्वेन तद्दौर्लभ्यस्यापत्तिविषयत्वमयुक्तमत आह।। अन उपधेति।। अत्र पक्षे डाबुभाभ्यामित्यत्र योगविभागेन बहुव्रीहौ पाक्षिकतया साधितस्य ङीपो रभावसम्बन्धाभावादन उपधेत्यनेन नियतस्य तस्य रभावानुपहितत्वात्तद्दौर्लभ्यमित्याशयः। यदि च डाबुभाभ्यामित्यत्र विभक्तस्यान्यतरस्याङग्रहणस्य निषेधविकल्पबोधकत्वाद्वनो र चेति विहितस्यैव तस्य पाक्षिकतया प्रसक्तत्वेन निषेधमुखेन नियमे बहुधीवरीत्यादौ रभावस्सुलभ इत्युच्यते, तदापि दोष इत्याह।। किञ्चैवं बहुश्वेति।। ऋन्नेभ्य इत्यस्यानियतवादिति भावः। ननु येन नाप्राप्तिन्यायेन ऋत्रेभ्य इत्यस्यैवानो बहुव्रीहेरिति निषेधोऽस्तु, अन उपधेति नियमोपि तद्विषय एव, बहुधीवरीत्यादौ पाक्षिकी ङीब्रयोः प्रवृत्तिस्तु बहुव्रीहौ वेति वार्तिकायत्तैवेति न किञ्चिदनुपपन्नं तत्राह।। किञ्चेति।। सुपर्वन् शब्दे इति।। अनुपधालोपिनि बहुव्रीहौ वार्तिकाप्रवृत्तिगमकाभाव एवात्रापत्तिबीजम्। अन्त्यपक्षे डापो निषेधसमकक्षतया वन्नन्तांशे डाबन्तरूपासिद्धेरप्यापत्तिरिति बोध्यम्।। सामान्यचिन्तयेति।। बहुव्रीहौ वेति वचनमनादृत्य प्रकरणान्तरस्थस्यान इपधेत्यस्य निषेधमुखप्रवृत्तिकनियमोपपादकत्वाभ्युपगमे च नात्र पक्षे दोषः।। दुर्घट इति।। वस्तुतस्तद्विषये तदसम्बन्ध एव न्याय्य इत्यन्यत्र प्रपञ्चितमतो यथाश्रुतमेव साध्वित्याहुः।। ङीब्नेति।। यथाश्रुतेऽप्युपधालोपिनो वेति विकल्पस्य बहुव्रीहिमात्रविषयकत्वादतिबहुधामेत्यादेर्वन्नन्तान्तत्वाविशेषाच्च मन इति निषेधेन ङीपोऽप्रसत्त्या तदप्रवृत्तेरनुपसर्जनाधिकारसम्बन्धसम्पादकन्यासान्तरैकसाध्यत्वमभिवर्णयतामुपाध्यायानामाशयो [टि- उपाध्यायानामिति।। शब्दरत्नकृन्नागेश एवेत्यभिप्रायेणेदम्।] दुर्ज्ञेयः। [टि- दुर्ज्ञेय इति।। अयमत्र तदाशयः। मन इत्यत्रापि यथाकथं चित्तदन्तविधिस्वीकारेऽप्यन उपधेति सूत्रस्य बहुराज्ञीत्यादाविव बहुदाम्नीत्यादावपि ङीप्सम्पादकत्वादतिबहुदामेत्यादौ बहुव्रीहिपदेन तदन्तविधिना प्रसक्तस्य ङीपो व्यावर्तनार्थमत्रानुपसर्जनाधिकारसम्बन्ध इत्यभिप्रयतो मनोरमाकारस्य मते उपधालोपिनो वेति न्यासपक्षे ङीप्‌व्यावृत्तिर्यथाश्रुतपाठे न संघटत इत्यनुपसर्जनाधिकारसम्बन्धानुकूलः पाठ इति।। न चान उपधेति सूत्रेऽनुपसर्जनाधिकारसम्बन्धाभावप्रतिपादनपरशेखरादिविरोध इति वाच्यम्। अस्य ग्रन्थस्य मनोरमानुयायितया तद्विरोधस्याकिञ्चित्करत्वात्। शब्दरत्नकृन्मते त्वतिबहुदामशब्दात् ङीबिष्ट एव। तन्मतेऽनुपसर्जनाधिकारसम्बन्धाभावात्। वस्तुतस्तु ईदृशानामनभिधानमेवेष्टं शब्दरत्नकृतः। वनो र चेति सूत्रस्थभाष्यप्रामाण्यात्। अत एव वाक्यसमानार्थकसमासरूपाप्रदर्शनं शब्दरत्नकृतस्स्वरसतः सङ्गच्छत इति बोध्यम्।] ननु योगविभागप्रयुक्तेन नियमेनैव वार्तिकप्रत्याख्यानोपपत्तौ न्यासान्तरानुसरणं भाष्यकारस्य निष्प्रयोजनमित्युद्भावयन्नाह।। योगविभागप्रकार इति।। निषेधमुखप्रवृत्तिकनियमाभ्युपगमप्रयुक्तमत्र गौरवं द्रष्टव्यम्। एतेन नियमशास्त्राणां निषेधमुखेन प्रवृत्तिरनुचितेति सूचितमित्यलम्।।
न प्रयोगसमवायीति।। तद्विवक्षायामकज्घटकस्य तस्यानर्थक्येऽपि न यासयोरिति ज्ञापकात्प्रत्ययस्थादित्यत्रार्थवत्परिभाषाया अप्रवृत्त्या भवेत्कथं चिदेतिकेत्यादावित्त्वसिद्धिः। पचतकि धकिगित्यादिप्रयोगासिद्धिरेव दोष इत्याशयः।। ज्ञापकसाध्य इति।। क्वचिद्वर्णेभ्योपि कारप्रत्ययोत्पत्त्यभावः प्रकृतसूत्रस्थकादिति निर्देशरूपज्ञापकसाध्य इति तात्पर्यम्।
केचित्तु रोगाख्यायामिति सूत्रे बहुलग्रहणघटिते कारप्रत्ययविधायकप्रकृतवचनारम्भस्वारस्यादत्रापि बहुलग्रहणसम्बन्धस्य न्याय्यतया बाहुलकादेव क्वचिद्वर्णसङ्घातात्कारप्रत्ययोत्पत्तिः वर्णेभ्यश्च क्वचित्तदनुत्पत्तिरित्यर्थस्य सौगम्यादुभयथा ज्ञापकानुसरणक्लेशो विफल इत्याहुः।। [टि- आहुरिति।। ज्ञापकेन साधनाद्वाहुलकात्साधनं तु न लध्विति मूलकारो मन्यते।]
ककारेण व्यवधानमिति।। नन्वाब्ग्रहणस्यापि साक्षादुद्देश्यभूताकारविशेषणतायामाबव्यवहितपूर्वस्य ककारपूर्वस्येत्यर्थः किं न स्यात्। न च ककारघटितप्रत्ययोत्पत्तेः प्रागेवान्तरङ्गत्वादेकादेशप्रवृत्तावुद्देश्यभूतस्याकारस्य दौर्लभ्यान्नैतादृशो वाक्यार्थ इति वाच्यम्। ``उपजनिष्यमाणनिमित्तोऽप्यपवाद उपसंजातनिमित्तमष्युत्सर्गं बाधत इति न्यायेन पूर्वमेकादेशस्याप्रवृत्तेस्सुवचत्वात्। न चैवमप्याबव्यवहितपूर्वस्याकारस्येत्त्वविधाने पश्चाद्यणादेशस्यावश्यम्भावितया प्रक्रियालाघवाय यकारस्यैव विधातुमौचित्येनेकारविधानबलान्नैतादृशार्थलाभ इति वाच्यम्। उपसंजातविरोधन्यायेन यणादेशाप्रवृत्तिकल्पनयापि कृतार्थस्येत्त्वविधानस्य निरुक्तवाक्यार्थनिरोधकत्वे मानाभावादिति चेन्न। श्रुतत्वान्न यासयोरिति ज्ञापकाच्च कात्पूर्वत्वरूपविशेषणोपहितस्यैव निर्दिष्टपरिभाषोपस्थापितस्याप्प्रत्ययनिरूपितपूर्वत्वरूपविशेषणसम्बन्ध इत्याशयात्।। अकारशब्देनेति।। मूले इति शेषः।। अनुद्यमानविशेषणत्वादिति।। ननु तस्मादिति परिभाषोपस्थाप्यस्याव्यवहितत्वाशस्य परत्वांशसन्नियुक्ततया प्रकृते पूर्वत्वांशस्य सूत्रे प्रतिपादनात्तद्विरोधेन परत्वाशानुपस्थित्या नात्राव्यवहितत्वांशप्रवृत्तिसम्भव इति चेन्न। परत्वाव्यवहितत्वांशयोरसन्नियोगेनैव तत्र तत्र प्रवृत्तेरभीष्टत्वात्। अत एव व्यवहिताश्चेति चरितार्थम्। अन्यथा ते प्रग्धातोश्छन्दसि परेपीति सूत्रयोः पूर्वत्वपरत्वांशयोरुपादानेन परत्वानुपस्थित्या तत्सन्नियुक्तस्याव्यवहितत्वांशस्याप्रवृत्तेस्तद्वैयर्थ्यं स्पष्टमेव। इत्थं च मिदचोन्त्यात्परः पूर्वौ तु ताभ्यामैजित्यादौ केवलस्याव्यवहितत्वांशस्य प्रवृत्तेर्निर्विवादत्वात्तद्विधेयस्य व्यवधानेन प्रवृत्तिः। ज्ञापकं च सामान्यापेक्षम् । असति बाधके प्रमाणानां सामान्ये पक्षपातात्। तेन तस्मिन्निति परिभाषोपस्थाप्यस्याव्यवहितत्वांशस्यकेवलस्योपस्थितिसम्भवात्कपि पूर्वं ढ्रलोप इत्यादावव्यवहित एव निमित्ते कार्यप्रवृत्तिः। ध्वनितं चेदं परश्चेति सूत्रे भाष्ये। तत्र हि धातुप्रातिपदिकादिरूपप्रकृतीनां पञ्चम्यन्तत्वेन निर्देशात्परिभाषयैव परत्वांशोपस्थितावारभ्यमाणं तत्सूत्रं प्रत्ययनिरूपितपूर्वत्वेनैव प्रकृतेः प्रयोगः, प्रकृतिनिरूपितपरत्वेनैव प्रत्ययस्य प्रयोग इत्येवं विनिगमनाविरहप्रयुक्तस्योभयविधनियमस्य सम्पादनार्थमित्युक्तम्। अन्यथा सूत्रोपात्तपरत्वांशस्य परिभाषोपस्थाप्यपरत्वांशसन्नियुक्तस्याव्यवहितत्वांशस्यानुपस्थितये सार्थक्यात्तदसङ्गतिस्स्पष्टैवेति दिक्।।
पूर्वापरविरोध इति।। स्थाने ग्रहणादनुवादे परिभाषाणामप्रवृत्तिज्ञापनस्या प्रकृतसूत्रे चाप्ककारयोः सामर्थ्यहेतुकाकारव्यवधानबाधोपपादनद्वारेणानुवादे परिभाषाप्रवृत्तिप्रतिपादनस्य च परस्परविरोध इत्यर्थः। अतो न युक्तं प्राचीनोक्तमिति पूलकाराशयमुत्प्रेक्षते। नन्वनुवादे परिभाषाप्रवृत्तेरभीष्टत्वे वैयर्थ्यमुदीचामित्यत्र स्थानेग्रहणस्य दुर्वारमत आह।। यदि त्विति।। ज्ञापनासम्भवादिति।। स्वांशे चारितार्थ्याभावादित्याशयः। अनुवादे परिभाषाप्रवृत्तिप्रयुक्तं दूषणमुद्धरति।। वृद्धसंज्ञायामित्यादि।। मालादीनां चेति।। तद्धि मालाप्रस्थ इत्यादौ प्रस्थशब्दोत्तरपदकसमासे पूर्वपदभूतानां मालादीनामाद्युदात्तत्वं विधत्ते, वृद्धसंज्ञायामिक्परिभाषाप्रवृत्तौ च मालादीनामवृद्धत्वात्प्रस्थे वृद्धमित्येव सिद्धे व्यर्थं सदनुवादेष्विक्परिभाषाया अप्रवृत्तिं ज्ञापयतीति भावः।। निर्मूलमिति।। नन्वेवमच्परिभाषाया अनुवादे प्रवृत्तिर्दुर्वारा, ततश्च शिवच्छाया घनच्छविरित्यादौ छे चेति ह्रस्वस्य विधीयमानस्तग्न स्यात्। तथा दीर्घाज्जसि चेति विधीयमानः पूर्वसवर्णदीर्घप्रतिषेधो गौर्य इत्यत्र न स्यादत आह।। यद्वेति।। अध्याहारादिति।। आकाङ्क्षापूर्तये क्रियासम्बन्धस्यावश्यकत्वेन विधानं प्रधानमिति तस्यैवाध्याहार इति तात्पर्यम्। वस्तुतो मालादीनां चेति ज्ञापकादिक्परिभाषायां ह्रस्वात्तादाविति ज्ञापकादच्परिभाषायां च विधानक्रियाध्याहारो, नान्यत्र, मानाभावादिति निरूढः पन्थाः।। सन्निहितत्वादिनैवेति।। न तु लक्ष्यविसंवादेन, निर्दिष्टपरिभाषाबोध्याव्यवहितत्वांशस्यानुवादेष्वपि प्रवृत्तेर्निर्विवादत्वादित्याशयः।। असम्भवादिति।। मूले तु निरुक्तार्थस्य स्थवीयत्वे सुग्रहोऽयं हेतुरिति नोपन्यस्तः। कात्पूर्वस्याकारस्येद्भवति स आप्परक इत्युक्तौ तु वाक्यभेदप्रयुक्तं गौरवम्। आप्परकत्वस्यापूर्वत्वेन विधेयतया तथाभूतस्य कारक इत्यादौ पुंस्यपि प्रवृत्तिप्रसङ्गश्च। एतेन लिट्‌परककृभ्वस्तीत्यनुप्रयोगवत्प्रकृतेपि विशिष्टविधाने न वाक्यभेदो नापि विशेषणविशेष्यभावानुपपत्तिरित्यपास्तम्।। कादौ प्रत्यये इति।। ककारवति प्रत्यये इत्यपि नार्थोऽस्मादेव ज्ञापकादिति बोध्यम्। मूलकारोक्तमव्ययसाहचर्यं स्फोरयितुमाह।। दक्षिणापश्चादिति।।
कथं तल्लाभ इति।। अत्र केचित्। स्त्रीलिङ्गनिर्देशबलादाश्रीयमाणेऽर्थे प्रत्ययत्ववत्प्रतिपदोक्तत्वमपि कल्पनाविषयत्वमधिगच्छत्यौचित्यात्। न हीदं परिभाषायत्तम्। येन विशिष्य तदुपादानमपेक्ष्येत। भाष्येऽपि स्त्रीलिङ्गनिर्देशबलात्स्त्रीविषयो य आकार इत्यर्थो लभ्यत इत्युक्तम्। तत्र स्त्रीविषय इत्यस्य स्त्रीवाचक इत्यर्थस्तु न युक्तः। द्योतकतापक्षस्यासङ्‌ग्रहापत्तेः। स्त्रीविषयकबोधप्रयोजक इत्यपि नार्थः। शुभंयिकेत्यादावप्याकारस्य तथात्वेनानिष्टप्रसङ्गात्। अतस्त्य्रधिकारविषय इत्यर्थस्य न्याय्यतया निरुक्तार्थ एव पर्यवसानम्। इत्थं च स्त्रीलिङ्गनिर्देशबललभ्यार्थानुवाद एवात इति निर्देशः। एतेन आपो यकपूर्वस्येत्येव सिद्धे स्त्रीलिङ्गनिर्देशो निष्फल इति प्रत्युक्तम्। लघुभूतेन स्त्रीलिङ्गनिर्देशेनैवोपपत्तावपूर्वस्याप इत्यस्य गौरवाधायकत्वेनायुक्तत्वादिति मूलकाराशयमुत्प्रेक्षन्ते।। [टि- उत्प्रेक्षन्त इति।। वस्तुतस्तु स्थानेग्रहणसद्भावे स्त्रीलिङ्गनिर्देशबलकल्प्यमानार्थस्यावयवावयविभावेन अत इत्यनेनान्वयस्य दुर्वचत्वेन तदानीं कल्प्यमानार्थस्य स्त्रीप्रत्ययरूपत्वे स्त्रियामित्यधिकृत्य विहित इत्येतद्रूपत्वे वा फले विशेषाभावेन स्त्रीप्रत्यय इत्यर्थकल्पनेनैवाभीष्टसिद्ध्या गौरवान्मानान्तराभावाच्च भाष्ये स्त्रीप्रत्यय ित्यस्य वाचकत्वद्योतकत्वपक्षमाधारण्येन स्त्रीविषयकबोधजनक इत्यर्थकत्वेनापि शुभंयिकेत्यादावनिष्ठप्रसक्त्यभावेन स्त्य्रधिकारविषय इत्येतावत्पर्यन्तानुधावनस्य व्यर्थत्वाच्च स्त्रियामित्यधिकारविहितरूपार्थस्य स्त्रीलिङ्गबलात्कल्पयितुमशक्यतया प्रतिपदोक्तस्येत्यर्थलाभस्य परिभाषामात्रसाध्यत्वात्तस्य चिन्तयतां मूलकार अभिप्रैतीति बोध्यम्।।]
आहुरिति।। नन्वादन्तप्रकृतिकतया क्विप्प्रत्ययस्यानभिधाने प्रमाणाभावः। न च नदीसंज्ञासूत्रस्थं स्त्य्राख्याशब्दस्य विजन्तत्वेनोपपादनपरं भाष्यमत्र प्रमाणम्। अन्यथा प्रचुरप्रयोगविषयतया प्रसिद्धेन क्विप्प्रत्ययेनैव तदुपपत्त्या दृशिग्रहणबोधितासार्वत्रिकत्वोपहितविच्प्रत्ययपर्यन्तानुधावनपरिक्लेशस्य नैष्फल्यमापद्येतेति वाच्यम्। छन्दोवत्सूत्राणीति भागवतो भाष्यकारस्यातिदेशबलेन सूत्रेषु छान्दसकार्यप्रवृत्तेर्निर्विवादतया छन्दस्यादन्तप्रकृतिकत्वेन विशेषविहितत्वात्प्रक्रियालाघवोपहितत्वाच्च तत्र विच एव न्याय्यतया तस्यादन्तप्रकृतिकक्विप्प्रत्ययानभिधानकल्पनायोगात्। न च घुमास्थेति सूत्रस्थस्येत्त्वे वकारप्रतिषेध इति वार्तिकस्य तत्प्रत्याख्यानस्य च फलैक्यसमर्थनमुक्तार्थे प्रमाणम्। अन्यथा वर्चोदा इत्यादौ वार्तिकनये क्विबुत्पत्तावीत्वाप्रवृत्तिः। प्रत्याख्याने च तत्प्रवृत्तिरिति फलवैलक्षण्येन प्रत्याख्यानमसङ्गतमिति वाच्यम्। ईत्वे वाकारप्रतिषेधो घ़तपावात इति दर्शनादित्येवं क्वनिबन्तपावन्‌शब्दगतेत्वनिवृत्तिरूपप्रयोजनविशेषसंवलनेनैव कात्यायनेन वार्तिकस्यारब्धतया तस्य क्विबन्तलक्ष्यगतेत्वप्रवृत्तिप्रतिबन्धकत्वे मानाभावेन वचनारम्भेपि तत्रेत्वप्रवृत्तेस्सुवचतयाऽरम्भप्रत्याख्यानयोः फलवैलक्षण्यस्य दुर्वचत्वात्। न च वार्तिककारोपदर्शितप्रयोजनस्य वार्तिकरूढतया वचनारम्भे धीवरीत्यादौ प्रतिषेधप्रवृत्त्यापादनं सम्प्रसारणदीर्घाभ्यां तदुपपत्तिप्रतिपादनं च भाष्यकारीयमसम्बद्धं स्यात्। अतः क्विबन्तविषयेपि वचनारम्भे प्रतिषेधस्य प्रसक्ततया फलभेदो दुर्वार इति वाच्यम्। धीर्ध्यायतेर्दधातेर्वेति जनसनेति सूत्रस्थभाष्यस्वारस्याद्धिसकारे सिचो लोप इत्येतद्वचनवदस्याप्यारम्भविरुद्धफलसम्पत्त्यर्थमेव भाष्यकृता प्रत्याख्यातमिति वक्तुं शक्यत्वेन निरुक्तफलभेदस्य दोषापादकत्वायोगात्। अत एव वचनारम्भफलस्य घृतपावान इत्यादेः कित्त्वविरहितेन वनिपा समर्थनमेव प्रत्याख्याने प्रदर्शितं न तु क्वनिपि प्रवर्तमानस्येत्वस्य निवृत्त्युपायो दर्शितः। आदन्तप्रकृतिकानां क्वनिबन्तानामनभिधानं, दधातेर्वेत्युक्तिरेकदेशिन इति वर्णनं तु साहसमात्रम्। अस्तु यत्र फलभेदस्तस्यानभिधानम्। आदन्तमात्रात्क्विप्प्रत्ययानभिधानकल्पनं तु दुराग्रह एवेत्यरुचिमभिसन्धायाह।। कैयटस्त्विति।। एवञ्च घुमास्थेत्येतत्सूत्रविषयव्यतिरिक्तेभ्य आदन्तेभ्यः प्रचुरप्रयोगविषयस्य क्विप एव कल्पनं युक्तमिति गूढाशयः।।
स्वाशब्दादत्यन्तस्वार्थिके इति।। इदं तु चिन्त्यम्। [टि- चिन्त्यमिति।। वस्तुतोऽस्य ग्रन्थस्य चिन्त्यत्वकथनमसङ्गतमेव। किन्तु मतभेदपरतया व्याख्यानमुचितम्। तथाहि। मनोरमाकाररतु, आर्यिकेत्यत्रेत्त्वविकल्पमभ्युपगच्छन् तत्सिद्धयेऽत्यन्तस्वार्थिकेष्वपि ङ्याब्ग्रहणसम्बन्धमभ्युपेत्य तेषामपि ङ्याबन्तादेवोत्पत्तिमङ्गीकरोति। स्पष्टं चेदं ङ्याप्‌सूत्रे मनोरमायाम्। तन्मते स्विकायामिति मनोरमाग्रन्थस्य प्रतीकमुपादाय स्वाशब्दादत्यन्तस्वार्थिके के इत्त्वे साधुरिति व्याख्यानं सम्यगेव। न न्वेवं सति तत्र भस्त्रैषेति विकल्पस्य दुर्वारतया वैकल्पिकेत्त्वमिति व्याख्यानं सम्यगेव। न न्वेवं सति तत्र भस्त्रैषेति विकल्पस्य दुर्वारतया वैकल्पिकेत्त्वमिति व्याचक्षाणानामुपेक्ष्यत्वकथनं मनोरमाकारस्यासङ्गतं स्यादिति चेत्सत्यम्। इदमेवासाङ्गत्यमभिप्रेत्य व्याचक्षाणा इति प्रतीकमादायाकचमुक्‌त्वा वैकल्पिकमित्त्वं व्याचक्षाणा इत्यर्थमुपवर्ण्य प्रकारान्तरेण शब्दरत्नकृता तद्ग्रन्थसङ्गतिरुपपादिता। अनेन ग्रन्थसन्दर्भेण स्विकायामित्यत्रेत्त्वविकल्पो मनोरमाकारसम्मत इति स्पष्टमेव प्रतीयते। शब्दरत्नकृताऽत्र चिन्त्यतायां व्याख्यात्रा प्रदर्शितान् हेतून् मनसि निधायात्यन्तस्वार्थिके के ङ्याब्ग्रहणा सम्बन्धं प्रतिपाद्य आर्यिकेत्यत्न नित्यमेवेत्त्वं सत्यभिधाने इति ङ्याप्‌सूत्रे प्रतिपादितम्। एवं मतविभागेन ग्रन्थलापने कर्तव्ये तदुपेक्ष्य शब्दरत्नग्रन्थस्य चिन्त्यत्वकथनं मन्दमध्यमाधिकारिणामातङ्कजनकतया न युक्तमिति बोध्यम्।] स्वार्थद्रव्यलिङ्गसंख्याकारकप्रयुक्तकार्याणां तत्तदर्थोपस्थितिक्रमानुसारिणा बहिरङ्गान्तरङ्गभावेनैव प्रवृत्तेः कुत्सित इति सूत्रस्थाकरसम्मतत्वेन प्रवृत्तिनिभित्तात्मकस्वार्थमात्रानुवादकानामत्यन्तस्वार्थिकानां बहिर्भूतलिङ्गसम्बन्धबोधकप्रत्ययोत्पत्तेः पूर्वमेव भवितव्यतया टाबन्तात्तदुत्पत्तेरयोगात्। न च ङ्याब्ग्रहणकृतनियमेन तद्धितत्वाविशेषादत्यन्तस्वार्थिकानामपि ङ्याबन्तादेवोत्पत्तिरत एवात्यन्तस्वार्थिके कनि लोहिनिकेत्यादिसिद्धिः। अन्यथा प्रथममेवान्तरङ्गत्वात्कनि तदसिद्धिस्स्पष्टैवेति वाच्यम्। लोहिनिकेत्येतदुदाहरणसमर्थनोपायतया कात्यायनेन लोहिताल्लिङ्गबाधनं वेति वचनारम्भबलेनात्यन्तस्वार्थिकेषु तादृशनियमाप्रवृत्तेः। अत एवात्यन्तस्वार्थिके कनि श्येनिकेत्याद्यनिष्टप्रयोगव्यावृत्तिः। किञ्च निरुक्तवचनेनैव लोहिनिकेत्येतत्सिद्धिमास्थाय ङ्याब्ग्रहणप्रयुक्तस्तादृशनियमस्सूत्रशेषे भाष्यकृता प्रत्याख्यातः। अत एव प्रकृतनियमस्य समासान्तविषये बहुगोमत्केत्यादौ दोषमाशङ्क्य समासान्तगतपरत्वेन समाहितम्। नियमस्य प्रत्याख्यानाभावे च सकलतद्धितसाधारणपरत्वेन पट्वितरेत्यादौ तद्धितोत्पत्तेः पूर्वं प्रसक्तस्य स्त्रीप्रत्ययप्रवृत्तिप्रतिबन्धस्य निवारणाय समारब्धस्य तादृशनियमस्य समासान्तगतपरत्वेन वारणायोगत्तदसङ्गतिरेव। अपि च ङ्याब्ग्रहणप्रयुक्तस्तादृशनियमस्स्वार्थादिप्रयुक्तकार्यगतान्तरङ्गबहिरङ्गभावसिद्धार्थानुवाद एव नापूर्वो, लाघवात्। तथा च स्वार्थादिपञ्चकबहिर्भूतयत्किञ्चिदर्थाभिधायकतद्धितविषयोऽयं नियमो न त्वत्यन्तस्वार्थिकविषय इत्येव भाष्यवार्तिकयोः स्वरसः। पट्वितरेत्यादौ लिङ्गसम्बन्धबहिर्भूतप्रवृत्तिनिमित्तगतप्रकर्षबोधकस्यातिशायनिकस्येव तथाविधकुत्साभिधायकस्य कनस्स्त्रीप्रत्ययान्तादेवोत्पत्तावुदीचामातः स्थाने इत्येतत्सूत्रविषयताया निर्बाधत्वादार्यकेत्यस्योपपत्त्या न तदर्थमप्यपूर्वतादृशनियमाभ्युपगमपरिक्लेशस्योपयोगः। इत्थं च स्विकायामिति श्रीहर्षप्रयोगस्याकारस्थानिकह्रस्वाकारोद्देश्यकेत्त्वविकल्पबोधक भस्त्रैषेत्येतत्सूत्रविषयताप्रयुक्तसाधुत्वसमर्थनाय टाबन्तादत्यन्तस्वार्थिकप्रवृत्तिप्रतिपादनाभिनिवेशो न्यायविरोधात्प्रमाणविरोधादन्यत्रोपपादितस्वग्रन्थविरोधाच्च प्रामादिक इति वदन्ति।।
केचित्तु प्रयुक्तानामिदमन्वाख्यानं प्रयोगे चार्थानामुपस्थितेः क्रमानुपलम्भात्तदीयपौर्वापर्यप्रयुक्तान्तरङ्गबहिरङ्गभावस्य कार्याणां दुर्वचतया विप्रतिषेधशास्त्रबलेन ङ्याबन्तात्तद्धितानामसाधुत्वप्रसक्तौ नियमार्थस्सूत्रकृतो ङ्याब्ग्रहणारम्भः। तथाविधानियमस्य समासान्तेषु दोषमाशङ्क्य परत्वाद्भविष्यन्तीति परिहृतं भाष्यकृता। तत्र परत्वादित्यस्याष्टाध्यायीपाठकृतपरत्वाभिप्रायकत्वे भाष्यासङ्गतिरिति ङ्यापोः परकालप्रवृत्तिकत्वाभिप्रायकम्। समासान्ता हि समाससंज्ञातः पूर्वमेवालौकिके प्रक्रियावाक्ये प्रवर्तन्ते, ततश्च समाससंज्ञोत्तरभाविनीं प्रातिपदिकसंज्ञामुपजीव्य प्रवर्तमानाभ्यां ङ्याभ्यां बाधायोगात्समासान्तेषु न दोष इति भागवदाशयः। तथा च नियमप्रत्याख्यानं नास्माद्भाष्यादवगम्यते। किन्तु यत्रार्थोपस्थितिक्रमानपेक्षमन्यादृशमन्तरङ्गत्वं तत्र नायं नियमः प्रवर्तत इत्येतावन्मात्रमवगम्यते। अत एव कालिकेत्यत्र कालाच्चेति विहितेन प्रतिपदोक्तत्वरूपान्तरङ्गत्वोपहितेन कन्प्रत्ययेन नियमस्य बाधनमुद्भाव्य कन्नन्ताट्टापि प्रत्ययस्थादितीत्त्वमिति समाहितम्। लोहिनिकेत्येतत्समर्थनोपायभूतं लोहिताल्लिङ्गबाधनं वेति वचनमप्येतदभिप्रायकमेव, कालाच्चेति सूत्रस्थचकारेण हरिणशब्दोऽपि समुच्चीयत इत्येव हरिणिकेत्यत्र कन्प्रत्ययेन नियमबाधनोपपादनपरभाष्यस्वरसः। तस्मान्न सामिवचन इति निषेधारम्भबलेन ज्ञापितस्यात्यन्तस्वार्थिकस्य ङ्याबन्तादुत्पत्तौ न किञ्चिद्बाधकमित्याहुः। [टि- आहुरिति।। परेतु प्रयुक्तानामन्वाख्यानेऽपि प्रयोगसाधुत्वान्वाख्यानाय कल्पिते प्रक्रियावाक्ये प्रकृतिप्रत्ययादीनां वस्तुतोऽर्थवत्त्वाभावेऽपि च कल्पितमर्थवत्त्वं कल्पितमेव तत्तदर्थानामुपस्थितिक्रमं चाभ्युपेत्यैव शास्त्रप्रक्रिया निर्वाह्येति कुत्सित इति सूत्रभाष्यसम्मता शास्त्रमर्यादा। प्रयोगे तत्तदर्थानामुपस्थितिक्रमाभावेऽपि प्रक्रियादशायां कल्पितस्य क्रमस्य दुरपह्नवतया तादृशक्रमापेक्षस्तत्तत्कार्याणामन्तरङ्गबहिरङ्गभावः प्रक्रियानिर्वाहकतया अभ्युपगम्यते। इमां रीतिमनुसृत्य स्त्रीप्रत्ययानां तद्धितेभ्यः पूर्वमुत्पत्तौ बाधकाभावेन स्त्रीप्रत्ययान्तेभ्यः प्रत्ययान्तत्वेन प्रातिपदिकसंज्ञाभावे। स्वाद्यनापत्तौ तत्परिहाराय कृतं ङ्याब्ग्रहणं लिङ्गविशिष्टपरिभाषामाश्रित्य प्रत्याख्यातं भाष्ये। अनन्तरं कुत्सित इति सूत्रस्थभाष्योक्तार्थमपर्यालोच्य ``तद्धितविधानार्थन्तु इति ङ्याब्ग्रहणस्य नियमार्थत्वं प्रतिपादितं भाष्ये। इदं च भाष्यं कुत्सित इति सूत्रस्थभाष्यार्थापर्यालोचनमूलकतया न सिद्धान्तसम्मतम्। तदुत्तरं समासान्तानामलौकिके प्रक्त्रियावाक्ये प्रवृत्तिमपर्यालोचयता नियमार्थत्वपक्षे समासान्तेषु दोष उद्भावितः। अनन्तरं प्रसक्तानुप्रसक्त्या स्त्रीप्रत्ययानां स्वार्थिकत्वमुपपाद्य पूर्वपक्ष्याशयानुरोधेन समासान्तेष्वापादितो दोषस्समासान्तानामपि स्वार्थिकत्वादुभायोः स्वार्थिकयोः परत्वात्समासान्ता भविष्यन्तीत्यनेन परीहृतः। अयं च परिहारो ङ्यब्ग्रहणप्रत्याख्यानाभिप्रायेणैव। अन्यथाऽधिकारत्रयसामर्थ्यात् ङ्याभ्यां पूर्वं तद्धितोत्पत्तेः कथमप्यसम्भवेनैतत्परिहारासङ्गतिः स्पष्ठैव। अत एव कैयटे समासान्ता अपीति प्रतीकमुपादाय ``ङ्याब्ग्रहणप्रत्याख्यानेन समासान्तेषु परिहारः इत्युक्तम्। एवं च प्रत्याख्यानमेव भाष्यसम्मतमित्याकरात्स्पष्टमवसीयते। किञ्च परत्वादित्यस्योत्तरकालप्राप्तिकत्वादित्यर्थकथनमसङ्गतम्। तस्य हेतोः समासान्तरूपपक्षावृत्तित्वात्। समासान्ता अपि स्वार्थिकाः, उभयोः स्वार्थिकयोः परत्वात्समासान्ता भविष्यन्तीति भाष्याक्षरस्वारस्यभङ्गापत्तेश्च। परत्वादिति प्रतीकमुपादाय विप्रतिषेधोपपादककैयटेनाष्टाध्यायीपाठकृतपरत्वस्यैवात्र विवक्षितत्वलाभाच्च। किञ्च भवदुक्तरीत्या उत्तरत्र कथं कालिकेति प्रश्नस्य यथाकथंचिदुपपत्तावपि तदुत्तरं कथं हरिणिकीति प्रश्नस्योपपत्तिर्न सम्भवति। तत्र कनः प्रतिपदोक्तत्वरूपान्तरङ्गत्वासम्भवात्। कालाच्चेति सूत्रे चकारेण हरिणशब्दस्य सङ्ग्रह इति तु न सम्यक्। तत्र हरिणशब्दस्याप्रकृतत्वात्। अनुक्तसमुच्चायकत्वमपि न युक्तम्। मानाभावात्। एवञ्चात्यन्तस्वार्थिकानाराभ्य ङ्याब्ग्रहणासम्बन्ध एव भाष्यसम्मत इत्यन्यत्र प्रतिपादितत्वेन न सामिवचन इत्यनेन ज्ञापितस्यात्यन्तस्वार्थिकस्य ङ्याबन्तादुत्पत्त्यङ्गीकारोऽसमञ्जस एवेत्याहुः।]
ननु स्विकायामित्यस्य निरुक्तरीत्यात्यन्तस्वार्थिके कन्युदीयामात इत्येतत्सूत्रविषयताया निर्बाधत्वेन तथा व्याचक्षाणानामुपेक्ष्यत्वकथनमयुक्तमत आह।। अकचमिति।। तत्रात्स्स्थानिकाकारस्य दुर्लभत्वमुपेक्षाहेतुरिति तात्पर्यम्।। भस्त्राशब्दसाहचर्येणेति।। अजाशब्दसाहचर्येणेत्यपि बोध्यम्।। व्याख्यानेनेति।। एतद्‌द्वीति वक्तव्ये तथा निर्देश एव व्याख्यानबीजमिति द्रष्टव्यम्।। आत सथानिकत्वाभावादिति।। अजशब्दान्तबहुव्रीहेश्शैषिके कपीति भावः।।
समासरूपप्रातिपदिकत्वाभावादिति।। कृत्तद्धितेति सूत्रादनुवर्तमानस्य समासपदस्य षष्ठ्या विपरिणामो ह्रस्वो नपुंसके इत्यतः प्रातिपदिकपदस्य च सम्बन्ध इत्याशयः। इदन्तु बोध्यम्। शास्त्रीयमत्रोपसर्जनत्वं विवक्षणीयम्। तेन राजकुमारीमिच्छत्राजकुमारीमाचरन्वा ब्राह्मणो राजकुमारीत्यत्र न ह्रस्वः। तस्य स्वार्थविशिष्टार्थान्तरोपस्थापकत्वरूपलौकिकोपसर्जनत्वेपि विग्रहवाक्यीयनियतविभक्तिकत्वादिरूपशास्त्रीयोपसर्जनत्वाभावात्। किञ्च प्रत्यासत्त्या ह्रस्वचिकीर्षाविषयसमासनिरूपितमेवात्रोपसर्जनत्वम्। तेन रीजकुमारीपुत्र इत्यादौ पूर्वपदात्मक समासस्य न ह्रस्वः। तस्य समासशास्त्रीयप्रथमान्तपदबोध्यत्वरूपविशिष्टसमासनिरूपितोपसर्जनत्वेपि यस्य ह्रस्वश्चिकीर्षितस्तत्समासनिरूपितोपसर्जनत्वाभावादिति।।
गृह्यमाणविशेषणत्वादिति।। नन्वनुपसर्जनाधिकारसम्बन्धाभावे तदधिकारसम्बन्धसार्थक्यसमर्थनाय परिकल्प्यमानस्तदन्तविधिर्दुर्लभ एवेति कथं तदन्तात्तिप्रत्ययप्रसङ्गः। यस्योपसर्जनांशे प्रवृत्तिवारणाय स्त्रियामित्यस्य गृह्यमाणविशेषणत्वमाश्रीयत इति चेन्न। अमहत्पूर्वग्रहणेन स्त्रीप्रत्ययमात्रे तदन्तविधेर्ज्ञापनादनुपसर्जनाधिकारबहिर्भावेप्यत्र तदन्तविधिप्रसक्तिरित्याशयात्। न चामहत्पूर्वग्रहणेनैव सामान्येन स्त्रीप्रत्ययविषये तदन्तविधिज्ञापनसम्भवादनुपसर्जनाधिकारेण पुनस्तदन्तविधिज्ञापनप्रयासो भाष्यकारादीनां निष्फल इति वाच्यम्। स्त्रीत्वाविवक्षया कुक्कुटाण्डवत्समासे ततस्श्त्रीत्वविवक्षायां जातिवाचकशूद्रशब्दान्तस्वादिना परमशूद्रेत्यादवनुपसर्जने टाबादिसम्पादकतया तदन्तविधिज्ञापनेन कृतार्थस्यामहत्पूर्वग्रहणस्योपसर्जनानुपसर्जनसाधारण्येन तदन्तविधिज्ञापने मानाभाव इत्याशयेन तदुभयसाधारणस्यातिधीवरीत्यादिप्रयोजननिर्वाहकस्य तदन्तविधेरनुपसर्जनाधिकारेण पुनर्ज्ञापनप्रवृत्तेरदोषात्। न च स्त्रियामित्यस्य गृह्यमाणविशेषणत्वेपि बह्वीभिर्युवतिभिः क्रीता बहुयुवेत्यादावार्हीये ठक्यध्यर्थेति लुकि लुक्तद्धितलुकीति स्त्रीप्रत्ययलुक्यवयवभूतयुवन्शब्दार्थसमवेतस्त्रीत्वमुपादाय समुदायात्प्रसक्तस्य तिप्रत्ययस्य वारणायानुपसर्जनाधिकारसम्बन्धस्यावश्यकत्वादिदमयुक्तमेवेति वाच्यम्। अवयवस्त्रीत्वप्रयुक्तस्य तस्य सकृत्प्रवृत्ततया लक्ष्ये लक्षणस्येति न्यायेन पुनरप्रवृत्त्यैव निर्वाहेणानुपसर्जनाधिकारसम्बन्धस्यानुपयोग इत्याशयात्।। प्रहकृतिविशेषणताया इति।। अन्यथा बहुकुरुचरेत्यादाववयवस्य स्त्रीत्वाभावादेव समुदायाट्टिदन्तत्वादिप्रयुक्तङीबादिव्यावृत्त्या व्यर्थ एवायमनुपसर्जनाधिकार ित्याशयः। वस्तुतो नात्र ज्ञापनापेक्षेत्याह।। प्राधान्येनेति।। श्रुतसम्बन्धादपि प्रधानसम्बन्धो बलवानित्यभिसन्धिः। स्त्रीप्रत्ययानां प्रकृतिजन्यबोधीयमुख्यविशेष्यगतस्त्रीत्वबोधकतानैयत्यात्। प्रातिपदिकादित्यनेन क्लृप्तस्य त्यागायोगाच्चेत्यपि बोध्यम्। गृह्यमाणस्यैवेति।। अन्यथा बहुकुरुचरेत्यादिनामप्यनुपसर्जनत्वेन व्यावर्त्यालाभो ज्ञापनानुपपत्तिश्चेति भावः।। कौम्भकारेयसिद्धिरिति।। नन्वनुपसर्जनाधिकारज्ञापिततदन्तविध्यभावेपि प्रत्ययग्रहणपरिभाषालब्धतदन्तविधिना कारशब्दादेव ङीबुत्पत्तावपि स्त्रीप्रत्यये चानुपसर्जने नेति तदादिनियमनिषेधेन कारशब्दप्रकृतिकेनापि ङीपा स्त्रीप्रत्ययान्तत्वानपायात्स्त्रीप्रत्ययान्तस्यापत्येन योगे विधीयमानस्य ढकः कुम्भकारीशब्दादुत्पत्तौ बाधकाभावान्नेदमस्य तदन्तविधेः प्रयोजनमत आह।। अन्यथेति।। तदादिनियमनिषेधादधिकसङ्ग्रह एव, न तु स्त्रीप्रत्ययविधानावध्याद्यवयवकसमुदायस्य स्त्रीप्रत्ययान्तत्वाभाव इत्याशयः।। अशक्यत्वा दिति।। नान्तरीयकत्वमत्र हेतुः।।
ततोऽपि ढकीति।। ननु सुप आत्मन इति सूत्रे भाष्ये ``सविशेषणानां सर्वत्रावृत्तिरयोगादेकेनेत्युपक्रम्य क्व सर्वत्र, समासविधौ प्रत्ययविधौ च, ऋद्धस्य राज्ञः प्ररुषः ऋद्धस्योपगोरपत्यमित्युदाहृत्य षष्ठ्यन्तस्य सुबन्तेन सामर्थ्ये समासो विधीयते, यच्चात्र षष्ठ्यन्तं, न तत्सुबन्तेन समर्थम्। यस्य च सामार्थ्यं न तत् षष्ठ्यन्तं वाक्यं तत्। एवं षष्ठीसमर्थादपत्येन योगे प्रत्ययो विधीयते। यच्चात्र षष्ठीसमर्थं न तस्यापत्येन योगः। यस्य चापत्येन योगो न तत् षष्ठीसमर्थम्, वाक्यं तदि त्युक्तम्। ततश्च यादृशार्थस्यापत्यादिना योगस्तादृशार्थोपस्थापकवृत्तिपर्याप्त्यधिकरणीभूतादेव प्रातिपदिकात्प्रत्यय इत्यर्थस्य पर्यवसानात्कुम्भकारीशब्दार्थस्यापत्येन योगे कारीशब्दात्तदर्थप्रत्यायकः प्रत्ययः कथं प्रवर्तत िति चेदत्र केचित्। पृथगुपस्थितिविषयानेकार्थगतनिरूप्यनिरूपकभावापन्नविषयतावगाह्येकोपस्थितिनियामकश्शक्तिविशेष एकार्थीभावः। समासादिवृत्तिप्रयोजकतया विकल्प्यमानस्यास्य शक्तिविशेषस्य प्रत्येकमवयवानां स्वातन्त्र्यवारणार्थमाश्रीयमाणा समुदायगता पर्याप्तिर्लक्ष्यानुरोधात्क्वचिदवयवेष्वप्यभ्युपगम्यते। अत एव परमगार्ग्यस्यापत्येन योगेपि गार्ग्यशब्दादेवापत्यार्थकः प्रत्यय इति प्रत्ययग्रहणपरिभाषाप्रयोजनप्रदर्शनावसरे भाष्यकृता व्यवस्थापितम्। भूतकालिको भविष्यत्कालिक इत्यादिप्रयोगाणामप्ययमेव समर्थनोपायः। उत्तरपदे परतस्समासानुशासनमप्यत्रैवार्थे तात्पर्यग्राहकम्। निष्कृष्य वृथगोकार्थीभावकल्पना तु न युक्ता। द्वाभ्यामेकार्थीभावाभ्यां प्रत्येकं तत्तदर्थोपश्तितौ बोधवैजात्यापत्तेः। समुदायगतैकार्थीभावजन्योपस्थितेरवयवगततज्जन्योपस्थितिं प्रति प्रतिबन्धकत्वमिति तु न युक्तिमत्। तस्याश्शक्तेरुपस्थित्येकजीवनत्वात्। अत एवैनामभियुक्ताः स्मारकशक्तिरिति व्यवहरन्ति।। प्रकृतसूत्रस्थेनापि समासघटककारीशब्दादपत्यार्थकप्रत्ययापादनपरेण भाष्येणायमेवार्थो ध्वन्यते। ऋद्धस्योपगोरपत्यमित्यादौ च कथमप्युपगुशब्दस्य विशिष्टार्थशक्तिमत्त्वस्य वक्तुमशक्यत्वान्न ततो निरुक्तरीत्या प्रत्ययापादनसम्भव इति नास्ति सुप आत्मन इति सूत्रस्थभाष्यविरोधः। तत्रत्यस्य वाक्यं तदिति वाक्यशेषस्याप्ययमेव स्वरसः। ततश्च कुम्भकारीशब्दात्मकसमासपर्याप्त्यैकार्थीभावस्य निरुक्तरीत्या कारीशब्देपि सुलभतया न ततो ढक्प्रत्ययापादनानुपपत्तिः। अशक्यत्वादित्यस्य विशिष्टार्थविषयकतया समुदाये परिकल्प्यमानाया एव शक्तेरवयवेप्याश्रयणात्समुदायपर्याप्तशक्तिगोचरविशिष्टार्थस्यापत्यादिना योगे तदवयवगततादृशैकार्थीभावशक्तिगम्यार्थस्य सम्बन्धो नेति वक्तुमशक्यत्वादित्यर्थ इति न किञ्चिदनुपपन्नमित्याहुः।।
अन्ये तु यद्धर्मावच्छेदेनापत्याद्यर्थयोगो विवक्षितस्तद्धर्मावच्छिन्नप्रकारताकवृत्तिजन्योपस्थितिविशेष्यबोधकप्रातिपदिकादपत्यार्थवाचकः प्रत्यय इत्येव सुप आत्मन इति सूत्रस्थभाष्यकारीयो निष्कर्षः। एवञ्च ऋद्धस्योपगोरित्यादौ वाक्ये ऋद्धत्वविशेष्टोपगुत्वेनापत्यार्थयोगस्य विवक्षणीयतया तद्धर्मावच्छिन्नवृत्तिजन्योपस्थितेरभावाद्विशेषणाभावप्रयुक्तविशिष्टाभावविधया तथाविधोपस्थितिविषयविशेष्यबोधकप्रातिपदिकत्वस्योपगुशब्दे दुर्लभत्वान्न तस्मादपत्याद्यर्थकस्तद्धितः। कुम्भकारीत्यत्र च कुम्भकर्मकोत्पत्त्यनुकूलव्यापाराश्रयत्वरूपविशिष्टधर्मपुरस्कारेणापत्यार्थविवक्षायामपि तद्धर्मावच्छिन्नप्रकारताकसमासपर्याप्त्यैकार्थीभावजन्योपस्थितिविशेष्यभूतस्त्रीत्वोपहितोत्पत्त्यनुकूलव्यापाराश्रयीभूतव्यक्तिविशेषात्मकविशेष्यभागबोधकतायास्समुदायवत्कारीशब्देऽपि सुवचतया न ततस्तद्धितस्यापत्यार्थकस्य ढक्प्रत्ययस्यापादनानुपपत्तिः। परमगार्ग्यायण इत्यादावप्येषैव गतिरिति न काप्यनुपपत्तिरनिष्टवारणं चानभिधानादेवेति न काप्यनुपपत्तिरित्याहुः।।
नन्वेवमपि तस्यापत्यमित्यधिकारात्स्त्रीप्रत्ययान्तप्रकृतिकषष्ठ्यन्तादपत्येऽर्थे प्रत्यय इत्यर्थे यस्य स्त्रीप्रत्ययान्तत्वेन जिघृक्षा तत्प्रकृतिकषष्ठ्यन्तादेव प्रत्ययोत्पत्तेर्न्याय्यतया कारीशब्दमात्रप्रकृतिकस्त्रीप्रत्ययान्तस्यभावात्कथं ढगापत्तिरिति चेन्न। प्रातिपदिकादित्यधिकारात्तस्य षष्ठ्यन्तबोधकेन तस्येत्यनेन सामानाधिकरण्यायोगात्प्रातिपदिकपदस्य तत्प्रकृतिकलक्षणायां मानाभावाद्वस्तुभूतसुब्विधित्वेन समर्थपरिभाषाविषयताया निर्बाधत्वाच्च। प्रातिपदिकसम्बन्ध्यपत्यरूपेऽर्थे तत्सम्बन्धघटितविशिष्टार्थोपस्थापकैकार्थीभावोपहितात्प्रातिपदिकात्प्रत्यय इत्याद्यर्थे घकालतनेष्वित्यादिज्ञापकबलात्सुबुत्पत्त्यनन्तरं सुपः परत्र प्रवृत्तवपि तदीयोद्देश्यतावच्छेदककोटिप्रवेशाभावेन लिङ्गविशिष्टपरिभाषया स्त्रीप्रत्ययान्ते प्रातिपदिकत्वस्य सुवचत्वेन च ढगुत्पत्तेर्दुर्वारत्वात्। तदेतत्सकलमभिप्रेत्याह।। अवयवेनापीति।। न तु न्यूनस्येति।। प्रत्ययग्रहणपरिभाषायां तदादिनियमस्याधिकव्यवच्छेदार्थतया तन्निषेधस्य तत्सङ्ग्रहार्थताया एव न्याय्यत्वादिति भावः।। ङीष्‌बाधनार्थमिति।। अन्यथा पुंयोगलक्षणेनेव जातिलक्षणेनापि ङीषा परत्वात्प्रकृतसूत्रविधेयस्य भवाद्यर्थे चरितार्थस्य ङीपो बाधनापत्तौ स्वरविरोध इत्याशयः।। न चैवमित्यादि।। आपिशलिना प्रोक्तां मीमांसामधीत इत्यर्थे प्रोक्ताल्लुगित्यध्येत्रर्थकस्य लुप्तत्वादवशिष्टप्रोक्तार्थक एवाण्‌प्रत्ययः तदर्थस्याध्येत्रीं प्रत्युपसर्जनत्वात्तदन्तविधिमन्तरापि प्रसक्तस्य ङीपो वारणार्थमनुपसर्जनाधिकारस्य चारितार्थ्यात्कथं तदन्तविधिज्ञापकत्वमित्याशङ्काभिप्रायः।। व्याख्यानेनेति।। निरुक्ताणन्तमात्रव्यावृत्तिफलकत्वे विशिष्टसूत्रघटकत्वेनानुपसर्जनाणिति न्यासेनैव सिद्धे पृथग्योगारम्भोप्यत्र व्याख्याने बीजमिति द्रष्टव्यम्।। गृह्यमाम विशेषणतयापीति।। श्रुतसम्बन्धस्य बलीयस्त्वमत्र हेतुः।।
तद्वारणसम्भवादिति।। अयं भावः। टाबादीनां प्रकृतिजन्यबोधीयमुख्यविशेष्यसमवेतस्त्रीत्वबोधकत्वमिति तु निर्विवादम्। टिड्‌ढेत्यत्र चित्रायां जाता चित्रेत्यादावण्णन्तलक्षणङीब्वारणार्थमत इत्यनुवर्त्य स्त्रियां वर्तमानो योऽण्प्रत्ययरूपोऽकारस्तदन्तादित्यर्थस्यावश्यकत्वादापिशलेत्यादेरापिशलिप्रोक्तमीमांसादिकर्मकाध्येतृबोधकत्वेन यश्च श्रूयते प्रोक्तार्थकाण्प्रत्ययाकारस्तदर्थगतं स्त्रीत्वं न मुख्यविशेष्यभूताध्येत्रीसमवेतम्। यदर्थसमवेते तस्मिन् ङीपा भाव्यं, न तदर्थबोधकाकारश्श्रूयते, नापि प्रत्ययलक्षणार्हो, वर्णाश्रयत्वात्। किञ्च गृह्यमाणबोध्यप्रोक्तार्थगतस्त्रीत्वमुपादाय सकृत्प्रवृत्त इति न पुनः प्रवर्तयितुं युक्तः। अतो न तथाविधेषु ङीब्वारणार्थमनुपसर्जनाधिकारस्तस्मात्तस्य युक्तमेवेष्टार्थज्ञापकत्वमिति।।
बहुकुरुचरेत्येवेति।। बहुव्रीहावेवेदं व्यावर्त्यम्। द्विगौ तु द्विगुलक्षणो ङीब्भवत्येव।। बहुकुरुचरीति।। ननु तदन्तविधिज्ञापनेपि स्त्रियामित्यत्य गृह्यमाणविशेषणत्वे बहुकुरुचरेत्यादावुपसर्जनस्य स्त्रीत्वविशिष्टबोधकत्वाभावादेव ङीप्प्रत्ययाप्रवृत्त्या चारितार्थ्यालाभादनुपसर्जनाधिकारस्य निरुक्तार्थज्ञापकत्वमयुक्तमत आह।। प्रकृत्यर्थविशेषणत्वज्ञापकत्वं चेति।। यावता विना नोपपत्तिस्तावत्सर्वं ज्ञापनीयमित्याशयः। ननु स्त्रियामित्यस्य प्रकृतिविशेषणतायामापिशलेत्यादेरपि प्रोक्तार्थप्रत्ययमादाय श्रूयमाणाण्प्रत्ययात्मकाकारान्तत्वादध्येत्रीसमवेतस्त्रीत्वमादाय स्त्रियां वर्तमानत्वाच्च ततो ङीप् दुर्वार इत्यत आह।। तत्करण इत्यादि।। प्रकृतिविशेषणत्वकरणे तद्व्यावृत्तिरप्यनुपसर्जनाधिकारेणैव, प्रोक्तार्थकाण्प्रत्ययस्योपसर्जनत्वेनानुपसर्जनीभूताण्प्रत्ययात्मकाकारान्तत्वाभावादित्याशयः। नन्वनुपसर्जनपदार्थघटकस्योपसर्जननत्वस्य कृत्रिमाकृत्रिमन्यायेन शास्त्रीयस्यैव ग्रहीतुमौचित्यात्प्रोक्तार्थकाण्प्रत्ययस्येतरविशेषणतया स्वार्थोपस्थापकत्वरूपलौकिकोपसर्जनत्वेपि तथात्वाभावात्कथं तेनास्य व्यावृत्तिरित्यत आह।। उभयोरपीति।। उभयगतिरिह भवतीति परिभाषणादुभयोरपि लक्ष्यानुसारेण तत्र तत्र स्वीकारादिहापि तयोरुभयोर्ग्रहणमित्याशयः। वस्तुतो लौकिकमेवात्राश्रयितुं [टि- लौकिकमेवात्राश्रयितुं युक्तमिति।। कृत्त्रमाकृत्त्रिमन्यायबलाच्छास्त्रीयस्य ग्रहणं न्यायाप्राप्तम्। लौकिलस्य ग्रहणं तु प्रयत्नलभ्यम्। एवं च यत्र शास्त्रीयस्य ग्रहणासम्भवस्तत्र लौकिकमेव ग्राह्यम्। अत एव स्त्रीप्रत्यये चेति परिभाषाव्याख्यावसरे वाक्यार्थचन्द्रिकायां शास्त्रीयोपसर्जनाग्रहणेऽसम्भवस्य हेतुत्वकथसं स्वरसतः सङ्गच्छते। यत्र त्वबाधस्तत्र शास्त्रीयमेव। यत्र त्वेकदेशे शास्त्रीयग्रहणबाधस्तत्रोभयमपीत्युचितम्। शास्त्रीयस्य ग्रहणसम्भवे सुतरां तत्परित्यागेन लौकिकस्य ग्रहणं तु न युक्तिमत्। सर्वथा प्रकरणबाधे मानाभावात्। अतोऽत्रावधारणमयुक्तमेव। शास्त्रीयोपसर्जनत्वं महासंज्ञाबलेन लौकिकोपसर्जनत्वसामानाधिकरण्येनैवाभ्युपगन्तव्यमित्यप्ययुक्तम्। भाष्यादितस्तदलाभात्। पूर्वकायादौ व्यभिचाराच्च। भाष्ये तु महासंज्ञाबलादप्रधानत्वसामानाधिकरण्येन शास्त्रीयोपसर्जनत्वं व्यवस्थापितम्। न तु लौकिकोपसर्जनत्वसामानाधिकरण्येन। अप्रधानत्वं तु शाब्दार्थभेदेन द्विविधम्। तत्र पूर्वकायादौ शाब्दमिति न व्यभिचार इति स्पष्टं शब्देन्दुशेखरे। एवं च शास्त्रीयोपसर्जनत्वमैयत्येन लौकिकोपसर्जनत्वग्रहणं प्रत्याशा न कार्या। अत उभयोर्ग्रहणमिति मूलोक्तमेव युक्तम्। अत्र युक्तमुत्पश्यन्तु सुधिय इत्याहुः।] युक्तम्। शास्त्रीयोपसर्जनत्वस्यापि महासंज्ञाबलेन लौकिकोपसर्जनत्वसामानाधिकरण्येनैवाभ्युपेयतया शास्त्रीयोपसर्जनानां लौकिकोपसर्जनताया निर्बाधत्वाद्बहुकुरुचरेत्यादौ शास्त्रीयोपसर्जनघटकटिदादीनां तत्त्वेन ग्रहणे क्लेशादापिशलेत्यादिघटकाणादिसङ्ग्राहकत्वाच्चेत्याहुः।। ङीबित्यर्थ इति।। इदं प्रकृतोपयुक्तां शोपपादनाभिनिवेशेन। कार्मस्ताच्छील्य इति टिलोपनिपातनेनान्निति प्रकृतिभावष्टिढ्ढेत्यण्णन्तलक्षणङीबणो द्व्यच इति फिञित्येतत्त्रितयमपि ताच्छीलिकेणे ज्ञापनीयतया भाष्यकाराभिप्रेतम्। अत एवात्र सूत्रे भाष्ये ताच्छीलिकेणेऽण्कृतानि भवन्तीति कार्यबहुत्वाभिप्रायकबहुवचनान्तप्रयोगोपपत्तिः। तत्र निपातनेन प्रकृतिभावनिवृत्तावपि चौरीत्यादिङीबन्तप्रयोगश्चौरायणीति फिञन्तप्रयोगश्च ज्ञापनफलं द्रष्टव्यम्। यद्यपि छत्रादिभ्योऽणिति विधाने लाघवं, निरुक्तसकलकार्यनिर्वाहश्च ज्ञापनपरिक्लेशमन्तरैव सुगम इति णप्रत्ययः प्रत्याख्यातुं युक्तः, तथापि क्लेशोपहितं न्यासं गौरवपराहतं च ज्ञापनमेवादृतं भगवता, ज्ञापकसिद्धस्यासार्वत्रिकत्वेन क्वचिदप्रवृत्त्या छत्रेत्यादिप्रयोगसमर्थनाभिसन्धानात्। अण्‌प्रत्यये हि विधीयमाने तदुपपत्तिर्दुरुपपादैवेति वदन्ति।।
वार्तिकप्रत्याख्यानायेति।। यञश्चेति ङीब्विधायके भवार्थकस्य द्वीपादनुसमुद्रं यञिति विहितस्य यञो ग्रहणाभावार्थमापत्यग्रहणं द्वीपाद्यञः प्रतिषेधार्थमिति वार्तिककृदारब्धवचनं गर्गादिभ्यो यञित्यनेनाकारात्मकानुबन्धोपहितस्यायञः प्रत्ययस्य विधानम्। स एव क्वरपोऽयञश्चेति संहितापाठेनाकारप्रश्लेषान्ङीब्विधावनूद्यते। ततो नास्ति भवार्थकस्य यञो ग्रहणशङ्केति भाष्यकृता प्रत्याख्यातमिति भावः। ननु वार्तिकमते तद्राजस्याभिजिद्विदभृदित्यादिसूत्रेणापत्यबोधकाणन्तात्स्वार्थे विधीयमानस्य यञोप्यपत्यार्थकत्वाद्भवति ङीप्प्रपत्ययः। प्रत्याख्याने तु नायमयञ्‌प्रत्यय इति ङीपा न भाव्यमतः प्रत्याख्यानारम्भयोः फलववैजात्यादयुक्तमिदं प्रत्याख्यानमत आह।। अभिजित्यादि।। अस्त्रियामित्यनुवृत्तेरिति।। व्रातच्फञोरस्त्रियामित्यतस्तदनुवृत्तिरिति भावः। सिद्धान्तेपीति।। वार्तिककारस्येति शेषः। अस्त्रियामेव यञः प्रवृत्त्या स्त्रियां यञन्तत्वाभावादित्याशयः। यदि तु देवाद्यञञाविति विहितस्य यञोपि प्राग्दीव्यतीयस्यापत्यार्थकताया निर्बाधत्वाद्वार्तिकमते ङीब्दुर्वारः। प्रत्याख्यातृभाष्यकारमते तु नायमञञ्‌प्रत्यय इति नास्ति ङीपः प्रवृत्तिरित्येवं प्रत्याख्यानप्रतिबन्धकतया प्रसक्तस्य फलवैलक्षण्यस्य निरासार्थमापत्यग्रहणस्य वार्तिककारचोदितस्यापत्याधिकारविहितपरत्वमभ्युपेयते, तदा स्वार्थिकस्य तद्राजस्यातादृशत्वादेव वार्तिकमतेपि ङीप्प्रत्ययाप्रवृत्त्या नास्ति फलवैजात्यसम्भवः प्रकृतविषयेपि। तस्मादस्त्रियामित्यस्यानुवृत्त्या तन्निवृत्त्यभिनिवेशो नातीवोपयज्यत [टि- नातीवोपयुज्यत इति।। वस्तुतस्तु अभिजिद्विदेत्यादिसूत्रे गोत्रमिति वक्तव्यमिति वार्तिकमारब्धम्। गोत्रत्वप्रयुक्तं कार्यं भवतीति तदर्थः। अनेन वार्तिकेन गोत्रप्रत्ययप्रयुक्तकार्यातिदेशे प्रकृतवार्तिकेऽपत्याधिकारग्रहणेऽपि गोत्रप्रत्ययस्यापत्यप्रत्ययाधिकारस्थत्वाव्यभिचारेणात्र ङीणो दुर्वारतया तत्र तद्वारणमस्त्रियामित्यनुवृत्त्यधीनमेव। न च तच्चाकर्तु शक्यम्। गोत्रादयं स्वार्थिको गोत्रमेव भवतीति तत्प्रत्याख्यानपक्षेऽपत्याधिकारस्थत्वं दुर्वचमिति वाच्यम्। आरम्भप्रत्याख्यानयोः फलैक्याय तत्र स्त्रीत्वमेव नास्तीति वक्तव्यत्वात्। अत एवास्त्रियामित्यस्य मण्डूकानुवृत्तिरष्युपपद्यते। अत एव तत्र भाष्ये वार्तिकप्रयोजनकथनावसरे आभिजितक इति वुञेव प्रयोजनत्वेनोक्तः। न तु स्त्रीप्रत्ययविशेषः। एवं चास्त्रियामित्यनुवृत्तिर्मूलोक्ता न्याय्यैव। मूलस्थस्य सिद्धान्तेऽपीत्यस्य अभिजिदित्यादिसूत्रस्थे भाष्यवार्तिककारयोस्सिद्धान्तेपीत्यर्थः। एतेन सिद्धान्तेऽपीति प्रतीकमुपादाय वार्तिककारस्येति शेष इति व्याख्यानमपि परास्तम्। भवदुक्तरीत्या अस्त्रियामित्यस्याननुवर्तनेऽतिदेशेन तत्र ङीपो दुर्वारत्वादिति दिक्।] इति बोध्यम्। ननु भाष्ये यस्कादिभ्यो गोत्रे यञञोश्चेति लुग्विधावकारप्रश्लेषेण निर्वाहेपि सङ्घाङ्कलक्षणेष्वित्यत्राकारप्रश्लेषासम्भवादनिष्टप्रसङ्ग इत्यत आह।। सङ्घाङ्केति।। भाष्यप्रामाण्यादिति।। अभिजिद्विदभृदिति सूत्रेणाण्णन्ताद्विधीयमानस्य स्वार्थिकस्य यञ्प्रत्ययस्य गोत्रप्रत्ययान्ताद्विधाने गोत्रार्थताया अपि सम्भवेन गोत्रग्रहणानुवृत्तिबलेन तदनुबन्धकपरिभाषाप्रवृत्तिप्रतिबन्धो वक्तुमशक्य इति भावः।।
लिङ्गविशिष्टपरिभाषयेति।। ष्फान्ते यञन्तस्य प्रातिपदिकत्वस्यारोपादभीष्टसिद्धिरित्याशयः। यत्तु तद्धितान्तत्वस्यारोप इति तन्न।। दाक्षी दिदृक्षू इत्यादावन्तवद्भावप्रयुक्ततद्धितान्तत्वनिबन्धनप्रातिपदिकत्वप्रयुक्तानिष्ठवारणाय कृत्तद्धितांशेऽप्यप्रत्ययग्रहणसम्बन्धेन कृत्तद्धितातिरिक्तप्रत्ययान्तभिन्नस्यैव तदन्तस्य प्रातिपदिकत्वप्रसक्त्या तद्धितान्तत्वातिदेशमात्रेण ष्फान्ते प्रातिपदिकत्वस्य दौर्लभ्यात्।। तत्समानार्थकभाष्येति।। तत्र हि षित्करणसामर्थ्येन ङीषमुपपाद्यतद्धितग्रहणस्य प्रकृतविषये प्रयोजनाभावः फलमित्युक्तम्। लिङ्गविशिष्टपरिभाषाप्रवृत्तौ च सुलभतयैव प्रातिपदिकत्वलाभेनाभीष्टसिद्ध्या सामर्थ्यपर्यन्तानुधावनपरिक्लेशो भाष्यकृतां विफल इत्याशयः। परिभाषाप्रवृत्तौ च डाबुभाभ्यामिति विहितडाबन्तदामाशब्दस्य द्विशब्देन बहुव्रीहौ दामहायनान्ताच्चेति ङीपः प्रसङ्ग इत्याशयः।। अप्रातिपदिकत्वेपीति।। षिद्गौरादिभ्य इत्यत्र षिदंशे प्रातिपदिकाधिकारस्यासम्बन्धः। त्रपूष्‌ लज्जायामित्यादिभ्यो धातुभ्यस्तु नायं प्रवर्तते। विशेषविहितेन षिद्भिदादिभ्य इत्यङा बाधादत इत्यधिकाराच्च। अङन्तात्तु षिदन्तत्वाभावादप्रसङ्ग एवेति नास्ति तद्धितग्रहणस्य प्रयोजनम्। तस्मादासुरेरुपसंख्यानमिति वार्तिकार्थोपसंग्रह एव तस्य प्रयोजनमिति मूलव्याख्याकारयोराशयः। केचित्तु दक्षानन्तरापत्ये दाक्षायणीत्यप्येतस्य प्रयोजनमिति वदन्ति।।
नन्वायनो नकारोच्चारणात्फिनो नकारस्येत्संज्ञा बाध्यतां, तत्राह।। असञ्जातेति।। उपसञ्जातविरोधो बाध्यते न त्वसञ्जातविरोध इति न्यायः। प्रकृते च फिनो नस्येत्संज्ञाप्रवृत्तिकाले न कश्चिद्विरोध-। किन्तु तदादेशभूतस्यायनो नकारस्य तत्प्रवृत्तावेव विरोध इत्याशयः।
ननु पञ्चाश्वेत्यादावपरिमाणेत्यनेन द्विगुनिमित्तस्यैव निषेधे ठग्निमित्तस्य दुर्वारतया निषेधवैयर्थ्याद्बाध्यसामान्यचिन्तया ङीप्रत्ययमात्रस्य निषेधोऽयमिति वक्तुं युक्ततया तदप्रवृत्तये व्याख्यान्तराश्रयणपरिक्लेशो मूलकारस्यायुक्त इत्यत आह।। द्वाभ्यां शताभ्यामित्यादीति।। बहूनां लाभानां निमित्तभूता दक्षिणभुजस्फूर्तिर्बहुलाभेत्यत्र गोद्व्यच इति विहितस्य यतो लुक्यपि निषेधचारितार्थ्यं सुवचम्।। कनो लुगिति।। शताच्च धन्यतावित्यत्रासमासग्रहणानुवृत्त्या समासे धन्यतोरप्रवृत्तेस्संख्याया अतिशदन्ताया इत्यनेन भाष्यकाराभीष्टतदन्तविध्युपहितेन प्राप्तोऽयं कन्प्रत्यय इति बोध्यम्।।
अवान्तरवाक्यार्थबोधेति।। येन विधिरित्यस्य विशेषणविशेष्यभावपरिज्ञानाधीनतया तत्परिज्ञानाय स्वीक्रियमाणे सामान्यवाक्यार्थबोधे क्षेत्रपदार्थान्वितस्यैव काण्डस्य द्विगुविशेषणतया तदन्तविधौ पुनर्द्विगुना क्षेत्रस्य सम्बन्धायोग इति भावः। ननु येन विधिरित्यनेन तदन्तविध्युत्तरं पूर्वं वा सामानाधिकरण्यवतो विशेषणवाचकस्य स्वं रूपमित्येतच्छास्त्रबोधितस्वरूपाभिधायकशक्तिमतः स्वाभिधेयचरमावयवके लक्षणायां तात्पर्यमवगम्यते, तत्र क्षेत्रवृत्तित्वविशिष्टकाण्डस्वरूपाभिधायकस्य वाक्यस्य लक्षणानौचित्याल्लक्ष्यैकदेशभूतकाण्डपदार्थे क्षेत्रान्वयायोगाच्च तदन्तेनैव क्षेत्रस्य सम्बन्धस्सयादिति व्यर्थमेवान्तग्रहणमिति चेत्सत्यम्। सामान्यवाक्यार्थबोधकाले क्षेत्रवृत्तित्वविशिष्टस्यैव विशेषणत्वपरिज्ञानात्काण्डशब्दस्य क्षेत्रवृत्तित्वविशिष्टकाण्डशब्दचरमावयवके लक्षणा, क्षेत्रपदं च तात्पर्यग्राहकं, यथा गभीरायां नध्यां घोष इत्यत्र गाम्भीर्यावच्छिन्ननदीतीरे नदीपदस्य लक्षणा गभीरपदं तात्पर्यग्राहकं तद्वत्। ङमो ह्रस्वादचीत्यादावप्येषैव गतिरिति नास्ति वैयर्थ्यमन्तग्रहणस्येत्याशयो विभावनीय इत्याहुः।। तिर्यङ्‌मानमिति।। यद्यप्युर्ध्वाधरभावावस्थितवस्तुपरिच्छेदकत्वमपि काण्डस्य मम्भवति, तथापि पुरुषादिशब्दवन्नोर्ध्वमानवाचित्वेन प्रसिद्धोऽयं काण्डशब्दः।।
तदिदं चेति।। भारपरिच्छित्तिसाधनमूर्ध्वदैर्घ्यपरिच्छित्तिसाधनं चेत्युभयमपि उन्मानलक्षणबोधकेनोर्ध्वमानशब्देन गृह्यते, तदन्यतरमात्रबोधकप्रमाणानुपलम्भादिति तदर्थः।। तिर्यङ्मानस्यैवेति।। पुरुषशब्दो न तिर्यङ्मानत्वेन प्रसिद्ध इति न तस्य प्रमाणत्वम्। किन्तु बाहुजान्वादिवदूर्ध्वमानवाचित्वेनोन्मानत्वमेव। ततश्च तिर्यङ्मानबोधकप्रमाणशब्दानुवृत्त्या पुरुषशब्दान्ताद्‌द्विगोर्न तेन लुग्विधानसम्भवस्तदाह।। प्रमाण इत्यनुवर्तत एवेति।। प्रसिद्धिरक्षतेति।। तिर्यगूर्ध्वगतोभयविधदैर्घ्यपरिच्छेदकतायोग्यत्ववतां यत्परिच्छेदकत्वेन व्यवहारनिरूढिस्तत्परिच्छेदकत्वेनैव ग्रहणम्। ततश्च काण्‍हस्तवितस्तिप्रादेशप्रभृतीनां तिर्यङ्मानत्वेन प्रमाणत्वमेव। पुरुषबाहुहस्तजान्वादीनान्तूर्ध्वमानत्वेनोन्मानत्वमेव, सर्वथा नैकस्योभयथा व्यवहारप्रसिद्धिरिति तत्त्वम्।। असम्बन्धादिति।। ननु द्विगोर्नित्यमित्युत्तरवाक्ये नित्यग्रहणात्पूर्ववाक्यबोधितस्य वैकल्पिकत्वज्ञापनादिह विकल्पस्सिद्धः। अत एव प्रादेशमात्रमित्यादिप्रयोगनिर्वाहस्तथा च कथं पुरुषद्वयसमित्यस्यानुपपत्तिरत आह।। शम इत्यादाविवेति।। ज्ञापितोऽयं विकल्पो व्यवस्थितः। तत्र प्रादेशमात्रमित्यादौ न भवति लुक्‌, शम इत्यादौ च भवति।। तथा च यत्र नित्यं लुग्भवति तद्‌दृष्टान्तेनात्रापि लुक्स्यादित्याशयः।। ठकष्ठञो वेति।। अगोपुच्छसंख्यापरिमाणादित्यत्र पर्युदस्यमानसमर्पकपरिमाणशब्देन प्रस्थादिरूपपरिमाणविशेषस्य निष्कादिरूपस्योन्मानविशेषस्य च ग्रहणे ठक्‌, परिच्छेदकमात्रग्रहणे च ठञिति भावः।।
उत्तरसूत्रानुरोधेनेति।। अत्रेदं बोध्यम्। प्रमाणपरिमाणशब्दौ परिच्छेदकसामान्यो तद्विशेषे च व्यवह्रियेते। तथाहि। प्रमाणे द्वयसजिति सूत्रे प्रमाणशब्दः संख्यातिरिक्तपरिच्छेदकमात्रपरः। अत एव परिच्छित्तिसाधनीभूतार्थबोधकेभ्यो द्रोणाढकादिभ्य ऊर्ध्वायामपरिच्छेदकाभिधायिकेभ्यो बाहुजान्वादिभ्यस्तुलाद्यारोपपूर्वकपरिच्छेदसाधकार्थप्रतिपादकेभ्यो कर्षनिष्कादिभ्यश्च तेन प्रत्ययविधानमुपपद्येते। द्वयसच्दघ्नचौ तूर्ध्वमानवाचकेभ्य एवेति भाष्यकृत्कल्पिता व्यवस्थेत्यन्यदेतत्। पुरुषात्प्रमाण इत्यत्रापि परिच्छेदकमात्रपर एव, ऊर्ध्वमानवाचिना पुरुषशब्देनान्वयानुरोधात्। वर्षप्रमाण इत्यत्रापि परिच्छेदकपर एव, मूषिकाबिलप्रमित्यादिवृत्तिकाराद्युदाहरणानुसारात्। प्रमाणे ल इति श्लोकवार्तिके तु तिर्यगायामपरिच्छेदकशमदिष्टिवितस्त्यादिमात्रपर एव। अत एव पञ्चारत्निरित्यादाविव पञ्चप्रस्थमात्रं पञ्चकर्षमात्रमित्यादौ मात्रयो न लुक्‌। यद्यपि प्रमाणे द्वयसजित्यत्र प्रमाणावाचकात्प्रत्यय इत्यर्थलाभात्तदन्तविधिर्दुर्लभः। तथापि द्विगोर्लुगिति लुगारम्भात्संख्यापूर्वपदके तदन्तविधिरिति सिद्धान्त-। एवं प्रमाणे चेति णमुल्विधायके द्विगौ प्रमाण इति स्वरविधायके च तिर्यङ्मान्मात्रपर इति स्पष्टमाकरे। एवं परिमाणशब्दोप्यपरिमाणेति ङीब्निषेधबोधके पर्युदस्यमानसमर्पकस्सर्वतः परिच्छित्तिसाधनाभिधायकद्रोणाढकादिपर एव, न तु परिच्छेदकमात्रपरः। आचितकम्बल्ययोरुन्मानवाचिनोः पृथगुपादानं नियमार्थमिति स्पष्टमाकरे। तदस्य परिमाणमित्यत्र तु परिच्छेदकमात्रपरः, उत्तरसूत्रघटकसंख्याया इत्यनेनान्वयानुरोधात्। यत्तदेतेभ्य इति वतुब्विधायके परिमाणशब्दस्त्रिविधपरिच्छेदबोधकस्यापि बोधकः। द्विस्ता वा त्रिस्ता वा वेदिरिति सूत्रस्थाकरस्वरसात्। परिमाणान्तस्यासंज्ञाशाणयोरिति वृद्धिविधायकेप्येवमेव, उन्मानविशेषाभिधायकशाणपर्युदासात्। आर्हादिति सूत्रे पर्युदस्यमानसमर्पकपरिमाणशब्दस्तून्मानसर्वतः परिच्छेदवाचकयोर्द्वयोर्बोधकः। असमासे निष्कादिभ्य इत्युत्तरसूत्रस्थभाष्यस्वरसात्। तत्र हि निष्कादिभ्यः पूर्वसूत्रे पर्युदस्तस्य ठको विधानाय सूत्रमावश्यकमित्यभिप्रेत्य तद्धटकस्यासमासेग्रहणस्य वैयर्थ्यापादनपूर्वकं तदन्तविधिज्ञापनमाश्रितम्। पर्युदस्यमानसमर्पकपरिमाणशब्दस्य सर्वतः परिच्छित्तिसाधकद्रोणादिमात्रपरत्वे तदसङ्गतिरेव। केचित्तु सामान्येनैतद्भाष्यप्रामाण्यात्त्रिविधस्यापि परिच्छेदकस्य ग्रहणमिच्छन्ति।। परिमाणाख्यायां सर्वेभ्य इति घञ्विधायके सर्वतः परिच्छित्तिसाधकपरिमाणविशेषस्यैव ग्रहणमिति स्पष्टमाकरे। नित्यं पणः परिमाण इत्यादौ परिच्छेदकमात्रपर इति स्पष्टमेवेत्याहुः।।
आत्मनेपदार्थमिति।। धेटष्टित्त्वमिवास्य ङित्त्वस्यावयवे चारितार्थ्याभावात्समुदायोपकारकत्वमित्याशयः।।
नन्वाशाशब्दोऽयं दिग्वाची तत्पतित्वमिन्द्रादिषु पुंस्त्वमेवेति कथं स्त्रीलिङ्गनिर्देश इत्यत आह।। आशापूरकत्वेनेति।। मनोरथवाचकोयमाशाश्ब्दः। तत्पूरकत्वमेव तत्स्वामित्वं, तच्च स्त्रीपुंससाधारणमित्याशयः।।
छान्दसत्वादिति।। छन्दोवत्सूत्राणीति भाष्यकारेष्टिरङ्गत्वप्रयुक्ता। [टि- अङ्गत्वप्रयुक्तेति।। इदन्तु चिन्त्यम्। यदि भाष्येष्टिरङ्गत्वप्रयुक्ता, तदाऽस्य गृह्यसूत्रत्वेनाङ्गत्वस्याप्रसिद्धत्वेन अस्य छन्दोवदित्यतिदेशाविषयत्वापत्तेरिति।।
अत्रेदं बोध्यम्। छन्दोवदित्यतिदेशः सूत्रसामान्यविषय इत्येव मनोरमाकारो मन्यते। अत एवाङ्गानीति वक्तव्ये सूत्राणीति कथनं स्वरसतस्सङ्गच्छेते। तदनुसारेणात्र मूले छान्दसत्वादित्युक्तम्। यदि त्वस्या इष्टेरङ्गत्वप्रयुक्तत्वं, तदा छान्दसत्वादित्यस्यार्षत्वादित्यर्थ उचितः। अत एव शेखरे ``आर्षमत्र णत्वम् इत्येबोक्तम्। अत्र मूले छान्दसत्वादित्युक्तिस्तु परममूलसाधारण्यायेति सुधियोविभावयन्त्वित्याहुः।]अङ्गत्वं च कल्पसूत्रेप्यविशिष्टमेवेति [टि- कल्पसूत्रेऽपीति।। अस्य गृह्यसूत्रत्वेन कल्पसूत्रेऽङ्गत्वोपपादनस्य प्रकृतानुपयोगितया व्याख्यातुरयं प्रयासो विफल एवेति बोध्यम्।।] तात्पर्यम्।। ङीप् णत्वं चेति।। बहुव्रीहौ तु द्वयमपि छान्दसं, तत्पुरुषे तु णत्वमेवेति बोध्यम्।।
असिद्धवत्सूत्रे भाष्ये इति।। तत्र हि बहुशुनीत्यत्र वार्णादाङ्गमिति सम्प्रसारणपूर्वत्वं निराकृत्याल्लोपप्रवृत्तेर्निर्बाधतया भाव्युपधालोपविषयत्वान्ङीपि बहोर्नञ्वदिति श्वन्‌शब्दस्यान्तोदात्ततया तदीयाकारलोपमाश्रित्योदात्तनिवृत्तिस्वरप्रवृत्तिर्ङीप इत्याशङ्क्य प्रतिपादितम्। आयार्यप्रवृत्तिर्ज्ञापयति नोदात्तनिवृत्तिस्वरश्शुन्यवतरतीति, यदयं गौरादिषु श्वन्‌शब्दं पठतीति।। नस्तद्धित इति।। सम्प्रसारणोत्तरमन्तरङ्गत्वात्पूर्वरूपे प्रकृत्यैकाजित्यनेन टेरित्यस्य निवृत्त्या नस्तद्धित इत्यस्य प्रवृत्तिरित्याशयः। न चेष्ठवद्भावेन नस्तिद्धित इत्यस्य प्रवृत्तिरित्ययुक्तम्, इष्टनि तस्यादृष्टत्वेनातिदेष्टुमशक्यत्वादिति वाच्यम्। ब्रह्मवच्छब्दादिष्ठेयसोर्ब्रह्मिष्ठो ब्रह्मीचानित्यादौ विन्मतोर्लुकि तस्य टेरिति लोपं प्रत्यपवादतया लुगुत्तरं टिलोपाप्रवृत्त्या नस्तद्धित इत्यस्य प्रवृत्तेर्दृष्टत्वेन तदतिदेशस्य सुवचत्वात्। चाजादी गुणवचनादेवेति नियमात्तद्धितान्ताद्ब्रह्मवच्छब्दात्कथमिष्ठेयसोः प्रवृत्तिरिति वाच्यम्। विन्मतोरिष्ठेयसोः परयोर्लुगारम्भान्मत्वर्थीयप्रत्ययान्तस्य गुणवचनत्वज्ञापनेनादोषात्। [टि- गुणवचनत्वज्ञापनेनेति।। इदमयुक्तम्। विन्मतोर्लुगिति सूत्रस्थशेखरग्रहन्थविरोधात्। तत्र हि ``अत एव ज्ञापकादाभ्यामजादी। न च विन्विष्ये मतुबस्सत्त्वेन तल्लुकैव सिद्धौ विन्ग्रहणं व्यर्थमिति वाच्यम्। तत्करोतीत्यादिना णिचि इष्टवद्भावेन विनो लुगर्थं तत्सत्त्वात् इत्युक्तम्। यद्यस्य गुणवचनत्वज्ञापने तात्पर्यं, तदा विन्नन्तस्यापि गुणवचनत्वसम्पत्त्यर्थं विन्ग्रहणस्याप्यावश्यकत्वेन तद्ग्रहणवैचर्थ्यशङ्काया असङ्गतिः स्पष्टैव। कारकविभक्तेर्बलवत्त्वादित्यादयः प्रयोगास्तु कुक्‌कुट्यादीनामण्डादिष्विति वार्तिकप्रत्याख्यातृभाष्यरीत्या सामान्ये नपुंसकमित्यनेन वा उपपाद्याः। अत एव ``नेष्टं पुरो द्वारवतीत्वमासीत् इति माघप्रयोगस्सङ्गछते। भवद्रीत्या द्वारवतीशब्दस्य मतुबन्ततया गुणवचनत्वेन त्वतलोरिति पुंवद्भावो दुर्वार एव। नच द्वारवतीशब्दस्य संज्ञात्वात्त्वतलोर्गुणवचनस्येति न पुंवद्भाव इति मल्लिनाथोक्तरीत्या निर्वाह इति वाच्यम्। तत्र द्वारवतीशब्दस्य द्वारविशिष्टार्थबोधकत्वमन्तरा तद्वाक्यस्य योजयितुमशक्यत्वेन तत्र संज्ञात्वस्य कविविवक्षाविषयत्वाभावात्। पुरस्य द्वारवैशिष्ट्यस्य हरिनिष्क्रमणानुकूलतया तद्विरहमसहमानानां हरिनिष्क्रमणानुकूलद्वारवैशिष्ट्यमनिष्टमासीदिति तद्वाक्याशयस्याभ्युपगन्तव्यत्वात्। अत एव मल्लिनाथेन ``अन्यत्र द्वारवतीत्वं द्वारवत्त्वं नेष्टम्। तस्य हरिनिष्क्रमणहेतुत्वात् इति व्याख्यातम्। अनेन व्याख्यानेन द्वारवतीत्वशब्दस्य द्वारवत्त्वशब्दसमानार्थकत्वं स्पष्टमेव प्रतिपादितम्। अत्र पक्षे द्वारवतीशब्दस्य गुणवचनत्वाभावात्पुंवत्त्वस्य प्रसक्तिरेव नेति तदाशयः। अत एव एतत्प्रयोगसाधनाय प्रवृत्तस्य त्वतलोरित्यत्रत्यमनोरमाग्रन्थस्य व्याख्यानावसरे ``भाष्यरीत्या तद्धितान्तत्वेन गुणवचनत्वाभावाच्च इति शब्दरत्नोक्तिस्सङ्गच्छत इति दिक्।] अत एव कारकविभक्तेर्बलवत्त्वात् द्वितीयेत्यादिप्रयोगनिर्वाहः। यदि चेष्ठवद्भावेन नस्तद्धित इत्यस्याप्यतिदेशे युवानमाचष्टे कनयतीत्यत्रापि टिलोपप्रसङ्गः। न च प्रकृत्यैकाजित्यनेन नस्तद्धित इत्यस्यापि निवृत्तिरिति वाच्यम्। तदंशे येन नाप्राप्त्यभावेन प्रकरणान्तरस्थत्वेन च तद्बाधकत्वायोगात्। न च कादेशेनैव सर्वादेशत्वसिद्ध्या नकारोच्चारमसामर्थ्यात्तत्र टिलोपाभाव इति वाच्यम्। कादेशे प्रकृतिभावेन टिलोपाप्रवृत्त्या वृद्धिपुगागमयोः कापयतीति स्यात्। कनि तु नस्तद्धित इति टिलोपे कयतीति प्राप्नोतीति फलवैलक्षण्येन सामर्थ्योपक्षयान्न तन्मूलकष्टिलोपाभाव इत्युच्यते, तर्हि युवाल्पयोः कनन्यतरस्यामित्यत्र शकन्ध्वादिपररूपेणाकारप्रश्लेषादकारान्तः कनादेश इति टिलोपस्याभीयासिद्धत्वान्नास्ति नस्तद्धित इत्यस्य प्रवृत्तिः। अत एव कनिष्ठः कनीयानित्यत्रापि न टिलोपशङ्केत्याहुः। ननु प्रकृत्यैकाजित्यत्र नैकाच इत्येव सिद्धे प्रकृत्येत्यनेन स्वविषये प्राप्तस्य प्रकरणान्तरस्थस्यापि समान्येन बाधकताया औचित्यान्नस्तद्धित इत्यस्य प्रवृत्तिरिह दुर्लभेत्यत आह।। वस्तुतो नस्तद्धित इति।। [वस्तुतो नस्तद्धित इतीति।। इदानीन्तनशब्दरत्नग्रन्थेषु वस्तुत इति नास्ति। प्राक्तनपुस्तकपाठानुरोधेनेदम्। मुख्यमते इति प्रतीकस्थग्रन्थे वस्तुत इति नातीवोपयुज्यते।।] तत्र हि भाष्ये प्रकृतिग्रहणसामर्थ्यमूलकप्राबल्यतात्पर्येणान्नितिप्रकृतिभावेन सन्निहितस्य नस्तद्धित इत्यस्येव व्यवहितस्य प्रकरणान्तरस्थस्याल्लोप इत्यस्यापि निवृत्तिमाश्रित्य षपूर्वेत्यस्य विधायकत्वं व्यवस्थापितम्। तेन प्रकृत्यैकाजिति प्रकृतिभावोपि तुल्यरीत्या सन्निहितस्य टेरित्यस्य व्यवहितस्य नस्तद्धित इत्यस्य च निवर्तक इति ध्वनितमित्याशयः।। प्रकृत्यैकाजिति।। तत्र हि भाष्ये वृत्तिकारोपदर्शितेषूदाहरणेषु प्रेष्टः प्रेयानित्यादिषु प्रादीनामाभीयासिद्धत्वेन श्रेष्टश्श्रेयानित्यादिषु श्रादीनामकारोच्छारणसामर्थ्येन स्रजिष्ठ इत्यादिषु विन्मतोर्लुका येन नाप्राप्तिन्यायेन टेरित्यस्य निवृत्तिकल्पनेन च सूत्रवैयर्थ्यमापादितम्। तेन कनिष्ठः कनीयानित्यादौ क्शादेशविधानेनैव शित्त्वप्रयुक्तसर्वादेशत्वसिद्ध्या कनादेशविधानसामर्थ्याट्टिलोपाभाव इति सूचयता भाष्यकारेण सूत्रमतेपि प्रकृतिग्रहणसामर्थ्यात्तयोरुभयोरपि टिलोपयोर्निवृत्तिरिति ध्वनितमित्यभिप्रायः। ननु वार्णपरिभाषाया अनित्यत्वेपि विना प्रामाणिकप्रयोगावलम्बनमप्रवृत्तिकल्पनाया अयुक्तत्वादाङ्गत्वात्पूर्वरूपं परत्वान्नस्तद्धित इति लोपं च बाधित्वा टेरित्यस्यैव प्रवृत्तेर्न्याय्यतया नस्तद्धित इत्येतत्प्रवृत्त्यापादनमयुक्तमित्यत आह।। पूर्घ टिलोपाभावेपीति।। सूत्रकारमते प्रकृत्यैकाजित्यनेन बाधात्सम्प्रसारणात्पूर्वं टिलोपाभाव इति युक्तम्। प्रकृतिभावमनाद्रियमाणस्य भाष्यकारस्य मते तु सम्प्रसारणात्पूर्वं टिलोपाप्रवृत्तौ निमित्तमालोचनीयम्।। [निमित्तमालोचनीयमिति।। अत्रेदं बोध्यम्। भाष्यस्य प्रेष्ठाद्युदाहरणानामन्यथासिद्धिमात्रे तात्पर्यम्। न तु सूत्रप्रत्याख्याने इति मन्यते मनोरमाकारः। अत एव सिद्धान्तकौमुद्यां नामधातुप्रक्रियायां ``प्रकृत्यैकाजिति सूत्रं भाष्ये प्रत्याख्यातमिति न भ्रमितव्यम् इत्युक्तिस्सङ्गच्छते। अत्रत्यमूलं मनोरमाकाराशयपरमेव। अत एवात्र पूर्वं टिलोपाप्रवृत्तौ प्रकृतिभावस्यैव हेतुत्वोपपादनं सङ्गच्छते। प्रत्याख्यानपक्षेऽत्रटिलोपो भवति न वेत्यन्यदेतदिति।।] तस्य दौर्लभ्यमिति।। नान्तप्रकृतिकङ्‌यन्तस्येत्यर्थः। ननु सम्प्रसारणपूर्वत्वादाङ्गबलीयस्त्वमनिष्टम्। अन्यथा श्वन्शब्दमघवन्शब्दयोरन्तोदात्तयोस्सम्प्रसारणोत्तरमाङ्गत्वात्पूर्वरूपं बाधित्वा तयोरल्लोपप्रवृत्तौ शुनो मघोन इत्यादावुदात्तनिवृत्तिस्वरापत्तिः। अत एव बहुश्वा बहुमघवेत्यादावन उपधालोपिन इति नियमप्रयुक्तो ङीबपि न प्रवर्तते। ध्वनितं चेदं लिट्‌यभ्यासस्येति सूत्रे भाष्ये। तत्र हि जुहुवतुः शुशुवतुरित्यादावाङ्गत्वेन पूर्वरूपं बाधित्वा प्रसक्तानामातोलोपयणादीनां बाधनाय सम्प्रसारणं तदाश्रयं च कार्यं बलवदिति वचनमातोलोपादीनां पूर्वरूपगतान्तरङ्गत्वेन प्रवृत्तिनिरोधमाश्रित्य भाष्यकृता प्रत्याख्यातम्। वार्णपरिभाषायाः पूर्वरूपांशे प्रवृत्त्यभ्युपगमे च तदसङ्गतिरेव। तस्मादनित्यायास्तस्याः परिभाषायाः प्रकृतविषये प्रवृत्त्यभाव एव युक्तः। एवञ्च पूर्वरूपस्यैवान्तरङ्गत्वात्प्रथमतः प्रवृत्तावेकाच्त्वेन प्रकृतिभावाट्टिलोपाप्रवृत्त्याण्यन्तपक्षेपि नान्तघटितङ्यन्तप्रयोगो निर्बाधः। नाजानन्तर्यपरिभाषा तु जातबहिरङ्गविषयत्वान्न प्रकृते प्रवृत्तिमर्हतीति प्रायीनानामाशयस्य सुवचत्वादयुक्तमेवेदं दौर्लभ्यापादनमिति चेन्न। पूर्वरूपोत्तरमेकाच्त्वेन सूत्रमते प्रकृतिभावाट्टिलोपाप्रवृत्तावपि प्रकृतिभावं प्रत्याचक्षाणस्य भाष्यकारस्य मते पूर्वरूपोत्तरमपि टिलोपं वारयितुमुपायाभावेन फलभेदात्प्रत्याख्यानस्यासङ्गत्यापत्त्या सत्यभिधाने सूत्रमतेपि प्रकृतविषये वार्णपरिभाषावलम्बेन पूर्वरूपात्पूर्वमेव टिलोपप्रवृत्तेरवश्याश्रयणीयतया तथाविधरूपदौर्लभ्यमित्याशयात्।। एकदेशविकृतन्यायेनान्नन्तत्वमिति।। नन्वनुनासिकस्येति दीर्घोत्तरमेकदेशविकृतन्यायेनान्त्ये तदन्तत्वमार्थसमाजग्रस्तमिति विवक्षितमुत स्थानिवद्भावोपलक्षकत्वादानुमानिकस्थानिवद्भावेन समुदायस्यान्नन्तत्वमिति। नाद्य-। अर्थविकारे सादृश्यमूलकतत्त्वप्रत्यभिज्ञाया दौर्लभ्येनोकतविषयताया दुर्वचत्वात्। न द्वितीयः। सामान्यातिदेशे विशेषानतिदेश इति न्यायेन त्रादेशोत्तरं मघवन्शब्द इव प्रकृतेपि विशेषधर्मस्यानुमानिकेन स्थानिवद्भावेनातिदेष्टुमशक्यत्वात्। न च स्थानिवत्सूत्रस्थेन प्रपठ्येत्यादौ विशेषणतयाप्यलाश्रयणे निषेधसमर्पकेणानल्विधाविति विधिग्रहणेन विशेषवर्मस्यापि स्थानिवत्त्वेनातिदेशस्य बोधनात्कथं तदतिदेशाभाव इति वाच्यम्। श्रौतस्थानिवद्भावेन विशेषधर्मस्याप्यतिदेश इत्यस्य ज्ञापनेन कृतार्थस्य तस्य विधिग्रहणस्यानुमानिकेन शब्दानित्यत्वसंरक्षणाय परिकल्पितेन सामुदायिकस्थान्यादेशभावेन प्रसक्तस्य स्थानिवत्सूत्रस्थादेशग्रहणानुमीयमानाचार्यतात्पर्यविषयतापन्नस्य तादृशस्थानिवद्भावस्य न्यायबाधनेन तदतिदेशसम्पादकत्वकल्पनायां मानाभावात्। न च समुदाय एवैकदेशविकृतन्यायेनान्नन्तत्वं किं न स्यादिति वाच्यम्। विकृतावयवविशिष्टे विकारविरहिततदवयवविशिष्टधर्मप्रतिपत्तेर्लोकविरुद्धत्वात्। ध्वनितं चेदं श्वयुवेति सूत्रे भाष्ये। तत्र हि त्रादेशोत्तरं मघवन्शब्दे सम्प्रसारणवारणाय वार्तिककृदारब्धं नकारान्तग्रहणमनकारान्तप्रतिषेधार्थमिति वचनमल्लोपोऽन इत्यत अन इत्यस्यापकर्षणेनान्नन्तानां सम्प्रसारणविधानान्न दोष इति प्रत्याख्यातम्। तान्तेप्यन्नन्तत्वस्य येन केनाप्यतिदेशे तदसङ्गतिरेव। कैयटेपि स्फुटमेतत्। ततोऽत्र न किञ्चिद्वैषम्यम्। अतः कथमन्नन्तत्वमिति चेत्सत्यम्। स्थानिवत्सूत्रस्थेनानल्विधावित्येतद्धटकेन विधिग्रहणेन श्रौतानुमानिकसाधारणतया स्थानिवद्भावस्य विलोषधर्मातिदेशसमर्पकत्वं ज्ञाप्यते, असति बाधके प्रमाणानां सामान्ये पक्षपातात्। अत एवामूदृगित्यादावासर्वनाम्न इत्याकारादेशविधानोत्तरमदश्शब्दत्वमानुमानिकेन स्थानिवत्त्वेन लभ्यत इति न मुत्वासङ्गतिः। अन्यथा स्थानितावच्छेदकतया गृहीतसर्वनामत्वापेक्षया विशेषधर्मत्वाददश्शब्दत्वस्यातिदेशायोगात्तदसङ्गतिरेव। ज्ञापकसिद्धस्यास्य विशेषधर्मातिदेशस्यासार्वत्रिकतया क्विचित्तदतिदेशाभाव इति नास्ति श्वयुवेति सूत्रस्थभाष्यकैयटयोर्विरोधः। प्रकृते चान्नन्तत्वस्यानुमानिकेन स्थानिवत्त्वेनातिदेशे न किञ्चिद्बाधकम्। तदेतत्कथंचिदिति वदता मूलकृता सूचितमित्यलम्।। अनभिधानमिति।। इदं च ह्रस्वनध्याप इति सूत्रस्थभाष्यबलाल्लभ्यते। तत्र हि कास्प्रत्ययादिति सूत्रविषयस्यामो मकारस्येत्कार्याभावादित्संज्ञा न प्राप्नोतीत्युपक्रम्य प्रत्ययान्तादाम् विधीयते तत्र मिदचोन्त्यादिति परत्वे प्रत्ययपरत्वे वा नास्ति विशेष इत्युक्तम्। हलन्तानामाचारक्विबन्तानामभिधाने च विशेषसद्भावात्तदसङ्गतिरेव। सत्यप्यभिधाने वादिनामभीष्टसिद्धिर्नेत्याह।। अनुपसर्जनत्वादिति।। उपसर्जनत्वं च स्वार्थनिष्ठप्रकारतानिरूपितविशेष्यतापन्नपदार्थोपस्थापकत्वम्। तच्च स्त्रीप्रत्ययप्रकृतेराचारक्विबन्तप्रकृतिककर्तृक्विबन्तस्य नास्तीति नेह गौरादिङीषः प्रवृत्तिप्रतिबन्ध इत्याशयः। ननु मास्तूपसर्जनत्वमप्रसिद्धत्वरूपगौणत्वस्य निर्विवादत्वादभिव्यक्तेति न्यायेन तत्प्रवृत्तिप्रतिबन्धो दुर्वार इत्यत आह।। अभिव्यक्तेति।। ``अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु कर्तव्यश्शब्देषु न तदुक्तिष्विति न्यायः। तत्राभिव्यक्तपदार्थत्वं प्रचुरप्रतीतिविषयस्वार्थसमर्पणतात्पर्यप्रयुक्तोच्चारणविषयत्वम्। तेनाचारक्विबन्तादीनामप्रसिद्धानां व्यावृत्तिः। आरोपानधीनस्वार्थनिमित्तकप्रवृत्तिविषयत्वं स्वातन्त्र्यम्। एतेन गौणलाक्षणिकानां व्यावृत्तिः। लोकविश्रुतत्वामाधुनिकसङ्केतविषयताशून्यत्वम्। अनेन संज्ञाभूतानां व्यावृत्तिः। गौणमुख्यपरिभाषामूलकमिदमभियुक्तानां वचनम्। तत्र गौणत्वं गुणकृतसादृश्यमूलकारोपविषयार्थनिमित्तप्रवृत्तिविषयत्वम्। इदं चाभियुक्तवचनघटकविशेषणत्रयव्यावर्त्येष्वप्रसिद्धगौणलाक्षणिकसंज्ञाशब्देष्वक्षतमेवेति नानयोर्विशेषः। अनुकरणेष्वष्टन आ विभक्तावित्यादावल्लोपादिवदनुकरणस्वरूपभङ्गभयादेवानिष्टस्य शास्त्रीयकार्यस्य निवृत्तिरिति न तेषां गौणत्वापेक्षा, यद्यपि लोकविश्रुता इत्यनेनैव प्रसिद्धार्थकेनाधुनिकसंज्ञाशब्दानामाचारक्विबन्तादीनां चाप्रसिद्धत्वाविशेषाद्व्यावृत्तिस्सिद्धा, तथापि लोकविश्रुतत्वव्यतिरेकेण झटिति परिस्फुरतामाधुनिकसङ्केतविषयाणामेव व्यावृत्तिरिति भ्रान्तिमतामुपलालनाय प्राथमिकमभिव्यक्तेतिविशेषणम्।
वस्तुलोऽत्राभिव्यक्तपदार्था इत्यस्य विवरणमग्रिमं विशेषणद्वयम्। अत एव मध्ये यच्छब्दपाठस्स्वरसत उपपद्यते। स्वतन्त्रा लोकविश्रुताश्च येऽभिव्यक्तपदार्थास्तेषु शास्त्रविधेयं कर्तव्यम्। न तु तत्संजातीयोच्चारणविषयेषु तदन्येष्विति तदर्थ इत्याहुः।।
पदकार्यविषय इति।। गौणमुख्यपरिभाषायाः पदकार्यविषयत्वात्तन्मूलकस्यास्य न्यायस्य तत्समानयोगक्षेमत्वौचित्यादिति भावः। पदकार्यत्वञ्च स्त्रीत्वानिमित्तकत्वे सति प्रातिपदिकत्वनिमित्तकप्रत्ययानिमित्तकत्वमित्यन्यत्र प्रपञ्चितम्। प्रत्ययोत्तरपदयोश्चेत्यत्रापि विभक्तावित्यस्यानुवृत्तेरन्यत्र व्ययस्थापितत्वात्तद्विहितयोरपि त्वमयोः प्रातिपदिकत्वनिमित्तकप्रत्ययनिमित्तकत्वमतः पदकार्यत्वाभावात्त्वद्भवति मद्भवतीत्यादिच्व्यन्तविषये नायं न्यायः प्रवर्तत इति बोध्यम्।।
बहुशब्दश्च संख्येति।। विशेषविहितया संख्यासंज्ञया गुणवचनसंज्ञाया बाधान्न बहुशब्दस्य गुणवचनत्वमिति भावः। इदं च सूत्रकारस्याप्यभिप्रेतमित्याह।। अत्रार्थे इति।। बहुशब्दस्य गुणवचनत्वाभावे बहुग्रहणमत्रत्यं ज्ञापकमन्यथा पूर्वेण सिद्धे तद्वैयर्थ्यमेवेत्याशायः। ननु गुणवचनत्वेप्याचारक्विबन्तात्कर्तरि क्विपि निष्पन्नस्य बहुच्छब्दस्य तान्तत्वेनोवर्णान्तत्वाभावादुपदर्शितश्वन्‌शब्दवदुपसर्जनत्वाभावाच्च ततो ङीष्विधानाय सार्थक्यात्कथमुक्तार्थलाभ इति चेत्तथाभूतानामभिधाने दृढतरमानाभाव इत्याशयोऽत्र विभावनीय इत्याहुः। ननु सत्त्वे निविशते इति लक्षणान्तरेण भाष्यकारोदीरितेन गुणवचनत्वं दुर्वारमेवं च वयोवाचिनां जातिवचनत्ववद्गुणवचनताया विकल्पे व्यर्थमेव बहुग्रहणमत आह।। सत्त्वे निविशत इति।। ``सत्त्वे निविशतेऽबैति पृथग्जातिषु दृश्यते। आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुण इति लक्षणान्तरोपपादकं भाष्यकारीयं वचनं, तेन च द्रव्यनिरूपितवृत्तित्वतदभावोभयविशिष्टत्वे सति द्रव्यत्वव्याप्यजातितदभावोभयसमानाधिकरणत्वे सति कार्यत्वतदभावोभयविशिष्टत्वे सति द्रव्यभिन्नत्वं गुणत्वमिति पर्यवसन्नम्। तत्र सामान्यजातिवारणाय प्राथमिकं विशेषणम्। व्याप्यजातिवाराणाय द्वितीयम्। क्रियावारणाय तृतीयम्। द्रव्यवारणाय चतुर्थं विशेष्यदलम्। एवञ्च द्वित्वादिवद्बहुत्वस्याप्यपेक्षाबुद्धिजन्यत्वेन कार्यतया क्रियावारकतृतीयविशेषणघटकनित्यत्वबाधान्न निरुक्तलक्षणेन बहुत्वस्य गुणत्वं, नापि तद्वाचकस्य गुणवचनत्वमित्याशयः। तदाह।। एकवाक्यतापन्नमिति।। यद्यपि क्रियावारणार्थेन तृतीयविशेषणेनैव यावज्जातिवारणे प्राथमिकविशेषणद्वयवैयर्थ्याद्द्रव्यकर्मभिन्नत्वे सति जातिमत्त्वमित्येव सिद्धे विशिष्टवैयर्थ्याच्चैतदेकदेश्युक्तं लक्षणम्। अत एव भाष्यकृता न व्याख्यातमित्योतो गुणवचनस्येति सूत्रे निराकृतमुद्योतशेखरयोस्तथापि प्रकृतविषये सत्यामेकवाक्यतायां कुतस्तन्निराकरणमित्युपाध्यायगूढाशय इत्याहुः। तदाह।। अन्यत्र प्रपञ्चितमिति।। ननु निरुक्तरीत्या गुणवचनत्वाभावेनात्रैवावश्यकत्वात्कथमुत्तरार्थत्वमत आह।। वदतां मते इति।।
अदन्तत्वाभावेनेति।। अत इत्यस्योत्तरत्र सम्बन्ध आवश्यक इति मण्डूकानुवृत्तिवारणायेन्द्रवरुणेत्यत्रापि सम्बन्धादेतादृशानां व्यावृत्तिरित्याशयः।। वहुव्रीहेरूधस इति सूत्रभाष्यसम्मततयेति।। तत्र हि कुण्डोद्नीघटोध्नीत्यूधसोनङ्यल्लोपघटितः प्रयोग उपदर्शितः। तेन च निरुक्तार्थे भाष्यकारसम्मतिरनुमीयत इत्याशयः।। कल्पनानवकाशेति।। न च ङीष एव नुटि कर्तव्ये प्रकृतेरनुगागमविधानसामर्थ्याद्विनिगमनाविरहेणाल्लोपपररूपयोरपि बाधे सवर्णदीर्घेणाभीष्टसिद्ध्या प्राचीनकल्पनायाः प्रतिबन्धकाभाव इति वाच्यम्। ङीषोऽप्यनेनैव विधानात्स्वविधेयस्य स्वस्मिन्नुद्देश्यत्वासम्भवेन प्रकृतेरेव नुडापत्तावनिष्टप्रसङ्गात्। न च पुंयोगादित्यनेनैव प्रत्ययस्य सिद्धतया पञ्चमीनिर्देशेन ङीष्प्रत्ययस्य नुड्विधाने बाधकाभाव इति वाच्यम्। हिमारण्ययवयवनानां पूर्वेणाप्राप्तस्य ङीषो विधेयतया स्वविधेयस्य स्वस्मिन्नुद्देश्यत्वासम्भवस्य तादवस्थ्यात्। तस्मादयुक्तैव ब्रह्माणीशब्दसाधनोपायतया निरुक्तकल्पनेत्याशयः।। स्वरे न विशेष इति।। रूढिशब्दत्वादयुक्तोपि [टि- रूढिशब्दत्वादयुक्तोऽपीति।। सर्वत्रोपलभ्यमानेषु पुस्तकेष्वयमेव पाठो दृश्यते। वाक्यस्यास्यार्थसङ्गतिर्नास्ति। अतो ``रूढिशब्दत्वादवयवार्थभानप्रयुक्तोऽपि इति पाठस्य स्थितिरनुमेयेति ध्येयम्।] न विशेष इति बोध्यम्।।
अनित्यत्वेनेति।। कर्तृकरणे कृता बहुलमित्यत्र गतिकारकोपपदानामित्येतत्परिभाषावशात्सुपेत्यस्यासम्बन्धे सुबुत्पत्तेः प्राक्कृदन्तेनैव सार्वत्रिकतया समासस्य प्रसक्तौ बहुलग्रहणेन परिभाषानित्यत्वबोधनद्वारेण क्वचित्सुबन्तेनापि समासोऽभ्यनुज्ञात इत्याशय-।।
एतदन्तमिति।। लिङ्गानां च न सर्वभागित्यादीति शेषः। आकारस्येति।। अवयवसंस्थानस्येत्यर्थः।। भाष्यप्रामाण्येनेति।। तत्र हि स्त्रिया अपि युवसंज्ञामाश्रित्य प्रयोगे स्त्रीत्वविशिष्टयुवापत्यबोधकप्रत्ययश्रवणाभावाय गोत्राद्यूनि स्त्रियां लुगित्येकदेशिना प्रर्शितस्य न्यासस्य ग्लुचुकायनीभार्य इत्यजातेश्चेति पुंवद्भावनिषेधानुपपत्तिरूपदूषणमुपन्यस्य सिद्धान्तिना प्रत्याख्यानं कृतम्। तेन च पारिभाषिकातिरिक्तयुवापत्यप्रत्ययान्तस्य जातित्वाभावबोधनाज्जातिलक्षणे पारिभाषिकस्यैव गोत्रस्य ग्रहणमिति स्पष्टमेव भाष्यकारः प्रतिपादयतीत्याशयः।।
प्रातिपदिकत्वस्य चेति।। प्रातिपदिकत्वतद्व्याप्यान्यतरबोधकशब्दोपादाने प्रातिपदिकात्परो यो लिङ्गबोधकप्रत्ययस्तद्विशिष्टस्यापि ग्रहणमिति परिभाषार्थः। गौरीत्यादौ तु यस्येति लोपोत्तरमवशिष्टस्यैकदेशविकृतन्यायेन प्रातिपदिकतया परिभाषाप्रवृत्तिसौलभ्यात्स्वाद्युत्पत्तेरविरोधः। कुरूरित्याद्येकादेशविषये तु योगपद्येन पूर्वान्तत्वपरादित्वयोर्व्यपवर्गस्य चातिदेष्टुमशक्यत्वे परिभाषायाः प्रवृत्त्ययोगत्पूर्वान्तत्वमेव स्वाद्युत्पत्तेर्निदानमिति तदाशयः। तदुक्तं नात्रेयमिति।। एकादेशविषये इति तदर्थः।। असिद्ध्यापत्तेरिति।। इन्द्राणीत्यादावप्यागमागमिनोरेकादेशोऽस्तीति परिभाषाया अप्रवृत्तौ सुबुत्पत्तेरनुपपत्तिः। यदि तु यत्र प्रकृतिलिङ्गबोधकप्रत्यययोरेकादेशस्तथाभूतस्यैव परिभाषाया अप्रवृत्तिविषयत्वमुभयत आश्रयणप्रसक्तेः। इह तु न तथाविध एकादेश इत्युच्यते, तावतापि न निर्वाहः। आगमैकदेशभूतेनाकारेणैकादेशे पूर्वान्तवत्त्वेनैकादेशविशिष्ट एव प्रातिपदिकत्वविशान्त्या नकाख्यावधानाल्लिङ्गबोधकप्रत्ययस्य प्रातिपदिकात्परत्वाभावेन परिभाषाप्रवृत्त्ययोगादतो लिङ्गबोधकप्रत्ययांशे प्रातिपदिकपरत्वनिवेशे नास्ति तत्सिद्धिरित्याशयः। ननु यदागमन्यायेनैकादेशात्पूर्वमागमविशिष्टे विद्यमानस्य प्रातिपदिकत्वस्यैकादेशोत्तरमानुमानिकेन स्थानिवत्त्वेन नकारान्त एव लाभेन नास्ति परिभाषाप्रवृत्तेर्विरोध इति चेन्न। यदागमपरिभाषया विशिष्टे प्रातिपदिकत्वातिदेशात् पूर्वमेवान्तरङ्गत्वात्प्रत्यक्षवचनबोधितत्वाच्च सवर्णदीर्घे तदसिद्धिरित्याशयात्।। प्रातिपदिकत्वोपयोगो नात्रेति।।[टि- प्रातिपदिकत्वोपयोगो नात्रेतीति।। न कश्चिदितीदानीन्तनशब्दरत्नपाठः। कश्चिदित्यस्य स्थानेऽत्रेति पाठाभिप्रायेणेदम्।] दोषाधायकत्वान्नास्यां परिभाषायां तन्निवेश इत्यर्थः। वस्तुतो नास्ति तन्निवेशसम्भव इत्याह।। नापीति।। लिङ्गविशिष्टप्रातिपदिकस्येति लिङ्गविशिष्टं प्रातिपदिकं यस्मिन्निति बहुव्रीहिणा स्वोत्तरवर्तिलिङ्गबोधकप्रत्ययविशिष्टप्रातिपदिकघटितसमुदायार्थकतयेति भावः। वस्तुतः परिभाषायां प्रातिपदिकत्वांशनिवेशस्यैव नासाङ्गत्यमपि तु तदुपवर्णितस्य परिभाषावाक्यार्थस्यापीत्याशयेनाह।। तयेत्यादि।। अतिदेशाच्चेति।। प्रातिपदिकत्वतद्व्याप्यान्यतधमर्वाच्छिन्नबोधकशब्दोपादाने तद्धर्मारोपेण लिङ्गबोधकप्रत्ययविशिष्टस्यापि ग्रहणमित्येव परिभाषार्थो न तु लिङ्गबोधकप्रत्ययविशिष्टस्याप्यध्याहार इति।। अत एव बहुव्रीहेरूधस इति सूत्रे भाष्ये कुण्डोध्नीत्यादौ नद्यृतश्चेति बहुव्रीहिलक्षणं नित्यं कप्रत्ययमाशङ्क्य नद्यन्तानां यो बहुव्रीहिरित्यर्थेन समाहितम्। लिङ्गबोधकप्रत्ययविशिष्टे नद्यन्ते बहुव्रीहित्वातिदेशानभ्युपगमे च तदसङ्गतिरेवेत्याशयः।
ननु ङ्याप्‌सूत्रे भाष्ये युवतिः कुरूरित्यादौ स्वाद्युत्पत्तये वार्तिककारचोदितं त्यूङ्ग्रहणं तिप्रत्ययांशे तद्धिताधिकारादूङ्विषये पूर्वान्तवद्भावाच्च प्रातिपदिकत्वमाश्रित्य भाष्यकृता प्रत्याख्यातम्। ततश्च सप्तम्यधिकरणे चेत्यादिनिर्देशानां सामान्येन पूर्वान्तवत्त्वप्रयुक्तप्रातिपदिकत्वातिदेशाभावकल्पकतायां भाष्यविरोधस्य दुर्वारत्वाद्विभक्त्यादेशमात्रप्रयोज्यपूर्वान्तवद्भावप्रयचुक्तप्रातिपदिकत्वातिदेशाभावकल्पकत्वमेव तेषां न्याय्यम्। अतः कुरूरित्यादेर्लिङ्गविशिष्टपरिभाषैकसाध्यत्वं मूलकारोक्तमयुक्तमित्याशयेन तस्यारुचिग्रस्ततां प्रदर्शयन्नाह।। ननु सप्तमीत्यादि।। काण्डे इत्यादि तु विभक्त्यर्थप्रधानतया न तद्विशेष्यकप्रतीतिजनकमिति भावः।
वस्तुतः प्रथमाद्विवचनान्तकाण्डे इत्यादेर्ह्रस्ववारणाय पूर्वान्तवत्त्वप्रयुक्तप्रातिपदिकत्वाभावज्ञापनस्यैवाश्रयणीयतया तेनैवात्रापि सिद्धौ प्रातिपदिकग्रहणलभ्यसत्त्वप्रधानतायाः फलमन्यदन्वेषणीयमित्याहुः।।[टि- आहुरिति।। अत्र यद्वक्तव्यं तदर्थवत्सूत्रव्याख्यानावसरे उक्तमस्माभिः।।]
वृत्त्यादिपठितमिति।। एतेन श्वश्रूशब्दस्य निरुक्तप्रकारेणोङ्प्रत्ययान्तत्वं न भाष्यकृत्सम्मतमिति सूचितम्। इदमव्युत्पन्नं प्रातिपदिकमिति हि ङ्याप्सूत्रस्थभाष्यात्प्रतीयते। तत्र हि त्यूङ्ग्रहणस्य पूर्वान्तवत्त्वप्रयोज्यप्रातिपदिकत्वेन निर्वाहमाश्रित्य प्रत्याख्यानमभिहितम्। निरुक्तरीत्या श्वश्रूशब्दस्योङन्तत्वे डाबन्तसीमादिशब्दविषयकत्वेनाब्ग्रहणवत्प्रकृतविषयकत्वेनोङ्ग्रहणस्याप्यावश्यकतया तत्प्रत्याख्यानमसङ्गतमेव स्यादित्याहुः।। [टि- आहुरिति।। उद्योतकारादय इत्यर्थः। नन्वेवं श्वशुरस्य स्त्रीत्यर्थे पुंयोगादिति ङीष्प्रसङ्गः। मनोरमारीत्या वचनारम्भे तूङो ङीषपवादत्वान्न तत्प्रसङ्ग इति चेम्मैवम्। योनिसम्बन्धवाचिभ्यः पुंयोगे ङीषोऽप्रवृत्तेः। अत एव तातस्य स्त्री पितृव्यस्य स्त्रीत्यर्थे न ङीषन्तप्रयोगाः। अत एव मातरि षिच्चेति षित्त्वनिपातनं सार्थकम्। अन्यथा मातामहादेः पुंयोगे ङीषि मातामहीत्यादिसिद्धौ तद्वैयर्थ्यं स्पष्टमेव। नन्वेवमप्यव्युत्पन्नश्वश्रूशब्दादपत्येऽर्थे स्त्रीभ्यो ढगिति ढगापत्तिः। न च स्त्रीभ्यो ढगित्यत्र स्त्रीशब्दे शुभ्रादिषु विमातृशब्दपाठारम्भात्स्वरितत्वं प्रतिज्ञाय स्त्रीप्रत्ययान्तेभ्य इत्यर्थस्यान्यत्रोक्ततया प्रकृते न ढकः प्रसक्तिरिति वाच्यम्। ढकि लोप इति सूत्रारम्भादृष्यन्धकेति सूत्रभाष्यप्रामाण्याच्च स्त्रीभ्य इत्यर्थग्रहणमेवेति स्त्रीभ्यो ढगिति सूत्रशेखरादौ सिद्धान्तितत्वेन प्रकृते ढको दुर्वारत्वात्। मनोरमोक्तवचनारम्भपक्षे तु श्वश्रूशब्दस्य लिङ्गविशिष्टपरिभाषया श्वशुरशब्दत्वेन राजश्वशुराद्यदिति यतः प्रवृत्त्या न ढगापत्तिरिति चेत्सत्यम्। सिद्धान्तभूतेऽर्थे विमातृशब्दात् स्त्रीभ्यो ढगित्यनेनैव ढक्सिद्धौ शुभ्रादिषु विमातृशब्दपाठसामर्थ्यादसति विशेषानुशासने, सति तद्बोधकयोनिसम्बन्धवाचके शब्दे, योनिसम्बन्धवाचकेभ्यस्तद्बोधकापत्यप्रत्ययस्याभावकल्पनेनादोषात्। अत्र ज्ञाप्यांशेऽसति विशेषानुशासन इत्युक्त्या पौत्रदौहित्रादिसिद्धिः। सति तद्बोधकेत्याद्युक्त्या भागिनेयसिद्धिः। अत एव ढकि लोप इति सार्थकम्। अस्ति च प्रकृते श्वश्रूशब्दादपत्यप्रत्ययेन बोध्ययो योऽर्थस्तद्वाचकः श्यालशब्द इति नात्र ढक्। विमातृशब्दप्रकृतिकापत्यप्रत्ययेन बोध्येऽर्थे योनिसम्बन्धबोधकभ्रात्रादिशब्दानां सत्त्वेन तत्राप्यपत्यप्रत्ययसम्पादनार्थं शुभ्रादिषु तत्पाठस्सार्थकः। अत एव तातस्यापत्यमित्यर्थे अत इञित्यादेर्न प्रवृत्तिः। किञ्च विभिन्नयोनिसम्बन्धवाचकेभ्योऽपत्यप्रत्ययेन एकस्यार्थस्य बोधनं यत्र सम्भवति, तत्र सन्निकृष्टयोनिसम्बन्धवाचकप्रकृतिकापत्यप्रत्ययान्तेनैव सोऽर्थो बोध्यते, नान्येन, शब्दशक्तिस्वाभाव्यात्। अत एव पौत्र इत्यर्थे न स्नुषाशब्दादपत्यप्रत्ययः, दौहित्र इत्यर्थे न जामातृशब्दात्सः। पुत्राद्यपेक्षया स्नुषादेरसन्निकृष्टत्वात्। प्रकृते श्वशुरयोर्मध्ये श्वशुरस्यैव सन्निकृष्टस्सम्बन्धः। न श्वश्वाः। बीजप्राधान्यस्य स्मृतिषु निर्णीतत्वात्। एवञ्च न श्वश्रूशब्दादपत्यप्रत्यय इति न काप्यनुपपत्तिः। एवञ्च निर्देशादपूर्ववचनकल्पनाप्रयासो विफल एव मनोरमाकारादीनामित्युद्योतकारादीनामाशयः। एतेनात्र केचित्त्वित्याद्याहुरित्यन्तो ग्रन्थः प्रत्युक्तः। किञ्च स्त्रीप्रत्ययप्रकरणे प्रकरणपठितादेशादिविधायकेषु स्त्रियामित्यधिकारात् स्त्रीत्वे द्योत्ये इत्यर्थस्यावश्यकतया तद्‌द्योतकतायास्सर्वथाऽनर्थकेष्वादेशेषु बाधात्तत्प्रयोज्यप्रत्ययद्वारा निर्वाह्यतया प्रकृते ऊङादेशस्यातथात्वेन कल्प्यमानस्य वचनस्य शैलीविरुद्धत्वापत्तिः। अपि च स्त्रीप्रत्ययप्रकरणे प्रत्यय विधानमन्तराऽदेशादिविधानं न क्वाप्युपलभ्यते। नुगादिविधायकशास्त्रेषूत्तरत्र मण्डूकानुवृत्तिक्लेशपरिहाराय ङीबाद्यनुवृत्तेरावश्यकतया तैरेव प्रत्ययस्यापि विधानमिति प्रत्ययविधानासन्नियुक्तादेशादिविधानमपि सूत्रकारशैलीविरुद्धमित्यपि वक्तुं शक्यते। कौमुद्यादिषु ऋन्नेभ्यो ङीबित्युक्तिर्नकारादिषु कृतेषु जायमानङीबाद्यनुवादकमेवैतत्सूत्रेषु ङीबादि, अपूर्वविधाने तु गौरवापत्तेरित्याशयिका। सर्वथा तन्निवृत्तौ च मण्डूकानुवृत्तिपरिक्लेशो दुष्परिहार एव। यदि त्वव्युत्वन्नत्वपक्षे श्वशुरशब्दात्पुंयोगे ङीषापत्तिः, श्वश्रूशब्दादपत्यप्रत्ययापत्तिश्च दुष्परिहरेत्यभिमानस्तर्हि निपातनेन श्वशुरस्योकारलोप ऊङादिशश्च भविता, अनन्तरमूङुत इति प्रवर्तते। एवं सति प्रत्ययाप्रत्यययोरित परिभाषामभ्युपगच्छतां प्राचीनामां नोङ्धात्वोरित्यत्रास्य सङ्ग्रहोऽपि सिद्ध्यतीति न काप्यनुपपत्तिः। नापि ड्याप्‌सूत्रस्थभाष्यव्याकोपः। अत्र युक्तमुत्पश्यन्तु सुधियः।]
केचित्तु तद्भाष्यप्रामाण्यात्पत्युर्न इतिवदूङादेश उकारलोपश्च विधेयः। प्रवर्तमानश्चोङादेशोऽन्त्यस्य भवन्नकारं निवर्तयतीति न तन्निवृत्त्यर्थं यत्नापेक्षा। एवं च प्राथमिकाकारस्य निवृत्तिशङ्काया अपि नावकाशः। अयं च पुंयोगलक्षणङीष्प्रत्ययापवाद इति न पुंयोगविवक्षायां श्वशुरीत्यनिष्टस्य प्रसङ्गः। अत एव स्थानिवत्त्वेन श्वशुरशब्दत्वादस्मादपि राजश्वशुरादिति यति पुंवद्भावे श्वशुर्य इत्यस्य सिद्धिः। प्रत्ययाप्रत्ययोरिति परिभाषायाः प्रत्याख्यानान्नोङ्धात्वोरित्यस्यापि प्रवृत्तिरव्याहतेति सर्वमुपपन्नमन्यथा त्वनिष्टस्यानभिधानेन वारणे क्लिष्टत्वमभीष्टस्य दोर्लभ्यं च स्पष्टमेवेत्याहुः।
ननु संहितोरूरित्यादावुपमानवाचकपूर्वपदाभावेऽपि शफोरुशब्दे शफशब्दस्योपमानवाचकस्य विद्यमानत्वात्कथं तदभाव इत्यत आह।। उपभेत्यादि।।[टि- उपमेत्यादीति।। ``उपमानाभावादिति।। उपमा-उपमानं-सादृश्यम् इति शब्दरत्नपाठाभिप्रायेणेदं प्रतीकम्। अयमेव पाठः साम्प्रदायिकः। अधुनातनपुस्तकेषु उपमानाभावादिति प्रतीकस्य उपमेत्यस्य च त्यागः प्रामादिक इति बोध्यम्।] समासवाच्यत्वाभावादिति।। अयं भावः। ऊरूत्तरपदादौपम्ये इत्यूङ्विधायके औपम्यमुपमा, स्वार्थे ष्यञ्। सादृश्यं तदर्थः। ततश्च सादृश्यवाचकादूरूत्तरपदादित्युक्ते सादृश्यस्योपस्थितत्वादूरूशब्दात्मकोत्तरपदार्थगतस्यैव ग्रहीतुमौचित्यात्पूर्वपदमुपमानवाचकं सम्पद्यत इत्युपमानवाचिपूर्वपदादूरूत्तरपदादिति फलविधया व्याख्यातं परममूले, इत्थं च समासीयसादृश्यवाचकत्वमेतच्छास्त्रविधेयस्योङो निमित्तम्। करभोरुशब्दादौ बहुव्रीहिनिर्वाहकसामानाधिकरण्योपपत्तये पूर्वपदस्य तत्सदृशेऽजहल्लक्षणा, ततस्समासस्य सादृश्यवाचकता, शफोरुशब्दे च गौर्वाहीक इतिवत्सादृश्याख्यसम्बन्धप्रयोज्या शफत्वारोपरूपा गौणी लक्षणेति न समासस्य सादृश्यवाचकत्वमिति। ननु नायमक्षरमर्यादालभ्योर्थ इत्यत आह।। यद्वेति।। न भवत्येवेति।। शफोरुशब्दे तूभयथापि तत्प्रवृत्तिरिति बोध्यम्। तस्येति।। संज्ञापूर्वको विधिरनित्य इत्यस्येत्यर्थः।।
पुंयोगे दुर्वारमिति।। जातेरिति हि सम्बध्यने। अत एव किन्नरीणां नरीणामित्यादिप्रयोगनिर्वाह इत्याशयः।। न्याय्य इति।। शास्त्रकारोपदर्शितबाधकताबीजविरहितस्य सामर्थ्यमात्रप्रयोज्यस्य [टि- सामर्थ्यमात्रप्रयोज्यस्येति।। अस्य बाधस्येति शेषः।]गुण एव कल्पना, न तु प्रधाने, गुणबाधनेनोपक्षीणस्य तस्य प्रधानबाधकताया अयुक्तत्वादिति न्यायशरीरमिति बोध्यम्। ननु यस्येतिलोपालोन्त्यविध्योः प्रधानाप्रधानभावस्य सुप्रसिद्धतया न्यायप्रवृत्तिसौलभ्येन परिभाषयोरिति न युक्तमत आह।। व्याख्यातृग्रन्थानुसारेणेति।. इत्थं च व्याख्यातॄणामेवायं दोषो न तु मूलकारस्येति तत्त्वम्। ननु रान्तानुकरणेन नृशब्दस्य नरो योकारस्तस्य च वृद्धिरित्यर्थे ङीन्प्रत्ययस्य दौर्लभ्यं, न हि स्थानषष्ठ्यन्तघटितवाक्येन प्रत्ययस्य समुच्चित्य विधानं सम्भवति, तद्विधौ दिग्योगपञ्चम्या आवश्यकत्वादत आह।। आवर्तत इति।। एकत्रेति।। प्रत्ययविधावित्यर्थः। ननु विश्रवसो विश्रवणरवणाविति शिवाद्यन्तर्गणसूत्रेणादेशमात्रविधानेपि यथा तत्राण्प्रत्ययस्तथा प्रकृतेपि वृद्दिमात्रविधानेपि गणपाठादष्टाध्यायीस्थसूत्रेणैव ङीन्प्रत्ययसिद्ध्या वृथैवैषा सूत्रावृत्तिरित्यत आह।। अत एवेति।। यतो नरशब्दादिति।। आवृत्त्या ङीन्विधाने सन्निहितत्वादयमर्थो लभ्यते। नान्यथेति भावः। ननु वृद्धिविधावर्थवद्ग्रहणपरिभाषया नरो रान्तस्यार्थवतो ग्रहणे गणपाठप्रयुक्तङीन्प्रवृत्त्युत्तरकालिकयस्येतिलोपावशिष्टस्य रान्तस्यावयवीभूतो योकारस्तस्यैव स्यान्न तु वानरशब्दान्तर्गतस्यानर्थकस्येति व्यर्थ एवायं प्रयास इति चेत्सत्यम्। गणे वृद्धिविधानाय रान्तग्रहणे तदितरस्यादन्तस्य गणे पाठाभावादाचक्षाणणिजन्तत्वादिना सम्पादिताद्रान्तादेव प्रत्ययस्स्यान्न त्वदन्तादतोत्रावृत्तिः। अदन्तात्प्रत्ययविधानाय स्वीक्रियमाणायामावृत्तौ सन्निहितत्वान्ङून्प्रकृतित्वेन गृहीतनरशब्दस्यैकदेशस्यैव वृद्धिविधौ ग्रहणमिति न कोपि दोष इत्याशय इत्याहुः।।
अत्र [टि- अत्र केचिदिति।. नागेशादय इत्यर्थः। स्पष्टा चेयं सरणिश्शब्देन्दुशेखरे। नन्वेवमपि जातिमात्रप्रतिपिपादयिषायां गणसूत्राभावे नृशब्दादृन्नेभ्य इति ङीपो नरशब्दाज्जातेरिति ङीषश्च वारयितुमुपायाभावात्पाक्षिकानिष्टापत्तिः। वसेस्तव्यदिति वचनं तु वास्तव्यशब्दसाधनार्थमेव, न तु पाक्षिककृदन्तरव्यावृत्त्यर्थम्। वचनास्म्भेऽपि वासरूपविधिना तेषां पाक्षिकप्राप्तेर्दुर्वारत्वेनेनेष्टापत्तेः। अतस्तत्प्रत्याख्यानं न प्रकृतार्थसाधकमिति चेन्न। नृशब्दस्य पुरुषादिशब्दवन्नित्यपुंस्त्वाभ्युगमेन ऋन्नेभ्य इति ङीपोऽप्राप्तेः। अत एव नामलिङ्गानुशासने ``मनुष्या मानुषा मर्त्या मनुजा मानवा नरा इति षट्‌ शब्दान्मनुष्यसामान्यवाचिनोऽभिधाय ``स्युः पुमांसः पञ्चजनाः पुरुषा पूरुषा नर इति पढ्च शब्दान् पुंव्यक्तिबोधकान्प्रादर्शयदमरसिंहः। स्फुटीकृतश्चायमाशयः पूर्वार्धस्थान् षडुपादाय ``एते मनुष्यसामान्यवाचिनः उत्तरार्धस्थानुपादाय ``एते पञ्च मनुष्यजातौ पुरुषस्य इति वदता भट्ट जीदीक्षितसुतेन भानोजीदीक्षितेन स्वकृतनामलिङ्गानुशासनव्याख्यायां सुधायाम्। महेश्वरकृतामरविवेकेऽपि ``पुमांस इत्यादिपञ्चकं पुंव्यक्तावेव प्रायेण प्रयुज्यते इत्युक्त्या नृशब्दस्य नित्यपुंस्त्वं स्पष्टं प्रतीयते। अन्यथा पुमादिशब्देभ्योऽपि जातिमात्रविवक्षायां स्त्रीप्रत्ययापत्तिस्तव दुर्वारा। नरीति तु पुंयोगे ङीषि दुर्वारमेव। न च जातिमात्रप्रतिपिपादयिषायां तन्नेष्टमिति वाच्यम्। पुंयोगादाख्यायामिति सूत्रविषये स्त्रीप्रत्ययप्रकृतीनां लाक्षणिकताया भाष्यसग्मतत्वेन शाब्दिकनये लक्षणास्थले शक्यतावच्छेदकप्रकारकबोधस्य सिद्धान्तसिद्धतया जातिवाचकप्रकृतिकपुंयोगादिति सूत्रविहितङीषन्तस्थले जातिप्रकारकबोधस्यावश्याभ्युपगन्तव्यतया तत्प्रकारकबोधे तादृशप्रयोगस्यानिष्टत्वस्य दुर्वचत्वात्। प्रकारीभूतश्च धर्मो मुख्य आरोपितो वेत्यन्यदेतत्। न च पञ्चभिर्नारीभिः क्रीतः पञ्चनेत्यादिप्रयोगसिद्धये गणसूत्रमावश्यकमिति वाच्यम्। प्रागुपदर्शितनामलिङ्गानुशासनादिविरोधादुक्तार्थे तस्यानिष्टत्वात्। पञ्चनेति यदि प्रमितः प्रयोग उपलभ्येत, तदा पञ्चभिः नृभिः क्रीत इत्यर्थेन निर्वाह्यः। एतेन अन्येत्वित्यादिना वदन्तीत्यन्तेन गणसूत्रस्यावश्यकत्वोक्तिः परास्ता। किञ्चास्य सूत्रस्य भाष्यादिप्रमितग्रन्थेष्वदर्शनेन विना प्रमाणमार्षत्वं निश्चेतुं नैव शक्यते। अन्यथा ``अङ्गगात्रकण्ठेभ्यो वक्तव्य मित्यादीनामपि आर्षत्वेन प्रामाण्यप्रसङ्गः। किञ्चोपदर्शितकोशादिबलेन मृशब्दस्य स्भीत्वाभावात् गणसूत्रे नृशब्दग्रहणमनथंर्क दुरर्थकं चेत्यादि स्वयमूहनीयमित्याहुः।] केचित्। तस्य धर्म्यमित्यधिकारस्थेन ऋतोऽञिति सूत्रेण नराच्चेति वार्तिकेन च नृशब्दान्नरशब्दाच्च जायमानेनाञ्प्रत्ययेनाञन्तत्वलक्षणे ङीन्याद्युदात्तस्य नारीशब्दस्य सिद्धिः। रूढिशब्दत्वाच्च नार्थवैलक्षण्यशङ्कावकाशः। अत एव तव्यत्तव्यानीयर इति सूत्रे भाष्ये वास्तव्यशब्दसाधनाय प्रवृत्तं वसेस्तव्यत्कर्तरि णिच्चेति वचनं वास्तुशब्दप्रकृतिकभवार्थकदिगादियत्प्रत्ययेन सिद्धिमास्थाय भाष्यकृता प्रत्याख्यातम्। कैयटेन च नित्यानां शब्दानां यथाकथंचिदन्वाख्यानं कर्तव्यमित्युक्तम्। तस्मादनुपयुक्तत्वेनानार्षत्वादनुपादेयमिदं गणसूत्रमित्याहुः।।
अन्ये तु नृशब्दनरशब्दयोर्यथाकथंचिदञन्तत्वसम्पादनेन नारीशब्दस्य सिद्धावपि जातिमात्रप्रतिपिपादयिषायां गणसूत्राभावे नृशब्दादृन्नेभ्य इति ङीपो नरशब्दाज्जातेरस्त्रीविषयादिति ङीषश्च वारयितुमुपायाभावात्पाक्षिकानिष्टापत्तिः। वसेस्तव्यदिति वचनं तु वास्तव्यशब्दसाधनार्थमेव, न तु पाक्षिककर्तृबोधककृदन्तरव्यावृत्त्यर्थम्। वासरूपविधिना वचनारम्भेपि पाक्षिकतया तेषां दुर्वारत्वात्। अतस्तत्प्रत्याख्यानं न प्रकृतार्थसाधकम्। प्रकारान्तरेण कथंचिद्रूपसिद्धावप्यौत्सर्गिकानिष्टवारणात्मकं प्रयोजनं यत्र, तथाभूते विषये प्रत्याख्यानं भाष्यकाराणामनिष्टमेव। अत एव तस्येदमित्यपत्येपि बाधनार्थं कृतं भवेदिति समार्थितो योगविभागो न तु प्रत्याख्यातः। किञ्च पञ्चभिर्नारीभिः क्रीतः पञ्चनेत्यादिप्रयोगो गणसूत्रैकसाध्यः। आर्हीयस्य ठकोऽध्यर्थेति लुक्युपसर्जनस्य ङीनो लुका तत्सन्नियुक्ताया वृद्धेरपि निवृत्तिसम्भवात्। अञन्तान्ङीनि तु तस्य लुक्यञन्तस्यावशेषात्तदसिद्धिरेव। अनभिधानवादस्तु लक्षणानुसन्धानपूर्वकत्वेनैव लक्ष्यं विजानतामस्मदादीनां शास्त्रप्रत्याख्यानाय न क्षमते। तस्मादिदमावश्यकमार्षं च गणसूत्रमिति वदन्ति।।
नन्वात्मज इत्यादिना कोशेन पुत्रशब्दस्य स्त्रीपुंससाधारणत्वाभिधानादपत्यशब्दसमकक्षतया तदन्यतरविषयकबोधनिश्चयाभाव इत्यत आह।। ईकारेति।। तत्प्रकृतिकस्त्य्रधिकारविहितेकारसमभिव्याहार इत्यर्थः। तेन पुत्रीयतेः क्विपा निष्पन्नेन पुत्रशब्दार्थसमवेतस्त्रीत्वबोध इति बोध्यम्। ननु वार्तिकस्य सुतरां फलाभावे फलस्य चिन्ताविषयत्वप्रतिपादनमयुक्तमत आह।। चिन्ताबीजमिति।। अन्तोदात्तत्वमिति।। सूतादीनां दुहितृशब्देन समासे परत्वात्पुत्रडादेशे विशिष्टस्य समासस्वरेणान्तोदात्तत्वे यस्येति लोपेनानुपसर्जनटिदन्तत्वप्रयुक्ते समुदायप्रकृतिके ङीप्यनुदात्ते परतोऽतो निवृत्तावनुदात्तस्य च यत्रोदात्तलोप इति ङीप ईकारस्योदात्तत्वं बार्तिकारम्भप्रयोजनमिति भावः। ननु सूतोग्रमेरुभ्यः परीभूतपुत्रीशब्दोकारे प्रागुक्तरीत्या प्रसक्तस्योदात्तत्वस्य वारणेन तदंशे पुत्रडादेशविधानस्य सापफल्येपि नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्य इत्यनेनाख्याग्रहणबलात्स्वरूपपर्यायविशेषसाधारणतया निषेधकेन राजभोजशब्दाभ्यां परस्य नपुंसकतया कुलशब्दात्परस्य च पुत्रीशब्दस्य पकारोकारोदात्तविषयत्वाभावेन तन्निवारणात्मकफलासम्भवादेतदंशे वार्तिकारम्भो विफल एवेति चेत्सत्यम्। उत्तरपदाधिकारे पक्वेष्टकचितमित्यादिप्रयोगोपपत्तये प्रकरणप्राप्तोत्तरपदाक्षिप्तपूर्वपदरूपविशेष्यसम्बन्धेन गृह्यमाणस्य तदन्तविदेरभीष्टतया सूताद्यन्तात्परस्यापि तस्य तदधिकारस्थेनानेन वार्तिकेन पुत्रडादेशस्य न्याय्यत्वान्नाचार्येति निषेधस्याख्याग्रहणस्वारस्येन तदन्ते प्रवृत्त्ययोगात्कुलशब्दान्तबहुव्रीहेः पुंवाचकत्वसम्भवाच्च महाराजपुत्री प्रियभोजपुत्री सत्कुलपुत्रीत्यादिषु प्रागुक्तरीत्या प्रसक्तस्य पकारोकारोदात्तत्वस्य निवृत्त्यर्थमथवा वार्तिके राजभोजशब्दौ सदृशलाक्षणिकौ, तेन तद्विषये क्षत्रियतद्विशेषबोधकतादृशशब्दविषये प्रवर्तमानस्य निषेधस्य प्रवृत्त्ययोगात्। अर्श आद्यजन्तस्य कुलशब्दस्य पुंवाचकत्वसम्भवाच्च तद्विषये प्रागुपदर्शितस्वरनिवारणार्थं तदंशेपि वार्तिकारम्भस्सफल एवेत्याशयो विभावनीय इत्याहुः।
केचित्तु [टि- केचित्त्विति।। वस्तुतस्तु मूलोक्तवार्तिकफलमन्यादृशवार्तिककरणेनोपपाद्य प्रकृतवार्तिकस्य वैयर्थ्यप्रतिपादनमयुक्तम्। वार्तिकाक्षरेषु लाघवगौरवचर्चाया अयुक्तत्त्वात्। अतो मूलोक्तमपि फलं सम्यगेव। किञ्च भवत्प्रदर्शितदिशा फलान्तरस्यापि सम्भवादेतद्वार्तिकस्यावश्यकतया तेनैव मूलोक्तफलस्यापि सिद्धावन्यादृशवार्तिकेन तत्फलसाधनपूर्वकमेतद्वार्तिकस्य वैयर्थ्यकथनं सर्वथानुपपन्नम्। मूले तन्मात्रमेव फलमिति नोक्तं, येन भवदुक्तेरवकाशः स्यात्। अतो मूलस्थं फलं भवदुक्तफलस्याप्युपलक्षणमिति व्याख्यानमुचितम्। न तु मूलस्य न्यूनत्वभ्रान्तिजनकं मतान्तरत्वस्फोरकतया केचित्त्वित्यादिना व्याख्यानम्। किञ्च मूलस्थफलस्य फलान्तरोपलक्षणतया व्याख्यानमन्येषां सुकरम्। स्त्रीप्रत्यये चानुपसर्जने नेति परिभाषाव्याख्यानावसरे भवदीयवाक्यार्थचन्द्रिकायां तत्परिभाषायामुपसर्जन्पदस्य शास्त्रीयोपसर्जनपरताया भावता व्यवस्थापितत्वेन तद्रीत्याऽत्र तदादिनियमाप्रसक्त्या अतिराजपुत्रिरित्यादेः पुत्रडादेशमन्तरापि सिद्धेस्तदसाधारणफलत्वप्रतिपादनं भवतो न सङ्घटत इत्यलं परस्परविरुद्धार्थकथनेनेत्याहुः।] वार्तिकारम्भस्य मध्योदात्तनिवृत्तिमात्रफलकत्वे पुत्रीशब्देन समासे तत्प्रवृत्तिः, पुत्रडादेशे तु नेति विकल्पस्य फलिततया पुत्रः पुंभ्य इत्युत्तरं सूतोग्रराजभोजकुलमेरुभ्यो वेत्येव वक्तव्ये तादृशादेशविधायकवार्तिकारम्भो व्यर्थ एव। तस्माद्राजपुत्रीव मनुष्यो राजपुत्रीत्येवं प्रतिकृत्यर्थकस्य कनो लुपि बहुव्रीहावतिशब्देन वा तत्पुरुषे पुत्रढादेशविषये विशिष्टस्यैव ङीबन्तत्वादुपसर्जनत्वप्रयुक्ते तदादिनियमेप्युत्तरपदस्य स्त्रीप्रत्ययान्तताया निर्बाधत्वेन प्रियराजपुत्रिरतिराजपुत्रिरित्यादौ गोस्त्रियोरिति ह्रस्वो निर्विवादः। पुत्रीशब्दान्ततत्पुरुषप्रकृतिककन्नन्तोत्तरपदके तादृशसमासे तदादिनियमेन पुत्रीशब्दस्यैव ङीबन्तत्वादुत्तरपदस्य स्त्रीप्रत्ययान्तत्वाद्ध्रस्वो दुर्लभ इति साफल्यं वार्तिकारम्भस्येत्याहुः।
यत्तु केचित् राजपुत्य्रादिनीत्यादौ लिङ्गविशिष्टपरिभाषया ङीनन्ते प्रवर्तमानस्य नादिनीति निषेधस्य पुत्रडादेशे सानुबन्धके प्रवृत्त्यभावो वार्तिकप्रयोजनमित्याहुस्तदसम्भवग्रस्तमित्याह।। नादिनीति।। परत्वासम्भवादिति।। पुत्रादिनीत्यादावादिन्‌शब्दपरकपुत्रशब्दावयवे द्वित्वनिषेध इत्यर्थे येन नाव्यवधानन्यायेन रेफमात्रव्यवधाने निषेधसम्पादनेन कृतार्थस्य तादृशनिषेधस्य पुत्य्रादिनीत्यादौ रेफयकारात्मकवर्णद्वयप्रयुक्ते व्यवधाने प्रवृत्त्ययोगान्नैतस्य वार्तिकारम्भप्रयोजनत्वसम्भव इत्याशयः। ननु श्रुतत्वात्पुत्रशब्द एवादिन्शब्दपरत्वेन विशेष्यते, लिङ्गविशिष्टपरिभाषया पुत्रीशब्दे पुत्रशब्दत्वमक्षतमेव। यर्विशेषणत्वे च येन नाव्यवधानन्यायेन निर्दिष्टपरिभाषाबोधितस्याव्यवहितांशस्य रेफात्मकव्यञ्जनातिरिक्तपरत्वेन सङ्कोचकल्पनायां क्लेशेनायुक्तत्वादतस्सम्भवत्येवैतत्प्रयोजनं वार्तिकारम्भस्येति चेन्न। प्रधानभूतयर्विशेषणत्वसम्भवे तद्विशेषणीभूतपुत्रशब्दविशेषणत्वस्य न ह्युपादेरिति न्यायेनायुक्तत्वात्। अत एव पुंस्पुत्रादिनीत्यादौ शरः खय इति पकारद्वित्वे नायं निषेध इति वदन्ति।। ङीब्‌मात्रबाधकत्वादिति।। यद्यपि पञ्चेत्यत्र भूतपूर्वषट्‌त्वनिमित्तकत्वेन टाबपि वारणीयोऽस्ति, तथापि ङीबंशे सन्निहितत्वात्स्वस्रादिसाहचर्याच्च तन्मात्रविषयकत्वमित्याशयः।। टित्त्वसामर्थ्यादिति।। सानुबन्धकताया अनुबन्धान्तरेणापि सुवचत्वादित्यभिप्रायः।। ङीपोऽप्राप्तेश्चेति।। ततश्च तद्विषयकभाष्यकारीयप्रयोगविरोधापत्तिरिति भावः।।
ङित्करणसामर्थ्यादिति।। षित्करणन्तु प्रकृतेर्द्व्यनुबन्धकस्य ञ्यङो ग्रहणाविघातार्थम्। सम्प्रसारणविदौ तस्य ग्रहणाभावार्थं चेति बोध्यम्। न च षित्करणाभावे सन्यङोरिति द्विर्वचनप्रसङ्ग इति वाच्यम्। परस्परसाहचर्येण धातुविहितप्रत्यययोरेव तत्र ग्रहणात्। धातोरित्यनुवर्त्य सन्नन्तयङन्तयोर्धात्वोरेव द्वित्वविधानाच्च। यङोऽचि चेति लुगपि न भवति, अदिप्रभृतिभ्यश्शप इत्येतत्साहचर्यादित्याहुः।। द्योतकत्वाच्चेति।। गार्ग्यायणीत्यादौ ष्फप्रत्ययेन बोधितस्य स्त्रीत्वस्य द्योतने ङीषः प्रवृत्तिदर्शनाद्व्यतिलुनीत इत्यादावात्मनेपदद्योतितकर्मव्यतीहारद्योतकत्वेन व्यतीत्यनयोरुपसर्गयोस्सहप्रयोगदर्शनाच्चोक्तार्थानामिति न्यायस्य वाचकविषयताया आवश्यकत्वेन ष्यङा द्योतितस्य स्त्रीत्वस्य द्योतने चापः प्रवृत्तौ बाधकाभावेन तत्समर्थनाय सामर्थ्याश्रयणपरिक्लेशो निष्फल एवेत्याशयः।।
इदन्त्विति।। अनेन भाष्याविचारितप्रयोजनैस्सूत्राङरैरर्थविशेषकल्पनया प्रयोगाणामस्मदादिभिस्साधुत्वोपवर्णनमयुक्तम्। तदंशे भाष्यकारस्याज्ञानकल्पनापत्तेः। अत ईदृशानामसाधुत्वमेवेति सूचितम्। ननु टापः प्राक्तद्धिताधिकारे ङीबादीनामपि तद्धितसंज्ञायामित्संज्ञाविधौ लशक्वतद्धित इति तद्धितपर्युदासादादिभूतस्य ङकारस्येत्संज्ञानापत्तिरित्यत आह।। इत्संज्ञेति।। चुटुङ इति।। यस्येति चेति सूत्रस्थेद्ग्रहणाकरणलाघवस्य ष्फविधौ तद्धितग्रहणाकरणलाघवस्य चाधिकस्य सत्त्वादिदं न गौरवाधायकमिति भावः।। जादय [टि- जादय इतीति।। टीबादय इत्यस्य स्थाने जादय इति पाठः क्वचिद्दृश्यते तदनुरोधेनेदम्।] इति।। अनुवादविषये हल्ङ्याभ्य इत्यादावीकारान्तरव्यावृत्तये यथा ङकारस्तथायं जकार इति भावः। ननु टापः प्राक्तद्धिताधिकारे स्त्रीप्रत्ययान्तानां सर्वेषामेव प्रातिपदिकत्वाद्यत्र अनुदात्तस्य च यत्रोदात्तलोप इत्यस्याप्रवृत्तिर्यथा वर्णादनुदात्तादिति विधीयमानङीबन्तविषये श्येनीत्यादौ, तथाभूते विषये फिषोन्त उदात्त इत्यनेनान्तोदात्तत्वप्रसङ्ग इत्यत आह।। फिट्‌स्वरो नेति।। प्रकृतिप्रत्ययविभागशून्ये एवेति।। अन्यथा प्रत्ययेषु स्वरविशेषनिर्णायकविजातीयानेकानुबन्धासञ्जनवैयर्थ्यप्रसङ्ग िति भावः। इदं च भगवतः पाणिनेर्मतेन, तन्मते हि अव्युत्पन्नानि प्रायशः प्रातिपदिकानि।। शाकटायनमते तु सर्वेषामेव प्रातिपदिकानां प्रकृतिप्रत्ययविभागोपहितत्वेन तद्गतानुबन्धत्वप्रयुक्तस्वरविशेषानुवादकान्येव लाघवेन तत्परिज्ञानसाधकानि फिट्‌सूत्राणीति बोध्यम्।। अपरं लाघवमिति।। डित्त्वप्रयुक्तकार्यविशेषाभावेन टाबुभाभ्यामित्येव वक्तुं शक्यत्वादित्याशयः।। ज्ञापनार्थमिति।। ङीबादिरूपस्त्रीप्रत्ययात्मकेकारे तद्धितत्वप्रयुक्तकार्यसामान्याभावज्ञापनार्थमीद्ग्रहणमित्यर्थः। तेन नान्तलक्षणे ङीपि दण्डिनीत्यादौ टिलोपोपि नेति बोध्यम्। न च सन्निपातपरिभाषया तदभावसिद्धिरिति वाच्यम्। टिलोपविषये तत्परिभाषाया अप्रवृत्तेः। अन्यथा अनश्चेति विहिते समासान्ते टचि अधिराजमित्यादौ टिलोपानापत्तेः। ननु निरुक्तार्थज्ञापनार्थमीद्ग्रहणस्यावश्यकत्वे प्राक्तद्धिताधिकारारम्भे लाघवाभावः, न च ष्फविधौ तद्धितग्रहणाकरणमेव महल्लाघवमिति वाच्यम्। तस्याप्यन्यतो विधानबोधनद्वारेणासुरेरुपसंख्यानमित्येतद्वार्तिकार्थोपसङ्ग्राहकत्वेनावश्यकत्वात्। अन्यथा वार्तिकस्य वाचनिकत्वापत्तेर्लाघवस्य दुर्वचत्वादिति चेन्न। ईद्ग्र्रहणेन निरुक्तरीत्या तद्धितकार्याभावज्ञाने पुरस्तात्तद्धितसंज्ञारम्भस्य बहुराजेत्यादौ डाबुभाभ्यामिति विहिते टिलोपमात्रफलकत्वेन डित्त्वेनापि तत्सिद्ध्या नैष्फल्यात्तेनैवान्यतो विधानबोधनद्वारा वार्तिकार्थोपसङ्ग्रहस्य सिद्धतया ष्फविधौ तद्धितग्रहणाकरणेपि निर्वाहेन लाघवस्य सुवचत्वात्। निरुक्तरीत्या तद्धितकार्याभावज्ञापनस्य पट्वी दण्डिनीत्यादौ गुणटिलोपयोर्निवारकत्वेपि यावल्लक्ष्यनिर्वाहकत्वाभावेनाव्यापकत्वादसङ्गतिरित्याक्षिपति।। कुरूरित्यादि।। ज्ञापनायामिति।। इत्थं च स्त्रीप्रत्ययसामान्यविषयकत्वेन निरुक्तार्थज्ञापनायामासुरायणीत्यस्यासिद्धिः। स्त्रीप्रत्ययविशेषविषयकत्वेन ज्ञापनायां कुरूरित्याद्यसिद्धिः। अतोत्र ज्ञापनेन निर्वाहाभावादयुक्तोयं प्राक्तद्धिताधिकारप्रारम्भ इत्याशयः।। लोपानापत्तेरिति।। ननु धर्मिग्राहकसाधर्म्यादेकवर्णात्मकस्त्रीप्रत्यये तद्धितकार्याभावो ज्ञाप्यतां, ततश्च ष्फप्रत्यये यस्येति लोपो निर्बाध एवेति नास्ति प्राक्तद्धितारम्भे लक्ष्यविसंवाद इति चेतर्हि विशेषज्ञापनाभिनिवेशे विनिगमनाविरहादेकवर्णस्थानिकतद्धितकार्याभावस्य धर्मिग्राहकसाजात्यादेव ज्ञापनापत्तौ नान्तलक्षणे ङीपि दण्डिनीत्यादौ टिलोपो दुर्वारस्तस्मादयुक्त एवायं ज्ञापनप्रयासस्तद्‌ध्वनयन्नाह।। अत एवेति।। ननु ष्फडिति न्यासेन डित्त्वप्रयुक्तटिलोपादासुरायणीत्यस्य निर्बाधत्वात्सामान्ये तद्धितकार्याभावज्ञापनेनान्यत्र निर्वाहाच्च युक्त एवायं प्राक्तद्धिताधिकारप्रारम्भ इति चेत्सत्यम्। निरुक्तार्थज्ञापनार्थमीद्ग्रहणस्य ज्ञापनोत्तरं टिलोपोपपत्तये डाबुभाभ्यामिति विहिते डित्त्वस्य च कर्तव्यत्वेन लाघवाभावात्। निरुक्तज्ञापनेन ष्फप्रत्यये तद्धितनिमित्तकयस्येतिलोपस्य प्रवृत्त्ययोगात्तत्प्रवृत्तिप्रयुक्तसार्थक्यसम्पादकप्रातिपदिकान्तरविषयप्रत्ययविधानानुमितेर्दुष्करतया वार्तिकार्थोपसङ्ग्रहासम्भवेन फलाभावाच्च ष्फप्रत्ययडित्त्वेनैव तादृशवार्तिकार्थोपसङ्ग्रहस्य सुवचत्वाच्च लिङ्गविशिष्टपरिभाषाया अनित्यताज्ञापनस्यैव तत्प्रयोजनत्वेन कल्पनीयतया तस्य यथाश्रुतपाठेनापि कल्पयितुं शक्यत्वादस्थानासंरम्भ एवायं प्राक्तद्धिताधिकारप्रारम्भ इति विभावनीयमित्याहुः। तदेतत्सकलं मनसि निधायाह।। इति दिगिति।।
आत्मानमिति।। व्यवायविषयकाभिलाषोपहितान्तःकरणवतीत्यवयवमर्यादालभ्योऽर्थ इत्याशयः। वृद्ध्य दीनामिति।। इदन्तु न युक्तम्। यं विधिं प्रत्युपदेशोऽनर्थकस्स विधिर्बाध्यते, यस्य तु विधेः पुनर्निमित्तमेव, नासौ बाध्यत इति न्यायेन भिक्षादिगणस्थयुवतिशब्दपाठस्यानुदात्तादेरञित्येतन्निवृत्तिफलकतया पुंवद्भावे युवन्‌शब्दस्य कनिनन्तत्वेनाद्युदात्तत्वादौत्सर्गिकस्याणस्सिद्धतया तद्वैयर्थ्येन पुंवद्भावमात्रबाधकताया एव न्याय्यत्वेन वृद्ध्यादिबाधकताया अप्रसक्तेः। तस्मान्मूलकारोक्तो भाष्यविरोध एव वृत्तिग्रन्थासाङ्गत्यहेतुरित्याहुः।। अत एवेति।। शत्रन्ताभ्युपगमादेवेत्यर्थः। कतिप्रत्ययान्तत्ववादिनां तु कृदिकारादक्तिन इति ङीषा तत्सिद्धिः। परन्तु तत्र भाष्यानुग्रहश्चिन्त्यः। एतस्माद्विहितस्याञो निवर्तकतया भिक्षादिपाठस्यावश्यकत्वात्तत्प्रत्याख्यानस्यासाङ्गत्यापत्तेः। शत्रन्तप्रकृतिके ङीबन्तेपि शतुरनुमो नद्यजादी इत्यन्तोदात्तत्वमेवेत्याशयः।। अनित्यत्वज्ञापनार्थमिति।।
केचित्तु यूनस्तिरित्यतः प्राक्तद्धिताधिकारस्तिप्रत्ययस्य तद्धितत्वे युवतिशब्दस्य गुणवचनत्वाभावाय, तेन युवतित्वमित्यत्र त्वतलोर्गुणवचनस्येत्यस्याप्रवृत्तेर्न पुंवत्त्वमित्यभीष्टसिद्धिरित्याहुः।। [टि- आहुरिति।। अत्रेदं तत्त्वम्। आकडारसूत्रभाष्यपठितसमासादिसाहचर्येण तद्धितान्तपदेन वृत्तिभूततद्धितान्तस्यैव ग्रहणे युवतिशब्दस्यातादृशत्वेन गुणवचनत्वमिष्टमेव। अत एव यवीयसीति सिद्धम्। अन्यथा आतिशायनिकप्रत्ययानां सुबन्तादेवोत्पत्त्या सुपः पूर्वं तिप्रत्यये तत ईयसुनो दुर्लभत्वेन तदसिद्धिः स्पष्टैव। स्त्रीत्वविवक्षायामातिशायनिकः युवतिशब्दादेव, न तु स्त्रीप्रत्ययत्प्रागिति ङ्याप्‌सूत्रस्थभाष्यात्स्पष्टं प्रतीयते। एवं च युवतिशब्दात्त्वतलोःपुंवद्भाव इष्ट एव। विपरीतं तवानिष्टापत्तिः। वस्तुतस्तु वयोवाचकानां जातिकार्यस्य भाष्यसम्मततया जातेश्चेति निषेधेन युवतित्वमित्यस्य गुणवचनत्वेऽपि सिद्ध्या तदर्थमास्य तत्त्वाभावकल्पनाप्रयासो विफल एव। न च युवतीनां भाव इत्यर्थे वयोवाचकानां जातिकार्यस्य वैकल्पिकतया निषेधाभावपक्षे युवत्वमिति दुर्वारमिति वाच्यम्। त्वद्रीत्यापि कुक्‌कुटाण्डवद्व्‌त्तौ तस्य दुर्वारतया तत्रानिष्टत्वस्य भावतापि वक्तुमशक्यत्वात्। एवं च मतद्वयेऽपि युवतीनां भाव इत्यर्थे युवत्वयुवतित्वशब्दयोस्साधुत्वस्य दुर्वारतया तिप्रत्ययात्प्राक्‌ तद्धिताधिकारस्य लिङ्गविशिष्टपरिभाषानित्यत्वज्ञापनार्थत्वकथनमेव युक्तम्। अतो व्यर्थ एवायमसम्भवफलकल्पनाभिनिवेश इत्यलं पल्लवितेनेत्याहुः।।]
श्रीः इति स्त्रीप्रत्ययाः।

अथ कारकप्रकरणम्।

श्रीपरदेवतायै नमः। श्रीगणेशाय नमः। ननु ``न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर इति सकलतान्त्रिकसमाजाभिनन्दितमनुशासनम्। अत एव पीताम्बरवान् हरिः शीतकिरणवानिन्दुरित्यादयो न साधवः प्रयोगा इत्यभियुक्ताः। नीलोत्पलवान्कासारः कृष्णसर्पवान्वल्मीक इत्यत्र तु कर्मधारयस्य जातिविशेषावच्छिन्नव्यक्तिबोधने रूढतया बहुव्रीहिणा तदर्थानवगतेः कर्मधारयादेव मत्वर्थीय इति नानुशासनविरोधः। ततश्च नीलरूपवत्पर इति मूलकारीयकर्मधारयप्रकृतिकमत्वर्थीयान्तनिर्देशो न युक्तः। नीलाभिन्नरूपसम्बन्ध्यात्मकस्य तदर्थस्य बहुव्रीहिणा प्रतिपादनसौलभ्येनानुशासनविरोधादत आह।। भाष्यप्रयोगेणेति।। नन्वसुब्वत इति भाष्यकारीयप्रयोगस्य नञ्तत्पुरुषप्रकृतिकमत्वर्थीयप्रत्ययान्ततया कर्मधारयप्रकृतिकमत्वर्थीयविषयकनिषेधबोधकानुशासनसङ्कोचे कथं प्रमाणं स्यात् सत्यं, नेदमपूर्वमनुशासनम्। किन्तु यत्रैकया वृत्त्या निर्वाहस्तत्र वृत्तिद्वयश्रयणं गौरवपराहतत्वादयुक्तमिति न्यायलब्धमेतत्। ततश्च यत्र तत्पुरुषान्तरेप्युक्तरीत्या लाघवसम्भवस्तत्रापि मत्वर्थीयो निषेधविषय एवेत्यानुशासनिककर्मधारयपदं तत्पुरुषपरम्। अत एव कण्ठे कालवानित्यादयोऽपि न प्रयोगाः। तथा च नञ्तत्पुरुषप्रकृतिकमत्वर्थीयस्यापि निषेधविषयतया युक्तमेतत्सङ्कोचकत्वं भाष्यस्येति विभावनीयमित्याहुः। मत्वर्थीयोपि क्वचिदित्युत्तरं ज्ञापनादित्यपपाठः। सूचनादित्यनेनैवैतदर्थावगमात्। यद्वा सूचनादित्यन्तो ज्ञापनादित्यन्तश्च पाठभेदः।। नामार्थश्च नामार्थश्चेति।। नामार्थश्चेतिद्वन्द्वभ्रान्तिवारणार्थमेतत्।। अभेदो न संसर्ग इति।। भेदसंसर्गो [टि- भेदसंसर्ग इति।। भेदे संसर्ग इत्यर्थः।] यथा भेदाद्विलक्षणस्तथैवाभेदसंसर्गोप्यभेदाद्विलङण[टि- अभेदसंसर्गोऽपीति।। अभेदे संसर्गोऽपीत्यर्थः।] इत्याशयः। ननु सम्बन्धस्संसर्ग इति नार्थान्तरम्। स च सम्बन्धिभ्यां भिन्न उभयाश्रितः। भेदस्तु प्रतियोगितावच्छेदकेन विरोधान्मास्तु संसर्गः। कुतोयमभेदो न संसर्ग इति तत्राह।। [टि- तत्राहेति।। वस्तुतस्तु इदमवतरणमयुक्तम्। अत्राभेदस्य भट्टाचार्योक्तदिशा स्वप्रतियोगिवृत्तित्वस्वानुयोगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टान्यत्वरूपस्य निर्वक्तव्यतया तस्य चान्ततस्तद्व्यक्तित्वरूपत्वेन तस्याप्युभयाश्रितत्वस्य वक्तुमशक्यतया भेदस्येव सम्बन्धत्वायोग्यत्वेन भेदाद्वैषम्यस्य दुरुपपादत्वात्। अतोऽबेदस्य संसर्गत्वं भाष्यानभिप्रेतमपीति दर्शयितुमाहेत्यवतरणं युक्तम्। अस्माद्भाष्यात्सम्बन्धो हि सम्बन्धिभ्यां भिन्नः, उभयाश्रित इत्युक्तेः प्रमितत्वमपि बोध्यत इति दिक्‌।] राहोश्शिर इत्यादि।। औपाधिकभेदेनेति।। राहुत्वशिरस्त्वरूपोपाधिगतभेदारोपेण परिकल्पितावयवावयविभावसम्बन्धे इत्यर्थः। अभेदस्य संसर्गत्वे तेनैव षष्ठ्युपपत्तौ व्यर्थोयं भाष्यकारीयप्रयास इत्याशयः।। तेन शब्देनेति।। न विद्यते भेदस्तन्मूलकस्संसर्गो यस्मिन्विशेषणविशेष्यभावे सोयमभेदस्स चासौ संसर्ग इति बहुव्रीहिगर्भकर्मधारयेण सम्बन्धान्तरानवच्छिन्नविशेषणविशेष्यभावोऽत्राभेदसंसर्गशब्देनोच्यत इति भावः।
केचित्तु नीलो घट इत्यादौ नीलाभिन्नो घट इत्येवं सार्वजनीनतया बोधविषयत्वेन प्रसिद्धस्याभेदस्य प्रकारतासंसर्गतान्यतररूपा का च नावश्यमभ्युपेया विषयता। तत्र पदानुपस्थिते प्रकारतया भानस्यानिष्टत्वाल्लक्षणाश्रयणापत्त्या लाघवादाकाङ्‌क्षागम्यत्वेन प्रसिद्धा सांसर्गिकविषयतैव तस्य न्याय्या। धान्येन धनवानित्यादौ सांसर्गिकविषयतया तद्भानं सकलसुप्रसिद्धम्। राहोश्शिर इत्यत्रारोपिताभेदपुरस्कारेण षर्ष्ठी समर्थयतो भाष्यकारस्य च षष्ठी शेष इति सूत्रस्थशेषपदार्थतया नाभेदो ग्रहीतव्य इत्येव तात्पर्यमिति वक्तुं युक्तम्। किञ्च संसर्गानवच्छिन्नोपि यदि विशेषणविशेष्यभावस्स्यात्तर्हि भेदस्थलेपि तथाविधः प्रसज्येत। यदि च पदार्थे पदार्थान्तरवैशिष्ट्यस्य सम्बन्धविशेषमन्तरा दुर्वचत्वेनाकाङ्क्षावशादुपस्थितस्य तस्य सांसर्गिकविषयतया भानमावश्यकमित्युच्यते, तर्हि प्रकृतेपि तथाविधाकाङ्क्षा दुर्वारैव।। अपि च नीलविशिष्टो घट इत्येवं बोधेभेदेनाभेदेन वेति सन्देहात्प्रवृत्तिर्दुर्लभा। तस्मादभेदो न संसर्ग इति निर्युक्तिकं निष्प्रमाणं चेत्याहुः।।[टि- आहुरिति।। परे तु अभेदस्सम्बन्ध इति न युक्तम्। भेदनियतत्वात्तस्य षष्ट्यापत्तेश्च। न च नीलो घट इत्यादितो जायमानबोधस्य विशिष्टबुद्धित्वात्तस्यास्सम्बन्धविषयकत्वनियमादत्राभेदस्य सम्बन्धत्वमावश्यकमिति वाच्यम्। तत्र भासमानविशेषणविशेष्यभावरूपसामान्यसम्बन्धस्यैव विशिष्टबुद्धिनियामकत्वाभ्युपगमेनादोषात्। न चान्यत्र तत्तत्सम्बन्धविशेषाणां तन्नियामकत्वदर्शनात्प्रकृतेऽपि तथैवोचितमिति वाच्यम्। तत्र तत्र तत्तत्सम्बन्धानां तन्नियामकत्वकल्पनापेक्षया सर्वत्रानुस्यूतस्यास्यैव तन्नियामकत्वकल्पनस्यैव लाघवेन युक्तत्वात्। किञ्च तत्तत्सम्बन्धानां तन्नियामकत्वे तेषां षष्ठ्यादिवाच्यत्वेन तदुपस्थाप्यानां तन्नियामकत्वमत्र त्वाकाङ्क्षालभ्यस्य तत्त्वमिति वैरूप्यापत्तिः। मम तु विसेषणविशेष्यभावस्य सर्वत्राप्याकाङ्क्षालभ्यत्वेन तस्यैव तन्नियामकत्वे त्वैकरूप्यं स्पष्टमेव। न च विशेषणविशेष्यभावस्य किञ्चित्सम्बन्धावच्छिन्नत्वनियमानुरोधेन अबेदस्य संसर्गत्वमावश्यकमिति वाच्यम्। तादृशनियमानङ्गीकारात्। न च सम्बन्धमन्तरा यदि विशेषणविशेष्यभावः स्यात्तदा घटः पट इत्यात्रापि स स्यादिति वाच्यम्। पदार्थतावच्छेदकसामानाधिकरण्यज्ञानस्य पदार्थद्वयसंसर्गज्ञानस्य वा तन्नियामकत्वाभ्युपगमेनादोषात्। पदार्थद्वयसंसर्गस्य षष्ठ्यादिवाच्यतायास्समर्थसूत्रादौ भाष्ये उक्तत्वेन प्रकृते तस्याप्यभावात्। न चाभेदस्य भानाबावे नीलविशिष्टो घट इति बोधे भेदेनाबेदेन वेति सन्देहात्प्रवृत्तिर्दुर्लभेति वाच्यम्। भासमानविशेषणविशेष्यभावस्य निरवच्छिन्नत्वसावच्छिन्नत्वाभ्यां बोधवैलक्षण्येन प्रवृत्तेस्सुलभत्वात्। न च विशेषणत्वादेरभानम्, अन्यथा तस्यापि किञ्चिद्विषयतया भानावश्यकत्वेन तस्यापि किञ्चिद्विषयतयेत्यनवस्थापत्तेरिति वाच्यम्। तवापि सम्बन्धस्य किञ्चित्सम्बन्धेनेत्येवमनवस्थापत्तेस्तुल्यत्वात्। अथ सम्बन्धः स्वरूपेणैव भासत इति नानवस्थेति चेन्ममापि विषयता स्वरूपेणैव भासत इति तुल्यम्। न च विषयताया बोधे भाने न मानमिति वाच्यम्। नीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिज्ञानवानहमित्यनुव्यवसायस्यैव मानत्वात्। व्यवसायेऽबासमानस्याप्यनुव्यवसाये भाने तु द्रव्यत्वादेरपि भानप्रसङ्गः। अत एव राज्ञ इत्येतावन्मात्रोक्तावपि तस्य विसेषणतायाः प्रतीतेस्तस्य षष्ट्यर्थत्वमावश्यकमिति षष्ठी शेष इति भाष्योत्त्या विशेषणतायाः षष्ठ्याद्यर्थत्वोक्तिर्मञ्जूषायां सङ्गच्छते। न हि वाच्यस्याभानमिति वक्तुं शक्यते। अत एव च समर्थसूत्रे भाष्ये जहत्स्वार्थावृत्युपपादनावसरे राज्ञः पुरूष इत्यादौ राजपदार्थे विद्यमानस्य विशेष्यत्वरूपार्थस्य त्याग इत्युक्तम्। विशेष्यतायाश्शाब्दबुद्धावबाने तत्त्यागोक्तिरसङ्गता स्यात्। तस्माद्भाष्यानुभवसिद्धमेव विषयताभानम्। किञ्च विषयताया ज्ञानमात्रे भानम्। अत एव जात्याकृतिव्यक्तयस्तु पदार्थ इति न्यायसूत्रे तुशब्देन प्रधानोपसर्जनभावस्यानियमेन पदार्थत्वमिति वदता प्रज्ञापनीयधर्मविशिष्टो धर्मी साध्य इति प्रस्तावे शब्दस्यानित्यत्वस्य च सिद्धत्वान्न साध्यता, अपि त्वन्यधर्मत्वेन प्रज्ञातस्यानित्यत्वस्य धर्मिणा शब्देन यो विशेषणविशेष्यबावस्स साध्य इति वदता च न्यायवार्तिककारेण शाब्दे अनुमितौ च विषयताभानं स्पष्टमेवोक्तम्। स्पष्टं चेदं मञ्जूषायां शक्तिवादे। किञ्च राज्ञः पुरुष इत्यादौ स्वस्वामिभाबादेर्विभक्तिवाच्यत्वमिति वैयाकरणमते विशेषणविशेष्यभावस्यैव वाक्यशक्यतया तस्य भानं नेति वक्तुमशक्यम्। न च स्वस्वामिभावादिस्तथा। अन्यलभ्यत्वात्। तस्यैव तत्त्वे वाक्यार्थस्यापूर्वत्वसिद्धान्तभङ्गः। एवं च सर्वत्र तस्यैव तत्त्वमुचितम्। अभेदस्य संसर्गत्वे तु तस्यापि वाक्यार्थत्वकल्पनायां गौरवम्। न चाभेदः प्रथमार्थ इति वाच्यम्। अनुशासनाभावात्। नीलं घटमित्यादौ तथाप्यनिर्वाहाच्च। न चैवमपि विशेषणविशेष्यभावरूपसम्बन्धमादाय षष्ठ्यापत्तिरिति वाच्यम्। तस्य वाक्यार्थतया षष्ठीवाच्यत्वासम्भवेन तत्र तदप्रवृत्तेः। विनिगमनाविरहात्तद्वाचिका षष्ठ्येव कुतो नेति तु न शङ्क्यम्। शेषपदेन पर्युदासन्यायेन क्रियाकारकभावादेस्सम्बन्धविशेषादन्यस्य सम्बन्धविशेषस्यैव ग्रहणेन विशेषणविशेष्यभावस्य सामान्यसम्बन्धतया पष्ठ्यप्राप्तेः। अभेदस्य सम्बन्धत्वे तस्य विशेषरूपतया सा दुर्वार। अत एव राहोः शिर इत्यादावौपाधिकभेदेनावयवावयविभावकल्पनया षष्ठीसमर्थनं भाष्यकृतस्सङ्गच्छते। अभेदस्य सम्बन्धत्वं नव्यनैयायिकानामप्यसम्मतम्। अत एव कर्मधारयोत्तरभावप्रत्ययस्य सामानाधिकरण्यवचनत्वं कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेनेत्यभियुक्तोक्तेरित्युक्तं तैः। अन्यथा राजपौरुष्यमित्यादौ पूर्वोत्तरपदार्थयोस्सम्बन्धस्येव अभेदस्य तत्त्वे तस्यैव तदर्थत्वमुक्तं स्यात्। न चैवमपि नीलोत्पलत्वमित्यत्र विशेषणविशेष्यभावस्य भावप्रत्ययार्थत्वं स्यादिति वाच्यम्। अभियुक्तोक्तौ सम्बन्धपदस्य तद्विशेषपरत्वेनादोषात्। अन्यथा कृत्तद्धितसमासेभ्य इति स्थलविशेषनिर्देशवैयर्थ्यात्। नीलाभिन्नो घट इति बोधस्तु स्ववासनामात्रकल्पित इति तदनुरोधेनाभेदस्य संसर्गत्वव्यवस्थापनमयुक्तम्। इतरसम्बन्धानवच्छिन्नविशेषणविशेष्यभावरूपो वा तत्र भासमानाभेदः। व्यक्त्यभेद एव तादृशविशेषणविशेष्यभावप्रतीतेः। स्फुटीकृत चेदं इतरसम्बन्धानवच्छिन्नविशेषणविशेष्यभावरूपस्य तेन शब्देनाभिधानादिति वदता मूलकृता। एवञ्चाभेदस्य संसर्गत्वं निर्युक्तिकं निष्प्रमाणकमित्यलं तस्य तत्त्वस्थापनप्रयासेनेत्याहुः।]
उपलक्षणमिति।। यथा पीताम्बर इत्यादिषष्ठ्यर्थबहुव्रीहौ यन्निष्ठस्वामितानिरूपितस्वत्ववदम्बरं पीताभिन्नमिति विग्रहार्थः पीताभिन्नाम्बरनिष्ठस्वत्वनिरूपितस्वामित्ववानिति वृत्त्यर्थः, तथा वीरपुरुषक इत्यादिसप्तम्यर्थबहुव्रीहावपि यदधिकरणकाः पुरुषा वीराभिन्ना इति विग्रहार्थ। वीराभिन्न पुरुषाधिकरणीभूतो ग्राम इति वृत्त्यर्थ इति लास्ति वर्तिपदार्थयोरभेदान्वये वैषम्यमिति भावः।। प्राप्तोदकादाविति।। कर्तृनिष्ठान्तस्य प्राप्तशब्दस्य वृत्तिविषये प्राप्तिमात्रपरत्वम्। तत्र स्वकर्तृकत्वसम्बन्धेनोदकस्यान्वयः। प्राप्तेश्च कर्मण्यन्यपदार्थे, वृत्तिविग्रहयोरीदृशे विषये विशेषणविशेष्यभाववैपरीत्यस्य प्रसिद्धत्वात्। ततश्चोदककर्तृकप्राप्तिकर्म ग्राम इति बोधः। तस्य प्राप्तिकर्तृरूपार्थपरत्वे तु प्राप्त्यंशे विशेष्यभूतस्य कर्तुर्वा तदन्वितस्योदकस्य वा कर्मण्यन्यपदार्थे नास्त्यन्वयसम्भव इति भावः।। क्व व्यभिचार इति।। प्राप्तशब्दस्य कर्तृनिष्ठप्राप्तिपरतया प्राप्तिपिशेषणे कर्तर्युदकस्याभेदेनैवान्वय इत्याशयः।। नामजन्यप्रतीतिविशेष्ययोरेवेति।। नामजन्यप्रतीतिविषययोर्यद्यन्वयस्तर्हि विशेष्ययोरेवेति नियमाकारः। प्रकृतिप्रत्ययार्थयोरप्यन्वयदर्शनात्।। अभेदेनैवेति।। नामार्थयोरेवाभेदान्वय इति न नियमः, स्तोकं पचतीत्यादावभेदान्वयदर्शनात्।। द्योतकतयेति।। टाबादिध्योत्यस्त्रीत्वस्येव तिङ्‌द्योत्यार्थस्यापि विशेषणत्वेनैवान्वय इति भावः। भावप्रधानमाख्यातमिति वदतो यास्कमुनेरपि तिङां द्योतकत्व एव पक्षपात इति तात्पर्यम्।। मानाभाव इति।। वृत्तौ द्योतकत्वमन्यत्र वाचकत्वमित्यप्ययुक्तम्। जीविकाप्राप्त इत्यादौ कर्तृविशेष्यकबोधानुपपत्तेः।। एकोपस्थितिरिति।। वेशेषणविशेष्यभावापन्नानेकार्थविषयकैकोपस्थितिनियामिका समुदायशक्तिरेकार्थीभाव इति तदंशे पृथगुपस्थितिविषयानेकार्थगोचरान्वयनियामिका व्युत्पत्त्यः कथं प्रवर्तेरन्नित्याशयः।। अपास्तमिति।। एतद्व्युतपत्तिभङ्गभयादेव नैयायिकादिभिः पूर्वपदे लक्षणाभ्युपगमाच्छाब्दिकैरेकार्थीभावरूपसमुदायशक्तिस्वीकाराच्च नास्ति तत्रैतद्व्युत्पत्तिविरोध इति भावः।। घटश्चेत्यादाविति।। वाचकत्वे घटसम्बन्धी समुच्चय इति बोधः। द्यातकत्वे तु समुच्चयविशिष्टो घट इति बोध इति द्रष्टव्यम्। ननु निपातद्योत्यार्थस्य समभिव्याहृतपदार्थप्रकारताया आनुभविकत्वेन भवतु निपातानां द्योतकत्वम्। भेदान्वयस्तु दुर्वार एवेति कथं व्यभिचाराभाव इत्यत आह।। विशिष्टोपस्थितिरिति।। एकार्थीभाववत्तत्रापि विशेषणविशेष्यभावावगाहिनी समुदायोपस्थितिरिति नास्ति पृथगुपस्थितिगोचरानेकार्थान्वयनियामकव्युत्पत्तिविषयतेति भावः।। सकर्मकत्वमिति।। व्यापारव्यधिकरणफलवाचकत्वं तत्त्वम्। अदोष इति।। निपातानां वाचकत्वेपीत्याशयः। एतेन चन्द्र इव मुखमित्यादौ चन्द्रप्रतियोगिकसादृश्यानुयोगि मुखमित्येवंविधबोधस्यानुभविकतया केषां चिन्निपातानां वाचकताया आवश्यकत्वेन तदंशे व्यभिचार एवेत्यपास्तम्।। देवतायुक्तामिति।। वैश्वदेव्यामिक्षेत्यादौ श्रुत्या देवतात्वसिद्धये सास्य देवतेत्यनेन विहितस्याणो देवतासम्बन्ध्यर्थकतायामेकदेशभूतदेवतारूपार्थे प्रकृत्यर्थस्याभेदान्वयो जैभिनीयतन्त्रे प्रसिद्ध इति भावः। तदाह।। मीमांसकमते इति।। ननु परिमाणरूपार्थे विशिष्य प्रथमानुशासनात्परिच्छेद्यपरिच्छेदकभावरूपभेदसंसर्गकबोधतात्पर्येण द्रोणो व्रीहिरित्यस्येव द्रोणो व्रीहिमानयेत्यादीनामपि साधुत्वप्रसङ्ग इत्यत आह।। अनभिधानादिति।। प्रयुक्तानामेव साधुत्वान्वाख्यानादिति भावः। ननु परिमाणरूपार्थे प्रथमानुशासनेनैतादृशेषु भेदान्वयस्वीकारे सर्पिः कुढबमात्रमित्यादेः कुडबपरिमाणपरिच्छिन्नं सर्पिरित्यर्थकतया धातुविहितप्रत्ययान्तभिन्नं समानाधिकरणमसमर्थवदित्यर्थकेनाधात्वभिहितं समानाधिकरणमसमर्थवदित्यनेन सामर्थ्याभावस्य वक्तुमशक्यत्वादिसुसोस्सामर्थ्य इति षत्वापत्तिर्दुर्वारेत्यत आह।। सर्पिः कुडबमात्रमित्यादि।। व्यवस्थितविभाषयेति।। यद्यपि ``देवत्रातो गलो ग्राह इति योगे च सद्विधिः। मिथस्ते न विभाष्यन्ते गवाक्षस्संशितव्रत इति भाष्यकारपरिगणितासु व्यवस्थितविभाषासु नेयं दृश्यते, तथापि लक्ष्यानुसारादाश्रयितव्येति भावः। यदि तु कुडबमात्रमित्यत्र परिमाणिन्ययं मात्रच्प्रत्यय इत्युच्यते तदा सामानाधिकरण्यस्य निर्बाधतया सामर्थ्याभावस्सुवच एव। मात्रशब्दस्यावधारणार्थकस्यास्वपदविग्रहकमयूरव्यंसकादिसमासे चात्र दोष इति बोध्यम्।।
लिङ्गवद्विशेष्यान्वयीति।। प्रवृत्तिनिमित्तानन्तर्भावेणोपस्थितस्य स्त्रीत्वादिरूपलिङ्गस्य यथा द्रव्येणान्वयस्तथा परिमाणरूपार्थस्यापोति तदर्थः। तत्रैतावान् विशेषः। लिङ्गस्य प्रकारतयाभेदेनान्वयः। परिमाणस्य त्वभेदेन विशेष्यतयेति।। [टि- विशेष्यतयेति।। अत्रेदं चिन्त्यम्। परिमाणस्य प्रातिपदिकवाच्यतया पृथगुपस्थित्यङ्गीकारेऽपि लिङ्गवत्प्रकारतयैवान्वय उचितः। न तु विशेष्यतया । एवञ्च सति लिङ्गवद्विशेष्यान्वयीति मूलमैकरूप्येणोपपद्यते। अन्यथा दृष्टान्तविषये विसेष्येऽन्वयीति दार्ष्टान्तिके विसेष्यतयान्वयीति विभिन्नरूपेणार्थकथने वैरूप्यं स्पष्टमेव। अतो भेदेनाभेदेनेत्येतावानेव विशेषो वर्णयितुमुचित इति।
वस्तुतस्तु घटश्चेत्यादौ विशिष्टोपस्थितिरिति मूलोक्तरीत्या तत्र भवद्वर्णितरीत्या चैतादृशस्थलेषु विशिष्टशक्तिरेवेति अन्वय एव न सम्भवति। पृथगुपस्थित्यङ्गीकारे उद्देश्यविधेयभावेनान्वयस्यौत्सर्गिकस्य त्यागप्रसङ्गात्पृथगुपस्थितयोस्तथैवान्वय उचित इति निरूपितं धात्वर्थवादे मञ्जूषायाम्। पृथक्‌शक्तिकल्पनायामन्वयौपयिकसामग्रीकल्पनायां गौरवाच्च। अतो मूले विशेष्यान्वयीत्यस्य लिङ्गं यथा विशेष्ये विसेषणतयोपस्थितिविषयः तद्वत्परिमाणमपीत्याशयो वर्णनीयः। एवं चोभयत्र विशिष्टोपस्थितिरित्येव मूलतात्पर्यम्। अत्र युक्तमुत्पश्यन्तु सुधियः।] द्वौ ब्राह्मणाविति।। ब्राह्मणपदोत्तरद्विवचनप्रतिपाद्यद्वित्वानुवादकत्वेन यथ् द्विशब्दस्य सहप्रयोगस्तथा द्रोमादिशब्दप्रतिपाद्यपरिमाणरूपार्थानुवादकतया परिमाणशब्दस्येति भावः। इयत्ताविशेषेत्यादेः इयत्ताविसेषावच्छिन्नं यत्पलादिपरिच्छिन्नं यद्धान्यादि तत्परिच्छेदकत्वसमानाधिकरण इत्यर्थः।। इत्येवेति।। न तु व्रीह्यादिपरिच्छेद्यसमभिव्याहृतं भेदान्वयोपपादकमित्यर्थः। नन्वेवं द्रोणो व्रीहिरित्यादावनन्वयापत्तिः, तत्राह।। लक्षणयेति।। ननु सिंहो माणवक इत्यत्र सिंहनिष्टशोर्यादिगुणसजातीयगुणवत्तामूलकसादृश्यप्रयोज्या गौणी लक्षणा, प्रकृते तु परिच्छेद्यपरिच्छेदकभावसम्बन्धप्रयुक्ताजहत्स्वार्थेति वैजात्यात्कथं दृष्टान्तदार्ष्टान्तिकभाव इत्यत आह।। शक्यतावच्छेदकारोप एवेति।। शक्यसम्बन्धस्तु शक्यतावच्छेदकारोपरूपलक्षणानियामकत्वाल्लक्षणेति व्यवह्रियते। सादृश्यहेतुकश्चशक्यतावच्छेदकारोपस्सादृश्यनिर्वाहकगुणारोपमूलकत्वाद्गौण इत्युच्यते न तु शक्यतावच्छेदकारोपे कश्चन विसेष इति नास्ति वैलक्षण्यमतो युक्त एवायं दृष्टान्तदार्ष्टान्तिकभाव इत्याशयः।। प्रातिपदिकार्थ इत्यस्येति।। यथा न्यास इत्यादिः।। अलिङ्गा असत्त्वभूतार्थबोधका उच्चैरादयः। लिङ्गप्रवृत्तिनिमित्तका स्त्रीपुमानित्यादयः।। उपलक्षणामिति।। तेन पलं घृतमित्याद्युन्मानविषयेप्येषैव गतिरिति भावः। यत्तु प्रमाणस्यापीदमुपलक्षणं तेन हस्तः पट इत्यादौ प्रामाणे प्रथमासिद्ध्याऽभेदान्वयोपपत्तिरिति।। तदसत्। तथाविधेषु प्रमाणार्थकस्य मात्रचः प्रमाणे ल इति वार्तिकेन लोपे परिच्छेद्यवाचकहस्तादिशब्देभ्यः प्रातिपदिकार्थे प्रथमामाश्रित्याभेदान्वयस्य सर्वानुभवसिद्धत्वात्।।
तत्सर्वमिति।। अर्थे लिङ्गे च प्रथमेति न्यासे प्रत्यासत्त्या स्वादिविधानावध्युच्चारणव्यापकोपस्थितिविषयस्सर्वोऽप्यर्थो विनिगमनाविरहाद्गृह्यते। तेन द्रोणादिप्रातिपदिकविषये परिमाणरूपार्थस्य मृडानी हिमानीत्यादिलिङ्गबोधकप्रत्ययविशिष्टांशे दाम्पत्यमहत्त्वादिरूपार्थस्य च नियतैवोपस्थितिरित्यर्थशब्देन ग्राहणात्प्रथमासिद्धिः। लिङ्गन्तु न तादृशमतस्तस्य पृथगुक्तिः।। तटस्तटमिति।। तटीत्यादितो लिङ्गस्या स्त्रीप्रत्ययद्योत्यस्य नियमेनोपस्थितेर्न तल्लिङ्गाधिक्योदाहरणम्। तदाह।। अकारान्तेति।। प्रवृत्तिनिमित्ततदाश्रययोरिति।। यथान्यासे लिङ्गग्रहणाद्भगवतस्सूत्रकारस्य द्विकपक्ष एव पक्षपात इत्याशयः।। असङ्गतिस्स्पष्टैवेति।। एवञ्च मूलोक्तद्रौणो व्रीहिरित्यादौ भेदान्वयनिरूपणं सूत्रकाराभिप्रायवर्णनमेव। न तु स्वाभिप्रायाविष्करणमिति भावः। स्वरूपकथनमिति।। प्रातिपदिकसंस्कारवेलायामत्वयानुपपत्तिरूपलक्षणाबीजपरिस्फूर्त्यभावाल्लक्षणाया अनौचित्येन शक्यार्थमादाय विभक्तेर्निर्बाधत्वाल्लाक्षणिकार्थस्य प्रथमाविभक्तिप्रवृत्तिप्रयोजकत्वाभावेन रक्ष्यस्वरूपपरिज्ञानमात्रप्रयोजनकमेवात्रैतन्निरूपणमिति भावः।। नन्वन्वयानुपपत्तिवत्तात्पर्यानुपपत्तिरपि लक्षणाबीजमेव। यथा काकेभ्यो दधि रक्ष्यतामित्यादावुपधातुकजन्तुमात्रलक्षणायां दध्युपधाताभावतात्पर्यानुपपत्तिः। ततश्च यत्र रघवो भवन्ति लघव इत्यादौ प्रातिपदिकसंस्कारवेलायामेव तात्पर्यानुपपत्तिप्रयुक्ता तदपत्यादौ लक्षणा, तत्र लक्ष्यार्थस्यापि प्रथमाविभक्तिप्रयोजकत्वमावश्यकम्। अन्यथा बहुवचनानुपपत्तेः। तस्मात्कथं लक्षणायाः प्रकृते स्वरूपकथनमात्रप्रयोजनकत्वमिति चेन्न। सकलविधलक्षणास्वरूपनिरूपणस्य स्वरूपपरिज्ञानमात्रप्रयोजनकत्वमित्याशयात्। तदाह।। स्वार्थे इत्यादि।। शक्यार्थे विभक्त्यादिना संस्कृतस्य परिनिष्ठितस्य तताविधपदान्तरसमभिव्याहारे बोध्धृभिरन्वयानुपपत्तिसमुन्नीतवक्तृतात्पर्यविशेषानुरोधिनी लक्षणावृत्तिरभ्युपगम्यते। वक्तुरपि तथाविधिषु स्वार्थे संस्कृतस्य प्रयोगकाल एव समभिव्याहारविशेषानुसन्धानप्रयुक्तान्वयानुपपत्तिनिमित्तकलक्षणावगतिरित्याशयः।
केचित्तु [टि- किचित्त्विति।। ननु मूलोक्तस्य लक्षणा चेति प्रतीकस्थस्य `इदं स्वरूपकथनमितिग्रन्थस्य सकलविधलक्षणास्वरूपनिरूपणस्य स्वरूपपरिज्ञानमात्रप्रयोजनकत्वमित्याशयकत्वे रघव इत्याद्यर्थं लक्षणास्वरूपप्रदर्शनस्य प्रकृतोपयोगित्वेन स्वरूपकथनत्वोक्तिरसङ्गता स्यात्। गौणीप्रसङ्गस्य स्वरूपकथनतात्पर्यकत्वे गौणीत्विति प्रतीकमुपादाय तद्वक्तुमुचितम्। न तु लक्षणा चेति प्रतीकमुपादाय। ततश्चाशयान्तरवर्णनमेव युक्तमित्याशयेनाह।। केचित्त्वित्यादिना।।] तात्पर्यानुपपत्तिप्रयुक्तलक्षणावगतिरपि वक्तृबोद्धृसाधारण्येन प्रयोगकाल एव, न तु प्रातिपदिकसंस्कारवेलायाम्। यत्किञ्चित्समभिव्याहारानुसन्धानेन संस्कारप्रवृत्तौ विरोधाभावात्। ततश्च शक्यार्थे संस्कृतस्य समभिव्याहारविशेषानुसन्धानेन प्रयोगचिकीर्षायां तात्पर्यविरोधाल्लक्षणाप्रसक्त्या नास्ति काकेभ्य इत्यादावपि प्रातिपदिकसंस्कारवेलायां लक्षणावसरः। गुरवस्समागता इत्यादौ यथा योग्यगुणगतबहुत्वारोपेण बहुवचनोपपत्तिस्तथा तदपत्यगतबहुत्वारोपाद्रघव इत्यादावपि तदुपपत्तिरतो नास्ति प्रातिपदिकसंस्कारवेलायां कस्यापि लक्षणाप्रसक्तिरिति क्वचिदपि न लक्ष्यर्थस्य प्रथमाप्रवृत्तिप्रयोजकत्वमित्याहुः।।[टि- आहुरिति।। नन्वेवमपि मृडानीत्यादिनित्यलाक्षणिकानां प्रातिपदिकसंस्कारवेलायामेव लक्षणोपयोग इति कथं तत्स्वरूपकथनमिति चेन्न। प्रसिद्धान्यशक्यार्थकस्य तदन्यार्थे तद्विशेषार्थे वा यत्र प्रयोगस्तत्रैव लक्षणाव्यवहारेण प्रकृतस्यातथात्वेन लक्षणाया अभावेन शक्तेरेवाङ्गीकारात्। अत एव भवानीप्रभृतीनां कोशेषु गणनम्। न हि लाक्षणिकानां कोशेषु गणनं दृष्टमतो न काप्यनुपपत्तिरिति बोध्यम्।]
मीमांसकरीत्येति।। तन्मते हि सिंहो माणवक इत्यादौ गुणगतसादृश्यात्सिंहादिपदजन्यप्रतीतिविषयता मामवकादेः। सेयं न शक्तिस्तस्यास्तत्तत्पदगतवाचकतारूपत्वात्। नापि लक्षणा, तस्यास्तत्तल्लक्ष्यगतशक्यसम्बन्धविशेषरूपत्वात्। तस्माद्वृत्त्यन्तरमेव गौणीति व्यवस्थापयन्ति।।
शाब्दिकास्तु शक्यतावच्छेदकारोप एव लक्षणा, सम्बन्धस्तु तन्नियामाकः। न ह्यारोपमन्तरा तद्धर्मप्रकारको लक्ष्यविशेष्यकश्च सर्वजनसाधारणो बोध उपपद्यते। न वा गङ्गायां घोष इत्यादौ भगीरथरथखातावच्छिन्नप्रवाहत्वप्रकारकतीरविशेष्यकबोधमन्तरेण शैत्यपावनत्वादिप्रतीतिराञ्जस्यैन परिक्फुरति।। अत एव गङ्गायां मीनघोषावित्यादावारोपितानारोपितप्रवाहत्वप्रकारकैकोपस्थितिविसेष्ययोः प्रवाहतीरयोः साहित्यावच्छेदेन मीनघोषात्मकपदार्थान्तरान्वयोपपत्त्या द्वन्द्वसाधुत्वेन प्रयोगनिर्वाहः। अन्यथा शक्त्या शक्यसम्बन्धरूपलक्षणया च पर्यायेण पृथगुपस्थितयोरावृत्तिमन्तरेण पदर्थान्तरान्वयायोगाद्‌द्वन्द्वोपपादकसाहित्याभावेन साधुतया प्रचुरव्यवहारविषयस्य तादृशप्रयोगस्यासाङ्गत्यमेव स्यात्। अतस्सकललक्ष्यसाधारणश्शक्यतावच्छेदकारोप इति नास्ति गौण्या लक्षणातो वैलक्षण्यम्। किन्तु गुणकृतसादृश्यमूलकस्य तस्य गौणत्वाद्गौणीति व्यवहार इत्याहुः।।
ननु प्रकृतसूत्रगतप्रातिपदिकग्रहणस्योक्तरीत्या प्रत्याक्याने भाष्यविरोधो दुर्वारः। तथाहि। प्रातिपदिकाधिकारेण स्वौजसित्यादिना विहितानां प्रत्ययानामर्थनिर्णायकत्वादस्य प्रकरणस्यार्थे प्रथमेत्युक्तावपि यतो विहितास्तदर्थ इत्यस्य सौलभ्यात्प्रातिपदिकग्रहणमन्तरापि प्रातिपदिकार्थ इत्येव लभ्यत इति व्यर्थं प्रातिपदिकग्रहणमित्याशङ्क्य संख्याविध्येकवाक्यतया प्रातिपदिकार्थगतैकत्वादावेकवचनमित्याद्यर्थे लिङ्गसंख्याविनिर्मुक्तासत्त्वभूतार्थबोधकेभ्योऽव्ययेभ्यस्तदनुत्पत्त्या प्रातिपदिकग्रहणमावृत्त्या तथाविधेभ्योप्यव्ययेभ्यस्सुबुत्पत्त्यर्थमिति समर्थितं भाष्ये। ततश्च प्रत्याख्याने प्रयोजनासिद्धिर्भाव्यविरोधश्च स्पष्ट एवेत्यत आह।। एकवाक्यतयेत्यादि।। प्रकारान्तरेणेति।। एकवचनम्। द्विबह्वीर्द्विवचनबहुवचने। इति न्यासेनैकग्रहणं प्रत्याख्याय संख्यानपेक्षस्यौत्सर्गिकस्यैकवचनस्य विधानेनेत्यर्थः।। प्रत्याख्यातमिति।। एवञ्चैतत्प्रत्याख्यानं भाष्यकारानुगृहीतमेवेति नास्ति विरोध इत्याशयः।
प्रातिपदिकार्थ एवेति।। नियमपक्षे प्रातिपदिकार्थेतरनिरूपितवाचकत्वाभाववती प्रातिपदिकार्थनिरूपितवाचकत्ववती प्रथमेति प्रत्ययनियमे कर्मादिषु प्रथमाया अप्राप्तेर्व्यर्थं मात्रग्रहणं, निरुक्तार्थसाधनाय सम्बोधने चेति सूत्रं च मास्त्वित्याशङ्काभिप्रायः।। कर्मत्वाभावेत्यादि।। कर्मत्वबोधाभावकालिकबोधविषयस्य पर्यायेण बुद्ध्यमानस्यैव कारकान्तरस्य व्यावृत्तिरित्यर्थः।। गां दोग्धीति।। नन्विदमयुक्तम्। अकथितं चेत्यनुशासनेन ह्यपादानत्वादिरूपकारकधर्मविशेषैरविवक्षितस्यैव दुह्यादिकारकस्य कर्मत्वं बोध्यते। ततश्चापादानत्वादिसामानाधिकरण्येन गवादिषु कर्मत्वप्रतीतेर्दुर्लभतया निरुक्तनियमे प्रयोजनाभावात्। न चापादानत्वादीनां प्रकृत्यर्थनिरूपितप्राधान्याविवक्षायां कर्मत्वमित्याकथितं चेत्यनुशासनतात्प्र्यम्। ततश्चापादानत्वशक्तिमद्गवीनिष्ठकर्मतानिरूपकः पयोनिष्ठकर्मतानिरूपकश्च यो विभागस्तदनुकूलो व्यापार इत्यादि तदर्थ इति सम्भवत्येव सामानाधिकरण्यमिति वाच्यम्। तादृशार्थस्यानुभवविरुद्धत्वात्। द्योतकतापक्षे सर्वासामेव कारकशक्तीनां सुब्विभक्तिद्योत्यानां प्रकृत्यर्थं प्रति प्रकारतयैव भाननैयत्यात्तादृशानुशासनस्योक्तरीत्या वाक्यार्थकल्पनायोगेन पक्षान्तरेपि तत्पक्षेकरूप्यायापादानत्वादिभिरविवक्षितं कारकं कर्मेत्यर्थस्यैव न्याय्यत्वाच्चेति चेत्तर्हि गतिबुद्धीति सूत्रबोधितकर्मत्वाशस्य कर्तृत्वोपजीवकतया तद्विषये ग्रामं गमयति देवदत्तमित्यादौ कर्मत्वसामानाधिकरण्येन प्रतीयमानस्य कर्तृत्वस्याक्षान् दीव्यतीत्यादौ दिवः कर्म चेति सूत्रबोधितकर्मत्वसामानाधिकरण्येन प्रतीयमानस्य करणत्वस्य च नियमनिवर्त्यत्वाभावस्तत्फलमित्याहुः।। [टि- आहुरिति।। परे तु कारकशक्तिः शक्तिमदभेदेन भासते। सति गमके क्वचिद्भेदेनापि। गमकं च द्वितीयादिवाच्यसंसर्गघटकतया भानमेव। सम्बन्धस्य सम्बन्धिभिन्नत्वनीयमात्। यत्राभेदेन भानं तत्र तस्या अनुद्भू त्वम्। यत्र भेदेन तत्रोद्भूतत्वमिति निष्कर्षः। स्पष्टं चेदं मञ्जूषायाम्। गमयति कृष्णमित्यत्र कर्तृत्वस्य अक्षैद व्यतीत्यत्र कर्मत्वस्य चानुद्भूततयैव भानम्। तस्य विभक्तिवाच्यकोटावप्रवेशात्। दिवः कर्म धेति कर्मसंज्ञा तु न द्वितीयाप्रयोजिका। परया करणतृतीयया बाधात्। एतद्विषये अक्षान्दीव्यतीत्यसाध्वेव। अक्षशब्दस्याक्षजेयधनपरत्वे तु धनस्य साधकतमत्वाभावात्करणसंज्ञाप्रसक्त्यभावेन साध्वेव। स्पष्टं चेदं मूल एवाग्रे। किञ्च फलाश्रयत्वसमानाधिकरणकर्मत्वविवक्षायां तत्साध्विति शेखरे स्षष्टम्। न चैवं कर्मसंज्ञाविधानं व्यर्थमिति वाच्यम्। धातोस्सकर्मकत्वसम्पादनेन कृतार्थत्वात्। अत एव दीव्यन्तेऽक्षा इत्यत्र कर्मणि लकारः, अक्षैर्देवयते इत्यत्र अणावकर्मकादिति परस्मैपदाभावश्च सिद्धः। किञ्चाक्षाणां देवितेत्यत्र तृतीयातः परत्वात्कर्मणि षष्ठ्यपि फलम्। न च दीव्यन्तेऽक्षा इत्यत्र कराणत्वस्यानुक्तत्वात्तृतीयापत्तिरिति वाच्यम्। एकस्याः शक्तेरभिधाने तत्समानाधिकरणशक्त्यन्तरस्याभिहितवद्भानात्। अत एव गौर्दुह्यते पय इत्यत्र न पञ्चमी। स्पष्ठं चेद शेखरादौ। न च तत्रापादानत्वस्याविवक्षया न भानमिति वाच्यम्। तथासति गां दोग्धीत्यत्रापादानत्वस्याप्राप्त्या अपादानमुत्तराणि कारकाणि बाधन्ते परत्वादित्याकडारसूत्रभाष्यासङ्गतेः। अविवक्षितत्वं चानुद्भूतत्वमित् तदाशयः। एवञ्च गमयति कृष्णमक्षैर्दीव्यतीत्यत्र कर्तृत्वकर्मत्वाभ्यामत्रापादानत्वस्य न वैलक्षण्यमिति तद्वदस्यापि नियमाव्यावर्त्यत्वरूपपलत्वमक्षतमेव। तस्मात्तत्र स्ववासनाम त्रेण वैलक्षण्यं परिकल्प्य मूलस्यायुक्तत्वप्रतिपादन्मयुक्तमेवेति सुधियो विभावयन्त्विन्याहुः।]
सामर्थ्यादिति।। स्वौजसित्यनेन सामान्यतो विहितानां स्वादीनां नियमार्थेऽत्र प्रकरणे कर्मणि द्वितीयेत्यादिवदुपात्तार्थाभावसमानाधिकरणार्थान्तरबोधकत्वाभावरूपनियमसम्पादकत्वानुपपत्तौ प्रातिपदिकार्थे प्रथमेत्यनुशासनं व्यर्थमेव स्यात्। शास्त्रवैयर्थ्यं च भाष्यकारैरसकृन्निराकृतमत उपात्तार्थसमानाधिकरणार्थान्तरनिवर्तकत्वरूपनियमसम्भवाद्व्यर्थं मात्रगहणमित्याशयः।। फलत्वादिति।। सुतरां वैयर्थ्ये तन्मूलकत्वेनोक्तार्थो लभ्येत। प्रकृते च प्रातिपदिकार्थ एव प्रथमा, न तु तदभाव इत्यनर्थकाव्ययेभ्यो विभक्तिनिवर्तकानिष्टप्रत्ययनियमसम्पादनेन कृतार्थस्य तस्योक्तार्थसम्पादकत्वानौचित्यादभीष्टसिद्ध्यर्थमावस्यकं मात्रग्रहणमिति निष्कर्षः। ननु सत्यपि मात्रग्रहणे कथमभीष्टसिद्धिरत आह।। तत्सत्त्वे इत्यादि।। प्रातिपदिकार्थसमभिव्याहृतमात्रग्रहणस्य कारकव्यावर्तकतया संसर्गवद्विप्रयोगस्यापि विशेषावगतिहेतुत्वात्तत्सम्बन्धयोग्यार्थकप्रातिपदिकाच्चेत्तथाविधप्रातिपदिकार्थ एवेत्येवंविधनियमपर्यवसानादसत्त्वभूतार्थकानामनर्थकानां चाव्ययरूपप्रातिपदिकानां नियम्यकोटावनन्तर्भूततया तेभ्यो विभक्तिप्रवृत्तेर्निर्बाधत्वादभीष्टसिद्धिरिति परमार्थः। ननु मात्रपदेन प्रातिपदिकार्थादधिकतया भासमानकारकवत्संख्याया अपि प्रथमाविभक्तिबोध्यत्वानुपपत्तौ घटोऽस्तीत्यादौ सार्वजनीन स्संख्यानुभवो विरुध्येतेत्यत आह।। संख्याधिक्ये इति।। एकवाक्यत्वादिति।। अर्थवत्प्रातिपदिकात्प्रथमैकवचनं चेदेकत्वोपहितप्रातिपदिकार्थ एव, न तु तत्राधिक्येन भासमानकर्मादाविति तदेकवाक्यता बोध्या। ननूक्तरीत्या प्रत्ययनियमप्रसक्तस्यानिष्टस्य वारणार्थमेव यदि मात्रग्रहणं तर्हि प्रातिपदिकार्थे प्रथमैवेत्येवमर्थनियमे कर्मणि द्वितीयैवेत्यादिनियमवशात्कारकाधिक्ये प्रथमाया अप्रवृत्तेरव्ययेभ्यो यथेष्टं विभक्तिप्रवृत्तेश्च सर्वनिर्वाहाद्व्यर्थमेव मात्रग्रहणम्। अन्यदपि तज्जातीयं व्यर्थमेवेत्यत आह।। वार्त्तिककृतेति।। अर्थनियममाश्रित्येति।। अर्थविशेषानुपादानेन विहितानां स्वादीनामर्थप्रत्यायकत्वरूपप्रत्ययत्वान्यथानुपपत्तिवशादाकाङ्‌क्षितस्यार्थस्यैव नियन्तुमौचित्यादिति भावः। युक्तं चैतत्। कर्मणि द्वितीयेत्यादौ प्रत्ययनियमे प्रवृत्तिनिमित्ततदाश्रयात्मकप्रातिपदिकार्थव्यतिरेकेण कर्मत्वादिरूपकारकशक्तेर्भानासम्भवात्प्रातिपदिकार्थादाधिक्येन भासमाने कर्मण्येव द्वितीयेत्येवं रीत्या नियमपरिकल्पनायां तदाधिक्येन भासमाने पुंस्त्वादिरूपे लिङ्गे द्वितीयाद्युत्पत्तेरयोगात्पशुना यजेत पशुमालबेतेत्यादिविधिषु पुंस्त्वविशिष्टपसुव्यक्तेरेव यागाङ्गत्वसम्पत्तये सजातीयकारकान्तरव्यवच्छेदक एवायं नियमो न तु विजातीयलिङ्गव्यावच्छेदक इति कल्पनायां क्लेशः। तथा प्रातिपदिकार्थसूत्रेण च मात्रशब्दबलात्प्रातिपदिकविशेषविषयकविजातीयनियमकल्पनेनातादृशेभ्योऽव्ययेभ्यस्सुबुत्पत्तिसमर्थने क्लेशः। सम्बोधने चेति सूत्रस्य मात्रग्रहणस्य च कर्तव्यतायां गौरवं चेत्येवमनर्थभूयिष्ठत्वात्प्रत्ययनियमो न युक्त इति वदन्ति।।
धर्मविशिष्ट इति।। सत्तात्वेन सत्तायाः प्रातिपदिकार्थत्वाभावप्रयुक्तानुपपत्त्या प्रवृतस्य सताश्रयत्वप्रकारकप्रतीतिविषयतारूपविवरणस्य सत्त्वासत्त्वसाधारणतया सत्त्वव्यावृत्तये प्रतिपादितस्य न जात्यादिरूप इति प्रकृतसूत्रगृहीतनिष्कर्षस्य विशिष्टव्यदासपरत्वमेव युक्तमिति भावः। ननूच्चैरादीनां शब्दानां सन्नित्याकारकप्रतीतिजनकत्वाभावेपि तादृशप्रतीतिविषयार्थबोधकत्वं दुर्वारमुच्चैर स्तीत्यादिसामानाधिकरण्यानुरोधादित्याशयेन शङ्कते।। नन्वित्यादि।। तद्विरोध इति।। उच्चैरादीनामसत्त्वार्थकत्वेनाभिमतानामस्त्यादिना सन्नित्यनेन वा सामानाधिकरण्ये संख्याकारकसम्बन्धस्यावर्जनीयतया स्वरूपहानिरेव स्यादिति भावः।। कृष्णत्वादेरिति।। लिङ्गस्याश्रयाविनाभूतत्वाल्लिङ्गांशे द्वन्द्वघटकतया मात्रपदसम्बन्धेपि प्रातिपदिकार्थादाधिक्येन यत्र लिङ्गमेव भासते तत्र प्रथमेत्यर्थे प्रातिपदिकार्थत्वेन सत्ताश्रयस्य कृष्णादेरेव ग्रहीतव्यतया कृष्णत्वादेराधिक्यान्न प्रथमायाः प्रवृत्तिरित्याशयः। ननु लिङ्गाविनाभूतस्य तदाश्रयद्रव्यस्य भानमन्तरेण लिङ्गस्य प्रतीत्ययोगात्प्रातिपदिकार्थद्रव्यभानसहकृतमेव तद्भानं लिङ्गांशोदाहरणे इत्यवश्यमभ्युपेयम्। तत्र द्रव्यभानं च यत्किञ्चिद्धर्मपुरस्कारेणैव, जात्यखण्डोपाध्यतिरिक्तपदार्थानां स्वरूपेण प्रतीतेः कुत्राप्यदृष्टत्वात्। एवञ्च प्रकारीभूततत्तद्धर्मस्याधिकस्य भानेन प्रथमाया अप्रवृत्तौ व्यर्थमेव लिङ्गग्रहणं स्यादतस्सामर्थ्यादेव तदाधिक्ये प्रथमायाः प्रवृत्तिरिति कथमव्याप्तिरिति चेन्न। लिङ्गप्रवृत्तिनिमित्तकेषु स्त्रीपुमानित्यादिषु प्रथमासम्पादनेन लिङ्गग्रहणस्य कृतार्थत्वादुपदर्शितविषये प्रथमाप्रवृत्तिसम्पादकसामर्थ्यस्य दुर्वचत्वात्।।
विशेष्यतानिरूपितत्वादिति।। प्रकारतापन्नस्य प्रवृत्तिनिमित्तस्य शब्दतः प्रतीतिः। प्रकारता च विशेष्यतानिरूपितैव। ततश्च विशेष्यवाचकतामन्तरेण प्रवृत्तिनिमित्तवाचकत्वमसम्भवि। यदि त्वाकृत्यधिकरणोक्तदिशा प्रकारत्वानुपहिता प्रवृत्तिनिमित्तत्वेनाभिमता जातिरेव मातिपदिकानां शक्तिगम्योर्थः। व्यक्तेर्भानं चाक्षेपादेवेति जैमिनीयानां मतमुपादीयते तर्हि गामानय गामालभेतेत्यादौ समभिव्याहृतक्रियाकर्मत्वादेराकृतौ बाधितस्याक्षिप्यमाणव्यक्तावन्वयो दुर्घटः। किं च गोत्वन्नित्यमित्यादिवद्गौर्नित्येत्याद्यापद्येत। यदि च व्यक्तिरेव प्रातिपदिकानां वाच्योर्थ इति व्याडेर्मतमाश्रीयते तर्हि व्यक्तीनामानन्त्यात्सर्वत्र शक्तिग्रहोऽसम्भवग्रस्तः। एकत्र शक्तिग्रहादपरत्र बोध इत्याभ्युपगमे च गोपदादश्वबोधप्रसङ्गः। किञ्च शब्दानां सर्वेषां व्यक्तावेव शक्तिस्वीकारे तद्विषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तद्विषयकशक्तिग्रहस्य कारणतया शक्तिग्रहाविषयपदार्थगोचरबोधानुपपत्त्या गौश्शुक्लश्चल इत्यादेस्सहप्रयोगानुपपत्तिः। तस्मात्प्रवृत्तिनिमित्ततदाश्रयात्मकमुभयं प्रातिपदिकार्थः। प्रवृत्तिनिमित्तं च जातिर्गुणः क्रिया संज्ञा चेत्यन्यत्। चतुष्टयी शब्दानां प्रवृत्तिरिति सिद्धान्तः। अतो न काप्यनुपपत्तिरिति निष्कर्षः।।
गौणत्वाभावाच्चेति।। परिभाषायां गौणपदेन गुणारोपमूलकयोस्सदृशलाक्षणिकाप्रसिद्धयोरेव ग्रहणस्य स्वारसिकत्वादन्यादृशानां लाक्षणीकानां तद्विषयत्वाभाव इत्याशयः। सदृशलाक्षणिकाप्रसिद्धयोस्तु सत्यामपि गौणतायामगौर्गौस्समपद्यतेत्यादिभाष्यबलान्न्यायस्य पदकार्यविषयत्वान्न ततो विभक्त्युत्पत्तेर्विरोध इत्यलम्।।
वाक्यलक्षणमिति।। अत्राख्यातपदेन क्रियाप्रधानं सर्वं परामृस्यते। न तु तिङन्तमात्रम्। तेन होतव्यं दीक्षितस्य गृहाइ, न होतव्यमित्यादेर्भावकृत्यप्रत्ययान्तस्यापि सविशेषणस्य वाक्यतया वाक्यस्य टेरित्यधिकारविहितो विचार्यमाणानामिति प्लृतो निर्बाधः।। अस्येति।। विभक्त्यर्थसम्भोधनस्येत्यर्थः। अयं भावः। सम्बोधनं सम्यक्‌ ज्ञापनम्। सम्बूर्वाद्बुध्यतेर्ण्यन्ताद्भावे ल्युट्। ज्ञापने सम्यक्त्वं चाभिमुखाकरणपूर्वकत्वम्। एवञ्चाभिमुखीकरणपूर्वकोऽज्ञातार्थविषयकज्ञानानुकूलव्यापारानुकूलव्यापारस्सम्बोधनमिति लभ्यते। तत्फलं प्रवृत्तिनिवृत्ती। तेन सम्बोधनविभक्तेरनुवाद्यविषयतया कुमारावस्थायां राजा भव युध्यस्वेति राजावस्थायां राजन् युध्यस्वेति प्रयोगो न तु कदापि वैपरीत्येन। प्रयोजकव्यापारस्य शब्दप्रयोगात्मकस्यान्यलभ्यत्वान्न तस्य विभक्तिवाच्यता। किन्त्वभिमुखीभवनपूर्वकाज्ञातार्थविषयकज्ञानानुकूलव्यापारस्य सम्बोध्यधर्मस्यैव विभक्तिवाच्यता। तस्य ज्ञानद्वारकज्ञेयाकाङ्क्षामुपादाय व्रजानि देवदत्तेत्यादिप्रयोगीयनिघातनिष्पादकसमर्थसूत्रभाष्यकारोपपादितलक्षणलक्षितवाक्यत्वोपपत्तये हरिकारिकाबलेन ज्ञाप्यमानक्रियायां विशेषणत्वमिति।। न स्यादिति।। तस्यैकवाक्यतैकसाध्यत्वादित्याशयः। एतेन सम्बोधनमनन्तरवाक्यजन्यबोधाश्रयत्वेनेच्छा। तस्याश्च प्रकृत्यर्थे प्रकारत्वेनान्वयः। तादृशेच्छाविषयत्वमेव सम्बोध्यत्वम्। असत्यपि तदाश्रयत्वे तद्विषयकेच्छाया निर्बाधत्वात्तद्बोधासमर्थेपि तत्प्रयोगो मा गर्वमुद्वह बिडालमहीपतीनामित्यादौ, ततश्च राम मां पाहीत्यादौ त्वंपदाध्याहारस्यावर्जनीयतया सम्बोध्यो रामः प्रार्थनाविषयमन्निष्टसुखोत्पत्तिदुःखनिवृत्त्यन्यतरानुकूलकृत्याश्रयस्त्वमित्याकारको वाक्यमभेदेन बोधः। तत्र युष्मदस्सम्बोध्यतावच्छेदकत्वोपलक्षिततत्तद्धर्मावच्छिन्नबोधकतया रामचन्द्रे रक्षणकर्तृत्वमर्थतस्सिद्धम्। अतोनात्रैकवाक्यतया अवसरो निराकाङ्क्षता चेति वशेषिकोक्तमपास्तम्। व्रजानि देवदत्तेत्यादावेकवाक्यतामन्तरेण निघातप्रवृत्त्युपायाभावादिति दिक्।