चित्रप्रभा
प्रथमः भागः
[[लेखकः :|]]
द्वितीयः भागः →

श्रीः
शुभमस्तु। अविघ्नमस्तु।
श्री शारदाम्बायै नमः। श्री गणेशाय नमः।
शब्दरत्नव्याख्या
चित्रप्रभा।
य इदं श्रुतिगोचरो जगन्निखिलं भासयति स्वशक्तिभिः।
स जयत्यपृथक्‌स्थितोऽर्थतः परमे व्योमनि वाचको विभुः।।
श्री काशिनाथगुरुवरकारुण्यमयेन परिकरेण हरिः।
वितनोति शब्दरत्नव्याख्यां चित्रप्रभाभिख्याम्।।
जयतु महाराजेन्द्रः श्रीमानानन्दगजपतिमहीन्द्रः।
क्रियतेऽयमिह निबन्धः तत्कीर्तिसुधांशुबलवदनुबन्धः।।
प्रारिप्सितप्रकारणपरिसमाप्तिप्रतिबन्धकीभूतप्रत्यूहपरिहाराद्यनेकफलसम्पत्तये कृतमिष्टदेवताप्रशंसालक्षणं मङ्गलमार्यसम्प्रदायाविच्छित्तये ग्रन्थतो निबध्नाति।। शोषविभूषणामिति।। तद्गुणसंविज्ञानबहुव्रीहिलब्धायाश्शेषस्तुतेः प्रयोजनमाह।। शेषाशेषेति।। महाभाष्यगूढार्थज्ञानलाभायेति तदर्थः। तस्य च प्रकृतग्रन्थरचनायामुपजीव्यत्वादावश्यकता स्पष्टैव।। सकलमिति।। निखिलाभीष्टप्रदाननिपुणायाः परमेश्वरकृपादृष्टेर्विघ्ननिवारणं न किञ्चिदिति भावः। एतेन ग्रन्थादावभीष्टतमस्य विघ्नविघातस्य मुख्यसाधनं विघ्नराजप्रशंसनमुपेक्ष्य स्वर्गमोक्षादिसाधनमप्यन्यदेवताप्रशंसनमनुपयुक्तमित्यपास्तम्। कर्मघञन्तस्य वीप्सायां द्विरुक्तावर्थसांगत्यहानिरित्याह।। णमुलन्तमिति।। आभीक्ष्ण्ये णामुल्‌चेति णमुल्‌। अभीक्ष्ण्ये द्वि वाच्ये इति द्विर्भावः। नित्यवीप्सयोरिति तु न प्रवर्तते, उक्तार्थानामप्रयोग इति न्यायात्।। कार्यब्रह्मेति।। कार्यब्रह्मा यो हिरण्यगर्भस्तद्व्यावृत्त्यर्थमिति तदर्थः। तस्य कार्यत्वं मन्वादिभिरण्डजन्यत्वस्मरणाद्‌द्रष्टव्यम्। न च हिरण्यगर्भवाचिनो ब्रह्मन्‌शब्दस्य कोशे पुंस्त्वाभिधानान्नपुंसकनिर्देशेनैव तद्व्यावृत्तौ किं परत्वविशेषणेनेति वाच्यम्। ``स ब्रह्म स शिव इति श्रुतौ ब्रह्मणा लोककर्तृणेत्यादौ लोके च हिरण्यगर्भवाचिनोऽपि नपुंसकत्वोपलम्भेन तद्विशेषणसार्थक्यात्। कोशस्तु प्राचुर्याभिप्रायक इत्यवगन्तव्यम्‌। यद्वा कार्यब्रह्मशब्देन मायावच्छिन्नचैतन्यस्य हिरण्यगर्भशब्देन समष्टिचैतन्यस्य च विवक्षितत्वात्तद्व्यावृत्त्यर्थमिति तदर्थः। अत एव चतुर्मुखव्या- वृत्त्यर्थमिति नोक्तमित्याहुः।। चिन्तापरपर्यायमिति।। चिन्ताशब्दोऽयमर्श आद्यजन्तो भावसाधनः। ध्यै धातोरर्थनिर्देशे धातुपाठेऽप्येवमेवेत्याशयः।। इति वेवेक इति।। एतेनैकवाक्यघटकत्वेनैकार्थकानेकशब्दप्रयोगलक्षणः पौनरुक्त्यदोषो निरस्तः।। सूचितमिति।। एतेनैतस्य सकलविद्यासार्वभौमत्वलक्षणोत्कर्षसूचनार्थमेवैकवचननिर्देशो न तु पूज्यताप्रयोजकसद्गुणाधिक्यराहित्यमूलकापकर्षसूचनार्थस्तन्निर्देश इति वस्तुस्थितिः।। इत्यर्थिकामिति।। विग्रहस्तु प्रौढमनसो रमेत्येवं द्रष्टव्यः। अन्यथा कर्मण्यणः प्रसङ्गात्। एवमर्थकमनोरमाशब्दाभिन्नां कौमुदीव्याख्यामिति सम्बन्धः। शब्दार्थयोस्तादात्म्यात्।
न्यूनमिति।। चतुर्णां पृथगुपादानात्‌परिगणनत्वामवगम्यत इत्याशयः।। इकाराद्युच्चारणेनेति।। ननु सुट्‌त्‌थोरित्युच्यमाने द्विवचनोपपत्तये प्रश्लिष्यमाणस्तकारो धकारस्थानिकः स्वतन्त्रोवेति सन्देहस्स्यात्। नैषदोषः। औतोम्‌शसोरित्यादाविव व्यख्यानस्यैव सकलमन्देहनिवर्तकत्वादिति मन्यते। शास्त्राबोधितत्वामनुकरणभूतत्वम्‌।। असाधुत्वबोधनादिति।। केचितु चिन्त्यमिदमीदूदेदिति तपरकरणेन व्यञ्जनकृतव्यवधानशून्यस्य स्वरसंघातस्यापि तथाभूतस्य साधुत्वानापत्तेः। इष्टापत्तौ तु निपात एकाजिति सूत्रस्थशेखरग्रन्थविरोधः। तत्रहि एकग्रहणस्य प्रयोजनम उ अकरोदित्यादावितिशब्दपरत्वाभावेन निपातत्वापन्ने स्वरसमूहात्मकानुकरणे प्रगृह्यत्वाभाव इत्युक्तम्‌। असाधुत्वे च शास्त्राप्रवृत्त्या तदसङ्गतिस्सपष्टैव। उच्चैरुदात्त इतिसूत्रस्थं भाष्यमपि न प्रकृतार्थसाधकम्। तद्भाष्यस्य स्वरसहायमन्तरेण व्यञ्जनानामुच्चारणसौकर्याभाव इत्याशयकत्वात्। हकारपरशकारासंभवोपि कैयटोक्तो झल्‌निमित्तकेन व्रश्चेति षत्वेनेति न प्रकृतोपयोगी। अमि हकारप्रयोजनं नोक्तमितिवा को विशेषः। भाष्ये इण्यपि तदनुक्तेः। सुट्‌तिथोरित्यादाविकारद्युच्चारणं सन्देहनिवर्तकमुच्चारणसौकर्याय वेत्यन्यत्। अत एव त्रपटत्रपटाकरोतीति डाच्‌सूत्रस्थभाष्यप्रयोग उपपद्यते। नैव स्कोरित्यादिसौत्रप्रयोगविरोधः। नापि हकारादिषु पुनःपुनरकारोच्चारणस्य प्रत्याहारेषु ग्रहणार्थत्वरूपप्राधान्यबोधकताप्रतिपादनपरहयवरट्‌सूत्रस्थशेखरग्रन्थविरोधः। तस्मादिण्‌ग्रहणेष्वितिमूलमुपलक्षणमनभिधानंवा बहुपुम्‌क्‌ह्‌इत्यादेरिति युक्तमुत्पश्यन्तु सुधिय इत्याहुः।
रन्त्यं हरिति।। नन्वेवं न्यासे लकारस्थानीयस्य रेफस्यातिरिक्तस्य वक्तव्यतया विशिष्टसूत्रस्य वलादिषु हकारग्रहणमात्रप्रयोजनकत्वोक्तेरस्वारसिकत्वापत्तिरत आह।। आवृत्त्येति।। लक्षणयेत्यपि बोध्यम्‌।। हर्‌प्रत्याहारबोधकत्वंच सूत्रसमुदायस्य तत्त्वेनाभिमतत्वम्‌। एतेन सत्यामित्‌संज्ञायां हर्‌प्रत्याहारबोवकत्वं तस्मिंश्च सत्येवेत्संज्ञेत्यन्योन्याश्रयस्तदवस्थ एवेत्यपास्तम्‌।।
अधिकरणकारकस्येति।। अत्रप्राञ्चः अधिकरणकारकस्य कर्तृकर्मान्यतरद्वारकेण स्ववृत्तिवृत्तित्वसंबन्धेन साक्षादेव क्रियायामन्वयो यतःक्रियान्वयित्वं कारकत्वम्। गुडधानादिवदन्तर्भूतक्रियाद्वारा सामर्थ्यसंभवादक्षशौण्डादिषु न समासानुपपत्तिरिति वदन्ति।। तदसत्।। करोति क्रियां निर्वर्तयतीति भाष्यकारीयनिर्वचनबलेन क्रियाजनकत्वं कारकत्वमित्येव लाभात्। कर्तृकर्मान्यतरद्वारेणैव क्रियाजनकत्वात्तद्वारेणैवाधिकरणकारकस्य क्रियान्वये बाधकाभावाच्च। एवं च समासनिर्वाहकसामर्थ्यसंपत्तये वर्तिपदानुपस्थितक्रियान्तरान्तभविण वृत्तिकल्पना न युक्ता मानाभावात् फलाभावात् गौरवाच्चेत्यभिप्रेत्याह।। कर्तृकर्मान्यतरद्वारेति।। केचित्तु प्राचीनोक्तमेव न्याय्यम्। अन्यथा धनमक्षशौण्डस्येत्यादौ समासनिर्वाहोऽन्तर्भूतक्रिया द्वारकसामर्थ्येनान्यत्रान्यादृशेनेत्यर्धजरतीयतापत्तेः। कारकाणां क्रियान्वयनियमभङ्गापत्तेश्चेत्याहुः।।
व्यवस्थितैवेति।। वक्तुर्बोद्धुश्च यया प्रत्येकं निर्वाहस्तादृश्येवान्यतमसत्ता तेन बोध्यते नत्वाव्यवस्थया बाधितत्वादितिभावः। शास्त्रमात्रप्रक्रियोपयोगीत्यस्य शास्त्रप्रक्रियामात्रोपयोगीत्यर्थः। यद्यपि सहविवक्षाविवक्षयोर्द्वयोरपि लोकवच्छास्त्रेऽपि तन्त्रेणैव सर्वं निर्वहति। तथापि कथंचिदुपायान्तरपरतया शास्त्रस्य सार्थक्यसंभवे सर्वथा वैयर्थ्यापादनमनुचितमित्यभिमानः।। न्याचेनेति।। हकारस्थानिकलकारासंभवेनेति तु नोक्तम् न्यायसिद्धेऽर्थे सामर्थ्यानुसरणस्यानुपयुक्तत्वात्।। तच्छेषशब्देनेति।। शेषशब्दो विशेषणपरः। बहुव्रीहितत्पुरुषाभ्यामिको गुणवृद्धीत्यस्यालोन्त्यपरिभाषां प्रति विशेष्यत्वं विशेषणत्वं च पर्यायेण बोध्यते इति भावः।। नतुगुणगुणिभावेनेत्यादि।। यथा विधिपरिभाषयोर्गुणगुणिभावेन विशेषणविशेष्यभावो यथा चोत्सर्गापवादयो परस्परसापेक्षत्वेन न तथा प्रकृते इति भावः।। कुमतिचेतिणत्वामिति।। नन्वलौकिके वाक्ये समाससंज्ञातः पूर्वमेव समुदायावयवत्वेन समासान्तानां प्रवृत्तिरिति सिद्धान्तात्तद्विशिष्टस्यैव संज्ञायामुत्तरपदशब्दस्य समासचरमावयवे रूढेस्समासान्तप्राग्वर्तिनो गोशब्दस्योत्तरपदत्वाभावात् कथं कवर्गवदुत्तरपदघडितसमासनिबन्धनस्य णत्वास्य प्रसङ्गः। न च टज्विशिष्टस्य गवशब्दस्योत्तरपदत्वं सुलभमिति वाच्यम्। अर्थवत एव समासचरमावयवस्योत्तरपदत्वाभ्युपगमात्। अन्यथा रागभाविनावित्यादौ गकारविशिष्टस्याप्युत्तरपदत्वेन णत्वापत्तेः। न च समासचरमावयवत्वमानर्थक्येप्यर्थवन्निरूपितोत्तरत्वविशिष्टमुत्तरपदत्वमिति नायं दोष इतिवाच्यम्। प्रगतौ बाहू यस्य तेन प्रबाहुकेनेत्यादौ कपस्तद्विशिष्टस्योत्तरखण्डस्य वा तत्त्वमाश्रित्य विभक्तिनकारस्य णत्वापत्तेः, तस्मादिह णत्वमनुपपन्नमेवेति चेदत्रकेचित्। समासघटकार्थवन्निरूपितपूर्वत्ववतोपि गोशब्दस्य नोत्तरपदत्वहानिः। नवा रागभाविनावित्यादौ गकारविशिष्टस्यार्थवन्निरूपितपूर्वत्वराहित्येऽपि उत्तरपदत्वमानरह्थक्यात्। अत एव कापथ्यक्षयोरिति चरितार्थम्। अन्यथा तस्योत्तरपदाधिकारीयतया समासान्तप्राग्वर्तिनः पथिशब्दस्योत्तरपदत्वाभावे तदसङ्गतिरेव। तस्माद्युक्तैवात्रणत्वप्राप्तिरित्याहुः।। यत्तु प्रत्यासत्या कुमतिचेत्यनेन कवर्गवदुत्तरपदघटितसमासप्रकृतिकविभक्तिनकारस्यैव णत्वमिहतु ङीबन्तप्रकृतिका विभक्तिः लिङ्गविशिष्टपरिभाषा तु न प्रवर्तते विभक्तौ लिङ्गविशिष्टाग्रहणमिति निषेधात्।। न च तादृशनिषेधस्य विभक्तिनिमित्तकप्रकृत्युद्देश्यककार्यमात्रविषयकत्वाभ्युपगमान्न प्रकृते तत्‌प्रवृत्तिरिति वाच्यम्। तथासति सख्युरसंबुद्धाविवि विभक्त्युद्देश्यकत्वेन विधीयमानस्य णिद्वद्भावस्य सखीशब्दे प्रकृतनिषेधेन वारणानुपपत्तेः।। शुन्या शुन्यै इत्यदौ गौरादिङीष्‌स्थानिकयणमादायोदात्तयणोहल्‌पूर्वादित्यनेन प्रवर्तमानस्य विभक्त्युदात्तत्वस्य प्रतिबन्धकत्वेन लिङ्गविशिष्टपरिभाषया प्रसक्तं नगोश्चन्निति निषेधं प्रकृतनिषेधेन परिहरता युवोरनाकाविति सूत्रस्थभाष्यकारेण विरोधापत्तेश्च। ततो न प्रकृते णत्वप्रवृत्तिरिति तदसत्। यत्र विभक्तेः प्राधान्येन निमित्त्त्वं कार्यित्यं वा तथाविधे विषये प्रकृतनिषेधप्रवृत्तावपि प्रकृते तत्‌प्रवृत्तौ मानाभावात्। अत्र हि विभक्तिसंबन्धिनो नकारस्य कार्यं नतु विभक्तेरतो निर्विवादमेव लिङ्गविशिष्टपरिभाषया प्रकृते णत्वमिति दिक्‌।। प्रकृत्यर्थोपाधिरिति।। वृत्ताविति शेषः।। अस्त्यर्थवद्विशेषणविशेष्यभाववैपरीत्येन विग्रहे प्रकृत्यर्थं प्रति विशेषणत्वेन भासमानस्याप्यानन्तर्यस्य वृत्तौ प्रत्ययार्थत्वेन संभावितं विशेष्यत्वं निष्द्धुं कैयटस्येयमुक्तिः।। एवं च प्रत्ययार्थत्वमित्यस्य तत् प्रयुक्तं विशेष्यत्वमित्यर्थः।। नन्वानन्तर्यादेः षष्ठ्यर्थत्वाभावे प्रमाणत्वेनोपन्यस्तः कैयटः।। तत्रापितादृशांशस्य प्रमाणसापेक्षत्वात् कथं कैयटस्य प्रामाण्यं स्यात्तत्राह।। भाष्यकृताचेति।। अयमत्र भाष्याशयः।। गोमानित्यादावानन्तर्यस्य षष्ठ्‌यर्थत्वाभावाद्विद्यमान गवीनिरूपितानन्तर्यविशिष्ट इत्येवमर्थो न प्रतीयते किन्तु आनन्तर्यविशिष्टविद्यमानगवीस्वामीत्येव, तत्र सूत्रानुपात्तानन्तर्यविशिष्टस्वार्थवृत्तेः प्रथमांतस्य न वृत्तिघटकत्वं मानाभावात्। समभिव्याहृतपदान्तरोपात्ततादृशार्थविशेषितस्वार्थवृत्तेस्तस्य नैव वृत्तिः सविशेषणानामिति प्रतिषेधादतो नगावोऽस्य सन्त्यनन्तरा इत्यर्थे मतुपः प्रसक्तिरिति।। अनभिधानादिति।। बहुव्रीहिमत्वर्थीययोः प्रवृत्तौ निमित्तभूतस्या प्रथमांतत्वस्योपपत्तये सूत्रानुपात्तस्यापि विग्रहवाक्ये प्रतीयमानस्यास्त्यर्थस्य वृत्तिघटकत्वावश्यकत्वाद्भवतु तदर्थान्तर्भावेण तयोः प्रवृत्तिः। आनन्तर्याद्यन्तर्भावे तु विधायकाभावान्न तत्‌प्रवृत्तिरिति तत्त्वम्‌। णैषिकोपीति।। समर्थविभक्तिबोधितसंबन्धपुरस्कारेणैवैतादृशेषु विशिष्टार्थबोधस्यानुभविकत्वेन षष्ठ्‌यर्थत्वाभावादानन्तर्यादेर्न तत्र शैषिक इति भावः।। स्पष्टमाकर इतीति।। आनन्तर्यादे। षष्ठ्यर्थत्वाभावादेव ह्यनुबन्धानामनेकान्तत्वे टित्किदित्यादौ वृत्तिश्च न प्राप्नोतीति तस्यालोप इतिसूत्रे भाष्ये उक्तमित्यपि बोध्यम्।। गङ्गातीरमिति।। तीरशब्दस्य जलसमीपदेशे शक्तेः शक्यताबच्छेदककोटिप्रविष्टसामीप्यान्वयि संबन्धाभिधायकषष्ठ्यन्तेन समासस्य सुवचतया चिन्त्यमत्रारोपफलमित्याहुः।। ननु हलित्यत्नापि सामीप्यमूलकावयवत्वारोपे समासस्य सुवचत्वात् कथमनुपपत्तिरित्यत आह।। किंचेति।। प्रत्ययात्पूर्वत्वाभावेपीति।। यद्यपि प्रत्ययात्‌पूर्वमित्यस्यानुवृत्तावपि लितः प्रत्ययभिन्नस्यापि संभवेन प्रत्यासत्तौ मानाभावात् प्रत्ययलक्षणेन संबुद्धेः पूर्वत्वाच्च देवदत्तेत्यत्र स्वरसत एव दोषस्संभवति।। तथापि कथंचित्‌प्रत्यासत्तिपुरस्कृतदोषवारणाभिनिवेशभञ्जनार्थमियमुक्तिः।। लघीयसीति।। अन्योन्याश्रयपरिहाराय कात्यायनचोदिताल्लकारग्रहणादेकदेशावृत्तिर्लघुः प्रतिपत्तिगौरवानुपहितत्वाच्च संपूर्णसूत्रावृत्तिः लघुतरेत्यर्थः।। आदिरन्त्येनेत्यत्र सहशब्दपर्यन्तं योगविभागमाश्रित्य क्वचिदनित्‌संज्ञकेनापि प्रत्याहाराभ्युपगमेन हल्‌पदार्थप्रसिद्धेर्नान्योन्याश्रयो योगविभागस्येष्टसिध्यर्थत्वाच्च नातिप्रसंग इत्यपि गरीय एवेति भावः।। यद्यपि चार्थे द्वन्द्व इत्यनुशासनात्‌समस्यमानपदार्थयोः परस्परसाहित्येन पदार्थान्तरान्वयबोध एव द्वन्द्वसमासस्य साधुतया तथाविधान्वयबोधविषयिणी वक्तुरिच्छैव तत्‌प्रयोगनियामिका सहविवक्षा साच प्रतीतपदार्थगोचरा। नह्यपरिज्ञातयोरर्थयोः परस्परसाहित्यमितरान्वयश्च संभवति।। योग्यताग्रहविरहात्।। तस्मादपरिज्ञातेन हल्‌पदार्थेन लपदार्थस्य साहित्यपदार्थान्तरान्वययोर्दुर्वचतया प्रकृते सहविवक्षाया असंभवस्तथापि सामान्यज्ञान प्रयुक्तायास्सहविवक्षायाः क्वचित्‌द्वन्द्वसमासीयसाधुतासमर्पकत्वेन दृष्टत्वादिहापि तथा किंनस्यात्। अस्तिच प्रकृतेपदत्वहेतुकानुमानगम्यशक्तिसिद्धं हल्‌पदार्थज्ञानमित्याशयेन शंकते।। नचेति।। साहित्यावच्छिन्नान्वयेति।। उभयत्रापि द्वन्द्वाभिधेयतया साहित्यप्रतीतेरिति भावः। बोधस्तु टित्‌कित्‌समुदायाभिन्न आद्यन्तसमुदाय इत्येवमात्मको द्रष्टव्यः।। सहविवक्षामाश्रित्येति।। साह्यनेकार्थनिष्ठैकधार्मावच्छिन्नप्रकारतानिरूपितैकधर्मावच्छिन्नविशेष्यतावगाहिबोधविषयिणी वक्तुरिच्छैवेति तात्पर्यम्।। बोधंकल्पितमिति।। यद्यपि द्वन्द्वसाधुत्वान्यथानुपपत्त्या तादृशबोधजनकमाचार्यतात्पर्यमिह कल्प्यं न तु बोधःकारणसामग्रीसत्वे तस्य शब्दत एव जायमानत्वेन कल्पनानुपयोगात्। तथापि कल्पिततात्पर्यप्रयुक्तत्वाद्बोधः कल्पित इति व्यवहार इत्यदोषः।। वस्तुतो विशेषज्ञानप्रयुक्तैव सहविवक्षात्र संभवतीत्याह।। किंचेति।। सूत्रप्रणयनानुपपत्त्येति।। अर्थज्ञानाप्रयुक्तत्वात् वाक्यरचनाया इति भावः।। क्रमेणेत्यस्य प्रथमतो हल्पदवाच्यत्वेन ज्ञानं तत आदिरन्त्येनेत्यनेन विशेषतो हकारादित्वेनेत्येवं क्रमेणेत्यर्थः। सामर्थ्येनेति।। अयंभावः।। शत्रुं मित्रं विपत्तिं च जय रञ्जय भञ्जयेत्यादाविव व्यासस्थले क्रमिकान्वयस्य लोकसिद्धत्वेन सूत्रारंभवैफल्यात्समासस्थलीय एव तादृशान्वय एतत्‌सूत्रप्रयोजनं यदि च सहविवक्षाविरोधेन समासनिर्देशानुपपत्तिस्तदा सूत्रारंभो विफल एवेति सामर्थ्यादेतद्विषये सामान्यबोधेन द्वन्द्वसाधुत्वं विशेषबोधेन च लक्ष्यसंस्कारः समासनिर्देशस्तु लाघवार्थ इति।। अन्यप्रकारेणेति।। प्रमाणान्तरराहित्येनेत्यर्थः।।
अत्रंदंबोध्यम्।। लकारो हल्‌पदवाच्यश्चेत्येवं सामान्यतः पदत्वहेतुकशक्त्यनुमानसिद्धं हल्‌पदवाच्यमादाय बोधे तत आदिरन्त्येनेत्यनेन विशेषतो हकारादिषु हल्पदवाच्यत्वज्ञानस्य निर्विवादतया हकारादिषु हल्पदवाच्यत्वेनेत्संज्ञाप्रवृत्तावपि बाधकाभावात् हलन्त्यमित्यस्य पुनर्वाक्यार्थबोधानुपयोगः। द्वन्द्वसाधुत्वंतु परस्पराश्रयदोषग्रस्तत्वेन विशेषबोधानुपपत्तौ सामान्यबोधे तात्पर्यकल्पनया निर्बाधम्। नहि तत्र प्रमाणान्तरापेक्षा द्वन्द्वान्यथानुपपत्त्यैव तत्‌कल्पनासंभवात्। सामान्यवाक्‌यार्थबोधवेलायामप्रसिद्धस्यापि रेभावस्येट्‌सहितस्य पुनर्वाक्यार्थमन्तरपि द्विवचनबलादिरयोरे इति शास्त्रमादेशसमर्पकतया प्रवर्तत इति नेदमपूर्वम्‌। परंत्वन्योन्याश्रयदेषदूषितशास्त्रारंभसामर्थ्यात् द्वन्द्वनिर्देशकल्पना, तदनुपपत्त्या च सामान्यबोधे तात्पर्यकल्पनया सहविवक्षाश्रयणमिति परिक्लेशभूयिष्ठत्वाद्युक्तमुपायान्तरं भाष्यकाराद्युक्तमेवान्योन्याश्रयपरिहारार्थमिति प्राहुः।। न च कोटिगर्भस्थं द्वितीयं दोषमुद्धरति।। किंचेति।। भवत्वितीच्छयेति।। विशेषणेच्छाधीनत्वाद्विशिष्टेच्छायास्साहित्यावच्छिन्नप्रकारताकश्रोतृसंबन्धिबोधजनकशब्दोच्चारणेच्छारूपसहविवक्षायास्स्वघटकश्रोतृसंबन्धिबोधविषयकेच्छाप्रयोज्यत्वमित्याशयः। ननु भवतु श्रोतृसंबन्धिबोधविषयकेच्छायास्सहविवक्षाद्वारा द्वन्द्वप्रयोगनियामकत्वम्। सत्यामिच्छायां फलानुत्पत्तेरपि बहुशो दृष्टत्वात् तादृशबोधाजननेपीच्छायां बाधकाभावेन तद्विषयकेच्छाप्रयुक्तया सहविवक्षया द्वन्द्वप्रयोगे को विरोध इत्यत आह।। तादृशेच्छयेति।। तेषां श्रेतॄणां। भ्रान्तत्वापत्तिरिति।। देशकालानुपहितसकलवस्तुविषयकयोगजप्रत्यक्षवतः पाणिनेः कथं निष्फलेच्छा फलांशे भ्रान्तिर्वा स्यात्। अन्यथा तस्याप्यस्मदादितुल्यतया तदुक्तीनामप्रामाण्यप्रसङ्ग इति भावः। नन्वेतावता द्वन्द्वप्रयोगे वक्तॄणां समस्यमानतक्त्च्छब्दगतश्रोतृसंबन्ध्यर्थपरिज्ञातृत्वविषयकनिश्चयोपि नियामक इति पर्यवसन्नम्। ततश्च समस्यमानपदार्थबोधविरहितं बालकं प्रतिमादाववयवविशेषप्रदर्शनेन विनोदयतः प्राज्ञस्य मुखनयनं पश्येत्यादिप्रयोगो विरुद्धस्स्यादत आह।। मुखनयनं पश्येत्यादाविति।। उभयज्ञत्वेन ज्ञातमिति।। ननु अनुभयज्ञविषयकमुभयज्ञत्वज्ञानं भ्रम एवेति कथं तस्य प्रकृतप्रयोगनियामकत्वं स्यादत आह।। भ्रमः प्रमावेति।। अयंभावः।। वक्तृसंबन्धिश्रोतृविषयकसमस्यमानशब्दार्थपरि5ातृत्वप्रकारकज्ञानस्य द्वन्द्वप्रयोगं प्रति भ्रमप्रमासाधारणीभूतेन ज्ञानत्वेनैव प्रयोजकता कल्प्यते लाघवात्। ततश्च पाणिन्यादीनां भ्रान्तिविरहात्तद्विषयकयथार्थज्ञानमेव द्वन्द्वप्रयोगनियामकमस्मदादीनां तु भ्रान्तिप्रमोभायधर्मत्वादुभयमपि तन्नियामकमतो न काप्यनुपपत्तिरिति।। ननु अर्थबोधोपायत्वाच्छब्दप्रयोगस्य तदर्थबोधतात्पर्येण प्रयुक्तात् केवलादपि हल्‌पदाच्छ्रोतॄणां तदर्थबोधानुदयेन यथाश्रुतेऽप्याचार्यस्य भ्रान्तत्वं दुर्वारमत आह।। किंचेति।। तदभिप्रायेणेति।। संकेतितार्थविषयकबोधतात्पर्येण न प्रयोगः। किन्तु पदत्वहेतुकानुमानसिद्धशक्तिगम्यार्थबोधतात्पर्येणेत्यर्थः।। लट्‌स्म इति।। तत्‌सूत्रे हि न स्मपुरानद्यतने स्मपुराभूतमात्र इति वार्तिकं, तत्र स्मपुराशब्देन लट्‌स्म इत्यारभ्य पुरिलुङ्‌चास्म इत्येतत्पर्यन्ता पञ्चसूत्री लक्षयते। नहि तत्र प्रयाहारसंभवः। पुराशब्दस्येत्पदवाच्यत्वासंभवेनादिरन्त्येनेत्यस्याप्रवृत्तेः। इत्थंच यथा तत्राचार्यतात्पर्यानुपपत्तिहेतुकलक्षणया पञ्चसूत्रीलाभस्तथा प्रकृतेऽपि हकारादिलकारान्तवर्णसमुदायलाभ इति तात्पर्यम्। पूर्वमप्रयोग इति।। ननु यादृशपदस्य येन सूत्रेण शक्तिर्बोध्यते तत्र तादृशपदस्य ज्ञापयिष्यमाणशक्तिनिरूप्याभिप्रायेण न प्रयोग इति युक्तमन्वयानुपपत्तेः। यथा वृद्धिरादैजित्यत्र। तत्र संज्ञाभूतस्य शब्दस्वरूपपरता पदत्वहेतुकानुमानगोचरशक्तिनिरूप्यार्थपरता वेत्यन्यत्। प्रदेशे च संकेतितार्थपरत्वमेव संकेतारंभसामर्थ्यात्।। ततश्च हल्‌पदस्य शक्तिग्राहकमादिरन्त्येनेत्येव। हलन्त्यमिति च प्रदेश इति कथं तत्र संकेतितार्थपरत्वाभाव इति चेत्सत्यम्। आदिरन्त्येनेत्येवमात्मकहल्‌पदशक्तिग्राहकशास्त्रस्य वाक्यार्थवेलायामित्पदार्थनिर्णयाय हलन्त्यमित्यस्यापेक्षणात्तदङ्गत्वेन ग्राहकशास्त्रङ्गभूते नाज्झलावित्यत्राच्पदस्येव प्रकृते हल्‌पदस्यापि वाक्यापरिसमाप्तिन्यायेन संकेतितार्थपरत्वाभावः। न च हलन्त्यमित्यस्य वाक्‌यार्थबोधो हल्पदार्थनिर्णयार्थम्, इत्थंसति अन्यानपेक्षणादन्योन्याश्रयस्यैवाभावेन तदुद्धारप्रयासो भाष्यकारादीनामफल इति वाच्यम्।। पश्चात्स्वीक्रियमाणे विशेषवाक्‌यार्थ हलन्त्यमादिरन्त्येनेत्यनयोः परस्परापेक्षणेनान्योन्याश्रयस्य स्पष्टत्वात्।। कथमन्यथा तयोरङ्गाङ्गिभावस्स्यात्। न च नाज्झलावित्यत्रापि स्वसवर्णात्मकसंकेतितार्थमादाय पुनर्वाक्‌यार्थे दीर्घादीनामपि सावर्ण्यनिषेधस्य दुर्वारतया वाक्‌यापरिसमाप्तिनयायेन तन्निवारणं निष्फलमेवेति वाच्यम्। प्रकृते संकेतितार्थमादाय पुनर्वाक्यार्थमन्तरा प्रवर्तकत्वायोगेन शास्त्रारंभवैयर्थ्यात्तत्कल्पनेऽपि नाज्झलावित्यत्र पुनर्वाक्यार्थकल्पने मानाभावात्।। न च वाक्‌यापरिसमाप्तिन्यायेन प्रातिपदिकसंज्ञाबोधकसूत्रघटकेषु प्रातिपदिकत्वानुपपत्त्या सुबुत्पत्तेरसाधुत्वप्रसंग इति वाच्यम्। तथाविधेषु प्रकृतन्यायाप्रवृत्तेः। तथाहि वाक्यस्य शक्तिग्राहकवाक्यस्यापरिसमाप्तिरर्थपर्यवसानाभाव इति तदर्थः।। आत्माश्रयोऽन्योन्याश्रयो वा तन्मूलम्‌।। एवं चावांतरपदार्थज्ञानाय विशिष्टवाक्‌यार्थापेक्षणेन स्वज्ञप्तेस्स्वज्ञप्त्यधीनत्वं यत्र यत्र वा विशिष्टवाक्‌यार्थयोरङ्गाङ्गीभावेन परस्परसापेक्षत्वं स तथाभूतोऽस्य विषयः। ग्राहकशास्त्रघटकेनाण्‌पदेन नाजझलावित्यत्राच्पदेन वा सवर्णग्रहणे निरुक्तदोषद्वयदूषितत्वाद्युक्तमेतन्न्यायविषयत्वम्। प्रातिपदिकसंज्ञासूत्रघटकावान्तरपदार्थज्ञाने विशिष्टवाक्‌यार्थस्य लेशतोप्यनपेक्षणान्नैतन्न्यायाप्रवृत्त्यवकाशः।। एतेन सवर्णदीर्घविधायकशास्त्रीयवाक्‌यार्थस्य भावित्वात्तुल्यास्यसूत्रे तदङ्गभूते प्रकृतन्यायवशात्सवर्णदीर्घो न स्यादित्यपास्तम्।। विशिष्टवाक्यार्थज्ञानाभावेन पूर्वं साधुत्वज्ञानाभावेपि पश्चात् उद्देश्यतावच्छेदकाक्रान्ते तटस्थ इव तत्रापि लक्षणप्रवृत्त्या साधुत्वज्ञाने बाधकाभावादिति दिक्।। तदेतत्सकलमभिप्रेत्याह।। ध्वनितश्चायमिति।। नापि स्वाङ्गे इति।। वर्णोपदेशस्तु न ग्राहकशास्त्राङ्गम्। अत एव तत्र भाष्ये तावच्छब्दप्रयोगः। आदिरन्त्येनेत्येतच्छस्त्रीयविषयसमर्पकत्वेन तदेकवाक्‌यत्वात्तदङ्गत्वं संज्ञासूत्रत्वं चेति तात्पर्यम्।।
नन्वाक्षरसमाम्नायिकवर्णसमुदायावयवयोरत्रसूत्रे कथं संभवोऽत आह।। अवयवत्वेनेति।। शब्दाभ्यामिति।। आद्यन्तावयवत्वेने तदुपस्थापिताभ्यामवयवाभ्यामित्यर्थः।। तयोरवयव्यंशे साकांक्षत्वात्।। शब्दयोरवयव्याकांक्षानुत्थापकत्वाद्यथाश्रुतमसंगतमिति स्पष्टमेव। ननु संज्ञ्याकांक्षायामाद्यन्तावयवाभ्यामाक्षिप्यमाणे तद्‌घटितसमुदाये समुदायत्वपुरस्कारेणाजादिपदानां शक्तिग्रहोत्तरमवयवान्तर इव तयोरपि समुदायगतफलाभावादवतीर्णायाश्शक्तेस्संज्ञास्वरूपान्तर्भावमात्रेण कथं निवृत्तिः भुक्तवन्तमितिन्यायविरोधादत आह।। शक्तिग्रहकाले इति।। अत्रायमाशयः।। समुदाये फलाभावादवयवेष्वेव तत्तद्वर्णानुगताच्त्वादिजातिपुरस्कारेणाजादिपदानां शक्तिरन्यतमत्वमेव वा शक्‌यतावच्छेदकम्। ततश्च शक्तिग्रहकाले विधेयत्वेन गृहीतयोरितरवर्णबोधकत्वहेतुकादप्राधान्यात् प्रधानाप्रधानयोरिति न्यायबलेन तदतिरिक्तमध्यगवर्णेष्वेव शक्तिग्रहः।। न चेकारादीनामपीगादिप्रत्याहारेषु पारार्थ्यप्रयुक्तादप्राधान्यादच्प्रत्याहारबोध्यत्वानापत्तिरिति वाच्यम्।। इकारादीनामच्पदशक्तिग्रहकाले पारार्थ्यनिर्णयाभावात्। एवं च तत्प्रत्याहारशक्तिग्रहकाले तत्‌प्रत्याहारस्वरूपोपयोगिनामप्राधान्यमिति निष्कर्ष इति।। नन्वजादिप्रत्याहारेषु मध्यगतणकाराद्यनुबन्धानां ज्ञापकादिनैव निवर्तनीयतया तद्वदेव चरमानुबन्धस्यापि निवृत्तिसिद्धौ निष्फलोऽयं प्रयास इत्याशयेनाह।। वस्तुत इति।। ज्ञापकादिनेति।। ज्ञापकमनुनासिक इत्यादि निर्देशः।। आदिना भाष्यकारोक्ताप्राधान्यलोपबलीयस्त्वयोस्संग्रहः। अशक्यवारणत्वादिति।। वाच्यप्रमेयादिशब्देषु संज्ञास्वरूपस्यापि संज्ञित्वेन प्रतीतेरीदृशेषु प्रधानाप्रधानयोरितिन्यायप्रवृत्तिरनुचिता।। एवंचान्त्यस्य ज्ञापकादिना व्यावृत्तावप्यादेस्स्वशब्दानुवृत्तिमन्तरैव तत्तत्‌प्रत्याहारबोध्यत्वमक्षतमित्याशयः।। तदाह।। स्वशब्दानुवृत्तेरिति।। ननु तदनुवृत्तितात्पर्यकस्य भाष्यस्य का गतिरत आह।। एतत्फलितार्थकथनमेवेति।। ननु मास्तु प्रधानाप्रधानयोरितिन्यायस्संज्ञासंज्ञिभावस्यान्यत्र भेदनिबन्धनत्वादाद्यन्तयोस्संज्ञित्वे तयोरेव सञ्ज्ञात्वामिति विरोधात्तद्व्यावृत्तिरिति चेत्तत्राह।। विशिष्टस्येति।। अकारचकारोभयसमूहत्वादिना सञ्ज्ञात्वमच्त्वादिरूपजातिपुरस्कारेणाकारादिचकारान्यतमत्वादिना वा सञ्ज्ञित्वामित्यत्राप्यवच्छेदकभेदप्रयुक्तो भेदस्सुगम इति भावः।। एतेन प्रत्याहारेषु आद्यवर्णा एव वाचका अनुबन्धास्तु द्योतकास्सुब्विभक्तिस्तु सौत्रत्वात्समुदायादेवेति मते सञज्ञात्वसञज्ञित्वायोरुभयोरप्यकारत्वादिनैवोपपादनीयत्वेन विरोधादादेस्सञ्ज्ञित्वानिवृत्तौ तदुपपत्तये स्वशब्दानुवृत्तिरावश्यकीत्यपास्तम्।। तत्तद्वर्णवृत्तिधर्माणामवच्छेदकत्वे नानार्थकतापत्त्या गौरवेणाच्त्वादेरनुगतस्य सञ्ज्ञितावच्छेदकत्वाभ्युपगमस्य सकलमतसिद्धत्वात्।। धिशब्दस्यापीति।। वर्णसञ्ज्ञापक्षेघिशब्दत्वेन सञ्ज्ञात्वमिकारोकारसम्बन्धिह्रस्वात्वेन सञ्ज्ञित्वं, तदन्तसञ्ज्ञापक्षेतु तदन्तत्वेनेत्यवच्छेदकभेदो द्रष्टव्यः। स्वशब्दानुवृत्ताविष्टसिद्धेरपि दौर्लभ्यमित्याह।। विशिष्टपरामर्श इति।। फलाभावादिति।। न चेको यणचीत्यादिभिरिगादिशब्दानां यणादिकार्यप्रवृत्तिः प्रयोजनमिति वाच्यम्।। आक्षिप्तसमुदायसाहचर्येण तत्राप्यवयवयोरेव सञज्ञित्वामित्याशयात्।। अधिकमिति। प्रत्याहारघटकाद्यक्षरवैजात्यरूपभाष्यकारोक्ताप्राधान्येनैवेष्टसिद्धौ तृतीयानिर्देशमूलकाप्राधान्यकल्पनाया अनुपयोग इत्यर्थः। अलमिति।। एतेन भाष्यकारोपदर्शितयुक्तिभिरर्थसिद्धौ तदतिरिक्तयुक्त्यन्वेषणमस्मदादीनामौद्धत्यावहत्वादयुक्तमिति सूचितम्।
प्रत्यक्षमाख्यानमिति।। प्रत्यक्षं यथाभावति तथा बोधनमुपदेशस्तद्वृत्त्यसाधारणधर्मैस्स्वरूपप्रतिपादनमुद्देश इति तदर्थः। ततश्चेंद्रियार्थसन्निकर्षजन्यज्ञानविषयीकरणमुपदेशोऽन्यादृशज्ञानविषयीकरणमुद्देश इति फलितम्।। लोकव्यवहारेणेति।। उपदिष्टो मे पन्था उद्दिष्टो मे मन्त्र इत्येवमादिरूपेणेत्यर्थः।। आदेशरूपमिति।। धात्वादिसाहचर्यादादेशोऽपि प्रकृतशास्त्रप्रवर्तकाचार्यैश्शास्त्रे स्वरूपेणोच्चारितो विवक्षितः। तेनाभ्र आँ अप इत्यत्राङोनुनासिक इति विहितस्यानुनासिकस्यादेशत्वेपि न क्षतिः ।। एवंवाद इति।। ततश्च नायमौद्धत्यप्रयुक्तो भगवतः पतंजलेर्वादः, किन्तु वार्तिकोक्तार्थस्य सूत्राक्षरमर्यादालभ्यत्वसमर्थनयातुरीप्रयुक्त इति भावः। नन्वकर्तरिचेत्यनेन सञ्ज्ञायामेव कारकविशेषे घञ्‌विधानादसञ्ज्ञात्वादेव प्रकृते तदप्राप्तेर्ल्युटाबाधादित्यनुचितमत आह।। प्रायिकत्वादिति।। स्पष्टंचेदं तत्रैवसूत्रे भाष्यकैयटयोः।। साहचर्येणेति।। तुमुनेतिशेषः।। अव्ययकृतोभाव इति तुमुनो भावार्थकत्वं बोध्यम्।। नन्ववहेलनाच्चेति चकारो न युक्तस्समुच्चीयमानस्य क्लेशहेतोरन्यस्याऽसंभवादत आह।। चो हेताविति।। वस्तुतस्सन्निहिताकांक्षात्यागपूर्वकव्यवहिताकांक्षाकल्पनाया अयुक्तत्वस्य क्लेशसाधकस्य हेत्वन्तरस्य समुच्चायकश्चकारः। अन्यथा निपातेनाभिहिते हेत्वर्थे पञ्चमीकल्पनायां क्लेशापत्तेरित्याहुः।। ननु भावघञन्तपक्षे बाष्यकारोपदर्शितव्यवहारसांकर्यरूपबाधकस्य दुर्वारत्वात्कथं निर्वाह इत्यत आह। किंचेति।। प्रत्युत करणघञन्तत्वपक्ष एव बाधकमस्तीत्याह।। किंचोपदेशशब्दस्येति।। व्यर्थस्स्यादिति।। वस्तुतस्तत्रोपदेशपदानुवृत्तिमहिम्नैव धात्वाद्यन्त्यत्वलाभः। अन्यथा स्वरसतो धात्वादिरूपव्यवसितान्त्यत्वलाभो न स्यादित्यन्यत्र स्पष्टम्।। भाष्यकृत्सम्मतत्वादिति।। एवञ्च प्रकृतेपि तथैव भाष्यकृतामभिप्रेतं, वार्तिकखण्डनार्थमेव तु करणघञन्तत्वावलम्ब इति तात्पर्यम्।। ननु प्रतिपक्षिणा विग्रहप्रतिपादनेन धातुसूत्रेत्यादेरुदाहरणत्वलाभाद्यौगिकत्वावगमेपि सञ्ज्ञात्वस्य दुर्ज्ञेयत्वात्सञ्ज्ञा वा योगमात्रं वेति विकल्पनमसम्बद्धमत आह।। योगरूढमिति।। धातुसूत्रेत्यादेः परिगणनमित्यपि वक्तुं शक्यत्वात् व्याख्यात्रा विग्रहप्रतिपादनाच्च तत्त्वस्स्यापि सुग्रहतया योगरूढमुत योगमात्रमिति धात्वादीनां प्रतिपक्षदर्शितानां परिगणनत्वोदाहरणत्वोभयसंशयमूलकोऽयं प्रश्न इति तात्पर्यम्।। अत्र मूलकारेणोपदेशशब्दस्य धात्वादिषु सञ्ज्ञात्वाभावसाधकतया हेतुत्रयमुपन्यस्तम्। शास्त्रकारैरनुक्तत्वं, बाष्यकारैस्सञ्ज्ञात्वाभावप्रतिपादनं, शास्त्रव्यवस्थापनप्रयुक्तोऽतिप्रसङ्गश्चेति। तदेतत्त्रितयं वैचित्र्यादेकयोक्त्या खण्डयन्नरुचिग्रस्तत्वेन योजयति।। ननु सञ्ज्ञाशब्देनेति।। तत्राद्ये एवकारो भिन्नक्रमः। शास्त्रकारैरनुक्तत्वेऽपि यतस्तेषामुपदेशशब्देन व्यवहारोऽभिमतस्ततस्तंत्रान्तरानुरोधिसञ्ज्ञैवेयं प्रथमादिसञ्ज्ञादिवदित्यर्थः। एवञ्च प्रकृतशास्त्रानुक्तत्वं न सञ्ज्ञात्वाभावसाधकमिति भावः। द्वितीये व्यवहारशब्दो लौकिकव्यवहारपरः। पुंसि सञ्ज्ञायामित्यत्र सञ्ज्ञाशब्देन लोकव्यवहार एव ग्रहीतुमभिमतस्तस्यैव रूढिनियामकत्वादित्यर्थः। ततश्चायं शास्त्रीयव्यवहार इति न भाष्यकृतां सञ्ज्ञात्वाभावप्रतिपादनं प्रकृते सञ्ज्ञात्वविघटकमिति भावः। तृतीये च सञ्ज्ञाभूतेनोपदेशशब्देन धात्वादीनां व्यवहार एवाभिमतो न तु शास्त्रव्यवस्थापनमित्यर्थः।। तथाच व्युत्पत्तिवशेनोपदेशशब्दात् प्रतीयमानेषु धात्वादिष्वेतच्छस्त्रीयपदार्थेषु तस्य पंकजादिवत् रूढिराश्रीयते बोद्धॄणामसन्दिग्धव्यवहारश्च तत्‌प्रयोजनम्‌। नहि उपदेशशब्दे सञ्ज्ञात्वनिबन्धनं किंचित्कार्यमपेक्ष्यते येनानया सञ्ज्ञया शास्त्रव्यवस्थापनं स्यात्। किंचाचार्यतात्पर्यविषयीभूतार्थानुसारित्वाच्च नापूर्वत्वम्। बाहुलकेन घञ्‌प्रत्ययस्य भाष्यकारैरेवोपपादनान्नासाधुत्वमत उपदेशशब्दस्योक्तरीत्या सञ्ज्ञात्वे न किचित् बाधकमित्याशय-।
औचित्यादिति।। सामर्थ्याच्छास्त्रबाधकल्पनापेक्षया तदप्रवृत्तिकल्पनाया लाघवोपहितत्वादौचित्यमिति भावः। चुंचुप्‌चणपाविति।। यकारादित्वादनयोरपरनिमित्तकत्वप्रयुक्तान्तरंगत्वोपहितायामित्सञ्ज्ञायां यलोपस्यासिद्धत्वेन चकारस्य प्रत्ययादित्वाभाव इति स्वयमेवोक्तत्वादिदं प्राचामनुरोधेनेति द्रष्टव्यम्।। उपदेशाभावादित्यर्थ इति।। उपदेशशब्दस्यादेशपरत्वे आदेशस्योपदेशाभावादित्यनन्वितमिति भावः।। यदितु धात्वादिसाहचर्यात्स्वरूपेणोच्चारितस्यैवादेशस्य करणघञन्तोपदेशशब्देन ग्रहणमत्र च वर्णानामुपदेश इत्यादौ प्रसिद्धस्य स्वरूपेणोच्चारणपरस्य भावघञन्तस्य ग्रहणमेवञ्चादेशस्यच स्वरूपेणोच्चारणोभावान्नेत्सञ्ज्ञेत्यर्थ इति मन्यते, तदा नेदं भाष्यं विरुध्यतीत्याहुः।। लूशब्द एवायमिति।। धात्वावयवलोपे सत्यार्धधातुके परत इको गुणवृद्धी न भवत इति व्याख्याने धातुग्रहणव्यावर्त्यप्रदर्शनपरमिदं भाष्यम्।। उपदेशशब्दस्य धात्वादिपरत्वे च धातुसञ्ज्ञामन्तरेणेत्सञ्ज्ञाया अयोगात्तदसङ्गतिः, इत्सञज्ञोत्तरं धातुसञ्ज्ञेतिकैयटश्च न युज्येतेति भावः।। वस्तुतस्सानुबन्धकस्य धात्वादिकं दुर्वचं निरनुबन्धकस्यैव लोके क्रियावाचित्वादिना परिदृश्यमानत्वादितिबोध्यम्।। विषयघटितत्वादिति।। भविष्यन्त्या धात्वादिसञ्ज्ञाया यो निरनुबन्धको विषयः प्रवर्तनभूमिः तद्‌घटितत्वादित्यर्थः।। एवञ्च धातुत्वादिकमौपचारिकमित्सञ्ज्ञायां निमित्तं, न धातुलोपसूत्रघटकं च मुख्यधातुत्वमिति नास्ति भाष्यकैयटविरोध इति तात्पर्यम्।। एतस्यानुपयोगादिति।। नन्वादिर्ञिटुडव इत्यादौ भावघञन्तवादिनाप्यनुसर्तव्य एवायं मार्ग इति नास्माकमौपचारिकधातुत्वादिपरिग्रहप्रयुक्तमतिरिक्तं दूषणमित्यत आह।। इत एववारुचेरिति।। उपधासञ्ज्ञासूत्रे इति।। इदं विवरणमनुपयुक्तमलोन्त्यात्सूत्रस्यान्यस्याप्रसिद्धेः।। ननु लोपश्चेत्यत्र लोपशिति च्छेदे एक एव शकार इति द्विशकारको निर्देश इति भाष्यस्यासङ्गतिरत आह।। तत्रहीत्यादि।। असन्देहायेति।। सङीति वार्तिकमते तदेकवाक्यतया झलादौ प्रत्यय इत्यर्थेंन सूत्रमते च नात्र संयोगादिलोपप्रसक्तिरूपदोष इति बोध्यम्।। परिगणनताया इति ।। परिगणनेन रूढिप्रतिपादनादन्येषामसङ्ग्रह इति भावः।। यत्तु धातुसूत्रेत्यादि न परिगणनं, किन्तु उदाहरण (मात्र) मेव, योगरूढिमात्रप्रतिपादने च मुख्यतात्पर्यमित्थं च नचोदाहरणमादरणीयमित्यन्येषामपि सङ्ग्रहो निस्सन्दिग्ध इति।। तदसत्।। उदाहरणत्वे बहूदाहरणप्रदर्शनवैफल्यापत्तेः।। यदपि चित्रङित्यनुवादबलाच्चित्रशब्दस्यायमादेश इति कल्पनया नास्त्यसङ्ग्रह इति तदप्यसत्।। विधेयसमर्पकलया स्वरूपेणोच्चारितस्यैव तत्रादेशपदार्थतया सन इव कल्प्यमानस्यादेशस्येत्सञ्ज्ञाप्रयोजकीभूतस्यादेशत्वस्य दुरुपपादत्वेन तेन तत्सङ्ग्रहायोगात्। एवं च योगरूढत्वपक्षे शकारचित्रङोरसङ्ग्रहो मूर्धाभिषिक्तो दोष इति दिक्।। सर्वसङ्ग्रहादिति।। यद्यपि करणघञा सर्वसङ्ग्रहे न विवादः तथापि पूर्वार्धोपात्तेषु प्रतिपाद्यमानेषु घञो बाहुलकल्वमावश्यकमुत्तरार्धोपात्तेषु च तन्नेति बोधयितुं वैषम्येण प्रतिपादनमितिबोध्यम्।। नहि तत्प्रयोजकमिति।। धातुत्वादीनामुपदेशकरणतायाश्च सामानाधिकरण्यमात्रे नतु प्रयोज्यप्रयोजकबाव इति तात्पर्यम्।। उपदेशाताशब्दस्य शब्दपरत्वेऽप्युपदेशकरणीभूतधात्वादिनिष्ठमुपदेशकरणत्वमेव व्यवहर्तव्यतावच्छेदकतया तदीयव्यवहारप्रयोजकं, नतु धातुत्वादय इति बोध्यम्।। ननु सञ्ज्ञापक्षेप्युपदेशपदोत्तरभावप्रत्ययेन योगार्थतावच्छेदकमुपदेशकरणत्वं रूढ्यर्थतावच्छेदकं धातुत्वादि च बोध्यते योगरूढेषूभयोरपि प्रवृत्तिनिमित्तत्वांगीकारादेवं च धातुत्वादीनां तत्प्रयोजकत्वमनुचितमेवेति पक्षद्वयसाधारणस्यास्य दोषस्य योगपक्षमात्रविषयकत्वप्रतिपादनमयुक्तमित्यत आह।। सञ्ज्ञात्वेत्विति।। शब्दपरत्वादिति।। अर्थवच्छब्दस्वरूपेऽपि शाब्दिकनये शब्दानां शक्तिस्वीकारादिति भावः।। तदवच्छिन्नस्येति।। उपदेशशब्दत्वावच्छिन्नस्योपदेशशब्दस्येत्यर्थः।। उपदेशताशब्दस्य मत्वर्थलक्षणाश्रयणाच्चैतादृशार्थलाभः।। तत्प्रयोजकत्वं च धातुत्वादीनां व्यवहारद्वारकं व्यवहर्तव्यतावच्छेदकानां व्यवहारप्रयोजकत्वादितिबोध्यम्।। एवं च सञ्ज्ञापक्षे नायं दोष इति तात्पर्यम्।। वस्तुत उपदेशताप्रयोजकत्वमुपदेशकरणतापर्याप्त्यधिकरणतावच्छेदकत्बमिति विवक्षणे योगपक्षेऽपि न दोष इति बोध्यम्।। यत्तु सञ्ज्ञाशब्देषु भावप्रत्ययेन शब्दस्वरूपमेव बोध्यते यथा डित्थादिषु। अत एव कुत्वं कस्मान्न भवतीति भाष्ये कुत्बशब्देन कुशब्द उच्यते लक्षणया च कुशब्दवाच्यः ककार इत्यर्थ इति व्याख्यातार इति तदसत्।। तादृशसिद्धान्तस्य यत्र डित्थादिषु यदृच्छाशब्देषु प्रवृत्तिनिमित्तमन्यन्न सम्भवति तद्विषयत्वात्।। नहि तत्र जातिर्गुणःक्रिया वा प्रकृत्यर्थे प्रकारतया भासते यत्प्रवृत्तिनिमित्ततया भावप्रत्ययाभिधेयं स्यात्।। तस्या भाव इति सूत्रे भावशब्देन प्राप्त्यर्थकचुरादिभूधातुप्रकृतिकघञन्तेन शब्दो येन धर्मेण ज्ञातेनार्थविशेषे प्रयोगविषयतां प्राप्नोति स भाव इति व्युत्पत्त्या प्रवृत्तिनिमित्तमेवोच्यते। यत्र तु ब्राह्मणादिशब्दार्थे जात्यादि प्रवृत्तिनिमित्ततया भासते तत्र तदेव प्रवृत्तिनिमित्तम्। किंच शब्दानुविद्धस्यैवार्थस्य शब्दतो भानं शब्दस्वरूपेऽपि शब्दानां शक्तेरिति सिद्धान्तेऽपि न शब्दस्वरूपे भावप्रत्यय इष्टः। अन्यथा गोत्वं न जातिरित्यादिव्यवहारापत्तेरिति स्पष्टमुद्योतशेखरयोः।। तस्माद्योगरूढस्योपदेशशब्दस्य योगार्थतावच्छेदकं रूढ्‌यर्थतावच्छेदकं वा प्रवृत्तिनिमित्तमिति तदेव भावप्रत्ययार्थो न तु शब्दस्वरूपमतो यथाश्रुतमेव युक्तमिति दिक्‌।। सर्वादेशत्वं ज्ञाप्यत इति ।। इदं तु चिन्त्यम्। शित्त्वज्ञाने सर्वादेशत्वं सर्वादेशत्वज्ञाने च शित्त्वमित्यन्योन्याश्रयात्।।
दिगिति।। दिगर्थस्तु उपदेशशब्दस्य भावघञन्तस्य आद्योच्चारणार्थकत्वे न विवादः उपशब्दस्याद्यार्थत्वाद्दिशेरुच्चारणक्रियावाचित्वात्।। अत एवोच्चार्य वर्णानाह उपदिष्टा इमे वर्णा इति भाष्ये उक्तम्। तच्चोच्चारणं प्रकृतशास्त्रप्रवर्तकाचार्याणामेव। प्रत्यासत्तेः। आद्यात्वं चाज्ञातस्वस्वरूपज्ञापकत्वम्। हलन्त्यमित्यत्र अन्त्यशब्दोपस्थापितेनावयवेनावयवी समुदाय आक्षिप्यते। ततश्च अज्ञातस्वस्वरूपज्ञापकप्रकृतशास्त्रप्रवर्तकाचार्यकर्तृकोच्चारणविषयसमुदायान्त्यं हलिदित्यादिक्रमेणार्थः।। स्यादेतत्।। लॄटस्सद्वेति विहितयोश्शतृशानचोस्स्वरूपेणानुच्चारणादत्र कल्पे चकारादेरित्त्वानापत्तिः, तथा राजसूयेति निपातनानुमितक्यपः पकारस्य चेति चेदत्राहुः।। सदित्युक्तावपि शतृशानचोरनुवृत्त्या सिद्धे तौसदिति तौग्रहणात्‌पूर्वत्र यादृशावित्सञ्ज्ञकचकारादिविशिष्टौ तथाभूतयोरेव परामर्शेन पुनरित्सञ्ज्ञाया अनुपयोगः। राजसूयेत्यादौ च पित्त्वादिधर्मवत एव यप्रत्ययस्य निपातनमभ्युपगम्यते, फलमुखत्वाच्चैतद्गौरवं न दोषावहमिति।। न च निष्ठेति विहितयोः क्तक्तवतोः निरुक्तोपदेशविषयत्वाभावात्तद्‌घटकस्येत्त्वानापत्तिरिति वाच्यम्।। यत्र निष्ठापदं तत्र क्तक्तवत्वोरुपस्थितिरित्यर्थकतया परिभाषात्वस्वीकारेण स्वरूपत एव तयोर्विधानादुपस्थितयोरप्यनुवृत्तयोरिवोपदेशविषयत्वे बाधकाभावाच्च न दोष इत्याशयात्।। नचैवं रदाभ्यामित्यत्र सञ्ज्ञाविधित्वाभावात्तदन्तविधिप्रसङ्ग इति वाच्यम्। प्रत्ययग्रहणे चापञ्चम्या इत्यनेनैव तन्निषेधसम्भवात्। नचैवपपि लोपश्चेत्यत्र प्रश्लिष्यमामस्य शकारस्याक्षरसमाम्नायेऽज्ञातत्वान्निरुक्तोपदेशविषयत्वाभावेनेत्त्वानापत्त्या भाष्यासंगतिरिति वाच्यम्। विधेयगतसर्वादेशत्वरूपविशेषसमर्पकत्वेन तदुच्चारणस्यापूर्वत्वेनोपदिश्यमानत्वमक्षतमित्याशयात्।। न च भवतः ठक्‌छसावित्यादौ ठक्‌छसुभयसङ्घातादिरूपद्वन्द्वस्यैवोपदेशविषयतापर्यांप्त्यधिकरणत्वात् ककारादेरनन्त्यत्वेनेत्त्वानापत्तिरिति वाच्यम्।। अज्ञातस्वस्वरूपज्ञापनतात्पर्यकोच्चारणस्यैवोपदेशपदार्थतया द्वन्द्वस्थले पृथग्विधेयत्वानुपपत्त्या प्रत्येकमेव तात्पर्यकल्पनया तथाविधातात्पर्यविषयीभूतोच्चारणगोचरसमुदायत्वपर्याप्तेष्ठगादावपि द्वन्द्वघटके निर्विवादत्वेन दोषाभावात्। अत एव पिष्‌लृ संञ्चूर्णन इत्यादौ षकारादेरित्त्वाभावः। तदन्तोपदेशे शास्त्रकृतां तात्पर्यांभावात्। अत एव इदमस्थमुरिति मकारेत्सञ्ज्ञापरित्राणार्थस्स्थमोरुकारश्चरितार्थ-। चित्रङित्यस्याप्यनुबन्धघटितं रूपमज्ञातमेवेति नास्ति तत्रेत्सञ्ज्ञाप्रवृत्तेर्विरोध इति वदन्ति।।
नासिकामभिहत्येति।। नासिकाशब्देन काकलकोपान्तभागः। तदभिघातिना मुखवायुना प्रकाशित इत्यर्थः। ततश्चाभिव्यञ्जकवायुधर्मेण वर्णो व्यवह्रियत इति भावः।। अत्राभिव्यञ्जित इत्यनेन वर्णानामभिव्यक्तिरेव न तूत्पत्तिरिति नित्यत्वं सूचितम्‌।। आवश्यकमिति।। तत्र सञ्ज्ञाया अनुक्तेरिति भावः।। अत एवेत्यस्य व्यत्पत्तिवशादेवेत्यर्थः। मुखग्रहणप्रत्याख्यानं च प्रासादवासिन्यायेनेति बोध्यम्।। पशुरपत्यमित्यादि।। हरतेःदृतिनाथयोःपशौ, तस्यापत्यमित्यादौ यथा पशुरपत्यमित्यादिरर्थः प्रतीयते तथा यरोनुनासिक इत्यादौ स्वरूपग्रहणस्याभावो यस्मिंस्तथाभूतोऽर्थः स्वरितत्वप्रतिज्ञानात्स्वं रूपमित्यस्य प्रत्याख्यानाद्वा प्रतीयत इति तदर्थः। आन्महत इत्यादिनिर्देशश्चात्र स्वरूपविधिनिवर्तक इत्याशयः।। सप्रयोजनमिति।। परमकारुणिको भागवानाचार्यः प्रकृतसंज्ञां मन्दाधिकारिण उपलालयितुमुपक्रान्तवानिति न शास्त्रवैयर्थ्यशंकावकाश इति भावः।। इदिति वक्तव्ये इति।। आङिच्छंदसीति न्यासे यद्यपि पदलाघवाभावस्तथापि मात्रालाघवं प्रक्रियालाघवं चालोच्येदमुक्तम्। न च तस्य लोप इत्यत्र तच्छब्दस्य पूर्वपरामर्शकतया प्रकरणान्तरप्रणीतसञ्ज्ञाविशिष्टस्याङो ग्रहणानौचित्याल्लोपाप्रवृत्तौ फलवैजात्यापत्तिरिति वाच्यम्।। सञ्ज्ञाविधानसामर्थ्यात् प्रकरणान्तरस्थसञ्ज्ञोपहितस्यापि लोपविधाने बाधकाभावात्।। इति पक्षे इति।। नन्वनेकान्तपक्षे आदितश्चेत्यस्येत्सञ्ज्ञावदाकारसंनिहितोपस्थाप्यस्यधातोरिट्प्रतिषेध इत्यर्थः, प्रकृते च इत्संज्ञकेनाकारेण सन्निहितो न तु तदुपस्थाप्य इति कथं निषेधप्रसङ्ग इति चेन्मैवम्। उपस्थाप्योपस्थापकयोस्सादृश्यमूलकाभेदाध्यवसायेन प्रदेशस्थस्यापि तादृशसञ्ज्ञाविशिष्टाकारादिसन्निहितत्वमविरुद्धमितीत्सञ्ज्ञकाकारसमीपवर्तिनो धातोरिट्‌प्रतिषेध इत्यर्थे प्रकृतेऽपि तत्‌प्रसक्तिरित्याशयात्।। मुख्यावयविनीति।। इदमेवास्य पक्षस्य मुख्यात्वबीजम्। अनेकान्तत्वपक्षे हि समासोपपत्त्यर्थमन्यपदार्थे सामीप्यमूलकमध्यारोपितमवयवित्वमिति गौणत्वमिति भावः।। ्संगत्यापत्तेरिति।। विरोधापत्तेरित्यर्थः। न केवलमस्मच्छास्त्रीयसिद्धान्तविरोध एव, किंतर्हि तंत्रान्तरीयव्यवहारविरोधश्चेत्याह।। व्याकरणस्येति।। अभियुक्तत्वं च सकलतन्त्रसिद्धान्तपरिज्ञानजन्यव्यवहारप्रवर्तकत्वम्।। अन्यत्रोक्तमिति।। शब्देन्दुशेखरे रप्रत्याहारसम्पादकतया लण्‌सूत्रस्थावर्णस्यानुनासिकत्वादिकमप्रामाणिकमुरण्रपर इत्यत्र च लग्रहणं कर्तव्यमेवेत्युक्तमित्यर्थः।। युक्तं चैतत्।। अन्यथा कृत्रिमाकृतिमन्यायेन रषाभ्यामित्यन्नापि रप्रत्याहारग्रहणापत्तौ लकारात्परस्यापि णत्वप्रसङ्गः।। न च तत्र रेफोत्तरमनुनासिकाकाराभावान्न प्रत्याहारग्रहणमनुनासिकाकारविशिष्टो हि प्रत्याहार इति वाच्यम्।। एवमपि रोऽसुपि रऋतो हलादेर्लघोरिति सूत्रयोर्विधेयांशे विनेत्सञ्ज्ञामकारस्य निवृत्त्युपायाभावेनानुनासिकत्वस्यावश्यकतया प्रत्याहारग्रहणस्य दुर्वारत्वात्।। न च प्रत्याहारग्रहणे रोऽसुपीत्यनेनाहर्भातीत्यादौ नकारस्यान्तरतम्याल्लकार एव स्यात्तथा रऋत इत्यनेन द्रढिमेत्यादौ रेफ एव स्यादिति सामर्थ्यात् प्रत्याहारग्रहणाभाव इति वाच्यम्।। तत्सामर्थ्यादुपसंजातविरोधन्यायेनान्तरतमपरिभाषाबाधस्यैव न्याय्यत्वात्।। न चातो ल्रान्तस्येत्यत्र लकारग्रहणादनित्यत्वमस्य प्रत्याहारस्येति वाच्यम्।। तत्रानुनासिकोच्चारणे प्रमाणाभावेन प्रत्याहारग्रहणस्य दुर्वचतया लकारस्यावश्यकत्वेन ज्ञापनायोगात्।। न च तत्रानुनासिकोच्चारणेन सिद्धे लकारग्रहणमुक्तार्थज्ञापकमिति वाच्यम्।। तत्सामर्थ्येन रप्रत्याहाराभावस्यैव लाघवोपहितस्य ज्ञापयितुमौचित्यात्।। लण्‌सूत्रस्थावर्णस्यानुनासिकत्वकल्पनापुरस्कारेण प्रत्याहारमवलंब्य लक्ष्यानुसारादनित्यत्वकल्पने गौरवं स्पष्टमेव।। किं च योऽचीत्यादौ प्रत्याहारग्रहणाभावाय संयोगादेर्धातोर्यण्वत इत्यत्र णकारोच्चारणेन रप्रत्याहारातिरिक्तः प्रत्याहारो लण्‌सूत्रस्थावर्णेन न भवतीति कल्पनायां सुतरां गौरवमतो वरमुरण्‌रपर इत्यत्रार्धमात्रिकस्य लकारस्य ग्रहणमित्याहुः।। बाहुलकादविशिष्टमिति।। तत्रापि वृत्तिद्वयकल्पनाप्रयुक्तगौरवसद्भावादिति भावः।।
न तु शास्त्रीयेति।। शास्त्रेणैव शास्त्रं बाधनीयमिति शास्त्रीयबाधे वचनं कल्प्यम्। लोकव्यवहारबाधने तु तस्यानियतत्वान्न वचनकल्पनापेक्षेति तत्त्वम्।। जात्याख्यायामिति।। महाकालगतमेकद्रव्यनिवेशित्वान्न जातिरौपाधिकभेदोपहितेषु खण्डकालेष्वनुगतं कालत्वं क्षणत्वादिवज्जातिरेवेति भावः।।
इदं चेति।। अत्रायं मूलकृदाशयः।। ह्रस्वशब्दस्य संकेतविषयमात्राकालिकाज्वर्णपरत्वेन कर्मधारये लक्ष्यासंभवः।। एकदेशिसमासे च ह्रस्वस्वरित एवाद्यखण्ड स्योदात्तत्वामन्यत्र नेति लक्ष्यासिद्धिः। सूत्रे तस्येति षष्ठीनिर्देंशानुपपत्तिश्च तथाहि सति तत्रेति वक्तव्यं स्यात्। अर्थान्तरपरत्वं तु न युक्तं कृत्रिमाकृत्रिमन्यायविरोधादतोऽत्र ह्रस्वग्रहणमदृष्टार्थमिति।। लक्ष्यविसंवादादिदमयुक्तमित्याह।। तच्छास्वास्थेति।। अयं भावः, सामर्थ्यादिह कृत्रिमाकृत्रिमन्यायो बाध्यतां संभवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वात्।। ततश्च लोकप्रसिद्ध्‌या मात्राकालपरोऽत्र ह्रस्वशब्दः कर्मधारयाश्रयणे शास्त्रस्य दीर्घमात्रविषयत्वापत्तौ षष्ठीनिर्देशानुपपत्तेस्तदवस्थतया स्वीक्रियतामेकदेशिसमासः।। इत्थं चार्घह्रस्वशब्देनार्धमात्रा बोध्यत इति ह्रस्वादित्रिकेतावन्मात्रस्या प्राथमिकखण्डस्योदात्तत्वाप्रतिपादनेन बहुतरवैदिकोदाहरणसंग्रहो लोकव्यवहारोपपत्तिश्चेति।। संहितवद्वेत्यर्थ इति।। अत्र जात्यवद्वा तथावेति वाक्यद्वयम्।। उभाभ्यां विकल्पाभ्यामुभयविलक्षणस्य तृतीयस्याक्षेपात्त्रितयविधानं पर्यवस्यति संहितशब्दस्य धर्मिपरत्वाद्ध्रस्वनिर्देशो नानुपपन्नः।। केवलमनुदात्तत्वमिति।। संहितायां नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानामिति स्वरितनिषेधादिति भावः।। स्वरित इत्यर्थ इति।। उदात्तानुदात्तयोः पूर्वमुपक्रान्तत्वादिह तद्भिन्नस्वरितो ग्राह्य इति भावः।। स्वार्थेऽणिति।। द्वारादीनां चेति एज्भावस्स्वार्थिके न प्रवर्तते।। अनुगतस्स्वारमिति विग्रहकस्यानुस्वारशब्दस्य तत्र तत्र पाणिनिना निर्देशात् ञित्साहचर्याच्चेत्यशयः।।
केचित्तु स्वरशब्दपर्यायस्स्वारशब्दोऽपि कृदन्त एव न तु तद्धितान्तः। स्वार्थिकेप्यैज्भावो भवत्येव।। स्फैयकृतस्येति प्रयोगदर्शनात्। तत्र हि स्फ्‌यकृदेव स्फैयकृत इति विग्रहममियुक्ताः प्रदर्शयन्तीत्याहुः।।
अनुपात्तमपीत्यादि।। प्रकृतशास्त्रीयसंकेतविषयत्वेनागृहीतमप्यर्धमात्रारूपं प्रमाणमेव ह्रस्वादित्रिकसाधारणमर्धह्रस्वशब्देन बोध्यते न तु तादृशसंकेतविषयस्य मात्राकालपरिच्छिन्नस्याज्वर्मस्यार्धभाग इति तदभिप्रायः।।
अव्यवहितप्राक्कालिकत्वरूप इति।। ननु जन्यजनकभावरूपसम्बन्धस्य षष्ठ्यर्थतायां जनकस्यान्यपदार्थत्वात्तस्य च कार्यपूर्ववर्तित्वनियमादभीष्टस्य यत्नस्य ग्रहणसिद्धेः व्यर्थ एवायं प्रशब्दः, न च हेताविति तृतीयानुशासनात् जन्यजनकभावरूपसम्बन्धे षष्ठी र्दुर्लभा, सर्वनाम्नप्त्तृतीया चेति विधीयमानाया वैकल्पिकषष्ठ्यास्तु नायं विषयः तस्यास्सामानाधिकरण्येन कारणपर्यायप्रयोगसापेक्षत्वादिति वाच्यम्। हेतुबोधकाज्जन्यत्वे तृतीयाविधान एवानुशासनतात्पर्यात्। अत एव घटेन दण्ड इत्यादयो न प्रयोगा इति चेन्न। एकस्यैव यत्नस्य वर्णोत्पत्तेर्विवारादीनां च जनकत्वमिति मते वर्णोत्पत्त्यव्यवहितप्राक्कालिकत्वरूपप्रकर्षाभावदशायामनुवर्तमानस्य बाह्यत्वेन व्यवह्रियमाणस्य तस्य व्यावृत्तेः प्रशब्दाधीनत्वात्। न च याकत्प्रयत्नग्रहणे झरो झरि मवर्ण इति सूत्रस्थस्य सवर्ण इति सूत्रस्थस्य सवर्णग्रहणस्य वैयर्थ्यादिह बाह्यप्रयत्नव्यावृत्तिरिति वाच्यम्।। तत्सामर्थ्याद्विनिगमनाविरहेणाभ्यन्तरव्यावृत्तावनिष्टापत्तेरिति दिक्‌।। अन्यत्र निरूपितमिति।। ङकारादीनां नासिका स्थानमानुनासिक्यरहितस्वरूपानुपलम्भात्। अकारादीनामनुनासिकानां च तद्रहितस्वरूपोपलब्ध्या न सा स्थानमिति शब्देन्दुशेखरादावुक्तमित्यर्थः।।
केचित्तु ङकारादीनामिवाकारादीनामप्यनुनासिकानां नासिका स्थानमेव तद्रहितस्वरूपोपलंभे मानाभावात्। यश्चतद्रहितश्शुद्ध उपलभ्यते स त्वतिरिक्त एव। यदि च प्रथमं द्रव्यं निर्गुणमेवोत्पद्यते पश्चाच्च समवेता गुणा उत्पद्यन्त इति तन्त्रान्तरीयसमयादनुनासिकानामकारादीनां प्रथममानुनासिक्यरहितस्वरूपोपलंभः पश्चाच्च तद्गुणोत्पत्तिरित्युच्यते तर्हि ङकारादीनामप्यानुनासिक्यं गुण एवेति कथं तत्साहित्ये नोत्पत्तिरिति विभावनीयमित्याहुः।।
घत्वजस्त्वानुनासिकेष्वति।। गोदुह् मत् इत्यस्यामवस्थायां पदान्ते घत्वस्य जश्त्वापवादत्वात् पूर्वं घत्वे ततो जस्त्वम्। न च भष्भावस्यापि पदान्ते जशत्वापवादत्वात् जश्त्वे कृते भाष्भाव इत्ययुक्तमिति वाच्यम्।। भुदित्यादौ समकालप्राप्तजश्त्वबाधनेन कृतार्थस्य भष्‌भावस्य पूर्वोपस्थितिनिमित्तकत्वमूलकेनांतरंगत्वेन जश्त्वमपवादोऽपीति न्यायात्प्रकृते प्राथमिकप्रवृत्तिप्रतिबन्धकमित्याशयात्।। न चानुनासिकस्यापि जश्त्वापवादतया जश्त्वोत्तरमनुनासिक इत्यनुचितमिति वाच्यम्।। कुमार्यांश्चिनोषीत्यादावझलि कृतार्थस्यानुनासिकस्य तदपवादत्वायोगात्।। न च तावन्मात्रफलकत्वे यणित्येव सिद्धे यर्‌ग्रहणात् झल्यपि प्रवृत्त्यनुमानेन तदपवादत्वं सुस्थमिति वाच्यम्।। अचो रहाभ्यामित्यादावनुवृत्त्यर्थस्य यर्‌ग्रहणस्य सामर्थ्योपक्षयेणोक्तार्थासिद्धेस्तस्मादिह युक्त एव घत्वादीनां प्रवृत्तिक्रम इति वदन्ति।। वस्तुतः त्रिपाद्यां पूर्वं प्रति परस्यासिद्धत्वाभावेपि सापादिकविप्रतिषेधशास्त्रबहिरंगपरिभाषोभयदृष्ट्‌या तदसिद्धत्वस्य निर्विवादतया ताभ्यां जश्त्वानुनासिकयोर्व्यवस्थापयितुमशक्यत्वादष्टाध्यायीपाठक्रमेण प्रथममेव भष्‌भावे नायं दोषः।। परं तु घत्वे कृते तस्येदानीमसिद्धत्वाभावाज्झय इति वत्वापत्तिर्दोषः।। अत एवाकरे वत्वमेवापादितं न तु भष्‌भाव इति दिक्‌।। त्रिपाद्यामपीति।। अपिरवधारणे निपातानामनेकार्थत्वात्।। तदुक्तम्।। निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः। अनेकार्थास्स्मृतास्सर्वे पाठस्तेषां निदर्शनमिति।। त्रिपाद्यमेवेति तदर्थः।। सिद्धे असिद्धत्वारोपादिति।। कार्याणां सिद्धिश्च लक्ष्यसमवायित्वमेव नान्यदिति भावः ।। उपपादकहेतोरिति।। परशास्त्रतद्‌बोध्यकार्यान्यतराभावरूपस्येत्यर्थः।। ननु शास्त्रजन्यलक्ष्यसंस्कारकमहावाक्यार्थबोधविषयत्वमेव कार्याणां सिद्धिस्तथा च लक्ष्यसमवायात्प्रागेव तेषामसिद्धत्वमिति नास्ति मूलोक्तदोष इत्याशयेन शङ्कते।। नचेति।। लक्षणायामिति।। अष्टाध्यायीपाठकृतपूर्वत्वपरत्वयोः कार्येषु बाधात्तदसिद्धत्वेपूर्वपरशब्दयोर्लक्षणाश्रयणमावश्यकमिति भावः।। ननु शास्त्रासिद्धत्वमपि प्रवृत्तिनिवृत्त्यन्यतरसाधकतया कार्यार्थमेवेति प्राधान्यात्कार्यासिद्धताया औचित्यमेव लक्षणायां मानमत आह।। फलाभावादिति।। ननु प्रधानाप्रधानयोरिति न्यायपरिपालनमेव फलं तत्राह।। गौरवादिति।। यद्यपि शास्त्रासिद्धत्ववादेऽपि पूर्वशास्त्रे कर्तव्ये परमसिद्धमित्यर्थे शास्त्रस्येदानीं कर्तव्यताबाधात् कार्यद्वारिकायास्तस्याः शास्त्रे आरोपे गौरवमस्त्येव तथापि कार्यासिद्धत्वे पूर्वपरशब्दयोर्द्वयोरपि तद्‌बोध्यकार्यलक्षणाश्रयणं, शास्त्रासिद्धत्वे तु कर्तव्यशब्दस्यैकस्यैव तद्‌बोधके लक्षणेति लाघवम्। यदि च कार्यासिद्धत्वे पूर्वशब्दस्यैव लक्षणा परशास्त्रजन्यबोधविषयकार्यस्य चाध्याहारतो लाभ इत्युच्यते तर्हि शास्त्रासिद्धत्वेऽपि कर्तव्यविषयकबोधजनकस्याध्याहारेणैव लाभ इति लक्षणाया अनुपयोगाच्छस्त्रासिद्धत्व एव लाघवम्।। किं च कारकविभक्तेर्न्याय्यतया पूर्वत्रेति विषयसप्तमी शास्त्रेषु च चेतनत्वारोपः इत्थं च परशास्त्रं पूर्वशास्त्रीयबुद्धिगोचरत्वाभाववदित्यर्थान्न लक्षणा नाप्यध्याहार इति लाघवम्। एतेन विषयसप्तमीत्वे गोमान् धीमान् इत्यादौ नलोपशास्त्रविषयतया संयोगान्तलोपशास्त्रस्य प्रथममप्रवृत्तिप्रसंग इत्यपास्तम्।। कार्यासिद्धत्वमुक्तरीत्या चेतनत्वारोपेण विषयसप्तमीत्वेऽपि पूर्वपरशब्दयोर्लक्षणां न मुञ्चतीति गौरवमित्याशयः।। ननु शास्त्रासिद्धत्वपक्षे शास्त्रेषु चेतनत्वारोपेण सापादिकानि त्रैपादिकमसिद्धत्वान्न जानंतीति नादिन्याक्रोशे इत्यस्येको यणचीत्यनेन साधुत्वं न स्यात्तथा हशिचेत्यनेन रोरीत्यस्य साधुत्वं न स्यादिति चेदत्राहुः।। पूर्वत्रासिद्धमित्येतच्छास्त्रघटकस्यासिद्धमित्यस्य न केवलमविद्यमानवदित्यर्थः, किन्तु प्रवृत्तिनिवृत्त्यन्यतरप्रयोजकविसेषवाक्यार्थसमर्पकत्वेनाविद्यमानवदित्यर्थः।। तथा च हरि चेको यणचीत्यादीनां त्रैपादिकशास्त्रगतलक्ष्यसंस्कारकमहावाक्यार्थबोधविषयतत्तत्‌कार्यप्रवृत्तिनिवृत्त्यन्यतरसर्पकत्वापरिज्ञानेपि सामान्यवाक्यार्थबोधकत्वज्ञाने स्वरूपज्ञाने च बाधकाभावादन्यत्रेव तत्रापि साधुत्वमप्रत्यूहमिति।। एतेन अतिदेशशास्त्रगतस्यासिद्धमित्यस्यार्थबोधकत्वेनाविद्यमानवदित्यर्थेऽपि रोरर्थबोधनाय प्रसक्तापुर्भवतीत्यादिक्रमेण हशि चेत्यादीनामर्थादर्थबोधापेक्षत्वेनासिद्धत्वस्य दुर्वारतया त्रैपादिकशास्त्रनिर्देशेषु साधुत्वानापत्तिस्तदवस्थैवेति परास्तमिति दिक्‌।। दर्शनाभावरूपे इति।। अयंभावः।। अपवाद उत्सर्गस्य प्रवृत्तिपर्यवसायिनीं प्रसक्तिं वारयति।। अपवादविषयं परित्यज्योत्सर्गप्रवृत्तेः।। निषेधोऽपि उत्सर्गस्य प्रवृत्तिं संभाव्य प्रसक्तिं निवर्तयति।। आदेशस्तु प्रसक्तस्य फलभूतमर्थबोधं स्वयमेव संपादयन् प्रयोगं निवर्तयति न तु प्रसक्तिमित्यस्ति लोपादेशस्याभावबुद्धौ रोः प्रसंग इति।। एतेनाभावाभावस्य भावरूपत्वेप्यादेशेन निवर्तितस्योच्चारणप्रसंगाभावान्नोत्वप्रवृत्तिरिति परास्तम्।। न चात्र परत्वात् ढ्रलोपदीर्घे ह्रस्वाकाराभावादुत्वाप्रवृत्तिरिति वाच्यम्।। पूर्वोपस्थितिनिमित्तकत्वेपि अतिदेशसापेक्षत्वेन विलंबोपस्थितिकत्वादुत्वस्य बहिरंगत्वमेवेत्युच्यते तदा नात्रारुचिः, किंत्वयमपि दोष एवेत्याहुः।। निषेधसामर्थ्यादिति।। एतद्विषये देवदत्तहन्तृहतन्यायप्रवृत्तौ च मुत्वासिद्धत्वेन पूर्ववदाकाराभावात् पररूपाप्रवृत्तावकारान्तस्यैवांगसंज्ञोपहितत्वान्नाभावकर्तव्यताया असंभावेन निषेधस्यासांगत्याद्वैयर्थ्यम्।। न्यायाप्रवृत्तौ मुत्वासिद्धत्वेनाकारोत्पत्तौ पररूपे पुनर्मुत्वे घ्यन्तस्याङ्गत्वान्नाभावप्रसक्त्‌या निषेधोपपत्तिरिति भावः।। ननु न्यायप्रवृत्तावप्यमु अ टा इत्यस्यामवस्थायां पररूपमन्तरैवादन्तांगत्वनिबन्धने टाया इनादेशे गुणे परादिवद्‌भावेन टात्वादेकदेशविकृतन्यायेन मुशब्दान्तस्यांगत्वान्नाभावकर्तव्यतायास्सुवचत्वेन निषेधस्य सार्थक्यादुक्तार्थासिद्धिरिति चेत्सत्यम्।। मुशब्दान्तस्यैकदेशविकृतन्यायेनांगसंज्ञायामेकादेशस्याचः परस्मिन्निति स्थानिवत्त्वं प्रतिबन्धकम्‌। अत एव श्रेयस इमौ श्रायसावित्यत्र सान्तस्यानेन न्यायेनोगिदन्तांगतया नुममाशंक्याचः परस्मिन्निति एकादेशस्य स्थानिवत्त्वेनांगत्वानुपपत्त्या परिहृतमाकरे।। अत एव धनेनेत्यादावेकादेशोत्तरमनेन न्यायेनांगत्वं भत्वं चाश्रित्याल्लोपो न प्रवर्तत इति विभाव्यताम्।
केचित्तु अमु अ औ इत्यादौ मुत्वस्यासिद्धत्वेनाप्रवृत्तत्वबुद्ध्या तत्कृतदकाराकारोभयनिवृत्तिबुद्धेरसंभवेन नायं देवदत्तहन्तृहतन्यायविषय इति पररूपे वृद्धौ मुत्वे च कार्यासिद्धत्वेपि सिद्धममू इत्यादि।। न च पररूपस्योकारनिवर्तकत्वमयुक्तम्, तस्याकारनिवर्तकत्वात्। तथा च वृद्ध्युत्तरममु औ इत्यादिरूपे पुनर्मुत्वाप्रवृत्त्या रूपासिद्धिरेवेति वाच्यम्।। नहि रजतत्वभ्रमप्रयुक्ता प्रवृत्तिः शुक्तिंन गोचरयतीतिन्यायोनाकारबुद्ध्यैवोकारनिवृत्तावभीष्टसिद्धेः।। न चोकारनिवृत्तावपि मकारस्य सत्त्वाद्दात्परत्वादूकाराप्रवृत्तिरिति वाच्यम्।। सन्नियोगशिष्टन्यायेनोकारेण सह मकारस्यापि निवृत्त्या दात्परत्वस्य सुवचत्वात्। न च लक्ष्ये लक्षणस्येति न्यायेन पुनर्मकाराप्रवृत्तौ तत्सन्नियुक्तत्वादूकारस्यापि अप्रवृत्तौ रूपासिद्धिरेवेति वाच्यम्। उकारसन्नियुक्तमकारविधायकादूकारसन्नियुक्ततद्विधायकलक्षणस्य भिन्नत्वेनादोषात्।। किं च सन्नियोगशिष्टन्यायस्यान्यतरापाये संभाविते द्वयोरप्यप्रवृत्तिरित्यर्थः।। अत एव पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्र इत्यत्र ङीषो लुकि अकारश्रवणसिद्धिरन्यथा सवर्णदीर्घोत्तरमानुकस्तत्सन्नियुक्तस्य निवृत्तावकारश्रवणं दुर्लभमेवेति नेदं कार्यासिद्धत्वस्य दूषणमित्याहुः।।
शास्त्रासिद्धत्वमेवेति।। ननु शास्त्रासिद्धत्वपक्षे पिपठीरौजिढदित्यादौ षत्वढत्वादिरूपकार्यस्यासिद्धत्वाभावाद्रुत्वाद्यनुपपत्तिः। न च शास्त्रस्याविद्यमानत्वबुद्धौ तद्‌बोध्यलक्ष्यगतकार्यस्याविद्यमानताबुद्धिरार्थसमाजग्रस्तेति वाच्यम्।। असिद्धमित्यस्य लक्ष्यसंस्कारकमहावाक्यार्थबोधजनकत्वेनाविद्यमानवदित्यर्थकतायास्त्रैपादिकशास्त्रगतप्रयोगसाधुत्वसंपत्त्यर्थमवश्यमत्र पक्षे स्वीकारणीयत्वात्तथाविधबोधजनकत्वेनाविद्यमानत्वरूपस्यासिद्धत्वस्य शास्त्रमात्रविश्रान्ततया शास्त्रासिद्धत्ववादिभिरुक्तरीत्या कार्यासिद्धत्वस्य दुर्वचत्वात्।। कार्यस्यैवासिद्धत्वमिति पक्षे तु जातस्याप्रवृतत्वबुद्ध्या सर्वकार्यनिर्वाहः। न चातिदेशशास्त्रस्य पूर्वशास्त्रप्रवृत्तौ संभावितायां तत्‌प्रतिबन्धकतया परशास्त्रं न प्रवर्तत इत्यर्थादुक्तस्थले षत्वादीनामप्रवृत्त्या निर्वाह इति वाच्यम्।। संभावनाया अव्यवस्थितत्वादक्षरमर्यादया तत उक्तार्थालाभाद्वौरवाच्च। तस्मात् कार्यासिद्धत्वमेवाद्रियतां मनोरथसिद्धेस्तु रोरीत्यादि निर्देशबलाद्विप्रतिषेधशास्त्रस्याप्रवृत्त्या परशब्दस्येष्टवाचकत्वोपपत्त्या वा निर्वाहोस्तु, मास्तु शास्त्रासिद्धत्वमिति चेदत्राहुः।। पूर्वशास्त्रविषये परशास्त्रमविद्यमानवदित्यतिदेशशास्त्रस्याक्षरमर्यादालभ्योऽर्थः। अविद्यामानसादृश्यं च कार्यविशेषप्रवृत्तिनिवृत्त्यन्यतरानुपयोगित्वेन। तदनुपयोगित्वं त्वर्थबोधानौपयिकत्वेनैवाश्रयणीयत्वाच्छस्त्रेषु चेतनत्वारोपाच्च पूर्वशास्त्रबुध्या परशास्त्रं कार्यप्रवृत्तिनिवृत्त्यन्यतरोपयोगिलक्ष्यसंस्कारकमहावाक्यार्थबोधजनकत्वाभाववदित्यर्थस्य पर्यवसानात्परशास्त्रगतकार्यप्रवर्तकबोधजनकत्वपरिज्ञानाभाववतः पूर्वशास्त्रस्य तथाविधबोधविषयषत्वादिरूपकार्यस्य लक्ष्यसमवायित्वबुद्धेः सकारादिनिवृत्तिबुद्धेश्च दुरुपपादतया रुत्वादिप्रवृत्तिरव्याहतैव।। यौगपद्येन पूर्वपरशास्त्रयोः प्रवृत्तिविषये तु परशास्त्रगतकार्यप्रवर्तकत्वपरिज्ञानाभावे कार्यद्वारकविरोधिज्ञानस्य दुर्लभत्वान्निश्शंकमेव प्रथमतः पूर्वशास्त्रं प्रवर्तत इति न काप्यनुपपत्तिः।। कार्यासिद्धत्ववादिनामतिदेशवाक्यार्थोपपत्तये लक्षणा, मनोरथसिद्धये च विप्रतिषेधशास्त्रबाधकल्पनेत्युपेक्षणीयोऽयं कार्यासिद्धत्ववाद इति शास्त्रासिद्धत्वावादिनां निष्कर्ष इति।। यत्तु गङ्गा आरतीत्यादौ ढ्रलोपदीर्घदृष्ट्या सामर्थ्यात् ढ्रलोपस्यासिद्धत्वाभावेपि सवर्णदीर्घदृष्ट्‌या तस्यासिद्धत्वात्सवर्णदीर्घेण रेफद्वयवत एव साधुत्वं स्यादिति पक्षद्वयसाधारणं दूषणमाहुस्तदसत्।। ढ्रलोपदीर्घे णैकरेफेवतस्साधुतद्वबोधनेन तदनुसंधानात्सवर्णदीर्घेणापि तथाभूतस्यैव साधुत्वकल्पनायां बाधकाभावात्।। नहि रजतत्वभ्रमप्रयुक्तेति न्यायेनैकरेफवतोऽपि रेफद्वयवत्ताबुध्या साधुत्वबोधनसंभवाच्च।। यदपि षट्‌त्सन्तीत्यादौ धुडागमस्यासिद्धत्वेपि व्यवधायकस्य तदीयोच्चारणकालस्यासिद्धत्वाभावात्तिङतिङ इति निघातो न स्यादिति, तदपि न।। वर्णानामविद्यमानत्वे तदीयोच्चारणप्रयोजनकस्य कालस्य तत्र दुर्ज्ञेयतया व्यवधायकत्वायोगात्।। अत एव धिन्विकृण्व्योरचेत्यकारविधानमुपपद्येते। अन्यथा वकारलोपेऽपि तदीयोच्चारणकालेन व्यवधानाद्गुणाप्रवृत्तौ स्थानिवत्त्वेन व्यवधानसंपादकमकारविधानमनर्थकमेव स्यात्।। अत एव इमं मे गंगे यमुन इति मन्त्रे मेशब्दमाश्रित्य सर्वेषां निधान इत्यलम्‌।। एत ईदिति सूत्रमिति।। इदमुपजनिष्यमाणन्यायमनादृत्योक्तम्।। न्यायशरीरमिति।। अत्र शास्त्रे प्रकृतन्यायप्रयोजनं भवेत्यादौ हेर्लुकि सेरनुन्मज्जनमित्याद्यूह्यम्।। त्रिभिश्च मध्यमैर्वर्गैर्लशसैश्च व्यवाये नेति वक्तव्यमित्यट्‌कुप्वाङिति सूत्रस्थं भाष्यम्।।
प्रकृतिभावेनेति।। न च वार्णादांगं बलीय इति न्यायात्सवर्णदीर्घं बाधित्वा गुणप्रवृत्त्या निर्वाहे प्रकृतिभावोपपादनमयुक्तमिति वाच्यम्।। सुबुत्पत्ति-प्राक्कालप्रवृत्तिकस्य वार्णस्य सवर्णदीर्घस्य तदुत्पत्त्युत्तरप्रवृत्तिकेनांगेन गुणेन भिन्नकालतया बाधानुपपत्तिरित्याशयात्।। प्रकृतिभावस्य तु कार्यिभेदान्न बाधः।। अयं च न्यायो यत्र वार्णस्यांगस्य च समानकार्यित्वं तत्रैव प्रवर्तते धर्मिग्राहकसाजात्यादिति वक्ष्यते। गुणोत्तरमचः परस्मिन्निति स्थानिवत्त्वेन लृकारबुध्या न प्रकृतिभावःच न पदान्तेतिनिषेधात्।। तदाह।। यणीति।। भाष्योदाहृतविषय इति।। गोर्धेंनोरित्यादावेवेति भावः।। परमे कारक इत्यादि।। एवमादिविग्रहके कर्मधारये तृतीयादिस्वरस्यातिप्रसंगमाशंक्येत्यर्थः।। प्रतिपदोक्तपरिभाषयेति।। तृतीयादिपदघटितशास्त्रबोधितस्यैव तत्पुरुषस्य ग्रहणादिति भावः।।
अत्र चेत्यस्य व्यवहितेन प्रश्लोष इत्यानेनान्वयो न तु सन्निहितेनापि निर्देशा इत्यनेन बाधितत्वादित्याशयेनाह।। इत्यन्वय इति।। शीङोभावादिति।। ततो निष्ठायास्सेट्‌कत्वान्निष्ठा शीङिति कित्त्वनिषेधाच्च शयितमित्येव भवितव्यमिति भावः।। पठ्यत इति।। ननु श्यैङप्रकृतिक एवास्तु शीतशब्दश्शकारस्येकारे सवर्णदीर्घाभावो गणपाठबलादित्यत आह।। किंचेति।।
तपरसूत्रेणेति।। तच्च सूत्रमनणि विध्यर्थं नाणि नियामकमण्‌ग्रहणं च तत्र नानुवर्तत इति भावः।। फलभावादिति।। न च तपरत्वसामर्थ्यादन्तरतमपरिभाषाया निवृत्तिद्वारेण ऋकारस्य पाक्षिकलृकारविधिरिति वाच्यम्।। शास्त्रबाधकल्पनापेक्षया प्रवृतार्थसाधनस्यैवौचित्यात्।। अपूर्वबोध्यत्वाभावेनेति।। अयंभावः।। परेणाण्‌ग्रहणे ज्ञापिते स्थान्यंश इवादेशांशेपि दीर्घग्रहणे स्थानेऽन्तरतमपरिभाषया ह्रस्वस्य ह्रस्वो दीर्घस्य दीर्घ इति व्यवस्थापनादपूर्वत्वाभावः।। भाव्यमानपरिभाषा तु तया विधेयंशे दीर्घनिवृत्तावपूर्वबोध्यत्वेन भाव्यमानत्वं, तस्मिश्च सति परिभाषप्रवृत्तिरित्यन्योन्याश्रयान्न प्रवर्तते।। इत्थं च विधेयांशे दीर्गस्य निवृत्तेस्तपरत्वैकसाध्यत्वादक्षतमेव तस्य स्वांशे चारितार्थ्यमिति।। यत्तु परणकारेण प्रत्याहाराभावे ऋकारलृकारयोः परस्परग्राहकत्वाभावेन तयोस्सावर्ण्यविधानं व्यर्थम्‌।। न च होतृ लृकार इत्यादौ सवर्णदीर्घो गमॄनित्यादौ पूर्वसवर्णदीर्घश्य तत्फलमिति वाच्यम्।। आद्ये निपातानमनेकार्यत्वात्‌ वाशब्देन विवृतदीर्घस्यापि समुच्चयादिष्टसिद्धेः।। अन्त्यस्य न पदान्ताः परेऽणस्सन्तीति प्रत्याहाराह्निकास्थभाष्यबलेनानभिधानाच्च।। तस्मादृलृवर्णयोर्मिथस्सावर्ण्यमिति वार्तिकस्यैवोक्तार्थज्ञापकत्वमित्याहुस्तदसत्‌।। सूत्रेणैव विवृतेषत्स्पृष्टदीर्घयोर्विधानमाश्रित्य ऋति लृ वेत्यस्य प्रत्यख्याने सावर्ण्यविधानमन्तरेण होतृ लृकार इत्यादौ दीर्घाप्रवृत्तिः।। उपदर्शितभाष्यप्रामाण्येन गमुल्‌ शकुल्‌ इत्यादेः पदान्तपराणंतस्यानभिधानेपि गमॄनित्यादेरनभिधाने मानाभावाच्चेति दिक्‌।। वाक्यापरिसमाप्तिन्यायादिति।। नन्वात्माश्रयोऽन्योन्याश्रयो वा प्रकृतन्यायबीजम्।। तत्र स्वस्मिन् प्रवृत्तावात्माश्रयस्स्वाङ्गे प्रवृत्तावन्योन्याश्रयः, नाज्झलावित्येतच्छस्त्रं तु तदुभयविलक्षणम्।। नहि ग्राहकसूत्रघटकमेतत्।। नवा ददीयवाक्यार्थबोधवेलायामिदमपेक्ष्यते येन तदन्यतररूपता स्यात्।। ततश्च कथमत्रग्राहकशास्त्राप्रवृत्तिरित्यतो नाज्झलावित्यस्य ग्राहकशास्त्रांगत्वमुपपादयति।। अयं भाव इति।। तन्निश्चय इति।। इत्थं च ग्राहकसूत्रेण स्वघटकसवर्णपदबोध्यनिश्चयसंपादनायैतच्छास्त्रापेक्षणादत्रत्यस्याच्पदस्य सवर्णग्रहणाय तदपेक्षणे चान्योन्याश्रयान्नात्र ग्राहकशास्त्रव्रवृत्तिरिति भावः।। यदि तु ग्राहकशास्त्रगतसवर्णपदबोध्यनिश्चयो न साक्षात्सावर्ण्यनिषेधेन, किन्तु सावर्ण्यविधिनैव निषेधस्तु विधिशास्त्रीयविशिष्टवाक्यार्थगताप्रामाण्यसन्देहनिवर्तक एवेत्युच्यते तदा नाज्झलावित्यस्य सवर्णग्रहणाय ग्राहकशास्त्रापेक्षा तस्य स्वघटकसवर्णपदार्थपरिज्ञानाय सावर्ण्यविध्यपेक्षातस्य च बाधकविषयपरिहारेण विशिष्टवाक्यार्थसंपत्तये निषेधापेक्षेत्येवं चक्रकापत्तिरत्र ग्राहकशास्त्रप्रवृत्तौ दोष इति बोध्यम्।। चत्त्वित्यादि।। वाक्यार्थबोध एवेत्येवकारेण बोधसामान्याभावनिषेधप्रतिपादनात्सामान्यवाक्यार्थबोधोऽपि निरस्तः।।
तच्चायुक्तमिति भावः।। तदाह।। पदपदार्थोपस्थिताविति।। यदि तु निषेधवाक्यार्थात्पूर्वमुत्सर्गस्य महावाक्यार्थो न भवति बाधकशास्त्रीयविशिष्टवाक्यार्थज्ञानपूर्वकविषयपरिहारमन्तरेण तदयोगादित्युच्यते तदा सम्यगेवेति तत्त्वम्।। न्यायानादरेणेति।। देषापादन एव तात्पर्यं, नत्वापाद्यमानेषु असिद्धासिद्धिभावानुसन्धाने इति भावः।।
वासादृश्यं चेति।। सहविवक्षाया अभावेपि सौत्रत्वाद्भूवादय इति द्वन्द्वगर्भा बहुव्रीहिरिति भावः।। यद्यपि भ्वादय इत्यस्यावृत्तिर्न्याय्या वाशब्दो मध्ये मंगलार्थ इति भाष्यस्वारस्यात्। सादुश्यप्रतियोगिसमर्पकश्च भूशब्दः क्रियावाचक एव वाशब्दवत्, तथापि समासमध्ये वाशब्दप्रवेशस्य सौत्रत्वमावृत्तिश्चेति क्लेशाधिक्यादेवमुक्तम्।। असिद्धत्वमिति।। एवं चाकाराभावाल्लोपाप्रवृत्तौ फलाभावेन धातुत्वाप्रसंग इति भावः।। नाजानन्तर्यपरिभाषायास्सिद्धान्ते अभावादाह।। ततोऽपीति।। ननु विभक्तिनिमित्तकत्वं भसंज्ञाया एव न तु लोपस्य परंपरनिमित्तस्य बहिरंगपरिभाषायामंगशब्देन ग्रहणे मानाभावश्चेति कथं लोपस्य बहिरंगत्वमत आह।। अर्थकृतनिमित्तकस्येति।। अत्र शास्त्रे शब्दस्य प्राधान्यात्तस्यैव निमित्तत्वेन ग्रहणं न त्वर्थसंज्ञयोरित्यन्यत्र विस्तरः।। भ्वदिषु लाक्षणिकानामिति।। ष्ठा गतिनिवृत्तौ कुञ्च क्रृञ्च गतिकौटिल्याल्पीभावयोरित्यादौ।। अयं भावः। प्रयोगस्थानामनुकरणं, प्रयुक्तानामिदमन्वाख्यानमिति भाष्योक्तेः। प्रयोगे च लाक्षणिकमेव रूपमेतेषां नहि ष्ठा क्रुन् चेत्यादिप्रयोगो दृश्यते येन लक्षणवशनिष्पन्नष्टुत्वादिविरहितस्यानुकरणं स्यात्।। यत्र तु लाक्षणिकं प्रतिपदोक्तं चेत्युभायविधं रूपमुपलभ्यते तत्रैतस्याः परिभाषायाः प्रवृत्तिर्यथा सख्युरसंबुद्धावित्यादौ, यत्राप्युपदेशे प्रतिपदोक्तं रूपं प्रयोगे च लाक्षणिकं तत्राप्यस्याः परिभाषायाः प्रवृत्तिर्यथा उञि च-पदे इत्यादौ, इह तु न तथा प्रतिपदोक्तस्य प्रयोग उपदेशांतरं वेति नास्ति परिभाषायाः प्रवृत्तिसंभवः।। न च ष्टुत्वादेरसिद्धत्वात्तद्विरहितत्वबुध्यैव तदनुकरणमतः कथं लाक्षणिकत्वमिति वाच्यम्।। अनुकरणस्य लौकिकतया तद्‌बुध्या ष्टुत्वादेरसिद्धत्वायोगात्।। तद्धि पूर्वस्मिन् शास्त्रे तद्‌बोध्यकार्ये वा।। न चेदं शास्त्रं नापि तद्‌बोध्यं कार्यं।। अन्यथा ह्यूर्णुनावेत्यादाविव यद्‌बुध्या तस्यानुकरणप्रसंगस्तथाभूतस्यैव धातुगणे प्रयोगापत्तौ ष्टुत्वादिसहितस्य ष्ठा इत्यादेरसंगत्यापत्तिः।। अत एव ऋलृक्‌सूत्रे लृकारोपदेशप्रयोजनप्रस्तावे क्लृपिस्थस्य लृकारस्यानुकरणे साध्व्लृकारमधीत इत्यादौ यणादिकं प्रयोजनत्वेनोपपादितम्। प्रकृतिवदनुकरणमित्यतिदेशेनाच्कार्यं प्रत्यसिद्धत्वमाश्रित्य परिहृतमित्यन्यत्।। नचैवं प्रकृतेऽपि धातुसंज्ञायां ष्टुत्वादेरसिद्धतया तद्विशिष्टे तदनापत्तिरिति वाच्यम्।। ष्टुत्वादिविरहितत्वबुध्यैव तद्विशिष्टे नहि रजतत्वभ्रमप्रयुक्तेति न्यायेन संज्ञाप्रवृत्तौ बाधकाभावात्।। एतेन ष्ठा इत्यादिकृतष्टुत्वादेरनुकरणमुत लक्षणवशसंपन्नमत्र ष्ठुत्वादिकमिति विप्रतिपत्तावस्ति लक्षणप्रतिपदोक्तपरिभाषायाः प्रसंग इति परास्तम्।। प्रायोगिकस्य ष्टुत्वादिविरहितस्याप्रसिद्धत्वादुपदेशान्तराभावाच्चेति दिक्‌।। वक्तुमप्यशक्यमिति।। अनित्यत्वेन परिभाषायाः प्रवृत्त्यभाव इति तत्त्वम्‌।। दोष इति।। वा करोतीत्यादौ पदत्वाभावप्रयुक्तस्तिङतिङ इति निघाताभावो दोष इत्यर्थः।. ननु वाशब्दोऽयं विकल्पवाची स च विपूर्वस्य क्लृपेरर्थान्न भिद्यते।। ततश्च क्रियावाचकत्वात्तद्विशेषणेन कथं व्यावृत्तिरत आह।। क्रियात्वं चेति।। साध्यत्वमसत्त्वभूतत्वं चेद्वाशब्दार्थस्यापि लिङ्गाद्यनन्वयितया तद्रूपेण प्रदीयमानत्वाविशेषात्स्यादेव क्रियात्वमित्यालोच्याह।। उत्पाद्यमानत्वमेवेति।। तत्र विपूर्वस्य क्लृपेरर्थो विकल्प उत्पाद्यत्वेन प्रतीयते वाशब्दार्थस्तु नेत्यत्र शब्दशक्तीनां वैचित्य्रमेव शरणम्।। अकजर्थ इति।। शास्त्रबाधकल्पनापेक्षया प्रकरणबाधनमेव युक्तं श्रुत्यपेक्षया प्रकरणस्य दुर्बलत्वादिति भावः।। क्रियाकांक्षादर्शनेनेति।। क्रियान्तराकांक्षानुत्थापकतावच्छेदकधर्मवत्त्वमेव हि क्रियालक्षणमिति भावः।। कालोपि धात्वर्थ एवेति।। एवं चानिर्दिष्टार्थास्स्वार्थे इति सिद्धं कियावाचकत्वम्।। क्रियात्वक्रियाकालसंख्याकारकात्मकं पञ्चकं धातोरेवार्थ इति हि निष्कर्ष इति भावः।। प्रत्ययस्यैवेति।। मूले तिङ्चासावन्तश्चेति कर्मधारयो न बहुव्रीहिरिति बोध्यम्।। षष्ठे प्रकृतसूत्रे इति ।। तत्र हि भाष्ये प्रातिपदिकानां प्रतिषेध इति वार्तिकखण्डनाय लिटि धातोरित्यतो धातुग्रहणमनुवर्त्य उक्तम्, अथापि निवृत्तम्, उपदेश इत्युच्यते उद्देशश्च प्रातिपदिकानां नोपदेश इति।। एतेन धातुग्रहणासंबन्धस्स्पष्टमेवोक्त इति भावः। नन्वेवं सिद्धान्ते का गतिरत आह।। किंचेति।। शित्परत्वयोग्यस्यैवेति।। नन्विदं चिन्त्यम्, अनचीत्यत्र प्रसज्यप्रतिषेधेप्यच्परत्वयोग्यस्यैव यरो द्वित्वप्रवृत्तौ विसर्जनीयस्य द्वित्वानापत्तेः।। तस्माद्धातुग्रहणेनैव भावार्थकस्यैश आत्वव्यावृत्तिः।। भाष्यन्तु प्रातिपदिकव्यावृत्तये धातुग्रहमस्यानावश्यकत्वबोधनपरमित्यत आह।। अपि चेति।। वस्तुतः पञ्चकं धात्वर्थ इति निष्कर्षात्कर्तृकर्मवाचिनामपि क्रियावाचकत्वमाख्यातानामतो लिटस्तझयोरित्येकारोच्चारणादात्वाप्राप्तिरिति वदन्ति।। आणवयति वट्टयति इति।। आज्ञापनं वर्तनं च तयोरर्थः।। उपलक्षणमिति।। उदित्त्वं तु प्रातिपदिकत्वेपि नुमाद्यर्थं स्यादिति भावः।। बोध्यमिति।। प्रत्येकमेतेषां धातुत्वसंपादकत्वेनानुमानिकानेकवचनानां कल्पने क्लेश इत्यालोच्याह।। एतैश्च स्थितस्येत्यादि।। आचार्योपदेशकाले स्थितस्य तत्पाठस्याद्यत्वे पाठकप्रमादात्परिभ्रंश इत्यर्थो लाघवेन ज्ञाप्यत इत्यर्थः।। ननु बहुलमेतन्निदर्शनमिति गणसूत्रस्य दशागणीपाठ उपलक्षणमित्यर्थकतया लौकिकानां चुलुम्पादीनामिव सौत्राणामपि संग्रहे किमर्थोऽयं प्रयास इत्यत आह।। मैत्रेयाद्यन्यसम्मतमिति।। यदातु गणसूत्रस्य चुराद्यन्तर्गतानामदन्तानां पाठो बहुलं चुरादिपाठो वा बहुलमित्यर्थस्तदा ज्ञापकानुसरणं सौत्रसंग्रहार्थमावश्यकं प्रागुक्तार्थे तु नेति भावः।।
मानभावादिति।। द्रव्यवाचित्वे फिट्‌स्वरेणान्तोदात्तत्वं स्यादसत्त्वबोधकतया निपातत्वे तु श्रुतौ पठ्यमानस्याद्युदात्तत्वस्याभीष्टस्य सिद्धिरित्यपि वदन्ति।।
।।इति संज्ञाप्रकरणम्।।

।। अथ परिभाषाप्रकारणम्।।

सामर्थ्यादिति।। नच पूर्वसूत्राभ्यां गुणवृद्धिशाब्दयोरनुवृत्तावर्थाधिकारस्य न्याय्यतया शब्दपरत्वे यत्र गुणवृद्धी पदे तत्रेक इत्युपतिष्ठत इत्यर्थेन प्राप्तमनुवादविषयत्वं वारयितुमत्र सूत्रे गुणवृद्धिग्रहणस्यावश्यकतया कथं सामर्थ्यमिति वाच्यम्।। अत्र सूत्रे गुणवृद्धिग्रहणभावे न धातुलोप इत्यादौ पूर्वसूतघटकयोरेवानुवर्तनीयतया तत्रार्थाधिकारस्य बाधात्तदनुरोधेनात्रापि सूत्रे शब्दाधिकाराश्रयणे प्रदेशेषु तयोरर्थपरत्वाद्विधिक्रियाध्याहाराच्च यत्रादैजादयो विधीयन्ते तत्रके इत्युपतिष्ठत इत्यर्थेनानुवादविषयत्वाप्रसक्त्‌या सूत्रस्थयोस्सामर्थ्यं सुस्थमित्याशयात्।। शब्दव्यापाराश्रयणेनेति।। गुणवृद्धिशब्दयोस्स्वोच्चारणप्रयोज्यप्रतीतिविषयत्वोपहिततत्तदर्थलक्षाणया शब्दोच्चारणस्य प्रतिपाद्यकोटावाश्रयणेनेत्यर्थः।। मन्दबुद्धिसाधारण्येनेति।। मूलकारस्तु यत्र न धातुलोप इत्यादावर्थाधिकारस्य बाधस्तत्र तत्परित्यागेप्यन्यत्र तत्परित्यागो मानाभावादनुवर्तमानयोश्शब्दपरताया औचित्येन सामर्थ्यायोगात्सिद्धान्ते तदनुवृत्तिरेवाभीष्टार्थसिद्धये शरणमिति मन्यते।। अत्र नैव स्यादिति।। वस्तुतः स इमं यज्ञमिति मन्त्रैकदेशोऽयमिममित्यत्र परिष्कृतस्यार्थस्य प्रयोजनं दर्शयितुमुपन्यस्तो न तु स इममित्यनयोः प्रत्येकमुदाहरणत्वे तात्पर्यम्।। अन्यथा स इति व्यर्थमेव स्यात्।। इममित्यत्रैवातिव्याप्त्यव्याष्त्युभायसंभवादित्याहुः।। इकारस्यैवेति।। इदं बहूदाहरणसंग्रहानुरोधिना वैयधिकरण्येनोक्तम्। सामानाधिकरण्ये तु द्विशब्द एव तत्प्रवृत्त्या नायं दोष इति बोध्यम्।। अत एव दीर्घो नेति।। अनुकरणस्वरूपभंगभीतिस्तु न शास्त्रं वारयितुं समर्थेति भावः।। नन्वचो ञ्णितीत्यत्रैतत्परिभाषोपस्थिताविग्रूपस्याच इति सामानाधिकरण्यविवक्षायामज्ग्रहणवैयर्थ्यादजन्ताङ्गस्येक इत्यर्थें सुसखायावित्यादावनन्त्यस्योवर्मस्य वृद्धिप्रसङ्गः।। न च गोतो णिदिति व्यर्थमिति वाच्यम्।। सुगौरित्यादावनन्त्यस्योकारस्य वृद्धिसाधनार्थमुपयोगादत आह।। नास्याः प्रवृत्तिरिति।। ओर्गुण इत्यत्र तत्प्रवृत्तावुवर्णान्तस्यांगस्येको गुण इत्यर्थे शरीरावयवादिति ऊरुशब्दाद्यति प्राथमिकस्याप्यूकारस्य गुणप्रसंग इति बोध्यम्।। लिङ्गस्य श्रुत्यपेक्षया दुर्बलत्वेनेति।। श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पारदौर्बल्यमर्थविप्रकर्षादिति जैमिनीयो न्यायः।। अत्र अच इत्यादि साक्षाच्छ्रुतमिक इति तु वृद्ध्‌यादिपदवत्त्वेनानुमीयमानत्वाल्लिङ्गाधीनमित्याशयः।। अनन्वयादिति।। यथा कदाचनस्तरीरसिनेंद्र सश्चसि दाशुष इति मन्त्रस्य विनियोगाकांक्षायामैन्द्र्या गार्हपत्यमुपतिष्ठत इति प्रत्यक्षश्रुत्या गार्हपत्योपस्थाने लब्धविनियोगस्य मन्त्रगतलिङ्गानुमितेन्द्रोपस्थाने विनियोगाभावस्तथा गुणवृद्धिविधेस्स्थान्याकांक्षायामच इत्यादिना साक्षाच्छ्रुतेन लब्धान्वयस्याकांक्षानिवृत्त्या पुनरनुमितेनेग्ग्रहणेनान्वयाभाव इति भावः।। ननु सति विरोधे बलिष्ठेन दुर्बलो बाध्यते, प्रकृते तु न विरोधो द्वयोरप्येकत्र विधावन्वयसंभवात्।। किं च प्रकृते तन्न्यायाश्रयणेन निर्दिष्टस्थानिकेषु परिभाषाप्रवृत्तिवारणे मृजेर्वृद्धिर्मिदेर्गुण इत्यादावपि साक्षाच्छ्रुतेन मिदिमृज्यादिना गुणवृद्ध्‌योस्संबन्धस्य दुर्वारतया परिभाषाया अप्रसंग इति चेदत्राहुः।। यत्र श्रुत्यादीनां साजात्यं तत्रैव पूर्वपूर्वेणोत्तरोत्तरबाधो न्यायविषयः, सजातीयनिवर्तकताया औचित्यात्।। स्पष्टा चेयं रीतिः प्रत्याहाराह्निके भाष्ये। साक्षात् स्थानित्वेन श्रुतोऽजादिरचो ञ्णितीत्यादौ लिङ्गेन स्थानितया प्रसक्तस्येकस्सजातीयस्य निवर्तक इति युक्तम्।। मृजेर्वृद्धिरित्यादौ साक्षाच्छ्रुतो धातुः तदवयवतया स्थानित्वेन प्राप्तं विजातीयमिकं कथं वारयेत् विरोधोपि फलवैजात्यप्रयुक्तो वर्तत एव, एतादृश एव हि विरोधस्तन्न्यायविषयस्ततो युक्त एवायं निर्दिष्टस्थानिकेषु परिभाषाप्रवृत्तेः परिहार इति।। यत्तु नातः परस्येत्यर्थशब्दात्परस्य परिमाणवाचकोत्तरपदस्यादेरतो वृद्धिनिषेधारंभः स्थानिनिर्देशप्रयुक्तयोर्गुणवृद्ध्योः प्रकृतपरिभाषाया अप्रवृत्तेर्ज्ञापकः, अन्यथा प्रकृतपरिभाषोपस्थाप्यस्येग्ग्रहणस्यार्थात्परिमाणस्येत्यत्राप्युपस्थितावुत्तरपदादेरिक एव वृद्धिप्रसक्त्या तदसंगतिस्सपष्टैव।। ततश्च तन्त्रान्तरीयन्यायाश्रयणेन परिहारोक्तिरयुक्तैवेति वदन्ति।। तदसत्।। स्थूलदूरेति सूत्रे परिभाषाया अप्रवृत्तौ क्षेपिष्ठक्षोदिष्ठयोर्व्यञ्जनस्य गुणापत्तेः।। तदारंभस्यापूर्ववचनज्ञापकत्वापेक्षया तन्त्रान्तरीयन्यायाश्रयणज्ञापकताया एव लघुत्वाच्च।। अस्थ्याद्यनङ्‌विधौ नपुंसकग्रहणमस्थ्यादीनामेव विशेषणं, न त्वंगस्येत्यादिव्यवस्थासिद्धये न्यायाश्रयणस्य सर्वसम्मतत्वाच्चेति दिक्‌।। अन्तङ्गेति।। विधेयबोधकगुणवृद्धिपदश्रवणं लिङ्गमेतत्‌परिभाषायाः।। विधेयबोधकत्वं च प्रथमान्तपदान्तराभावविशिष्टप्रथमान्तत्वेनापि ज्ञातुं शक्यमतो न तत्र वाक्यार्थबोधापेक्षा, ततश्च वाक्यार्थात्पूर्वभावित्वादियमन्तरंगा, तदनन्तरभावित्वाच्चालोन्त्यपरिभाषा बहिरंगा, विभिन्नकालप्राप्तिकत्वेनानयोः परस्परसंबन्धो नेति बोधयिनुमयमन्तरंगबहिरंगभाबः।। न चायमन्तरंगपरिभाषाप्रवृत्त्युपयोगी, तस्याश्च यत्र जातं समकालंप्रप्तं वा बहिरंगं तद्विषयत्वात्।। एतेनार्थकृतबहिरंगत्वस्यानाश्रयणादलोन्त्यपरिभाषायाः प्रकृते वाक्यार्थसापेक्षत्वेन बहिरंगत्वोपपादनं स्वोक्तिविरुद्धत्वादयुक्तमित्यपास्तमिति दिक्‌।। स्थानषष्ठीत्वाभावनिर्णयेनेति। अस्यवर्णसमुदायबोधकशब्दप्रकृतिकेत्यादिः।। ननु तच्छेषपक्षो भाष्ये दूषितः। अयं तु पृथक्‌ नियामकत्वपक्ष इति कथमत्र भाष्यविरोध इत्यत आह।। द्वयोर्नियमयोरित्यादि।। गुणापत्त्येति।। एवं च तच्छेषपक्ष एवायं नियामकत्वपक्षो नामान्तरेण व्यवहारमात्रं भावतां। न तु विशेष इति भावः।। दूषणोद्धार इति।। एवं मृजेर्वृद्धिरित्यत्रोत्तरसूत्रादच इत्यस्यापकर्ष स्थूलदूरेति सूत्रे यण आदिः यणादिस्ततः परं लुप्यते पूर्वस्यगुण इत्येवं व्याख्यानमृदृशोऽङि गुण इत्यत्रोरङिगुणो दृशश्चेति न्यासान्तरं, ऋच्छत्यॄतामित्यत्र ऋकारान्तरप्रश्लोषस्च तदुद्धारप्रकार इति बोध्यम्।। अत एव क्ष्मापयतीति।। गुणोत्तरं वृद्धिप्रवृत्तेरेवेत्यर्थः।। यापनायामिति।। ननु सन्निपातपरिभाषया गुणाप्राप्तेर्नेदमुदाहरणं गुणोत्तरं वृद्धिप्राप्तौ निदर्शनं स्यादिति चेन्न।। अयीयपदित्यादौ ह्रस्वविषये परिभाषाया अनित्यत्वादप्रवृत्तेरावश्यकतया गुणोऽपि ह्रस्व एवेति प्रकृते तदप्रवृत्तिरित्याशयात्।। अतएवापरितोषात्पूर्वत्र गुणोत्तरं वृद्ध्या अदोषाच्चेत्युक्तमिति बोध्यम्।। आदिना कुह विस्मापन इति धातुगणस्थोऽर्थनिर्देशः
निषेधारंभेणेति।। ननु तासवयवस्येटस्तन्मध्यपतितन्यायेनैव सिद्धमंगावयवत्वमतो नायमारंभः प्रकृतार्थसाधक इत्यत आह।। लोकव्यवहारेणेति।। हस्तपादावयवांगुल्यादेर्विशिष्टशरीरावयवत्वं लोकप्रसिद्धमिति भावः।। पञ्चारत्नीनीति।। पञ्च, अरत्नयः प्रमाणं येषां तानि पञ्चारत्नीनि कुण्डानि प्रमाणार्थकस्य मात्रचः प्रमाणे लो द्विगोर्नित्यमिति लुक्‌।। नन्वत्र समासमात्रनिमित्तकस्वरस्तत्प्रकृतिकसुब्निमित्तकनुमागमप्रवृत्तिं किमिति प्रतीक्षते तत्राह।। विभज्यान्वाख्याने इति।। इत्थं च स्वरनुमागमयोर्यौगपद्ये परत्वात् पूर्वं नुमागम इति भावः।। यदि तु विभज्यान्वाख्यानेपि बहिर्भूतसुब्निमित्तकस्यनुमो बहिरंगत्वेन सिद्ध एवाभीष्टस्वरः।। किंच यदागमन्यायेनेग्वर्णावयवत्वेन विहितो नुमागमस्तद्ग्रहणेन गृह्यते, वर्णग्रहणे यदागमन्यायाप्रवृत्तिरिति तु भाष्यविरोधेन दूषितमेवेत्युत्तरपदस्य सुवचमिगन्तत्वमित्युच्यते, तदा नेदं दुषणमिति सूचयन्नाह।। भाष्यादौ स्पष्टमिति।। तत्रोक्तपरिभाषाद्वयानादरणेनेदं समुदायावयवत्वे प्रयोजनत्वेन प्रदशिंतमिति भावः।। वस्तुतः पूर्वविषमपापाणीत्यत्र त्रिपदे बहव्रीहौ णत्वानुपपत्तिरन्त्याजवयवत्ववादिनां दोषः।। तत्र नुमागमस्यावयवावयवन्यायेन पापशब्दावयवत्वापत्त्या निमित्तानधिकरणनिमित्तिमत्पदाघटितपदत्वरूपलक्षणानाक्रान्तत्वेन समानपदत्वस्य दुर्वचत्वात्।। न चोत्तरपदत्वे चेति निषेधेन पापानित्यस्य पदत्वाभावादस्त्येव समानपदत्वमिति वाच्यम्।। गन्धर्वगानमित्यादौं णत्ववारणाय लक्षणघटकस्य पदशब्दस्यार्थवदुपलक्षकत्वात्।। न च प्रातिपदिकान्तनुग्विभक्तिषु चेत्यनेन तत्सिद्धिरिति वाच्यम्।। मध्यमस्य पूर्वपदत्वाभावात्, पूर्वपदस्य मध्यमेन व्यवहिततया पदव्यवायेपीति निषेधविषयत्वादडाद्यतिरिक्तषकारव्यवहितत्वाच्च।। यत्तु ज्ञानानीत्यादौ नुम्विशिष्टस्याकारग्रहणेन ग्रहणादाद्गुणप्रसक्तिरत्र पक्षे दोष इति तन्न।। नुम्विधानसामर्थ्येन तन्निवृत्तिसंभवात्।। यद्यपि त्रपूणीत्यादौ नुमश्चरमाजवयवत्वपक्षे लोकन्यायेन समुदायावयवत्वाभावेपि कार्यकालपक्षे पुनरंगसंज्ञाप्रवृत्तेस्तदादिग्रहणाच्च नांचस्यांगतया सिद्धो दीर्घस्तथापि यथोद्देशे दोषमापादयतामवयवावयवन्यायेन परिहार इति बोध्यम्।। त्रपूणीत्यत्र नुमः पूर्वसूत्रादन्तग्रहणमपहायादिग्रहणानुवृत्त्या परादित्वेपि यदागमन्ययानित्यत्वेन कथंचित् प्रत्ययग्रहणेनाग्रहणे सिद्धो दीर्घ इत्यस्वरसादाह।। उपलक्षणमिति।। शेर्लोप इति।। निर्दिश्यमानपरिभाषया नुम्रहितस्य लोपे नकारस्य पूर्वान्तत्वाभावेन प्रातिपदिकान्तत्वाभान्न लोपोन स्यादिति भावः। न चान्तरंगत्वाच्छिलोपे नुमागमाप्रवृत्त्या दीर्घासिद्धिरेव दोष इति वाच्यम्।। अनित्यत्वेन कथंचित् परिभाषाया अनाश्रयणेप्यत्र दोष इत्याशयात्।।
स्थाननिरूपितसंबन्ध इति।। स्थानपदाध्याहारेण तदर्थान्वितस्योद्देशयस्य विधेयेन निवर्त्यनिवर्तकभावाख्यो यस्संबन्धविशेषो भवति स इह शास्त्रे संबन्धविशेषप्रतिपत्तिविहीनायाः षष्ठ्याः प्रतिपाद्यः, समभिहारस्यैव हि संबन्धविशेषप्रतिपत्तिनियामकत्वमिति तदर्थः।। प्रदेशेषु षष्ठ्यर्थसंपन्धस्य विशेषपर्यवसानाय स्थानशब्दाध्याहार इत्यत्र तात्पर्यम्।। बहुव्रीहिरपीति।। मूले इति विग्रह इति बहुव्रीह्यन्यपदार्थको वहुव्रोहिर्देहलीदीपन्यायेन निपालनादित्यस्योभयत्रापि संबन्ध इति भावः।। इदन्तु बोध्यम्।। प्रदेशेषु स्थानपदाध्याहारादिकः प्रसक्ताविग्निवर्तको यणित्यादिक्रमेणार्थः।। एकस्याप्युद्देश्यभूतस्येगादिपदार्थस्य विधेये शाब्दः, प्रसक्तावार्थस्संबन्धः।। यद्वा विद्यतिक्रियानुषंगेण प्रसक्तिविषयसत्ताश्रयेग्निवर्तको यणित्यादिरर्थः।। अथवा प्रसक्तस्येत्यध्याहारो लाघवात् प्रसक्तिविषयीभूतेग्निवर्तको यणित्यादिरूपो वाक्यार्थ इति पक्षत्रयमत्र संबवति, युक्तमत्र विचार्यमार्यैरिति।। यद्यपि स्थाने इत्यस्य सप्तम्यन्तानुकरणत्वमाश्रित्य बहुव्रीह्युपपादने यत्र षष्ठी तत्र स्थानेशब्द उपतिष्ठत इत्यर्थकतया लभ्यते मूलोक्तार्थः, एत्वनिपातनक्लेशोपि नापेक्ष्यते, तथापि तथा न व्याख्यातम्, ऊदुपधाया गोह इत्यादावपि तत्संबन्धापत्तेः। सिद्धान्ते स्थानपदार्थनिरूपितसंबन्धविशेषबोधिका षष्ठीत्युक्त्या यत्र संबन्धविशेषनिर्णयाभाव इको यणचीत्यादौ, तत्रैतस्याः परिभाषाया उपस्थितिः, ऊदुपदाया इत्यादौ तूपधापदसन्निधानादवयवावयविभावरूपसंबन्धविशेषस्य निश्चितताया नास्ति परिभाषायाः प्रवृत्तिः। इत्थं च संबन्धविशेषोपपादकसमभिव्याहाराभवविशिष्टषष्ठीश्रवणमेतत्परिभाषालिंगमिति नानिष्टप्रसक्तिरिति दिक्‌।। अनान्तर्यमेवेति।। तच्च प्रकृतस्थान्यादेशभावातिरिक्तस्थान्यादेशभावसमर्पकसादृश्यनियामकधर्मराहित्यरूपं, तदाह।। अन्तरतमाभाव इति।।
व्याख्यानादिति।। कि तद्व्याख्यानबीजं तत्राह।। बहुलक्ष्यसंस्कारानुरोधाच्चेति।। चो हेतौ।। इदमेव व्याख्यानबीजमथवा तस्मिन्नणि च युष्माकास्माकावित्येतत्सूत्रमात्रविषयकत्वे तत्रैवाव्यवहितत्वपूर्वत्वांशयोर्निवेशेन सिद्धौ परिभाषारंभवैफल्यरूपस्य हेत्वंतरस्य समुच्चायकोऽयं चकार इति भावः।। तद्‌बोध्यार्थस्येति।। इतिशब्दबलेन गम्यमानस्य सप्तम्यन्तार्थस्येत्यर्थः।। ततश्च स्वाव्यवहितोच्चारणविषयसप्तम्यन्तार्थोपश्लिष्टपूर्वसंबन्ध्यौपश्लेषिकाधिकरणसप्तम्यन्तघटितशास्त्रविधेयमिति परिभाषार्थः।। औपश्लेषिकाधिकरणसप्तमी चास्याः परिभाषाया लिङ्गं, नतु सति सप्तमी, कारकविभक्तेर्बलीयस्त्वात्।। अत एव कर्तृकर्मणोः कृतीत्यादौ नास्याः परिभाषायाः प्रवृत्तिः।. इयं च पदैकवाक्यतया विध्युपकारिका, प्रदेशेषु पूर्वत्वाव्यवहितत्वांशयोः अध्याहारो लक्षणा वा पूर्वत्वाव्यवहितत्वोभयविशिष्टे स्वार्थेप्रदेशिकपदस्येत्यन्यदेतत्।। व्यवहार इति ।। गौण इति भावः। प्रदेशेष्वचीत्यादेस्सति सप्तम्यन्तत्वभ्रमनिरासायाह। अजुपश्लिष्टस्येति।। अव्यवहित एवेति।। तुल्यवित्तिवेद्यत्वादिति भावः।।
ननु आदेः परस्येत्यत्र तस्मादित्युत्तरस्यादेरिति न्यासे कथमनेकाल्‌ शिदित्यस्य परत्वभंगस्तत्राह।। स्वं रूपमित्यतः प्रागिति।। निर्दिष्टपदानुवृत्त्यर्थमावश्यकस्तत्र सन्निवेश इति भावः।। नन्वत्र न्यासे दिग्योगपञ्चम्यन्तघटितशास्त्रविधेयं पञ्चम्यन्तार्थावधिकपरत्वविशिष्टस्याव्यवहितस्यादेरित्यर्थेनागमविषयेप्यादेरित्यंशस्यप्रवृत्त्यापत्तौ क्त्वो यगित्यादिः क्त्वाप्रभृतेरादेरन्तावयवस्स्यात्।। तथाविधपरत्वविशिष्टस्याव्यवहितस्य स्थाने विधीयमानमादेरित्यर्थे त्वाव्यवहितत्वपरत्वांशयोरादेशातिरिक्तप्रदेशेष्वप्रवृत्त्यापत्तिरित्युभयथापि दोषसंभवात्सर्वादेशबाधकतामात्रदूषणोपवर्णनमकिंचत्करणत आह।। पृथक्‌वाक्यमिति।। क्वचिदिति।। आदेशव्यतिरिक्तविषयेप्यव्यवहितत्वपरत्वांशयोः प्रवृत्तिरिति न गाङ्कुटादिभ्य इत्यादौ दोष इत्याशयः।. नित्यं ङित इति।। तिङ्‌ शित् सार्वधातुकमित्यादाववश्यमाश्रयणीयस्य धात्वधिकारस्य संबन्धेपि विकरणव्यवधानेऽपि प्रवृत्तये विहितविशेषणमाश्रीयत इति भावः।। आदिशब्देनेतश्च लोप इत्यस्य संग्रहः।। आज्जसेरसुगिति।। ननु तत्रादेरित्यंशोपस्थितावकारोत्तरमसुकि पररूपे संयोगान्तलोपे विधानवैयर्थ्यादेवाप्रवृत्तिः।। न च ये पूर्वासो य अपरास इत्यत्र निर्दिश्यमानपरिभाषया शीभावाप्रवृत्त्यर्थमसुग्विधानमावश्यकमिति वाच्यम्।। तन्मध्यपतितन्यायविषयस्य निर्दिश्यमानपरिभाषाव्यावर्त्यताया अनिष्ठत्वात्। शीभावस्यासुगपवाद इति त्वयुक्तमेव, ब्राह्मणास इत्यादावसर्वनामविषये चारितार्थ्यात्।। न च विधानसामर्थ्यात्पररूपबाधनेन चारितार्थ्यमिति वाच्यम्।। प्रधानभूतपररूपबाधकल्पनापेक्षया गुणभूतस्यादेरित्यंशस्य बाधकल्पनाया औचित्यादत आह।। आदीति।। आदिशब्देन क्त्वो यगित्यस्य संग्रहः।। यद्यपि नानेकाल्‌ शिदित्यत्र सर्वस्येति स्थानषष्ठी, नापि षष्ठी स्थाने इत्यस्यानुवृत्तिरित्यभ्युपगमे शिदनेकाल्च विधेयं सर्वसंबन्धीत्यर्थादागमविषयेप्यादेरित्यंशस्य परत्वादनेन बाधनोपपत्तौ तस्मादित्युत्तरस्यादेरित्यनेकाल् शिदित्यतः पूर्वं न्यासे नास्ति क्त्वो यगित्यादौ दोषः।। न चानेकाल् शिदित्यस्यागमविषये चरितार्थत्वादादेशमात्रविषयस्यालोन्त्यस्येत्यस्यापवादत्वेन बाधानुपपत्तिरिति वाच्यम्।। अशिदनेकालादेशे चरितार्तस्य तस्य परत्वादेवानेन बाधोपपत्तेः।। षष्ठी स्थान इत्यस्यालोन्त्यस्येत्यत्राप्यसंबन्ध इति तु न युक्तम्।। लुङ्लङित्यादिना विधीयमानस्याडागमस्यान्त्यवर्णस्यैवाद्यवयवत्वप्रसंगात्, तथापि परस्येत्यस्य परत्वबोधकशब्देन विहितस्येत्यर्थलाभाय पृथक् परशब्दघटितो यथाश्रुतान्यास इति तत्त्वम्।। तद्धनयन्नाह।। इति दिगिति।।
प्रत्ययाधिकारे पाठे इति।। इदं णल्विषयम्। डादेशस्य प्रत्ययाधिकारादन्यत्र पाठादित्याहुः।।
वाचनिकपूर्वविप्रतिषेधाश्रयणे इति।। प्रियसखीनि ब्राह्मणकुलानीत्यत्राप्युक्तरीत्या नित्यत्वेनैव सिद्धौ वृद्धिविषये नुमः पूर्वविप्रतिषेधाश्रयणं नापूर्वमिति चिन्त्यमेतत्।। अभिसन्धिरभिप्रायः।। इत्यभिमानादिति।। वस्तुतोऽयमयुक्तः।। अन्तरंगं बहिरंगाद्बलीय इत्यस्यांतरंगसमानकालप्राप्तबहिरंगविषयत्वात्।। अत एवान्तादिवत्सूत्रे भाष्ये असिद्धं बहिरंगमन्तरंग इति परिभाषामवलंब्येदं प्रत्याख्यातम्।। तस्याश्चांतरंगे कर्तव्ये जातं समकालप्राप्तं च बहिरंगमसिद्धमित्यर्थो धर्मिग्राहकमानसिद्धः तध्द्वनयन्नाह।। ज्ञापकमन्यत्रेति।। ओमाङोश्चेत्याङ्ग्रहणं समकालप्राप्तबहिरंगविषये वाह ऊठित्यूठ्ग्रहणं जातबहिरंगविषये चांतरंगस्य बलीयस्त्वे ज्ञापकमन्यत्रोक्तमित्यर्थः।। निरवकाशत्वरूपेत्यादि।। सवर्णदीर्घस्य समकालप्राप्तसमानाश्रयान्तरंगबाधनेन चारितार्थ्यम्।। तस्यैव नाप्राप्तत्वादिति भावः।।
बहिरंगतयैवेति।। वलि लोपे बहिरंगपरिभाषा न प्रवर्तत इति प्राचीनानामुद्‌घोषो भाष्यविरुद्धत्वादुपेक्षितः।। नन्वेवमपि अक्षद्यूरित्यादौ यलोपवारणाय नाजानन्तर्यपरिभाषाया अजानन्तर्यनिमित्तकेऽन्तरंगे कर्तव्ये यद्‌बहिरंगं न तस्यासिद्धत्वम्। यच्च तथाविधांतरंगप्रवृत्त्युत्तरकालिकेऽन्तरंगे कर्तव्ये बहिरंगं तस्यापि नासिद्धत्वमित्यर्थस्यावश्यकतया कथं वलि लोपे संप्रसारणस्य बहिरंगासिद्धत्वमिति चेन्न।। लक्ष्यानुरोधिना बहिरंगपरिभाषाया अनित्यत्वेन प्रकृतपरिभाषयाः प्रत्याख्यानादीदृशे विषये कार्यानुसारेणैकस्मिन्नपि लक्ष्ये बहिरंगपरिभाषायाः प्रवृत्त्यप्रवृत्तिभ्यां निर्वाह इत्याशयात्।। क्वचितु पदावधिकेऽन्वाख्याने सेद् वस् अस् इति स्थिते इट्संप्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन संप्रसारणे वलादित्वाभावादिडागमाप्राप्त्या तत्सिद्धिरिति पाठः।। नन्वत्र संप्रसारणस्य प्रतिपदविधित्वं नापवादत्वेन बाधप्रयोजकं, तस्य निरवकाशविषयत्वात्।। नापि शीघ्रोपस्थितिकत्वेनांतरंगतया तत्प्रयोजकं, नियमशास्त्राणां विधिमुखेन प्रवृत्त्या वस्वेकाजिति विधीयमानस्येडागमस्यापि प्रतिपदविधित्वेन तुल्यत्वादतः कथमिह संप्रसारणस्य प्रथमं प्रवृत्तौ प्रतिपदविधित्वं नियामकं स्यादिति चेन्न।। संप्रसारणस्यापि प्रतिपदविधित्वादिडागमस्य तत्प्रयुक्तांतरंगत्वस्य दुर्वचतया नित्यत्वेन पूर्वं संप्रसारममित्याशयात्।। ननु निमित्तविनाशसंभावनया निमित्तिनः पूर्वमप्रवृत्तिरिति परिभाषार्थः।। ततश्च प्रतीच इत्यादावच इत्यल्लोपेन निमित्तविनाशसंभावनया प्रथममच्कार्याप्रवृत्ति रेतत्परिभाषाप्रयोजनमस्तीति कथं नैष्फल्यमिति चेन्न।। चाविति दीर्घारंभसामर्थ्येन तद्विषये पूर्वमच्कार्याप्रवृत्तिज्ञापनेनादोषात्।। तदुक्तं भाष्ये ``इहान्ये आचार्याश्चौ प्रत्यंगस्य प्रतिषेधमाहुः।। तदिहापि साध्यं नैष दोषः।। एतदेव ज्ञापयत्याचार्यः। न चौ प्रत्यंगं भवतीति। यदयं चौ दीर्घत्वं शास्तीति न च पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्र इत्यादौ द्विगोर्लुगनपत्य इति लुकि लुक्तद्धितलुकीति स्त्रीप्रत्ययनिवृत्त्या तत्संनियुक्तस्यानुको निवृत्तौ संभावितायां पूर्वमेकादेशाप्रवृत्तिरेतत्प्रयोजनमन्यथा दुर्लभमेव श्रवणमिन्द्रशब्दादेरकारस्येति वाच्यम्।। अन्तरंगानपि विधीन् बहिरंगो लुग्बाधत इत्यनया लुक्‌प्रयोजकसमासादीनामिव तत्प्रयोज्याया आनुग्निवृत्तेरपि प्राबल्यबोधनेनादोषात्।। न चाकृतव्यूहपरिभाषामेवाश्रित्येयं परिभाषा त्यज्यतामिति वाच्यम्।। बहिरंगकृतनिमित्तविनाशसंभावनाया एव तत्परिभाषाविषयतया त्यद् तद् इत्यादौ लुकस्त्यदादिकार्यापेक्षया बहिरंगत्वाभावेन तया परिभाषया निर्वोढुमशक्यत्वेनांन्तरंगानपीत्यस्यावश्यकत्वात्।। न च इयाय इयेषेत्यादौ गुणवृद्धिभ्यां निमित्तविनाशमुद्भाव्य प्रथमं सवर्णदीर्घाप्रवृत्तिरेतत्प्रयोजनमिति वाच्यम्।। वार्णपरिभाषया गतार्थत्वात्।। सा च नानया परिभाषया गतर्था, ऊवे ऊवाते इत्यादौ बहिरंगभूतोवङादेशप्रवृत्त्यनन्तरं निमित्तविनाशाभावात्।। नचैतत्परिभाषाया अभावे तद्धितविधौ समर्थानामिति व्यर्थमन्तरंगत्वादेव संधिकार्यप्रवृत्तेरिति वाच्यम्।। विभिन्नकालप्राप्तिकस्यापि वार्णस्योत्तरकालप्राप्तिकमांगं निवर्तकमित्येवमात्मकस्य वार्मपरिभाषागतस्यांशान्तरस्य ज्ञापनेन चारितार्थ्यात्। अत एवाध्यैयातामित्यत्र लावक्थायामट्‌युतरकालप्राप्तिकेनेयङादेशेनांतरंगस्याटश्चेत्यस्य निवृत्तिः।। अकृतव्यूहपरिभाषया तु नात्र निर्वाहः।। उत्तरकालप्राप्तिकेयङादेशेन वृद्धिनिमित्तविनाशाभावात्।। दीर्घारंभेण चौ प्रत्यंगस्य प्रतिषेध इत्येतद्वचनं प्रत्याचक्षाणस्य भागवतो भाष्यकारस्याप्ययमेवाशय इति युक्तम्।। न च विपूर्वादनितेर्विचि भसंज्ञाविषये विन इत्यादावल्लोपप्रयुक्तनिमित्तविनाशसंभावनया पूर्वं यणादेशाप्रवृत्तिरेतत्प्रयोजनमिति वाच्यम्।। विचोऽसार्वत्रिकत्वात्तदभिधाने दृढतरमानाभावाच्च। न च वागाशीर्दत्तो वाचिक इत्यत्र संज्ञायामिति ठच् प्रत्यये एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्य इति लोपेन निमित्तभूतपदत्वविनाशं संभाव्य प्रथमतः कुत्वाप्रवृत्तिरेतत्प्रयोजनमिति वाच्यम्।। पदावधिकान्वाख्याने त्रैपादिकासिद्धत्वेन लोपात्पूर्वं कुत्वाप्रवृत्त्या निर्वाहात्।। एतेन स्रग्विणमाचष्ठे स्रजयतीत्यपि व्याख्यातमिति दिक्।। नन्वन्तरंगानपि विधीन् बहिरंगो ल्यप्‌बाधते, पूर्वोत्तरपदनिमित्तकार्यात्पूर्वमन्तरंगोप्येकादेशो नेति परिभाषाद्वयानाश्रयणलाघवानुरोधादकृतव्यूहा इत्येव परिभाषा स्वीक्रियताम्।। अस्ति च प्रधाय प्रस्थायेत्यादौ ल्यबादेशप्रयुक्ततकारादित्वरूपहित्वादिनिमित्तविनाशसंभावन्, तथा आग्नेन्द्र इत्यादावानङादेशेन स्वप्रवृत्त्यभावसंभावनाप्रयुक्तसवर्णाच्परकाक्त्वरूपनिमित्तविनाशसंभावना च, ततश्च तद्विषये प्रकृतपरिभाषया हित्वादिरूपांतरंगनिवृत्तिस्सुकरैवेति कोऽसावस्यां परिभाषायां द्वेष इत्यत आह।। अत एवेति।। पदावधिकेऽन्वाख्याने बहिरंगपरिभाषाया अनित्यत्वादेवाभीष्टसिद्धौ न तयोः परिभाषयोरुपयोगो, नापि प्रकृतपरिभाषाया इति परमार्थः।।
।। इति परिभाषाप्रकरणम् ।।

।। अथ स्वरसन्धिः ।।

श्री गणाधिपतये नमः।। नन्विक्‌पदोपस्थाप्यानामिकारादीनामण्त्वाविशेषात् सवर्णग्रहणेनैवौपपात्तौ मूलकृतस्तद्वाच्यवाच्यलक्षणायाः क उपयोग इत्यतस्तदावश्यकतायां बीजमाह।। ननु व्यक्तिपक्षे इति।। जातिपक्षे तु सकलसवर्णानुगतायास्तत्तत्सामान्यजातेरक्षरसमाम्नाये निर्देशात्प्रत्याहारग्रहणेषु जात्युपश्तितौ कार्यविरोधादविशेषेण तदवच्छिन्ननिखिलव्यक्तिलाभ इति लाणुदित्सूत्रस्योपयोगो न लक्षणाया इति भावः।। उच्छारित एवेति।। उच्छारणेन श्रावणप्रत्यक्षविषयीकृत एव, न तु तदुपस्थाप्य इत्यर्थः।। अत एव ऋगित्युक्ते संपाठमात्रं गम्यते, न तु तदर्थ इति येनविधिसूत्रस्थं भाष्यमपि संगच्छत इत्यपि बोध्यम्।। स्वीयसूक्ष्मोच्चारणेति।। सूक्ष्मत्वं चोच्चारणे स्वेतरश्रावणानुपयोगित्वम्।। अध्याहारस्थलेपीति।। कस्मात्त्वं नध्या इत्यादावागमनादिक्रियायाश्शब्दतोऽध्याहारे चैतत्।। अपिशब्दादावृत्तिस्थलपरिग्रहः।। यद्यपि अपभ्रंशेषु गाव्यादिषु सादृश्यवशेनोपस्थापितानां साधूनामर्थोपस्थापकता दृश्यते, तथाप्यन्यत्र न तथाविधश्शिष्टानामनुभाव इति तात्पर्यम्।। अनन्वय इति।। अयं भावः।। प्रत्ययानां प्रकृतिगतवृत्तिजन्योपस्थितिविषयतत्तदर्थान्वितस्वार्थबोधकत्वनियमस्तावदावश्यकः, अन्यथा भूतलादिशब्दात्समवायेनोपस्थितस्याकाशस्यापि तत्प्रकृतिकविभक्त्यर्थान्वयादाकाशे चन्द्र इत्यर्थे भूतले चन्द्र इत्यादिप्रयोगप्रसंगः।। प्रत्याहारग्रहणेषु ल्वादिभ्य इत्यादिनिर्देशान्यथानुपपत्तिसहकृतेन ग्राहकशास्त्रेणानुच्चारितानामपि प्रत्याहारोपस्थापितानां स्वस्वसवर्णप्रत्यायकतामाश्रित्य विभक्त्यर्थान्वये प्रागुक्तनियमभंगः।। लक्षणाश्रयणे तु वृत्त्यात्मकत्वात्तस्याः प्रकृते नान्वयानुपपत्तिः। अत एव द्विरेफशब्दस्य भ्रमरशब्दवाच्ये लक्षणेत्यभियुक्तानां प्रवाद इति।। वृत्तिप्रयोज्योति।। तत्त्वं च वृत्तिजन्योपस्थितिविषयोपस्थाप्यत्वम्।। इदन्तु चिन्त्यम्।। घटमानयेत्यादौ वृत्तिजन्योपस्थितिविषयघटादिजनकत्वेनोपस्थितकुलालादेरपि समभिव्याहृतक्रियाकर्मत्वाद्यन्वयप्रसंगात्।। यदि तु वृत्तीतरसंबन्धजन्योपस्थितिविषयताशून्यत्वं वृत्तिप्रयोज्योपस्थितिविषयत्वमित्युच्यते, तर्हि गगने घनसन्दोह इत्यादावाकाशोपस्थितेर्गगनपदीयवृत्तिजन्यत्वमिव तत्पदीयसमवायजन्यत्वमपीत्यन्वयानुपपत्तिप्रसंग इत्याहुः।। आद्यवर्णेष्विति।। ककारादिचिह्नैराक्षरसमाम्नायिकत्वप्रत्यभिज्ञोपहितैरुच्चारितैः प्रत्याहाराद्यवर्णैस्सादृश्यवशादभेदेन गृहीतेषु तदुपस्थाप्येष्वित्यर्थः।। लक्ष्यतावच्छेदकज्ञानार्थमिति।। स्ववाच्याक्षरसमाम्नायिकवाच्यत्वं च लक्ष्यतावच्छेदकं, तच्च ग्राहकशास्त्रेणाकारादिषु आक्षरसमाम्नायिकवाच्यत्वनिर्णयमन्तरेण दुर्बोधमिति भावः।। स्वसदृशवाच्येष्विति।। एवं च प्रत्याहारग्रहणेषु स्ववाच्यवाच्यलक्षणा प्रातिस्विकग्रहणेषु स्वसदृशवाच्यलक्षणेत्येवं व्यक्तिवादिनामुभयविधा लक्षणेति भावः।। नन्वेवं स्वोपस्थाप्यसावर्ण्यमवच्छेदकमाश्रित्यैकैवोभयसाधारणी लक्षणा स्वीक्रियताम्। इत्थं सत्यणुदित्सूत्रमपि लक्ष्यतावच्छेदकज्ञापनाय नापेक्ष्यत इत्यपरमनुकूलमतो लक्षणाद्वैविध्यमयुक्तम्।। न चैवं यू स्त्य्राख्यावित्यत्र स्वोपस्थाप्येकारसवर्णस्य शवर्णस्य ग्रहणेन नदीसंज्ञायां दिशे दृसे इत्यादौ आण्णद्या इत्याडागमप्रसंग इति वाच्यम्।। नाज्झलावित्यस्य प्रत्याख्यानाय भाष्ये प्रयत्नभेदेनाज्झलोः सावर्ण्याभावबोधनेनादोषात्।। न च रदाभ्यामित्यादौ दकाराद्युपस्थाप्यसवर्णानां तत्तद्वर्गीयवर्णानां पंचानामपि परिग्रहे बद्धो बुद्ध इत्यादौ निष्ठानत्वाद्यापत्तिरिति वाच्यम्।. कुचुटुतुपूनामुदित्त्वेन सवर्णग्राहकत्वविधानसामर्थ्याद्वर्गपंजकांतर्गतस्य निरुक्तलक्षणागम्यत्वाभावकल्पनेनादोषात्।। न च जातिपक्षप्राप्तस्येव लक्षणालब्धस्याप्यप्रत्यय इति विधेयांशे निषेधस्याभीष्टतया तदंशे लक्षणाया अभावादुदित्त्वेन सवर्णग्राहकत्वविधानं सार्थकमिति वाच्यम्।। एवमप्युद्देश्यांशे चोः कुरित्यादावुदित्करणेनोक्तार्थकल्पनायां बाधकाभावादिति चेन्न।। ज्ञापकादपूर्ववचनकल्पनापेक्षया लक्षणाभेदे गौरवाभावात्।। ईदृशार्थकल्पकतया ग्राहकशास्त्रस्य सार्थक्यसंभवे सर्वथा वैयर्थ्यकल्पनाया अयुक्तत्वाच्चेति दिक्‌।। नादिचीत्येव सिद्धमिति।। नन्वस्यामवस्थायामकारेण नादिचीत्यत्र दीर्घानुपस्थापनात्कथं विश्वपावित्यादौ निषेधसिद्धिरिति चेन्न।। अश्च आश्चेति समाहारद्वन्द्वेन दीर्घस्यापि तत्र प्रश्लेष इत्याशयात्।। यद्वा विश्वपा इत्यादौ सत्यपि पूर्वसवर्णदीर्घे क्षत्यभावेन नादिचीत्यत्रैव दीर्घग्रहणेन सिद्धे पृथक्‌सूत्रारंभः प्रकृतार्थज्ञापक इति भावः।। स्वसदृशवाच्यलक्षणायां त्वेरनेकाच ओस्सुपीत्याभ्यां प्राप्तस्य यणो न भूसुधियोरिति निषेधो ज्ञापक इति बोध्यम्।। अण्ग्रहणादिति।। अन्यथा ह्यजित्येव ब्रूयात्।। पुनर्वाक्यार्थबोध इति।। अगत्या वाक्यार्थद्वयमेवंविधेष्वभ्युपगन्तव्यमित्याशयः।। स्ववाचकान्वयिनीति।। प्रत्यासत्तेरिति शेषः।। व्यक्तिपक्ष इत्यादि।। संख्याज्ञानाभावो यथासंख्यासम्भवदोषे हेतुः।। लक्ष्यासिद्धिश्च दोषान्तरमिति बोध्यम्।। लक्षणाश्रयणमूलकपरिक्लेशावहत्वात्सर्वनिर्वाहकत्वाभावाद्भाष्यकारानभिमतत्वाच्च व्यक्तिवादो न युक्त इत्याशयेनाह।। परेत्विति।। सर्वझकारादीनामिति।। व्यक्तिपक्षे सकलव्यक्त्यनुकरणस्यानंत्यादशक्यत्वेन कस्याश्चिदेश व्यक्तेरनुकर्तव्यतया तथाभूतैकैकव्यक्तिबोधकझलादिपदेन झलो झलीत्यादौ निमित्तनिमित्तिभावेन तकारद्वयाद्युपस्थापनायोगादवात्तामित्यादौ सलोपाद्यनापत्तिरिति भावः।। लक्ष्यतावच्छेदकाग्रहादिति।। नहि तत्र स्ववाच्यवाच्यत्वं स्वसदृशवाच्यत्वं वा संभवत्यणुदित्सूत्रविषयत्वाभावादित्याशचः।। अर्धजरतीयस्येति।। ननु झलादिप्रत्याहारविषयेऽपि स्ववाच्यसदृशलक्षणया सर्वझकारादीनां ग्रहणोपपत्तौ नास्ति जातिनिर्देशावश्यकता, हलो यमामिति यथासंख्येन लोपारंभश्चैतल्लक्षणायां बीजमतः कथमर्धजरतीयत्वम्।। न च व्यक्तिवादिनां प्रातिस्विकग्रहणे कस्य च द इत्यादावेकैकककारादिव्यक्तेस्स्थानित्वेन ग्रहणे व्यक्त्यन्तरे दकाराद्यादेशानुपपत्त्या जातिनिर्देश आवश्यक इति वाच्यम्।। विनिगमनाविरहादावृत्त्या तत्तल्लक्ष्यविषयकत्वेन परिकल्पितेषु लक्षणेषु वृथग्विभिन्नानेकव्यक्तिप्रतिपत्त्या निर्वाहादत आह।। अत एवेति।। जात्याश्रयणमेवेति।। न तु लक्षणाश्रयणमतो भाष्यविरुद्धकल्पना न युक्तेति भावः।। ननु जातिपक्षेपि व्यक्त्यानन्त्यस्य तदवस्थतया कथं प्रकृतविषये यथासंख्यमादाय स्थानेन्तरतमसूत्रस्थभाष्यकारोक्ता स्थान्यादेशभावव्यवस्था संगता स्यादत आह।। यथासंख्यामूत्रमिति।। लृलुटोरिति।। लृङ्‌लृडुभयसाधारणमनुबन्धविनिर्मुक्तखण्डगतं लृत्वमेकमिति धर्मसाम्योपपत्तिः।। समुलाकृतजीवेष्वित्यादौ तु तत्तद्धर्मानुगतानां व्यक्तीनां साम्यं द्रष्टव्यम्।। लृत्वादिजातेरिति।। अत्रादिपदप्रयोजनं चिन्त्यम्‌।। ऋवदिति षष्ठ्यन्ताद्वतिः, उपमेये षष्ठीदर्शनात्।। ऋकारस्य यथा ऋत्वाजातिप्रयुक्तं कार्यं भवति तद्वद्लृकारजातीयस्यापीति तदर्थः।। सत्यपि सावर्ण्यवचने ऋकारस्य लृकारसावर्ण्यप्रयुक्तं कार्यमनित्यत्वादनिष्टमिति भावः।। अनित्यत्वावश्यकत्वादिति।। यद्यपि लृकारस्य लकार इति तद्विषयकत्वेनोपप्लुतलक्षणस्यानवकाशत्वादातिदेशिको रेफादेशो बाध्यत इति बक्तुं शक्यम्, तथाप्युपायान्तरमिदं बोध्यम्।। वाक्यभेदेनेति।। उदिदंशे तदसंबन्धः। विधेये चोः कुरित्यादौ उदित्करणवैयर्थ्यात्।। प्रसज्यप्रतिषेधश्चायं प्रत्ययादिर्भाव्यमानस्सवर्णग्राहको नेति तदर्थः।। इदं व्यक्तिवादिनामप्यावश्यकं, गुणाभेदकत्वप्राप्तसवर्णग्रहणवारणार्थमिति बोध्यम्।। ननु विधेयांशे जातिग्रहणनि,ेधे यण्ग्रहणस्यैकैकयकारादिव्यक्तिबोधकत्वादेकैकेनैव यकाराद्यादेशेनैकत्र प्रवृत्तेन राम रोपधयोरिव सर्वस्याच्‌परकेत्वादिजात्यवच्छिन्नस्य निवृत्तिप्रसंगः।। न च तत्तल्लक्ष्यव्यक्त्यनुरोधादुपप्लुतेषु विभिन्नेषु लक्षणेषु पृथग्यकाराद्युपस्थितौ प्रत्येकमादेशप्रवृत्त्या निर्वाह इति वाच्यम्।। संग्राहकवाक्यगतस्य यण्‌पदास्याक्षरसमाम्नायगृहीतैकैकयकारादिव्यक्त्युपस्थापकतया तदुपप्लुतेषु लक्षणेषु तदितख्यात्त्युपस्थितेरनौचित्यात्।। अत्राहुः।। अप्रत्यय इत्यनेन विसदृशानेकव्यक्त्‌यनुगतसामान्यजातेरेव निषेधो न तु वर्मसमाम्नायगृहीतव्यक्तिसदृशानेकव्यक्तिगतविशेषजातेरन्यथा विधेयभूतानामादेशानामसति बाधके स्थानिसदेशत्वनियमादेकैकस्य यकराद्यादेशस्यानेकलक्ष्यसमवायांसंभवाच्छास्त्रानर्थक्यमेव स्यात्।। व्यक्तिवादिनामपि विभिन्नश्रुतिकसवर्मग्रहणस्यैव निषेधो, न तु समानश्रुतिकस्येत्यभ्युपेयमेवेति नेदमपूर्वमिति जातिवादिनः।। फलाविशेष इति।। गुणाभेदकत्वेन जातिपक्षेण वा विधेयांशे सानुनासिकस्य ग्रहणे स्थानेन्तरतमपरिभाषया स्वौजसमौडित्यादौ सानुनासिकोकारदेस्तत्प्रवृत्त्या यथासंख्यसूत्रेण तन्नियमाप्रवृत्त्या च तयोः परिभाषयोः फलविशेषे भा,्यासंगतिरिति भावः।। नव्यानामिति।. किम्वितीत्यत्र सानुनासिकदीर्घोकारादेशपक्षे स्थानिवद्भावात् उञ्त्वमादाय मय उञो वो वेति सानुनासिको वकार इत्याचक्षाणानां दीक्षितादीनामुक्तरीत्या प्रमाद एवेत्यर्थः।। ननु व्यक्तिपक्षेऽपि सादृश्यवशेन तिरस्कृतभेदानामनेकव्यक्तीनामेकरूपेणानुकरणे भवति झलादिप्रत्याहारेषु बोद्धॄणां सकलझकारादिप्रतिपत्तिरिति किं जातिपक्षावलंबेनेत्याशयेन शंकते।। नचेति।। युक्तत्वादिति।. ननु भवतु जातिपक्षवदणुदित्सूत्रगतस्याण्‌ग्रहणस्य वैयर्थ्यम्, लक्षणानाश्रयणं च, का क्षतिरत आह।। तदप्युक्तमिति।। पक्षान्तरत्वेन भाष्यकारैरिदमुपक्षिप्तमेवेति नापूर्वमिति तात्पर्यम्।. नन्वित्थं जातिव्यक्तिपक्षयोरुभयोरपि वैयर्थ्यादण्‌ग्रहणं कुर्वतस्सूत्रकारस्याभिप्रायो दुर्निरूप इत्यत आह।। अण्‌ग्रहणंत्विति।। इदमेवाभिप्रेत्येति।। केचित्तु वर्णसमाम्नाये जातिनिर्देशे रूपसामान्यानुकरणे वा तात्पर्यग्राहकमाचार्यस्याणुदित्सूत्रस्थमण्‌ग्रहणम्, अन्यथा तात्पर्यापरिज्ञानात्तदुभयमप्ययुक्तमेव स्यात्।। अणुदित्सूत्रस्थादण्‌ग्रहणाच्च न जातिरूपसामान्ययोः प्रतिपत्तिः।। तत्काले तात्पर्यग्राहकाभावेन वाक्यापरिसमाप्तिन्यायात्।। न चैवमादिरन्त्येनेत्येतच्छास्त्रीयवाक्यार्थकालेपि तात्पर्यग्राहकाभावादुक्तन्यायेन जान्यादिनिर्देशस्यदुर्ज्ञेयतया सकलव्यक्तिषु शक्तिग्रहविरोध इति वाच्यम्।. अणुदित्सूत्रैकवाक्यतापन्नस्यादिरन्त्येनेत्यस्य वाक्यार्थवेलायां तात्पर्यग्राहकाभावेन जातिरूपसामान्यावच्छिन्नयोरण्‌पदीयशक्तिग्राहस्य दुर्वचत्वेप्यन्यत्र इको यणचीत्यादिशास्त्रेकवाक्यतापन्नतदीयवाक्यार्थवेलायां तात्पर्यग्राहकस्य सुलभतया तत्तज्जात्यादिविशिष्टस्य सकलव्यक्तिष्वभीष्टस्य शक्तिग्रहस्य सुवचत्वात्।। तस्मादुक्तार्थतात्पर्यग्राहकमण्‌ग्रहणं न तूपायान्तरपरमिति प्रत्याचक्षाणस्य भाष्यकारस्यात्र तात्पर्यमुन्नेतुं युक्तमित्याहुः।।
नित्यनिषेध इति।। दीर्घादाचार्याणामित्यनेनेति शेषः।। पूर्वत्र प्रसज्यप्रतिषेधपरस्यानुवृत्तस्य पर्युदासपरत्वे शब्दाधिकाराश्रयणं क्लेशः।। इदमपीति।। अनचीत्यादिसूत्रबोधितद्वित्वविकल्पघटकस्याभावांशस्य यथा सर्वत्र शाकल्यस्येति प्रपञ्चस्तथा दीर्घादाचार्याणामित्येतदपीति तदर्थः।। दीर्घादाचार्याणामित्यस्य निषेधपरत्वे प्रमाणत्वेन प्राचीनोद्भावितं हरदत्तग्रन्थतात्पर्यमयुक्तमिति खण्डन्नाह।। यच्वित्यादि।। आवश्यकत्वादिति।। प्राप्तिपूर्वकत्वान्निषेधस्य वैकल्पिके नित्ये वा तस्मिन् प्राप्त्याकांक्षाया नियतत्वात्त्रिप्रभृतिषु सर्वत्रेत्यनयोरपि सूत्रयोस्संदंशन्यायेन प्राप्त्‌युद्भावनतात्पर्यस्य कल्पनीयतया न त्वदभीष्टसाधकतात्पर्यकल्पनावकाश इति भावः।। ननु प्रकरणोच्छेदेन नञस्संबन्धाभाव एव तात्पर्यं कि न स्यादत आह।। मध्ये नञ् इत्यादि।। किंच सर्वत्रेत्यत्र तदनुद्भावनस्याभिप्रायान्तरमित्याह।। सर्वत्रेति।। द्वित्वमात्रेति।। प्राप्तिविशेषविवक्षायामाकांक्षावशात्तदुद्भावनापेक्षा, तदविवक्षायां तु निषेधेन निर्ज्ञातायाः प्राप्तेरनाकांक्षितत्वादनुद्भावनमेवोचितमित्याशयः।। द्विर्वचनाभाव इति।। नकारषकारयोरनचीत्यनेनैव हि द्वित्वप्राप्तिरिति तदुद्भावनं ध्वनितमिति तात्पर्यम्। मिश्रग्रन्थेनेत्यस्य हरदत्तग्रन्थेनेत्यर्थः।। वस्तुतस्त्वदुक्ततात्पर्यमलीकमेव मूलशैथिल्यादित्याह।। अनुपलंभाच्चेति।। दिगिति।। तदर्थस्तु भाष्योदाहरणोपपत्त्यर्थं दीर्घादाचार्याणामित्यत्रानचीत्यस्य पर्युदासपरतया संबन्धे सर्वत्रेत्यत्रापि तत्संबन्धापत्तिः।। इष्टापत्तौ चार्को ब्रह्मेति वृत्तिकारोक्ततदीयोदाहरणासंगतिः।। असंबन्धे मण्डूकप्लृत्यापत्तिः। स्वरितत्वे मानाभावादनुवृत्त्यसंगतिश्चेति।।
अवादिषातामिति।. वाद संशब्दन इति चुरादेस्स्वरितत्वबलाद्विकल्पितणिचो णिजभावे लुङ्‌यातांप्रत्यये रूपं द्रष्टव्यम्।। अत्रार्धधातुकत्वानतिदेशादिडागमो न स्यात् ।। मा हि दर्शदिति।। अङः प्रत्ययत्वानतिदेशे दृशेस्तन्निरूपितांगत्वाभावेन गुणानुपपत्तिः। गुणविधिश्च भिदाद्यङि चरितार्थो दर्शादृष्टेति दर्शनात्।। असंग्रह इति।. ईड इट्‌त्वमिट ईटीति सलोपार्थम्।। नन्वर्थवतामादेशानामिदं परिगणनमिति तदाशयः, अत एव विसर्गादेशस्य रुस्थानिकस्य परिगणनाभावस्संगच्छत इत्यत आह।। इदमुपलक्षणमिति।। यत्तु सर्वनामस्थानविवक्षायां पुंसो विधीयमानेनासुङादेशेन कल्पितस्य प्रातिपदिकादेशस्यानुमानिकस्यासंग्रहोऽत्र पक्षे दोष इत्याहुस्तत्‌पाक्षिकं, व्युत्पत्तिपक्षे कृदादेशेन गतार्थत्वात्।। कथमन्यथा बहुपुंसीत्यत्र ङीप्‌ स्यात्।। नन्वव्ययस्य पदात् पृथग्ग्रहणवैयर्थ्यास्य पक्षद्वयसाधारणस्योदाहरणपक्षैकविषयत्वेन तदापादनं नोचितमित्याशंक्याह।। अत्रास्यैवेति।। परिगणनपक्षे दोषांतरसमुच्चितोयं दोषः।। इह त्वयमेवेति वेशेषादेवमापादनमिति भावः।। लुकालुप्तत्वेन चेति।। इदमंगसंज्ञायामपि न लुमतेति निषेधप्रवृत्तिरित्यभिमानेन।। वस्तुतस्तृज्वत्सूत्रे भाष्ये स्त्रियां चेत्यस्य स्त्रीप्रत्यये परत इत्यर्थे पञ्चभिः क्रोष्ट्रीभिः क्रीतैः रथैः पञ्चक्रोष्टृभिरित्यत्र आर्हीयस्य ठकोऽध्यर्धेत्यादिना निर्वृत्तं लुकमाश्रित्य लुक्तद्धितलुकीति स्त्रीप्रत्ययलुकि न लुमतेतिनिषेधात्प्रत्ययलक्षणाप्रवृत्तौ तृज्वत्त्वाप्रवृत्तिरित्याशंक्याभिहितम्।। एवं तर्हि न चापरं निमित्तमाश्रीयते अस्मिन्परतः क्रोष्टुः तृज्वदिति, किं तर्हि, अङ्गं क्रोष्टुस्तृज्वत् अंगसंज्ञा च भवति प्रत्ययलक्षणेनेति।। क्रोष्ट्रीत्यत्र गौरादिङीष्यंगत्वे तृज्वत्वमिति तदाशयः।। एवं चोक्तनिषेधस्यांगसंज्ञायां प्रवृत्तिरयुक्ता।। न लुमतेत्यस्य च लुमच्छब्दप्रयोज्यलोपविषयीभूतप्रत्ययनिरूपितांगसंज्ञावदुद्देश्यकं तथाविधप्रत्ययनिमित्तकं कार्यमांगमनांगं वा नेत्यर्थः।। स्पष्टं चेदं तत्रैव सूत्रे कैयटे। ततश्चाव्ययानामंगत्वाप्राप्तौ न प्रत्ययलक्षणाभावो हेतुरपि तु फलाभाव एव।। इदं च कार्यकालपक्षानुरोधेन, यदि त्वाकडारीयसंज्ञासुकार्यकालत्वायोगाद्यथोद्देशे भविष्यति किंचित् प्रयोजनमित्यभिसंधिना प्राक्‌प्रवृत्तायास्संज्ञायास्सुब्लुगुत्त्रमनुवृत्तेख्याघाताच्च भावत्यंगग्रहणेनाव्ययानां संग्रहः। किंचाङ्गग्रहणेनाव्ययसंग्रहभावे प्राजीनानामपदिशमपदिशेनेत्यादौ टाङिप्रत्ययप्रग्वर्त्त्यदन्तभागस्य पदत्वाभावादलौकिकवाक्यादेशस्य सुब्लुग्घ्रस्वविधानाभ्यां कल्पितस्य स्थानित्वेनाव्ययीभावत्वमादायोपपादनीयस्य तृतीयासप्तम्योर्बहुलमित्यस्याप्रवृत्तेख्ययग्रहणस्यावश्यकतया पदग्रहणेन तद्वैयर्थ्यापादनमयुक्तमेव।। अलौकिकवाक्यस्यांगत्वं तु पदावधिकमन्वाख्यानमाश्रित्य समर्थयितुं शक्यमतो नात्रारुचिसंभव इत्याहुः।। निघातार्थमिति।। उपर्युपरिगच्छति परिपरिवर्षतीत्यादौ।। यदि च द्विष्प्रयोगद्विर्वचनपक्षेणेदं गतार्थं, स्थानेद्विर्वचनपक्षेपि सर्वस्य द्वे इति द्विवचननिर्देशबलादनस्तमितावयवधर्मकस्यैवादेशत्वमत एवाधोऽध इत्यादावेङः पदान्तादित्यादेः प्रवृत्तिरित्यवयवपदत्वेन निर्वाह इत्युच्यते, तर्हि उच्चै नीचैरित्यादौ र्वन्तस्य विसर्गार्थमिति बोध्यम्।। मानाभावादिति।। इदंतु चिन्त्यम्‌।। अर्थवत्त्वमानुमानिकस्थान्यादेशभावप्रतिपादने मानं तच्चात्र क्त्वाया इव विशिष्टस्यापि अक्षतमेवेति तत्कल्पने बाधकाभावात्।। आवश्यकं चेदमानुमानिकस्थान्यादेशभावकल्पनमर्थवदवयकसंघातस्यापि।। अन्यथा वाप्यामश्वो वाप्यश्व इत्यादौ सुब्लुगुत्तरं विशिष्टस्य समासत्वानुपपत्त्या शाकलप्रतिषेधानापत्तेः।। वीवधशब्दे विवधशब्दत्वानुपपत्तौ विभाषा विविधादिति ठन्विकल्पानुपपत्तेश्च समो वा हितततयोरिति लुप्तमकारकस्य सहितशब्दस्य सूत्रस्थेन संहितशब्देन ग्रहणमास्थाय सहितसहाभ्यामिति वार्तिकस्थस्य तस्य प्रयोजनान्तरोपपादनपरसकलग्रन्थोच्छेदापत्तेश्च। तस्मात् क्त्वान्तस्य सगतिकस्य प्रस्तुत्येतिविशिष्टादेशकल्पनं प्राचीनानां युक्तमेव, परं तु सुब्लुगर्थमपेक्षितमव्ययत्वमंगादेशत्वेनैव सिद्ध्यतीति नेदमव्ययादेशग्रहणप्रयोजनमिति वक्तुं युक्तमित्याहुः।। विशिष्टं किमर्थमिति प्रश्न इति।। एवं हि सति अतिदेशस्य कार्यार्थत्वेन विधावित्यस्याक्षेपतो लाभदल इत्युक्तावप्यल्संबन्धिनि विधौ नेत्यर्थो लभ्यत इति व्यर्थं विधिग्रहणमित्याशयकस्य प्रश्नस्य षष्ठीनिर्देशे स्थानेयोगत्वस्य न्याय्यत्वादल इत्युक्ते तत्स्थानिके विधावित्येवार्थस्स्यात्।। विधिग्रहणे तु सामर्थ्यात्समासचतुष्टयलभ्यार्थनिर्वाहकसंबन्धसामान्यष्ठ्या समासस्य मध्यमपदलोपिनो वा तस्य लोभेनाभीष्टसिद्धिरित्याशयकं वक्ष्यमाणमुत्तरमुपपद्यते।। यथाश्रुते तु प्रश्ने कस्मिन्नपि विधौ निषेधाभावादनेकेषु विधिषु निषेधार्थमित्युत्तरमयुक्तमेव स्यादित्याशयः।। निषेधादिति।। अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेध इति वार्तिकप्रत्याख्यानोपायतया व्यवाय इति पृथग्विधिस्वीकारादविशेषतः प्राप्तस्य मत्वस्य अट्कुप्वाङ्‌नुमित्यनेन नियम इति भाष्यकारोपवर्णितपक्षान्तराभिप्रायकमेतत्।। विशेषधर्म इति।। ततश्च सामान्यधर्मातिदेशसंभवे विशेषधर्मो नातिदेष्टव्य इत्यर्थकेन सामान्यातिदेशे विशेषानतिदेश इत्यनेन स्थानिगतं हल्त्वादिकमपहाय वत्वातिदेशस्यायुक्तत्वादिदमुदाहरणं न युक्तमिति भावः।। उपात्तधर्मापेक्षयेति।। अतिदेशविधिगृहीततद्व्यापकैतदुभयधर्मातिदेशेन कृतार्थस्यविधेरनुपस्थितव्याप्यधर्मातिदेशे न प्रवृत्तिरिति न्यायशरीरम्।। इह च स्थानिताया अतिदेशे प्रयोजनाभावाद्विशेषपरतया कल्पितेन लक्षणेन तत्तदादेशविधिगृहीतानां स्थानितावच्छेदकीभूतानां तद्व्यापकीभूतानां च धर्माणामतिदेशो यथा हन्वद्वधिरित्यनेन वधादेशे हन्त्वधातुत्वयोः। इत्थं च द्युकाम इत्येतल्लक्ष्यानुरोधेन कल्पिताद्वकारवदुकार इति लक्षणाद्भवत्युकारे वत्वातिदेशो, न चायं गृहीतधर्माद्विशेषधर्मइति भावः।। ननु सत्यपि लक्षणोपप्लवे हल्वदुकार इत्येव किं न स्यादत आह।। सूत्रक्लृप्तेति।। यद्विषयकत्वेनातिदेशलक्षणोपप्लवकल्पनेच्छा तद्विषयकत्वेनोपप्लुतादेशविधायकशास्त्रीयलक्षणगृहितस्थानितावच्छेदकधर्मपुरस्कारेणैव प्रत्यासत्त्या तत्कल्पनमिति भावः।। यद्यपि स्थानिवद्भावविषये न ल्यपीति ज्ञापकसिद्धया प्रदीव्येत्यादौ कित्त्वातिदेशनिमित्तकस्य गुणनिषेधादेः प्रवृत्त्यर्थमावश्यक्या न्यायाप्रवृत्त्या प्रकृतोदाहरणोपपत्तिः, तथापि स्वत एव न्यायाप्रवृत्त्युपायसंभवे ज्ञापकसिद्धतदप्रवृत्तिपर्यन्तानुधावनमयुक्तमिति तात्पर्यम्।। कविष्ट इति स्यादिति।। न चास्यामवस्थायां हलि सर्वेषामित्यस्य प्रवृत्त्या वकारघटितमपि दुर्लमिति वाच्यम्।। भो इत्यादिपूर्वकस्य वकारस्यासंभवात्तत्साहचर्येणावर्णपूर्वकस्यापि यकारस्यैव तेन लोपो न वकारस्येत्याशयात्।। स्थानिरूपोपीति।। ननु जग्धिविधौ ल्यब्ग्रहणान्निषेध्यकोटिघटकस्यालः स्थान्यवयवरूपत्वेन भवतु विवक्षा, स्थानिरूपत्वेन तद्विवक्षायां किं प्रमाणमत आह।। अत एवेति।। आदेशिन्यलीति।। तत्र ह्यवयविनोऽधिकरणत्वविवक्षया वृक्षे शाखेतिवत् या सप्तमी तदन्तस्य समानाधिकरणस्य सप्तम्यन्तस्य च तन्त्रेण निर्देशः।। स्थानी चादेशशब्दप्रकृतिकमत्वर्थीयेनोच्यते।। ततश्च स्थानिभूते स्थान्यवयवभूते वा वर्णे स्वीक्रियमाणे यो विधिस्तत्र प्रतिषेधः स्थानिवद्भावस्येति तदर्थः।। अत एव तुक्यसिद्धवचनं चरितार्थम्।। स्थानिभूतालाश्रयविधौ प्रतिषेधाभावे च सवर्णदीर्घोत्तरमधीत्येत्यादौ स्थानिवत्त्वेन ह्रस्वत्वमाश्रित्य तुको निर्बाधत्वात्तद्वैयर्थ्यं स्पष्टमेव।। यदि तु स्थान्यवयव इत्यत्र व्यपदेशिवद्भावेन स्थानिरूपोऽपि विवक्ष्यत इत्युच्यते, तर्हि उपलक्षणतया व्याख्यानं नातीवोपयुज्यत इति बोध्यम्।। अतः प्रत्ययत्वमिति।। तद्व्याप्यसुप्त्वमित्यर्थः।।
अत्र प्राञ्चः।। अनल्विधावित्यत्राल्पदमल्वृत्तिधर्मपरं विधिग्रहणबलाच्च अलाश्रयो विधिरल्विधिरिति मध्यमपदलोपी समास आश्रितो भाष्ये, तेन साक्षात् परंपरया वा तदाश्रयणे निषेधः।। अल्वृत्तिधर्मश्च प्रत्यासत्त्या स्थानिवद्भावप्रयोज्यः अल्मात्रवृत्तिश्च विवक्षितः।। ततश्च स्थानिवद्भावप्रयोज्याल्मात्रवृत्तितद्‌घटितैतदन्यतरधर्मनिमित्तकविधौ प्रतिषेध इति निष्कर्षः।। स्थानिवद्भावप्रयोज्याल्मात्रवृत्त्यच्त्वनिमित्तकस्सुध्युपास्य इत्यादौ द्वित्वनिषेधः।। प्रपठ्येत्यादौ च तथाविधोऽल्मात्रवृत्तिवल्ल्वघटितो वलादित्वरूपो यो धर्मस्तन्निमित्तक इड्विधिरिति निषेधसिद्धिः।। तत्र स्थानिवद्भावप्रयोज्यत्वविशेषणादृधातोर्द्वित्वे ह्रस्वोत्तरमुरदत्त्वे स्थानिवद्भावादब्यासत्वम्।। बभूविवेत्यादौ वसाद्यादेशानां वलादित्वप्रयुक्तेडागमविधौ निमित्तभूतमार्धधातुकत्वं च सिध्यति।। अल्मात्रवृत्तित्वविशेषणं तु तत्रैवाभ्यासत्वार्धधातुकत्वयोः क्वचिदल्‌वृत्तित्वेप्यतिदेशसंपत्त्यर्थम्।। न चातिदिश्यमानधर्मेष्वल्मात्रवृत्तित्वनिवेशे भोभगो इति सूत्रस्थभाष्यविरोधः।। तत्र ह्यश्‌ग्रहणस्य प्रयोजनप्रतिपादनावसरे वृक्षस्तत्रेत्यादौ यत्वस्यासिद्धत्वात् पूर्वं विसर्गप्रवृत्तावपि स्थानिवत्त्वेन रुत्वमाश्रित्य प्रवृत्तस्य यत्वस्य निवृत्तिस्तत्प्रयोजनमित्युपन्यस्य अल्विधित्वेन स्थानिवत्त्वाप्रवृत्तेर्नैतत् प्रयोजनमित्युक्तम्। रुत्वात्मकस्य संघातधर्मस्यानुबन्धविनिर्मुक्ते रेफेप्युपलंभेनाल्वृत्तित्वेपि तन्मात्रवृत्तित्वाभावात्तदसंगतिरिति वाच्यम्।। तादृशभाष्यस्यैकदेश्युक्तित्वेन तद्विरोधस्याकिंचित्करत्वात्।। अत एवातो लोप इति सूत्रे भाष्ये ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेनेति वार्तिकमुपक्रम्य णिलोपांशे फलीभूतान्युदाहरणान्युपन्यस्य स तर्हि पूर्वविप्रतिषेधो वक्तव्यो न वक्तव्यः, सन्त्वत्रैते विधयः।। एतेषु कृतेषु स्थानिवद्भावाण्मिग्रहणेन ग्रहणाल्लोपो भविष्यतीत्युक्तम्‌।। को हि रुत्वणित्वयोर्भेदः?। येन रुत्वनिमित्तकयत्वस्याल्विधित्वं णित्वनिमित्तकलोपस्यानल्विधित्वं च व्यवस्थाप्येत।। किं च स्थानिवद्भावप्रयोज्यधर्मेऽल्मात्रवृत्तित्वनिवेशाभावे धातुत्वांगत्वादीनामपि क्वचिदल्वृत्तित्वेन प्रकृतनिषेधादतिदेशाप्रवृत्तावस्त्यादेशे बभूवेत्यादौ धातुत्वनिबन्धनो द्वित्वादिः, किमादेशे काभ्यामित्यादावङ्गत्वनिबन्धनस्सुपि चेति दीर्घश्च न स्यादिति महदनिष्टमापद्येत।। तस्मादतिदिशयमानधर्मस्याल्मात्रवृत्तित्वपिशेषणमावश्यकमेवेत्याहुः।।
अत्रेदं वक्तव्यम्।। भोभगो इति सूत्रस्थस्य सिद्धान्तिसम्मतभाष्यस्यैकदेश्युक्तित्वं तावदयुक्तम्, विना विरोधमृषिवाक्यानामेकदेश्युक्तित्वकल्पनाया अनौचित्यात्।। न च णित्वप्रयुक्तलोपस्याल्विधित्वाभावोपपादनपरनिरुक्तषाष्ठभाष्यविरोधस्तत्कल्पक इति वाच्यम्।। कारणा कारक इत्यादौ गुणवृद्ध्योः कृतयोरंगत्वादच्कार्यापेक्षया प्रथमं णिलोपप्रवृत्त्या निर्वाहेऽप्यततक्षदित्यादौणेरियङादेशोत्तरं स्थानिवद्भावेन णित्वबुद्ध्या प्रवर्तिष्यमामस्य लोपस्यालोन्त्यपरिभाषया यकारमात्रस्य प्रवृत्तौ फलविरोधेन णिलोपांशे पूर्वविप्रतिषेधारंभप्रत्याख्यानपरस्य तादृशभाष्यस्यैकदेश्युक्तिताया निर्विवादत्वेन तद्विरो(स्य तत्कल्पकत्वायोगात्।। न च निर्दिश्यमानपरिभाषया ण्यान्तांगावयवस्य निर्दिश्यमानस्य णेरित्यर्थे णिशब्दस्येत्संज्ञकणकारवदिकारबोधकत्वेन तदुत्तरषष्ठ्यास्समुदायबोधकशब्दोत्तरत्वाभावेन प्रवृत्तिबीजाभावादलोन्त्यपरिभाषाया अप्रवृत्त्या निर्वाह इति वाच्यम्।। अततक्षदित्यादिलक्ष्यविषयकत्वेनोपप्लुतलक्षणघटकणिशब्दस्यारोपविषयीभूतणित्वविशिष्टसंघातबोधकतया तदुत्तरषष्ठ्या वस्तुतस्समुदायबोधकशब्दोत्तरत्वेन निरुक्तपरिभाषाप्रवर्तकत्वे बाधकाभावात्।। न च तद्भाष्यस्येयङ्व्यतिरिक्ते णिलोपांशे पूर्वविप्रतिषेधवचनप्रत्याख्यानपरतया नास्त्यनुपपत्तिरिति वाच्यम्।। ईदृशसंकोचस्य तत्रत्यभाष्याक्षराननुगुणत्वात्।। किं चाविशेषेणातिदिश्यमानधर्मस्याल्मात्रवृत्तित्वविवक्षायां धिन्वंतीत्यादावृप्रत्ययस्थानिकस्य वकारस्य स्थानिवद्भावादार्धधातुकत्वं स्वतो वलादित्वं चाश्रित्येडागमापत्तिर्दुर्वारा।। चिकीर्ष्वोरित्यादावुक्तरीत्या तदापत्तिस्तु नापाद्या, नेड्‌वशीति निषेधात्।। न च धिन्वन्तीत्यादावप्यचः परस्मिन्नपरविधावितिन्यासेन स्वविधावपि स्थानिवद्भावादिडागमाभावो भाष्ये साधित एवेति नायमापत्तिविषय इति वाच्यम्।। तद्भाष्यस्यायन्नासन्नित्यसिद्धवत्सूत्रासिद्धलक्ष्यसमर्थनोपायान्वेषणपरत्वात्, बेभिदि ब्राह्मणकुलानीत्यदौ स्थानिवत्त्वेनाजन्तलक्षणस्य नुमो दुर्वारत्वाच्च पूर्वपक्ष्युक्तित्वेन लक्ष्यसाधकत्वायोगात्।। न च कैयटोक्तरीत्या पंचमीसमासमाश्रित्य स्थानिवद्भावदिडागमाभावस्सुकर इति वाच्यम्।। षष्ठीसमासपक्षैकवाक्यतया पंचमीसमासपक्षेपि स्वातिरिक्तविधावेव स्थानिवत्त्वस्य न्याय्यतया तत्पक्षावलंबेन कैयटस्योक्तदोषनिवारणासंभवात्।। अत एव धिन्वन्तीत्यादावपरविधाविति न्यासांतरेणायं दोषः परिहृता भाष्ये, न तु पंजमीसमासपक्षेण।। किं च पञ्चमीसमासेन स्वविधावपि स्थानिवत्त्वाभ्युपगमे एतीति यन् न यन् अयन्नित्यत्र इणश्शतरि यणि स्थानिवत्त्वेन तस्मान्नुडचीति नुट्प्रसंगः।। ततश्च प्रमाणवैकल्याल्लक्ष्यविसंवादाच्च सोऽयमनुचितः पन्थाः।। किन्तु तन्त्रन्यायेन अल्मात्रवृत्तिधर्मावच्छिन्नस्थानिता (वद्वृतिः स्थानिसंबन्ध्यल्वृत्तिः तद्‌घटितो वा स्थानिवद्भावप्रयोज्यो यो धर्मस्तद्धर्मावच्छिन्ननिमित्तताकविधौ स्थानिवद्भावो नेत्युभयथा तदर्थोऽत्रावश्यमभ्युपगन्तव्यः।। स्थानितायामल्मात्रवृत्तिधर्मावच्छिन्नत्वं च एकत्वमात्रावच्छिन्नाल्त्वावच्छिन्नपर्याप्तिकाधारतानिरूपकधर्मावच्छिन्नत्वं, न तु अलितरावृत्तित्वे सत्यल्वृत्तिर्यो धर्मस्तद्धर्मावच्छिन्नत्वम्।। तेन जराया जरस्हनो वध लिङीत्यादौ स्थानितावच्छेदकीभूतजरात्वहन्‌त्वादेरानुपूर्वीविशेषात्मकस्याल्मात्रवृत्तित्वेणि स्थानिवत्त्वेनांगत्वधातुत्वादेरतिदेशस्य नानुपपत्तिः।) इत्थं च वृक्षस्तत्रेत्यादिलक्ष्यघटकविसर्गादेशबोधकेखरवसानयोरित्यत्रस्थानिनो रेफस्य रत्वेन गृहीततया वर्णमात्रवृत्तिधर्मावच्छिन्नस्थानिताकोऽयमादेश इति तद्वृत्तिस्थानिवद्भावप्रयोज्यरुत्वनिमित्तकयत्वविधौ स्थानिवत्त्वस्याप्रसंगान्नास्ति भोभगो इति सूत्रस्थभाष्यव्याकोपः।। नापि यशस्स्वित्यादिलक्ष्यघटकविसर्गनिष्ठस्थानिवद्भावप्रयुक्तरुत्वनिमित्तकयत्वनिवृत्तिस्तत्रत्याश्ग्रहणप्रयोजनत्वोपवर्णनपरस्य तदग्रिमभाष्यस्य स्वारस्यभंगः।। तादृशविसर्गादेशबोधके रोस्सुपीतिसूत्रे स्थानिनो रेफस्य रुत्वेन गृहीततया तस्यवर्णमात्रवृत्तिधर्मावच्छिन्नस्थानिताकादेशत्वाभावेन स्थानिवद्भावे प्रतिबन्धकाभावात्।। धिन्वन्तीत्यादौ तु वकारादेशस्थानिन उकारस्येको यणचीति यण्विधाविक्त्वेनोपात्तत्वादल्मात्रवृत्तिधर्मावच्छिन्नस्थानिताक एबादेश इति नास्ति स्थानिवद्भावप्रयोज्यार्ध धातुकत्वनिमित्तक इडागमप्रसंग।।न चैवमृधातोर्द्वित्वे स्थानिवद्भावादुरदत्त्वोत्तरमभ्यासत्वमाश्रित्य प्रवर्तमानो हलादिश्शेषो न स्यादुरदत्त्वस्याल्मात्रवृत्तिधर्मावच्छिन्नस्थानिताकादेशात्वादिति वाच्यम्।। द्विरुक्तिविषयधातुसंबन्धित्वे सति पूर्वोच्चारणविषयत्वमभ्याससंज्ञायां निमित्तं, तच्च कृतोप्युरदत्त्वे तद्विशिष्टस्य निर्बोधाप्रसक्त्या स्थानिवद्भावेन यकारस्याच्त्वमाश्रित्य उपसर्गसंबन्धिन उकारस्य यणादेशप्रसंग इति वाच्यम्।। आयन्नित्यादौ परादिवद्भावादिण्त्वमादाय वृध्युत्त्रमिणो यणित्यस्य प्रवृत्तिवारणार्थमेरनेकाच इत्यतस्तत्रेकारसंबन्धस्याकरभिमततया तस्याप्यलमात्रवृत्तिधर्मावच्छिन्नस्थानिताकत्वेनादोषात्।। नन्वेवमपि मा भावाननुगादित्यादाविणो गा लुङीति विहितस्य गादेशस्याप्यतथात्वेन निषेधाप्रसक्त्या सथानिवद्भावादच्त्वमाश्रित्य पूर्वस्य यणादेशो दुर्वारः।। अचः परस्मिन्निति तु न प्रवर्तते, न पदान्तेति पदान्तविधौ निषेधात्, लुङीत्यस्य विषयसप्तमीत्वेनादेशस्य परनिमित्तकत्वाभावाच्चेति चेतर्हि द्विदीयकोटौ स्थानितावच्छेदकीभूतानुपूर्वीघटकवर्णवृत्तिस्थानिवद्भावप्रयोज्यधर्मनिमित्तके तद्धटितधर्मनिमित्तके च विधौ स्थानिवद्भावो नेति निष्कर्षाभ्युपगमाददोषः।। भवति हि गादेशे स्थानिवद्भावप्रयोज्यमच्त्वं स्थानितावच्छेदकीभूतानुपूर्वीघटकेकारवृत्ति, प्रपठ्येत्यादावपि ल्यबादेशस्थानितावच्छेदकी भूतक्त्वाप्रत्ययगतानुपूर्वीघटकतकारनिष्ठवल्त्वघटितवलादित्वं स्थानिवद्भावप्रयोज्यमिति नास्ति तन्निमित्तकत्वेनेडागमप्रसक्तिरतो न काप्यनुपपत्तिरिति नव्यमतपरिष्कारः।। तदेतत्सकलमभिप्रेत्याह।। इट एव दीर्घविधानादिति।। इट्त्वमेव संघातधर्मःस्थानितावच्छेदकं, न तु वर्णमात्रनिष्ठमच्त्वमिति स्थानिवद्भावो निर्वाध इत्याशयः।। न च दीर्घविधावचश्चेति परिभाषाया जागरूकत्वादिडागमस्याचो दीर्घ इत्यर्थस्यावश्यकतया भवत्येवाल्मात्रनिष्ठमच्त्वं स्थानितावच्छेदकमिति वाच्यम्।। परिभाषाशास्त्राणां अनियमे नियमकारित्वस्वाभाव्यादिह तत्प्रवृत्तिमन्तरापीटागमसंबन्धिन इकारस्यैव दीर्घो भविष्यतीति व्रवृत्तिबीजाभावेन तत्प्रवृत्त्ययोगात्।। न चैवमपीट्त्वमित्संज्ञकटकारवदिकारत्वं, तच्चाल्मात्रनिष्ठमेवेति कथमिह स्थानिवद्भाव इति वाच्यम्।। तस्यानुपूर्वीरूपत्वेनान्मात्रवृत्तिधर्मत्वायोगात्तस्य लोप इति टकारलोपोत्तरं दीर्घप्रवृत्तिकालो स्थानिवद्भावेनानुमानिकेन तदध्यासो भूतपूर्वगत्या वा तल्लाभ इत्यन्यत्।। कथमन्यथा वधादेशे हकाराकारवन्नकारत्वरूपं हन्त्वमनेनातिदिष्टं स्यात्।। यदि तु तत्र चहन्त्वमखिलहन्पदानुस्यूतं जातिरूपमित्युच्यते, तर्हि प्रकृतेपीकारटकारसंघातगतमिट्त्वमपि तथाभूतमेव टकारविरहिते स्थानिवद्भावादध्यस्तं स्थानितावच्छेदकमिति नास्ति विप्रतिपत्तिः।। स्यादेतत्।। अल्मात्रवृत्तिधर्मावच्छिन्नस्थानिताकादेशनिष्ठस्थानिवद्भावप्रयोज्यधर्मनिमित्तकविधौ स्थानिवद्भावो नेति निष्कर्षे प्रत्ययलक्षणसूत्रस्य नियामकत्वपक्षोपवर्णनपरभाष्यविरोधः।। तथाहि। तृणह इमित्यत्र हलीति निवर्त्य नाभ्यस्तस्येतिसूत्रादचि नेत्यनुवर्त्य पिति सार्वधातुके इमागमो न त्वचीति व्याख्यानादंतरंगत्वाद्भल्ङ्यादिलोपेपि हलादित्वानपेक्षणादतृणेटित्यत्रेमागममुपपाद्य विशेषणत्वेनालाश्रयणे विध्यर्थमिति वार्तिककृन्मतमपाकृत्यायं पक्षः प्रवृत्तः।। हल्‌ङ्‌यादिलोपस्य हल्त्वरूपाल्मात्रवृत्तिधर्मावच्छिन्नस्थानिताकत्वेनोक्तरीत्या सार्वधातुकत्वस्येडागमनिमित्तस्य दुर्लभतया विधायकत्वसंभवे तदसंगत्या तद्विरोध इति चेदत्राहुः।। हल्‌ङ्यादिसूत्रे लोपादेशस्थानितावच्छेदकं सुत्वादिकमेव, न तु हल्त्वमपृक्तत्वं वा, सुतिसीत्येवंरूपस्य हलो लोपविधानात्।। यद्रूपावच्छेदेन यस्य स्भानिता, तस्यैव तन्निष्ठस्थानितावच्छेदकताया औचित्यात्।। एवं वेरपृक्तलोपेपि वित्वमेव स्थानितावच्छेदकमिति दधिसेचावित्यादौ नित्यत्वादंतरंगत्वाच्छ पूर्वमपृक्तलापेपि स्थानिवद्भावादार्धधातुकत्वमाश्रित्य विज्निमित्तो लघूपधगुणो भवत्येवातो न तदर्थमपि प्रत्ययलक्षणसूत्रस्योपयोग इति युक्तमेव भाष्यकारोक्तं नियामकत्वमुक्तनिष्कर्षेपि, तस्मान्नास्ति तद्विरोधशंकावकाश इति। यत्तु धिन्वन्तीत्यादौ यणो बहिरंगासिद्धत्वादिडागमाभावस्य सुवचतया व्यर्थमेव तदर्थमुपायान्तरान्वेषणमिति कौस्तुभकारादयस्तद्रभसात्।। अङ्गात्परस्य वलादेरार्धधातुकस्येडागम इत्यर्थेनार्थधातुकसंज्ञांगसंज्ञोभयसापेक्षस्येडागमस्य यणमपेक्ष्यांतरंगत्वस्य दुर्वचत्वात्।। संज्ञाकृतबहिरंगत्वानाश्रयणेपि वर्णद्वयापेक्षस्य यणः प्रकृतिप्रत्ययसंधातसापेक्षादिडागमाद्बहिरंगत्वायोगाच्च।। पूर्वं पूर्वमन्तरंगं परंपरं बहिरंगमिति प्रवादस्य पूर्वोपस्थितिनिमित्तकमन्तरंगमित्याशयकतया यणादेशात्प्रागिडागमनिमित्तस्य वलादित्वस्यानुपस्थितेर्नास्त्येव संभवः।। यदपि कृतेपीडागमे नाजानन्तर्यपरिभाषाया अनित्यत्वेन वकारस्य बहिरंगासिद्धत्वाद्यणि यलोपे बहिरंगपरिभाषाया अप्रवृत्त्या वलि लोपे सिद्धमिष्टमिति, तदप्यरिय्रियादित्येतद्रूपसंपत्तये यलोपे बहिरंगपरिभाषाप्रवृत्त्यावश्यकताया अन्यत्र स्पष्टत्वात्सहृदयानामुद्वेगावहत्वाच्च चिन्त्यमेवेत्यास्तां वक्रमर्गानुसरणप्रयास इति दिक्।।
विस्तरस्त्विति।। इः इयानित्यादौ अङ्गमन्तरेण प्रत्ययोपलंभाल्लिट् धुगित्यादौ प्रत्ययमन्तरेणांगोपलंभाच्च तयोः परस्पराक्षेपकत्वायोगादत्रांगेन प्रत्ययाक्षेपो दुर्लभः।। आक्षिप्तस्य वा शाब्दान्वयप्रतियोगित्वमनुपपन्नं वृत्तिजन्यपदार्थोपस्थितेरेव शाब्दबुद्धिनियामकत्वादत उरदत्त्वस्यांगसंज्ञाद्वारकं परनिमित्तकत्वमेतादृशस्यापि तस्य स्थानिवद्भावोपयोगित्वमस्मादेव भाष्यादवगम्यत इति उरत्सूत्रे शब्देन्दुशेखरे स्पष्टमिति तत एवावगन्तव्यमित्यर्थः।। एतद्भाष्यप्रामाण्यादाक्षिप्तस्यापि शाब्दान्वयप्रतियोगित्वमनुकरणस्थले सादुश्याख्यसंबन्धेनोपस्थितानुकार्यवत् आक्षेपोप्यंगसंज्ञया निमित्तभूतस्य प्रत्ययस्य नापूर्वः।। कार्येण कारणाक्षेपस्यानुभविकत्वादिति तु प्राञ्चः प्रवदन्ति।। स्थानिनि सतीति।। नन्वादेश इत्युपमेये प्रथमादर्शनादिह तेन तुल्यमित्येव वतिः।। ततश्च सप्तम्यन्तत्वेन तद्विवरणं न युक्तमत आह।। अजादेश इत्यादि।। लभते न लभते चेति।। स्थानिभूताज्वर्णनिमित्तकं कार्यं लभते तत्‌प्रतिबद्धन्तु न लभत इति तदर्थः।। वाच्योऽर्थ इति।। प्रागुक्तार्थस्तु फलित इत्याशयः।। अत्र भवतिक्रियाया एवाध्याहारः।। स्थानिभूताजपेक्षया पूर्वत्वेन दृष्टस्य कार्यें स्थानिवदजादेशो भवतीति संबन्धे प्रकृतशास्त्रे स्थानिनः कार्यसंपदकस्य तत्प्रतिबन्धकस्य च दृष्टचरत्वात्तत्तल्लक्ष्यानुसारेण स्थानिप्रयुक्तं लभते तत्प्रतिबद्धं च न लभते इति तदर्थः प्रतीयते।। पितृवदधीत इत्यत्र पित्रध्ययनतदभावाभ्यामधीते नाधीत इति यथा, तद्वदिति निष्कर्षः।। वैचित्र्यायेति।। यलोपादित्येतन्मात्रोक्तौ लाघवेन षष्ठीतत्पुरुषमाश्रित्य यलोपप्राग्वर्तिनां ग्रहणमित्यमपि प्रतीयेत।। लोहितादिसूत्रे कण्वादिभ्यो गोत्र इत्येतद्धटककण्वादिपदेनोक्तरीत्या कण्वशव्दप्राग्वर्तिनश्शकलशब्दस्यापि ग्रहणमित्यर्थस्याकरे स्पष्टत्वात्।। ततश्च वरनिमित्तकविधौ भावातिदेशासंभवेपि द्विर्वचने तत्संभवादनुपपत्तिस्सपष्टैव।। दीर्घादिग्रहणे तु ये दीर्घस्यादिभूता ये च दीर्घादिकास्तथाभूता यलोपादय इत्येव प्रतियत इति नास्त्यनुपपत्तिशंकावकाश इत्येवमात्मकतात्पर्यपरिपूर्णत्वादस्यामुक्तौ विचित्रतेति द्रष्टव्यम्।. प्रत्ययविधावेवेति।। परिस्वया निर्वृत्तं पारिस्वमित्यादौ चातुरर्थिकाण्णंतात्तत्र भव इत्यर्थे वृद्धादकेकांतखोधादिति छप्रत्ययप्रवृत्तौ निमित्तभूतस्य खोपधत्वस्य प्रतिबन्धकतया यस्येतिलुप्तस्य खकाराकारस्य प्रसक्तं स्थानिवत्त्वं क्विलुगुपधात्वेत्यादिना वार्तिककृता वार्यत इत्याशयः।। अत एव चङ्‌परनिर्ह्रासस्य पृथग्वार्तिके प्रतिपादनमिति द्रष्टव्यम्।। स्वरे निषेधादिति।। अन्यथा चिकीर्षक इत्यादौ ककारेकारादेः स्वरप्रवृत्तिविषयस्य स्थानिभूतात् सन्प्रत्ययाकारादव्यवहितपूर्वत्वाभावेन स्थानिवत्त्वाप्रसक्त्या निषेधारंभो निरर्थक एव स्यात्।। फलं तु कथयति गणयतीत्यादौ अकारलोपस्य ककाराकारादेरुपधात्वप्रयुक्तायां वृद्धौ स्थानिवद्भाव इति भावः।।
कर्तव्ये इति।. चरमावयवकर्मके विधान इत्येवमर्थें फलितमेतत्।। ऊठ् स्यादिति।। क्विनिमित्तके विधौ स्थानिवत्त्वनिषेधादियमापत्तिः।। ननु मूले न च प्रत्ययलक्षणमित्याक्षेपो वार्तिकमते उत भाष्यमते वा?।। नाद्यः।। तन्मते प्रत्ययलक्षणसूत्रस्य विशेषणतया वर्णाश्रयणे विध्यर्थतया समाधानग्रन्थविरोधात्।। न द्वितीयः।। तन्मते तस्यान्यार्थकतया स्थानिवद्भावस्यैवापत्तिविषयत्वात्।। अतो नेदं युक्तमित्याशंकां परिहर्तुं प्रत्ययलक्षणपदमन्यार्थकमित्माह।। स्थानिवत्त्वेनेत्यादि।। ननु प्राधान्यात्कार्यातिदेशे भत्वमनेनातिदेष्टव्यं, तच्च णिज्मात्रनिमित्तकमेवेति कथं वर्णाश्रयत्वम्, तत्राह।। शास्त्रस्यैवेति।। इष्टनि परतो यच्छास्त्रं प्रकृतेः कार्यानुसंधायकत्वेन प्रवर्तते तदिहापीति तदर्थः।। शास्त्रेण प्रत्यासत्त्या शास्त्रश्यैवातिदेष्टुमौचित्यमस्मिन्नतिदेशे बीजम्।। यदि च प्राधान्यावष्टब्धः कार्यातिदेश एवात्राश्रीयते तथापि वर्णाश्रयता भसंज्ञां न विमुञ्चतीत्याह।। कार्यातिदेश इति।। अत्र पक्षे कार्याविनाभावादुपस्थितानां निमित्तभूतानां धर्माणां यद्धर्मवैकल्यात्कार्याप्रवृत्तावतिदेशारंभस्तद्धर्मसंबन्धस्य बाधितत्वेन परित्यागेपि तदितरेषा मतिदेशनिमित्ते विशेषणत्वेन संबन्धोपपत्तौ त्यागायोगादजादौ णाविष्टनीव भत्वमित्यादिक्रमेणतिदेशवाक्यार्थ इत्याशयः।। यत्तु लक्ष्यानुरोधादिह निमित्तातिदेश आश्रयितव्यः। लघुभूतश्च कार्यातिदेशादिह निमित्तातिदेशः। कार्यबाहुल्यस्य निमित्ताल्पतायाश्च विस्पष्टत्वात्। अन्यथा प्रस्थास्फादय आदेशा अन्येषामपि स्थानिनामापद्येरन्।। न च स्थान्यर्थाभिधानसमर्थस्यैवादेशतया पादादीनां पदादय इव स्वसमानार्थकानां स्वसमानवर्णघटितानां प्रियादीनामेव ते आदेशा भविष्यन्तीति वाच्यम्।। पद्दन्न इत्यादेः प्रयोगनियामकतया फलाभावादिको यणचीत्यादौ दोषाच्च स्थानेन्तरतम इत्यत्र सप्तम्यन्तपाठस्य भाष्ये प्रत्याख्यातत्वेनोक्तार्थालाभात्।। स्थितस्फीतादीनामपि तदादेशप्रसंगाच्च।। यदि तु यस्य यत्कार्यमिष्ठनि तस्य तत्कार्यं णावपीति प्रत्यासत्तिगर्भोऽयमतिदेश इत्युच्यते, तर्हि द्रव्यवाचकाण्णिचि गुणवचनमात्रविषयस्येष्ठनस्तत्राप्रसक्त्या तन्निमित्तकस्य टिलोपादेरप्रवृत्तिप्रसंगः।। तस्माण्णाविष्ठनि ये धर्मास्ते भवन्तीत्येव तदर्थ इति स्वादित्वातिदेशे स्वत एवाजादित्वात्संज्ञाशास्त्रेणैव भत्वप्रवृत्त्या स्पष्टं वर्णाश्रयत्वमित्याकरमतमित्याहुः।। तदसत्।। निमित्तस्यैवातिदेशे तद्धितत्वातिदेशेन कृदुत्पत्तिमन्तरापि णिजन्तात्प्रातिपदिकत्वनिबन्धनानां स्वादीनामापत्तेः।। नच ण्यन्ताभिधेयस्यासत्त्वभूतक्रियारुपत्वेन संख्यासंबन्धाभावात्तदनापत्तिरिति वाच्यम्।। एवमप्यौत्सर्गिकैकवचनस्य पचति रूपमित्यादाविव दुर्वारतापत्तेः।। पटयतीत्यादौ तद्धितेष्वचामादेरित्यादिवृद्धिप्रसंगाच्च।। न च वृद्धिविधौ ञित्साहचर्याद्धातुसंज्ञानुपधायकस्यैव तद्धितस्य णितो ग्रहणान्नेदं दूषणमिति वाच्यम्।। विनिगमनाविरहात्तत्साहचर्येण प्रकृतिभावानुपधायकस्यापि तादृशस्य णितस्स्वीकारापत्तौ सौत्वन इत्यादौ वृद्ध्यभावप्रसक्त्या साहचर्यस्येह व्यवस्थापकत्वायोगात्।। श्वानमाचष्टे शुनयतीत्यादावतद्धित इति विधीयमानस्य श्वयुवमधोनामिति संप्रसारणस्यानुपपत्तेश्च।। प्रत्यासत्त्याश्रयणेपि कार्यातिदेशे तत्तत्कार्यविधायकशास्त्रगृहीतत्वादुपस्थितेन टिस्थानिकत्वादिना तदतिदेशाभ्युपगमेपि अनुपस्थितगुणवचनसंबन्धित्वेन तदभ्युपगमस्यायुक्तत्वाद्भवन्त्येव गुणवचनव्यतिरिक्तस्यापि णौ टिलोपादयः, प्रस्थादयश्च प्रियादीनामेवेत्यनुपपत्तिविरहाच्चेति दिक्।। टिलोपस्यापीति।। एकस्याप्यतिदेशशास्त्रस्य लक्ष्यभेदाद्भिद्यमानस्य बाध्यत्वं बाधकर्त्वं च न विरुद्धमित्याशयः।। पदत्वानिवृत्तेरिति।। ननु कार्यातिदेशे भत्वस्यानाकडारीयतया सत्यपि स्थानिवत्त्वे कथं तेन पदत्वनिवृत्तिः।। आकडारसूत्रारंभेण ह्यन्यत्र संज्ञानां विरोधाभावो बोध्यते।। अत एव कृत्‌कृत्यादिसंज्ञानां समावेश इति चेन्न।। इष्ठवदित्यनेन यादृशमिष्ठनि भत्वमाकडारीयत्वोपहितं, तथाविधमेव णिचि प्रकृतेर्भत्वमित्यर्थस्य प्रत्यासत्त्या सुवचत्वात्तत्वोपहितस्यैव तस्यातिदेश इति भवत्येव स्थानिवत्त्वेन तदतिदेशे पदत्वनिवृत्तिरित्याशयात्।। अत एवात्र पक्षे शुनयतीत्यादौ नलोपाभाव इति बोध्यम्।। नन्वेवं वान्ते पदत्वस्यापि कुतो न टिलोपस्थानिवत्त्वेन प्रतिबन्धः।। न च निषेधारंभसामर्थ्यात्पदान्तविधिप्रयोजकपदत्वप्रतिबन्धकतया स्थानिवद्भावस्याप्रवृत्तिरिति वाच्यम्।। कानि सन्तीत्यादौ स्थानिवद्भावानवरुद्धपदत्वप्रयोज्ये पदान्तवीधौ निषेधोपपादनेन कृतार्थतया सामर्थ्यायोगात्।। किं च टिलोपापेक्षया णिलोपस्य बहिरंगत्वात्तत्प्रयुक्तस्थानिवद्भावोपि टिलोपप्रयुक्तात्तस्माद्बहिरंग इत्युचितम्।। ततश्चणिलोपप्रयुक्तस्थानिवद्भावलभ्यस्य वान्तगतभात्वातिदेशस्य स्वापेक्षया बहिरंगासिद्धस्य कथमन्तरंगभूतष्टिलोपस्थानिवद्भावो निवर्तकस्स्यादत आह।। प्रकल्प्येत्यादि।। अत एव वेतस्वानित्यादौ अनेन निषेधेन स्थानिवत्त्वाप्रवृत्त्या प्रसक्तस्य रुत्वाद्यात्मकस्य पदान्तविधेर्निवर्तनाय सप्तमीसमास आश्रितः प्रकृतसूत्रे भाष्ये।। यदि च पदान्तविधिप्रयोजके पदत्वे स्थानिवद्भावेन प्रतिबन्धस्स्यात्तदा षष्ठीसमासेप्युपपत्तौ सप्तमीसमासपर्यन्तानुधावनपरिक्लेशो भाष्यकाराणां विफल एव स्यात्।। एतेनाचःपरस्मिन्नित्यस्य भावाभावोभयातिदेशपरतया तन्निषेधस्यापि तथाविधत्वौचित्यात्पदान्तविधौ कर्तव्ये तत्प्रापकस्तत्प्रतिबन्धकश्च स्थानिवद्भावो न भवतीत्यर्थे पदान्तविधिप्रयोजकपदत्वनिवर्तकटिलोपस्थानिवद्भाव इव पदत्वनिवर्तकभत्वसंपादकणिलोपस्थानिवद्भावोपि पदान्तविधेः प्रतिबन्धक एवेति वृक्षवादौ निषेधशास्त्रेणैव भत्वनिवृत्तिसंभवात् व्यर्थ एवायं प्रयास इत्यपास्तम्।। गोचेत्यादौ साक्षात्पदान्तविधेः प्रापकस्य मरुतो यन्त्वित्यादौ साक्षात् तत्प्रतिबन्धकस्य च निवर्तनेन कृतार्थस्य स्थानिवत्त्वनिषेधस्य परंपरया तन्निवर्तकत्वे मानाभावात्, वेतस्वानित्यादौ भत्वप्रतिबन्धकस्थानिवद्भावस्यापि पदान्तविधेः प्रापकतया निषेधे भत्वेन पदत्वनिवृत्त्या रुत्वाप्रसक्तेस्तस्य सप्तमीसमासप्रयोजनत्वोपवर्णनपरभाष्यासंगत्यापत्तेश्चेत्यलम्।। न सूत्रवार्तिकेत्यादि।। त्रैपादिकेऽन्तरङ्गे बहिरंगपरिभाषाया अप्रवृत्तेः कार्यकालयथोद्देशपक्षोभयसाधारणतया विसर्जनीयसूत्रे भाष्यकारैर्व्यवस्थापनात्पटित इत्यादौ जस्त्वाद्यापत्तिरप्यत्र पक्षे दोषः।। पूर्वत्रासिद्धीये न स्थानिवदित्यवष्टभ्य निषेधशास्त्रे त्रैपादिकविधिप्रत्याख्यानमपि भाष्यकृतां पदचरमावयवस्थानिककार्यातिरिक्तपरम्।। अत एव वेतस्वानित्यत्र रुत्वं महिष्मानित्यत्र जस्त्वं च न भवति।। पिपठीरित्यादौ तु क्वौ लुप्तं न स्थानिवदिति निषेधेन रुत्वसिद्धिरिति तत्त्वम्।। एषो यन्निति।। उदाहरणप्रसिद्धिबोधनोपायतया क्वचिदयं दृश्यते प्रयोग इति सूचयितुं हसतीत्यस्य प्रयोगः।। वाक्यसंस्कारपक्षे इति।। इदमेषो यन्नित्यत्रापि बोध्यम्।। इति दिगिति।। वरे ग्रहणादेव समुदायधर्मैरवयवानां व्यपदेशः स्थानिवत्त्वनिषेधविषये यातिरित्यादिसिध्यर्थमाश्रयितव्य इति केचित्।। बाधादिति।। वासरूपविधिश्चास्त्रियामित्युक्तेः स्त्र्यधिकारोक्तप्रत्ययातिरिक्तपरः।। इदं तु बोध्यम्।। यातिरित्यादौ यलोपे स्थानिवत्त्वनिषेधारंभाद्वर्णमात्राश्रयत्वेनान्तरंगे यलोपे विशिष्टप्रत्ययाश्रयस्य लोपस्य बहिरंगासिध्धत्वं नेत्याहुः।। फलाभावादिति।। ननु भुङ्‌क्त इत्यादौ परसवर्णप्रवृत्तिः फलं, किं च स्थानिवत्सूत्रेणाशास्त्रीयधर्मस्यानतिदेशे प्रकृतिप्रत्ययसंधातादेशेषु वस्‌नसादिषु कार्यकालपक्षे सुबन्तत्वातिदेशनिबन्धनं पदत्वमनुपपन्नं स्यात्।। नहि यस्माद्विहितस्तदादितदन्तत्वरूपं सुबन्तत्वं शास्त्रीयो धर्मः। किं चैवं प्रत्ययलक्षणसूत्रस्य प्रत्ययमात्रवृत्तिधर्मनिमित्तककार्यमात्रविषयकतया नियामकत्वमिति भाष्यकारीयसिद्धान्तासंगतिः।। स्थानिवत्त्वेनाशास्त्रीयधर्मानुपपादने स्वःकाम्यतीत्यादावन्तरंगत्वादव्ययादाप्सुप इति लुगुत्तरं स्थानिवत्त्वेन सुबन्तत्वस्य दुर्वचतया सुप इत्यधिकृत्य विधीयमानस्य काम्यचः प्रवृत्त्ययोगे विध्यर्थमावश्यकस्य प्रत्ययलक्षणसूत्रस्य नियामकत्वायोगात्।। न चैकदेशविकृतन्यायेन स्वरित्यादेस्सुबन्तत्वं सुवचमिति वाच्यम्।। विकृतावयवघटितधर्मस्य छिन्नपुच्छे शनि पुच्छवत्त्वस्येव तेन न्यायेनातिदेष्टुमशक्यत्वात्।। यदि तु दर्भाणां स्थाने शरैः प्रस्तरितव्यमित्यादिव्यवहारसिद्धस्य तत्‌स्थानापन्नस्तद्धर्मंलभत इति लोकन्यायस्य स्वं रूपमित्येतच्छास्त्रारंभबलेन तद्विषये शास्त्रे प्रवृत्त्यभावेपि तदविषये लौकिकेन तेन न्यायेनाशास्त्रीयधर्मस्याप्यतिदेश इत्युच्यते, तर्हि प्रकृतेपि समम्।। न चात्र शास्त्रे तेन न्यायेनाशास्त्रीयधर्मातिदेशे प्रकृतसूत्रस्थब्राह्मणकण्डूतिरित्येवमात्मकभाष्यकारीयप्रयोगविरोधस्तत्र हि कण्डूयतेः क्तिच्यल्लोपयलोपयोरल्लोपस्य स्थानिवत्त्वादुवङि क्तिज्निमित्तके वकारस्योठि सवर्णदीर्घे रूपसिद्धिः।। अनेन न्यायेन स्थानिभूतादचः पूर्वत्वस्य अशास्त्रीयधर्मस्यातिदेशे स्थानिवद्भावेन अकारव्यवधानादूठोऽप्रसक्त्या तदसंगतिरिति वाच्यम्।। तेन न्यायेन स्थानिन्यूकारे वर्तमानस्य स्थानिभूतादकारात्पूर्वत्वस्य तदादेशस्योवङो विशिष्टस्यातिदेशतो लाभेऽपि वकारमात्रस्य दुर्लभतया स्थानिवद्भावेनोठ्यल्लोपस्य प्रतिबन्धकत्वायोगात् प्रयोगस्य निर्बाधत्वेन भाष्यविरोधाभावात्।। किंचैतादृशभाष्यस्वारस्यादिह तन्न्यायस्याप्रवृत्तावपि प्रागुपदर्शितप्रमाणबलादत्र शास्त्रे तत्‌प्रवृत्तिरौत्सर्गिकीति युक्तमेव मूलोक्तमत आह।। तद्धटितसन्निवेशेत्यादि।। स्थानिभूताज्घटितो यस्स्न्निवेशो वर्णानुपूर्वी तदपेक्षस्येत्यर्थः।। अयं भावः।। ततः पूर्वत्वं च तदधिकरणक्षणप्रागभावाधिकरणक्षणवृत्तित्वम्।। तच्च परवर्णोच्चारणसमनियतत्वात्तदभावे दुर्लभम्‌। विशिष्टानुपूर्वी तु नातिदेशतो लभ्या, स्थानिधर्मत्वाभावात्।। अतः स्थानिभूतादचः पूर्वत्वं नातिदेशसाध्यमिति।। ननु अतिदेशोऽयमाहार्यारोपः। स च बाधितस्यापि भवति।। यथा ह्रदो वह्निमानिति।। कार्यप्रवृत्तिनियामकत्वं च तस्य शास्त्रे वचनारंभादवसीयते। तथा च परवर्णाभावेऽपि तद्धटितानुपूर्वीप्रयुक्तस्य तदवधिकपूर्वत्वस्यातिदेशे बाधकाभावः।। अन्यथा तद्धटितोभयसन्निवेशापेक्षं तदादित्वं रामाभ्यामित्यादौ प्रकृतेरंगत्वे व्यपदेशिवद्भावेन केवले तस्मिन् कथमतिदिष्टं स्यात्।। किंचातिदेशविषये पूर्वत्वादिकं वास्तविकवर्णान्तरसत्तानपेक्षमेवार्थसमाजग्रस्तया विशिष्टानुपूर्वीबुध्यालभ्यते, यथा यातिरित्यादावल्लोपस्य स्थानिवद्भावादच्त्वे ततः पूर्वत्वमातो लोपप्रयोजकमाकारे, ततो नायं दोष इत्यत आह।। भोभगो इत्यादि।। ननु भोभगो इति सूत्रस्थं भाष्यं न सिद्धान्तिसम्मतमिति मूलकृन्मतमतस्तदवलंबेन तन्मते दूषणापादनं न समंजसमत आह।। विशेषणतयेति।। स्थानिभूताजवधिकपूर्वत्वे विशेषणत्वेनाचत्वमुपनिबद्धमिति भावः।। यदि तु स्थान्यवधिकपूर्वत्वेन दृष्टस्येत्येवात्र विवक्षितोऽर्थः स्थानी च अर्थादत्राजेव संपद्यत इति स्थानिभूतादचः पूर्वत्वेन दृष्टस्येत्युल्लेख इत्यतो नात्र विसेषणत्वेनालाश्रयणमित्युच्यते, तदा नेदं दूषणमित्यरुचेराह।। भाष्ये पूर्वत्रासिद्धे इत्यादि।। पूर्वत्रासिद्धे न स्थानिवदित्यस्याश्रयणेनेत्यर्थः।। स्वरभिन्नानामिति।। यद्यपि भाष्ये वरेयलोपस्वरवर्जं द्विर्वचनादीनि न कर्तव्यानीत्येवोक्तम्, तथापि तत्र दीर्घोप्युपलक्षणीयः।। अन्यथा शंशम्यतिप्रभृतिभ्यो यङन्तेभ्यो णिच्चिणोरशंशामीत्यादौ चिण्णमुलोरिति दीर्घविकल्पे स्थानिवत्त्वनिषेधानुपपत्तेः।। न च णिज्व्यवेतानां यङ्‌लोपे चोपसंख्यानमिति चिण्णमुलोरिति सूत्रस्थवार्तिकेन निर्वाह इति वाच्यम्।। अपूर्ववचनारंभेण सिद्धवचनप्रत्याख्यानस्यानौचित्यात्।। कमेर्णिङितिसूत्रे तत्सूत्रे च दीर्घविधौ स्थानिवत्त्वनिषेधमवष्टभ्य भाष्ये तादृशवार्तिकप्रत्याख्यानदर्शनाच्च।। तस्मादिह न पदान्तवरेयलोपस्वरदीर्घविधिष्वितिसूत्रन्यासे भगवदाश्य इत्याहुः।।
केचित्तु ण्यन्ताण्णौ णिज्व्यवधाने ण्याकृतिनिर्देंशेन दीर्घविधौ निर्वाहः।। यङन्तप्रकृतिकण्यन्ताण्णिचि णमुलि स्थानिवत्त्वेन व्यवधानाद्दीर्घाप्रवृत्तावपि यङ्‌लुगन्तप्रकृतिकण्यन्ताण्णिचि णमुलि स्थानिवत्त्वेन व्यवधानाद्दीर्घाप्रवृत्तावपि यङ्‌लुगन्तप्रकृतिकण्यन्तात्तयोर्दीर्घो भवत्येवेति न वार्तिकस्योपयोगोनापि स्थानिवत्त्वनिषेधे दीर्घग्रहणस्य यङन्ताद्यङ्‌लुगन्ताद्वा णिचि चिण्णमुलोर्नास्ति कश्चित् स्वरादिकृतो विशेष इति तदाशयाद्यथाश्रुतमेव भाष्यं रमणीयम्, न तु स्थानिवत्त्वनिषेधस्य दीर्घोपलक्षकत्वमिति वदन्ति।।
प्रतिप्रसवेनेति।। बाधकविषयेसामान्यशास्त्रबोधितकार्यप्रवृत्त्यभ्यनुज्ञाप्रतिप्रसवः।। परसवर्णाभावस्यैवेति।। सूत्रमते स्थानिवत्त्वनिषेधेन शिण्ढीत्यादौ परसवर्णात्मकणत्वप्रवृत्तौ प्रत्याख्याने तदभावे चारंभप्रत्याख्यानयोः फलभेदात्प्रत्याख्यानमयुक्तमेव स्यादतस्सूत्रे सवर्णशब्देन णत्वातिरिक्तस्यैव ग्रहणेन सूत्रकृन्मतेप्यत्र स्थानिवत्त्वेन परसवर्णाप्रवृत्तिरेवोचितेत्याशयः।। ननु प्रत्याख्यानपरभाष्यप्रामाण्यात् प्रतिप्रसववार्तिके प्रतिपदोक्तपरिभाषया रषाभ्यामिति णत्वस्यैव ग्रहणमिति किं न स्यादत आह।। णत्वाग्रहणे चेति।। उपपादयिष्यत इति।। अष्टाभ्य औशितिसूत्रे प्रियाष्ट् न इतिप्रतीकमुपादाय मूलकृतैव वार्तिके प्रतिपदोक्तपरिभाषाया अप्रवृत्तेरुपपादयिष्यमाणत्वात्तद्विरोधेन प्रकृते स्थानिवत्त्वनिषेधोपपादनमयुक्तमित्याशयः।। वस्तुतोऽत्र सत्यपि स्थानिवत्त्बनिषेधे परसवर्णो दुर्लभ इत्याशयेनाह।। किंचेति।। भाष्यसंमताष्टाध्यायीपाठ इति।। भाष्ये उदस्स्थास्तम्भोरिति सूत्रव्याख्यानोत्तरमभ्यासे चर्चेंतिसूत्रस्य व्याख्यानादत्र पाठे भाष्यसंमतिरनुमीयते।। यद्यपि तयोरेव सूत्रयोर्द्वयोर्व्यत्यासे भाष्यमुपपद्यते, तथाप्यनुवृत्त्यनुरोधात्सूत्रगणस्य व्यत्यास इति बोध्यम्।। यय्‌परत्वाभावादिति।। षकारपरत्वादिति भावः।
केचितु प्रतिप्रसववार्तिके संयोगादिलोपलत्वयोस्साहचर्यादच्त्वानुपहितवर्णस्थानिकस्यैव णत्वस्य ग्रहणमनुस्वारस्थानिकः परसवर्णस्तु न तथाभूत इति प्रत्याख्यानेपि स्थानिवत्त्वनिषेधः।। किं च अभ्यासे चर्चेत्यस्योदस्थादितिसूत्रोत्तरं व्याख्यानमात्रेणानादिवैदिकसंप्रदायसिद्धस्याष्टाध्याजीपाठस्यान्यथात्वकल्पनमनुचितम्।। सिंहावलोकनन्यायेनापि भाष्यसामंजस्यात्।। इत्थं च झलां जशित्यस्यासिद्धत्वमपि दुर्वचम्।। न च यथाश्रुताष्टाध्यायीपाठे उदस्कन्दे रोगे उपसंख्यानमित्युदस्स्थास्तम्भोरितिसूत्रस्थवार्तिकनिष्पन्ने उत्कंदशब्दे सकारस्थानिकस्य पूर्वसवर्णथकारस्य त्रैपादिकासिद्धत्वेन चर्त्वानुपपत्तिरिति वाच्यम्।। न मुन इत्यत्र नेति योगं विभज्य क्वचिदसिद्धत्वाभावोपपादनेनादोषात्।। अन्यत्र लोपाभावे थकारश्रवणामभीष्टमेवेति दीक्षिताशयमुत्प्रेक्षमाणा उपाध्यायोक्तं नातीवाद्रियन्ते।।
विषय एव नेति।। पूर्वोदाहरणं क्वौ लुप्तं न स्थानिवदित्यस्यासार्वत्रिकत्वमभ्युपगम्योपन्यस्तम्।। इह तु क्विनिमित्तकत्वाभावादल्लोपस्य तदप्रवृत्तिरेवेति विशेषान्नैतदुदाहरणोपन्यासवैफल्यमित्याशयः।। पञ्चमीसमासपक्षमनंगीकुर्वतामपि प्रयोजनमस्तीत्याह।। हरिन्नमतीति।। इदन्तुचिन्त्यम्।। न पदान्तसूत्रघटकद्विर्वचनादिग्रहणप्रत्याख्यानसाधकत्वेन स्वीकृतस्य पूर्वत्रासिद्धीये न स्थानिवदित्यस्य वेतस्वान् महिष्मानित्यादौ रुत्वाद्यभावाय पदचरमावयवविधायकातिरिक्तपरताया आवश्यकत्वस्योद्योतादौ स्पष्टत्वादिह स्थानिवत्त्वेनानुनासिकाभावस्यैव न्याय्यत्वात्।। तस्मान्निरुक्तहरिच्छब्दस्य लकारयोगे हरिल्लुनातीत्यादौ तोर्लीति परसवर्णः पञ्चमीसमासाभावपक्षे सवर्णविधौ स्थानिवद्भावनिषेधस्य प्रयोजनम्।। नहि तोर्लीत्यस्य पूर्वत्रासिद्धीये न स्थानिवदित्येतन्नि,ेधाप्रवृत्तिविषयभूतापदचरमावयवविधायकत्वं वक्तुं शक्यम्।। पदान्तत्वप्रयुक्तपदचरमावयवविधायकस्यैव तथाविधनिषेधाप्रवृत्तिविषयत्वात्।। न च प्रत्याख्यानपक्षे प्रतिप्रसवबार्तिकेन लत्वे स्थानिवद्भावाभ्यनुज्ञानात्तदप्रवृत्त्या सूत्रमतेपि तत्र तदभाव एवोचितः, अन्यथा ह्यारंभप्रत्याख्यानयोः समफलकता न सिद्ध्येदिति वाच्यम्।। तद्वार्तिकघटकणत्वांशे भाष्यप्रामाण्यात् प्रतिपदोक्तपरिभाषाय अप्रवृत्तावप्यन्यत्र तदप्रवृत्तौ मानाभावेन लत्वस्य प्रतिपदोक्तस्य ग्रहणे परसवर्णनिष्पन्नलकारस्य लाक्षणिकतया निषेधाप्रवृत्तेर्बाधकाभावादित्याहुः।। सहस्य सादेश इति।। सहस्य सस्संज्ञायामित्यत्र सहस्य स इति योगविभागानभ्युपगमे ठान्दसत्वमेवात्र शरणम्।। धिचेति सूत्रे भाष्ये इति।। तत्र हि धिसकारे सिचो लोपश्चकाद्धीति प्रयोजनमित्युक्तमित्याशयः।। असाध्वेवेति।। षघ हिंसायामित्यस्य स्वादौ पठितस्य घातूनामनेकार्थत्वेन स्त्रीसाहित्यविशिष्टभोजनवृत्तित्वमाश्रित्य क्तिन् प्रत्यये सग्धिरिति भाष्योक्तपक्षान्तररीत्या सत्यभिधाने लोकेपि साध्वेति बोध्यम्।।
अक्षरस्वारस्यविरोधेनेति।। अयं भावः।। लोके गर्गाश्शतं दण्ड्यन्तामित्यादौ दण्डनादिक्रियाकर्मत्वं समुदाये पर्याप्नोति, ब्राह्मणा बोज्यन्तामित्यादौ भोजनादिक्रियाकर्मत्वं तु प्रत्येकमेवेत्युभयथा वाक्यार्थबोधीयोद्देश्यतापरिसमाप्तिर्दृश्यते।। शास्त्रे च सह सुपेत्यादौ समुदाये वाक्यार्थबोधीयोद्देश्यतापरिसमाप्तये सहग्रहणादिरूपप्रयत्नाचरणात् ब्राह्मणभोजनन्यायेन प्रत्येकपर्याप्तिरौत्सर्गिकीति संभवन्नपि प्रत्येकसंयोगसंज्ञापक्षो नाभ्युपगन्तुं शक्यः।। संज्ञानिमित्तत्वेन गृहीतस्यानन्तर्यस्य विशेषणत्वे संभवत्युपलक्षणताया अनौचित्यात्।। आनन्तर्यं हि प्रकृते मध्यगतविजातीयवर्णनिष्ठपूर्वत्वपरत्वोभयनिरूपकतानवच्छेदकीभूतो व्यासज्यवृत्तिर्धर्मः।। ततश्च समुदायसंयोगसंज्ञापक्ष एव स्थित इति।। महासंज्ञाकरणेन संयुज्यन्ते वर्णा यत्रेति व्युत्पत्त्या समुदायप्रतीतेस्समुदितस्यैव संयोगसंज्ञा न तु प्रत्येकमिति कैयटः।। भाष्ये ध्वनिततयेति।। तत्र हि वृद्ध्यादिसंज्ञानां प्रत्येकमित्यनुक्तावपि ब्राह्मणभोजनन्यायेन यथा प्रत्येकं प्रवृत्तिस्तथा विनापि सहग्रहणं गर्गदण्डनन्यायात्समुदाये संयोगसंज्ञा प्रवर्तत इति संयोगसंज्ञायां सहवचनमिति वार्तिकं प्रत्याख्यातमिति भावः।। लक्ष्याभावादिति।। संयोगान्तस्य सतः पदान्तस्येत्येवमात्मकव्याख्यानैकसाध्यस्य प्रयोगास्यादर्शनादित्यर्थः।। ननु कशब्दादाचारक्विबन्तात्कर्तृक्विपि निष्पन्नस्य क् इत्येतस्य हलन्तपदान्तरसमवहितस्य वाक्ये लोपप्रवृत्तिरेतद्व्याख्यानप्रयोजनं स्यात्तत्राह।। ्त एवेति।। लोपश्चेति द्विशकारको निर्देश इत्यलोन्त्यात्सूत्रे भाष्योक्तेरिदं व्याख्यानमयुक्तम्।। सत्यभिधाने लोपस्याप्रवृत्तिरेव निरुक्तोदाहरणे।। पारायणप्रयुक्तधर्मसंपादकमेवान्तग्रहणमिति निष्कर्षः।। णद्वयात्मकमिति।। शित्त्वं हि सर्वादेशत्वसंपत्तये, तदनेकाल्त्वेनैव सिद्ध्यति।. उच्चारणार्थकवर्णस्येत्संज्ञालोपयोश्चानपेक्षणाल्लाघवमित्याशयः।। संयोगान्तलोप इति।। शास्त्रे वधीमित्यादौ तदुदाहरणे चेत्यर्थः।। अत्र यद्वक्तव्यं तदतोमित्यत्र वक्ष्यते।। व्यावर्त्यत इति।। तत्र यदि नाजानन्तर्यपरिभाषय बहिरङ्गासिद्धत्वं निषिध्येत तदा यणादेशस्य दुर्वारत्वात् स एव निर्देशोऽस्याः परिभाषाया अनित्यत्वं ज्ञापयतीति भावः।। ननु जातबहिरङ्गस्यासिद्धत्वोपपादकबहिरङ्गपरिभाषाविषयणी नाजानन्तर्यपरिभाषा केण इत्यत्र तु समकालप्राप्तान्तरङ्गस्य बहिरङ्गापेक्षया प्रथमप्रवृत्तिप्रयोजकप्राबल्यवोधकेन परिभाषान्तरेण यणादेशनिवृत्तिरिति कथमयं निर्देशस्तदनित्यत्वे प्रमाणं स्यात्तत्राह।। परिभाषान्तरं नास्त्येवेति।। अन्तरङ्गे कर्तव्ये जातं समकालप्राप्तं च बहिरङ्गमसिद्धमित्यर्थेन बहिरङ्गपरिभाषयैव तदर्थः क्रोडीक्रियते।। अत एवान्तादिवत्सूत्रे भाष्ये बहिरङ्गपरिभाषमाश्रित्य परिभाषान्तरमन्तरङ्गं बहिरङ्गात्बलीय इत्येतत्प्रत्याख्यातमिति भावः।। शास्त्रनिर्देशानुपपत्त्यपेक्षया शास्त्रस्यैवानुपपत्तिरधिकं प्रमाणं, निर्देशस्य सौत्रत्वेनाप्युपपत्तेः अत आह।। वस्तुत इति ।। परिभाषायामुत्तरकालप्रवृत्तिकेऽन्तरङ्गे इत्यप्यनित्यत्वबललब्धमेवेति तात्पर्यम्।। परिभाषैवेयमन्तरङ्ग परिभाषानित्यत्वेन सिद्धा नातिरिक्तेत्यन्यत्र विस्तरः।। न च भाष्यसम्मत इति।। ननु कर्त्य्रा इत्यादौ प्रथमं पूर्वयणादेशप्रवृत्तेरन्तरङ्गत्वोपपादनेनाचः परस्मिन्निति सूत्रे भाष्ये स्वीकृत एवायमर्थ इति कुतो न भाष्यसम्मत इति चेन्न।। पूर्वोपस्थितनिमित्तकमन्तरङ्गं परोपस्थितनिमित्तकं बहिरङ्गमित्याशयकतयैवैतादृशभाष्यसामञ्जस्ये निरुक्तार्थकल्पनाया निर्मूलत्वात्।। अस्ति हि कर्त्य्रेत्यादौ प्रयोगक्रमाधीनपूर्वोपस्थितनिमित्तकत्वं पूर्वयणादेशस्य।। अत एव स्रजिष्ठ इत्यादौ टिलोपवारणाय प्रकृत्यैकाजित्यस्य प्रत्याख्याने विन्मतोर्लुकष्टित्त्वजातिलोपापवादत्वमित्युपाय उपपादितः।। पूर्वस्थानिकस्यान्तरङ्गत्वे तु तदसंगतिरेव ।। किं च पूर्वं पूर्वमन्तरङ्गं परंपरं बहिरङ्गमिति लोकन्यायसिद्धम्।। तदुक्तं भाष्ये, मनुष्योऽयं प्रातरुत्थाय प्रथमं शरीरकार्याणि करोति ततस्सुहृदां ततस्संबन्धिनामिति।। ततश्च युगपत्प्राप्तौ प्रथमप्रवृत्तिनियामकत्वमेवैतादृशान्तरङ्गत्वस्य, न तु जातबहिरङ्गस्यासिद्धत्वसंपादकत्वमित्याद्यन्यत्र प्रपञ्चितमिति भावः।। ननु अस्तु वा त्वदुक्तरीत्या संयोगान्तलोपस्यान्तरङ्गत्वं बहिर्भूतसुब्‌निमित्तकत्वेन बहिरङ्गत्वमप्यस्तीति विनिगमनाविरहेण नेह परिभाषा व्यवस्थापिका स्यादित्याशयेनाह।। किंचेति।। क्वौ स्थानिवच्वनिषेधादिति।। क्विनिमित्तके कार्ये कर्तव्ये कार्यान्तरं प्रत्यपि स्थानिवत्त्वनिषेध इत्याशयः ।। यलोपे स्थानिवत्त्वनिषेधाच्चेत्यपि बोध्यम्।। कृते वान्तत्वमिति।। ऊडादेशो वलोपविषय एव लोपोव्योर्वलीत्यस्यापवादो न तु यलोपविषयेपीति भावः।। इति शेष इति।। संयोगान्तलोपाप्रवृत्तिप्रतिपादनमात्रे तात्पर्यमत्र मूलव्याख्याकारयोः, न तु परिनिष्ठितरूपापादने, मोनो धातोरित्यस्य प्रवृत्त्या नान्तमेव हि परिनिष्ठितं स्यादिति बोध्यम्।। संयोगान्तलोपो झलो लोप इति।। प्रत्याख्यानस्योभयलोपविषयकत्वे हि झलन्तस्य संयोगस्य लोप इत्येव ब्रूयादिति तात्पर्यम्।। व्याख्यानेनेति।। यत्र यणादेशस्य बहिरङ्गत्वाभावस्तथाभूतोदाहरणानामभिधाने तृतीयवार्तिकस्योक्तव्याख्यानेन प्रवृत्त्यायोगात्पक्षयोः फलभेदेन प्रत्याख्यानमसंबद्धं स्यात्।। तत ईदृशानामनभिधानमित्याशयः।। सभवमात्रेणेति।। एवं च लोपविकल्पोपपादनं स्वरूपगणनावसरे निष्फलमित्याशयः।।
एकवाक्यतयैवेत्यादि।। पूलयोरित्येकशेषनिर्देशात्साहित्यावच्छेदेनैव पदार्थान्तरान्वयस्य न्याय्यतया पूलकद्वयपर्याप्तसाहित्यरूपैकधर्मावच्छिन्नोद्देश्यताकत्वेन बोधाद्विनापि प्रकरणमेकस्यैव कटस्य यथा विधेयत्वेन प्रतीतिस्तथा पूर्वपरयोरित्यत्रापि द्वन्द्वनिर्देशस्वारस्यात् पूर्वपरोभयपर्याप्तैकधर्मेण साहित्यन विधेयभूतगुणादिसंबन्धस्यावश्यकत्वादेकस्यैव विनाप्येकग्रहणं विधेयत्वेन संप्रत्ययो भविष्यत्यतो नास्ति पूर्वपरयोः पृथग्विधेयप्रसङ्ग इति तदर्थः।। तदुक्तं भाष्ये।। एकवाक्यभावात् द्वयोरेकस्याभिनिर्वृत्तिर्भवतीति।। तत्रैकवाक्यभावादित्यस्यैकधर्मावच्छिन्नोद्देश्यताकत्वादित्यर्थः।। तन्मूलकत्वादेकवाक्यतायाः कार्यत्वेन कारणस्य व्यपदेश, आयुर्घृतं इन्द्रियं दधीतिवत्।। यद्वा एकवाक्यं भावयत्युत्पादयतीति कर्मण्यण्।। सहविवक्षायामेव द्वन्द्वैकशेषयोस्साधुत्वं, सहविवक्षा चानेकस्यैकस्मिन्धर्मिणि साहित्येन योन्वयस्तद्विषयिणी प्रयोक्तुरिच्छा, साहित्यं पुनरेकमनेकपर्याप्तम्।। एवं चोद्देश्यतावच्छेदकभेदप्रयुक्तस्य वाक्यभेदस्य दुर्वचतया कथं विधेयभेदस्स्यात्।। यत्र तूद्देश्यतावच्छेदकभेदो रदाभ्यां निष्ठातो न इत्यादौ भवत्येव तत्र विधेयभेदप्रापको वाक्यभेदः।। न चैवं ज्वरत्वरेत्यत्रापि उद्देश्यभेदप्रयुक्तेन वाक्यभेदेन द्वावूठौ स्यातामिति वाच्यम्।। द्वयोरप्यूठोस्सवर्णदीर्घेणाभीष्टरूपसिद्धेः।। ननु सहविवक्षाविषयेऽपि साहित्यावच्छेदेन साहित्यावच्छिन्नानेकविधेयसंबन्धाद्विधेयनानात्वं दृश्यते।। सुट्‌तिथोस्तुह्योस्तातङाशिष्यन्यतरस्यामित्यादौ लोकेप्यनयोस्सुवर्णपिण्डयोः कर्णकुण्डलाभारणं कुर्वित्यादौ विधेयनानात्वमानुभविकम्। तस्मान्न केवलं सहविवक्षैव विधेयभेदनिवर्तनोपायः किन्तु प्रकरणादिकं तात्पर्यग्राहकमपीति प्रकृते तात्पर्यग्रहजनकत्वेनैकग्रहणस्यावश्यकतया कथमुक्तरीत्या भाष्यकृतस्तत्प्रत्याख्यानमिति चेत्तर्हि एकवाक्याभावादित्यस्य भाष्ये एकविधेयबोधकवाक्यत्वादित्यप्यर्थ इत्याशयेनाह।। एकत्वसंख्या विवक्षणाच्चेसि।। अत एव पशुनायजेतेत्यत्र प्रमाणान्तरसिद्धे यागे करणत्वेन विधीयमानस्य पशोरेकत्वविवक्षणान्नानेकपशुकरणकयागादपूर्वोत्पत्तिरिति जैमिनीयाः।। सूत्रे लिङ्गवचनमतन्त्रमिति त्वनुवादविषय एवेति निष्कर्षः।। तुह्योस्तातङित्यादावादेशानां स्थानिसदेशत्वनियमादेकस्योभयदेशवृत्तित्वविरोधेन सुट्तिथोरित्यादावेकस्यानेकावयवत्वविरोधेन च तद्विवक्षाया असम्भवः।। भ्रस्जो रोपधयोरित्यत्र तु मित्त्वसामर्थ्येन स्थानिसदेशत्वबाधादेकत्वविवक्षायां न क्षतिः। पूर्वपरयोरित्यत्राप्येक एव द्वयोस्सथानिनोरुच्छारणावकाश इति विरोधाभावेनैकत्वविवक्षयैव निर्वाहान्मास्त्वेकग्रहणमिति प्रत्याख्यातुराशयः।। व्याकरणशास्त्रस्येत्यादि।। लोके संस्कारबोधकानि शब्दान्युभयथा दृश्यन्ते, सकृत्प्रवर्तकानि पुनःपुनः प्रवर्तकानि च।। तत्र वसन्ते ब्राह्मणोऽग्नीनादधीत गर्भाष्टमेषु ब्राह्मणमुपनयीतेत्यादीनि सकृत्प्रवर्त्य पुनर्न प्रवर्तयन्ति।। वसन्ते ज्योतिषा यजेत, सन्ध्यामुपासीतेत्यादीनि पुनःपुनः प्रवर्तयन्ति, तत्रेयं व्ववस्था। अवान्तरसंस्कारकाणां सकृत्प्रवर्तकत्वं, प्रधानसंस्कारकाणां च पुनःपुनः प्रवर्तकत्वम्।। आधानसंस्कारेण ह्यग्निषु यज्ञकर्माधिकारस्साध्यते, एवमुपनयनसंस्कारेण वटोर्वेदाध्ययनाधिकारः, स च सकृत्कृतेनैव निष्पद्यत इति युक्तमवान्तरसंस्कारकाणां सकृत्‌प्रवर्तकत्वम्।। प्रधानभूतज्योतिष्टोमादिसंस्कारेण स्वर्गकामो यजेतेति फलवाक्यबलात्पुरुषस्य रम्भासंभोगाद्यात्मकसुखविसेषाधिगमस्साध्यस्तदविच्छित्तये तदाधिक्याय च नवै कामानां तृप्तिरस्तीति पुनःपुनः प्रवृत्तिः।। तथा सन्ध्योपासनादिकमपि दैनंदिनदुरितक्षयार्थम्, तद्यदा नानुष्टीयते तदा दुरितक्षयो न भवेदिति प्रतिदिनमनुष्ठानम्।। एवं प्रधानसंस्कारकाणां पुनःप्रवर्तकत्वमिति।। व्याकरणस्मृतेश्च वाच्यवृत्त्या लक्ष्यसंस्कारकत्वेनावान्तरसंस्कारकतया पुनःपुनराधानादिवदप्रवृत्तौ तच्छेषभूतस्य प्रयोगविधेरपि तदनुसारितया तत्तच्छास्त्रविषयस्य प्रयोगस्य यस्य कस्य चिदेकैकस्य प्रयोगविधिविषयत्वमितरेषां च तथाविधानां तदभाव इत्यनिष्टप्रसक्तौ तत्तल्लक्ष्यविषयकलक्षणोपप्लवेन यावल्लक्ष्यसंस्कारकत्वेन तत्तच्छस्त्रविषयाणां सर्वेषामपि लक्ष्याणां प्रयोगविधिविषयत्वज्ञापकतया सार्थकमेकग्रहणमिति कथं प्रत्याख्यानमित्याशङ्काभिप्रायः।। ततस्सिद्धान्तितमिति।। अयं भावः।। इह च शास्त्रतात्पर्यविषयः प्रयोगविधिः प्रथानभूतो नित्यकाम्यः, तस्य च प्रत्यवायपरिहाराय फलाय च वाक्योपप्लवेन पुनःपुनः प्रवृत्तिस्सवाभाविकी।। तदनुसारी च लक्ष्यसंस्कारस्तदङ्गत्वात्, अतो व्यर्थमेकग्रहणमिति।। ननु कथमस्य नित्यकाम्यत्वमत आह।। प्रत्यवायश्रवणादिति।। न म्लेच्छित वै नापभाषित वै म्लेच्छोह वा एष यदपशब्द इति वाजसनेये पठ्यंते, तत्र न म्लेच्छित वा इत्यस्य नापभाषित वा इति विवरणं, नापभाषितव्यमिति तदर्थः।। इत्थं च सुरापानादिवद्वेदनिषिद्धत्वादपशब्दोच्चारणं प्रत्यवायोत्पादकमिति तात्पर्यम्।। नित्यसमत्वमिति।। न केवलं नित्यत्वं नित्यकाम्यत्वादिति भावः।। काम्यत्वं चेति।। ततश्चायं प्रयोगविधिर्न केवलं संध्योपासनादिवच्छुद्धनित्यो नापि कारीर्यादिवत्केवलकाम्यः, किन्तु ज्योतिष्टोमादिवन्नित्यकाम्यत्वोपहित इत्यर्थः।। शुद्धसंस्कारकत्वमिति।। गुणीभूतसंस्कारकत्वमित्यर्थः।। ननु प्रयोगैक्येपि लक्ष्यभेदे लक्षणोपप्लवेन लक्ष्यसंस्कारकाणां पृथग्विधेयसमर्पकता दृश्यते, यथा भवेतामेधेयातामित्यादौ लिङस्सलोपोऽनन्त्यस्येत्यस्य लक्षणभेदेन सकारद्वयनिवर्तकता। एवं च स्वट्वेन्द्र इत्यादावपि पूर्वपरयोः पृथग्लक्षणोपप्लवेन गुणादिकार्यप्रवृत्तिर्दुर्वारेति चेत्सत्यम्; लक्ष्यभेदे लक्षणभेदः, द्वन्द्वनिर्देशबलात् प्रकृते साहित्यस्य लक्ष्यतावच्छेदकत्वात्पूर्वपरोभयसंघात एकं लक्ष्यम्।। यत्र सहविवक्षाविषये प्रतीयमानस्य साहित्यस्य लक्ष्यतावच्छेदकत्वे तुह्योस्तातङस्थिदधीत्यादौ आदेशानां स्थानिसदेशत्वविरोधस्तत्र भवतु साहित्यस्योपलक्षणता प्रत्येकवृत्तिधर्माणां च लक्ष्यतावच्छेदकता, अन्यत्र तथा स्वीकारे मानाभावः।। ततश्च लक्ष्यभेदाभावाल्लक्षणभेदाभावस्संस्कारकशास्त्राणाम्।। न ह्येकस्मित् लक्ष्ये लक्षणभेदेन तेषामसक्ृत्प्रवृत्तिर्भवति, लक्ष्ये लक्षणस्येतिन्यायविरोधात्, या पूर्वपरयोरपि पृथग्विधेयलाभमापादयेदतो व्यर्थमेवैकग्रहणमिति सिद्धान्तिनो भाष्यकारस्याशयः, तदाह।। नावृत्तिरिति। पूर्वपक्षसिद्धान्तयोरिति।। मालेन्द्रादिप्रयोगो न स्यादित्यनेन लक्षणस्यावृत्तेरनभ्युपगमात्पूर्वपक्षिणोप्यभीष्ट एवायं न्याय इति निष्कर्षः।। संप्रसाराणाच्चेति सूत्रे भाष्ये इति।। तत्र हि शकह्वर्थमित्यादौ संप्रसाराणाच्चेति पूर्वरूपवारणार्थमारब्धस्य संप्रसारणपूर्वत्वे समानाङ्गग्रहणमिति वार्तिकमनेन न्यायेन प्रत्याख्यातमित्याशयः।।
अप्रवृत्तेत्यादि।। तिङतिङ इति निधातोत्तरमप्युद्देश्यतावच्छेदकाक्रान्तत्वेन तिङन्तस्य निहतस्य परिनिष्ठितत्वं न स्यादित्यप्रवृत्तत्वम्।। षिधूप्रभृतीनां वैकल्पिकेट्कानामिडागमाभावे सेद्धेत्यादेः परिनिष्ठितत्वं न स्यादिति नित्यत्वं च विधिविशेषणमिति द्रष्टव्यम्।। मर्यादाभङ्गापत्तेरिति।। नव रूपाणीति नियमतस्त्रित्वाधिकसंख्याविशिष्टधकारादिघटितदशमादिरूपव्यवच्छेदः खल्वभीष्टः।। स च पञ्चमादिरूपोपपत्तये द्वित्वानामसकृत्प्रवृत्तिमभ्युपगच्छतस्तस्य कथं न भज्येतेत्याशयः।। नन्वानन्त्यापत्तिप्रयुक्तः परिनिष्ठितत्वाभावः प्रकृतन्यायबीजं, प्रकृते च द्वित्वस्य वैकल्पिकतया यत्‌किंचिद्‌द्वित्वघटितस्य पाक्षिकस्य परिनिष्ठितत्वसंभवात्कथं न्यायप्रवृत्तिरत आह।। एतन्न्यायबीजमिति तु न युक्तमिति।। पुनर्वृद्धिर्नेति।। सिचि वृद्धिरित्यनेन तु न तत्प्रवृत्तिः ढलोपस्यासिद्धत्वादिति बोध्यम्। तत्राभावादिति।। यद्यपि पुनः पुनर्वृद्धिप्रवृत्तौ तत्राप्यस्त्येवानन्त्यापत्तिस्तथापि फलाभावेन वृद्धेरोकारस्य प्रवृत्त्युत्तरं पुनरप्रवृत्तिरिति नास्त्यानन्त्यापत्तिरिति भावः।। नन्वेवमपि सुद्ध्युपास्य इत्यत्र द्वित्वोत्तरं प्राथमिकधकारस्य पूर्वत्रासिद्धीयमद्विर्वचन इतिन्यायेन जश्त्वे कृते लक्ष्यभेदात्पुनर्द्वित्वे रूपद्वयाधिक्यामपरिहार्यमिति चेत्तत्राह।। एतद्भाष्यप्रामाण्यादिति।। विकार आदेशः।। न लक्ष्यभेदाश्रयणमिति।। किंतु तल्लक्ष्यमेवेत्यर्थः।। तल्लक्ष्यत्वं च स्वप्रथमप्राप्तावृद्देश्यत्वेन गृहीतसमुदायघटकवर्णविधीयमानैतदुभयव्यतिरिक्ताघटितत्वे सति, स्वप्रथमप्राप्तिकालिकप्राप्तियोग्यताराहित्यम्।। एधेतेत्यादौ सार्वधातुकलिङ्‌प्रत्ययावयवयोर्द्वयोस्सकारयोरेकस्य लोपे द्वितीयस्य तल्लक्ष्यत्वेन लोपो न स्यादिति विशेष्यदलम्।। राजपुरुष इत्यादौ समासान्तोदात्ते कृते पदान्तरेण समासे परमराजपुरुष इत्यादौ पुनस्समासान्तोदात्तत्वं तल्लक्ष्यत्वेन न स्यादिति सत्यन्तं विशेषणदलम्।। उदवोढामित्यादावादेशघटितस्य तल्लक्ष्यत्वेनोक्तन्यायविषयतासंपत्तये विशेषणदले विधीयमानव्यतिरिक्तत्वम्।। सर्वत्रैव विधीयमानातिरिक्तोद्देशयतावच्छेदकीभूतानुपूर्वीघटकवर्णघटितत्वादसंभव इति प्रथमप्राप्तावुद्देश्यत्वेन गृहीतसमुदायघटकवर्णव्यतिरिक्तत्वं तत्रेत्यादि स्वयमूह्मम्।। तद्वैयर्थ्यमिति।। न च सूत्रकारो वार्तिकं न जानातीति कथं वैयर्थ्यमिति वाच्यम्।। सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्तिक इत्यभियुक्तव्यवहारबलेन वार्तिकस्यापि सूत्रकारतात्पर्यविषयत्वावगत्या वैयर्थ्यस्य सुवचत्वेन ज्ञापनोपपत्तेः।। यत्तु इरयोरे इति सूत्रस्थं द्विवचनमेतन्न्यायज्ञापकं, तद्धि दध्र इत्यादौ क्रादिनियमादिरेचो रेभावस्येडागमे पुनश्च रेभावार्थम्।। न्यायानभ्युपगमे द्विवचनमन्तरैव रेभावस्य पुनःप्रवृत्तेरानन्त्यापत्तिवशात्पुनरिडागमाप्रवृत्तेश्च रूपसिद्धौ तद्वैयर्थ्यं स्पष्टमेव।। न च विधानसामर्थ्यादेव रेभावोत्तरमिढागमाप्रवृत्त्या ज्ञापितेपि चारितार्थ्याभाव इति वाच्यम्।। क्रादिसूत्रगृहीतेषु स्वत एवेडागमाप्रवृत्त्या रेभावस्य चारितार्थ्येन सामर्थ्यायोगादतो युक्तमेव द्विवचनस्य ज्ञापकत्वमिति वदन्ति, तन्निराकर्तुमाह।। इरयोर इत्यादि।। उद्देश्यत्वाप्राप्त्येति।। सतो हि कार्यिणः कार्येण भवितव्यमिति वृद्धिसूत्रस्थभाष्यबलात्सिद्धस्योद्देशयत्वं साध्यस्य च विधेयत्वमिति तु निर्विवादम्।। न चायं रेभाव इडागमविशिष्टस्तच्छस्त्रीयवाक्यार्थबोधकाले सिद्धः।। ततो नास्ति तस्योद्देशयताप्रसक्तिरतो वाक्यभेदादेकेन विहितस्यापरेणोद्देशयत्वमिति बोधनाय द्विवचनमावश्यकम्।। यद्वा द्विवचनाभवे प्रथममिरेचो रेभावे तस्येडागमे पुनश्च रेभावे तस्येडागमो न भवत्यानन्त्यापत्तेरानन्त्यापत्तौ हि शास्त्राणि न प्रवर्तन्ते व्यवस्थाकारिणा शास्त्रेण भवितव्यमिति तत्र तत्राकारे निरूपितत्वादित्यवश्यमभ्युपेयम्। तथा च `अन्ते रण्डाविवाहश्चेदा दावेत कुतो न स' इति प्रथममिरेचो रेभाव एव न स्यात् ।। शास्त्रं तु चक्र इत्यादौ चरितार्थमेव। द्विवचने तुइरेचस्तत्स्थानिकस्येडागमविशिष्टरेभावस्य च रेभावे पुनरिडागमो न भवत्यानन्त्यापत्तेरित्यभीष्टं सिद्ध्यतीत्यावश्यकं द्विवचनम्।. अथवा रेभावस्येडागमो लाक्षणिकत्वादिरेग्रहणेन ग्रहणायोगादावश्यकं द्विवचनमित्याशयः।. एतेनेत्यस्य विकारकृतलक्ष्यभेदानाश्रयणेनेत्यर्थः।। इत्थं च विकारान्यानुपूर्वीप्रयुक्त एव भेदः प्रकृतन्यायप्रवृत्तिविरोधी स चेह दुर्निरूप इत्युपसंहरति।। विकारान्येति।। इति दिगिति।। दिगर्भस्तु सिचि वृद्धिरितिसूत्रस्थभाष्यप्रामाण्यात् तत्स्थानिकविकारविशिष्टस्य तल्लक्ष्यत्वेपि तस्य तदन्यस्य च स्थाने यो विकारस्तद्विशिष्टस्यापि तल्लक्ष्यत्वे मानाभावः।। यदि च शकह्वर्थमित्यादावनेन न्यायेन पूर्वनिष्पन्नस्योकारादेः पुनरन्येन पूर्वरूपं नेति संप्रसारणच्चेति सूत्रस्थभाष्यप्रामाण्यादेवंविधिस्यापि तल्लक्ष्यत्वमभ्युपेयते, तदा चिकीर्षन्तीत्यादौ शबकारेण पररूपोत्तरमन्यकारेण तन्न स्यात्। तस्मात् ऊकालोजिति निर्देशादनित्यत्वेन क्वचिन्न्यायाप्रवृत्त्या सकलेष्टसिद्धिरिति नव्यानां निष्कर्ष इति।।
आष्टमिकद्वित्वमिति।। वर्णद्वित्वं वदद्वित्वं चेत्यर्थः।। अभ्यासप्रतिषेधानर्थक्यमिति।। नोनावेत्यत्र सन्यङोरिति द्वित्वोत्तरं लिटि धातोरिति द्वित्वं झन्दसि सर्वविधीनां वैकल्पिकत्वान्न भवति।। लोके तु तथाविधादाम्प्रत्यय एव मन्त्रत्वाच्च नायमाम् प्रत्ययविषयः।। कृष्णो नोनाव वृषभोयदीदमिति हि मन्त्रकाण्डे पठ्यते।। पिपठिषतीत्यादौ पुनःपुनरेकेनैव लक्षणेन द्वित्वप्रवृत्तिस्तूक्तन्यायेन वार्यते, ततो व्यर्थमनभ्यासग्रहणमिति प्रत्याख्यातुरशयः।। ननु पिपठिषतीत्यादौ पिशब्दादेस्तल्लक्ष्यत्वेऽपि उत्तरखण्डीयव्यञ्जनान्तरोपहितस्यपिप् इत्यादेर्विकारान्यानुपूर्वीघटितताया तल्लक्ष्यत्वे मानाभावेन प्रसक्तस्य द्वित्वस्य व्यावृत्तये आवश्यकत्वात्कथमभयासग्रहणस्य प्रत्याख्यानामत आह।। एकस्यैकाच इत्यादि।। अचो द्विरुक्तत्वादिति ।। यत्र तल्लक्ष्यस्य कार्यानुभवस्तत्र तद्दटितस्यापि तल्लक्ष्यात्वम्, अत एव शकह्वर्थमित्यादावनेन न्यायेन संप्रसारणस्थानिकस्य पूर्वरूपस्य वर्णान्तरेण सह पूर्वरूपं नेत्युपपादितं भाष्ये, ततोत्र न किचिद्वैलक्षण्यमिति भावः।। सूत्रमतेऽप्यनभ्यासस्येत्यस्य न विद्यते अभ्यासो यस्येत्यर्थकस्य धातुविशेषणत्वाददोषः।।
आहुरिति।। केचित्तु लिटि धातोरित्यत्रानभ्यासग्रहणमनावश्यकमुत्तरत्र सन्यङोरित्यादौ च तदावश्यकमेवेत्येवं कैयटाद्युत्प्रेक्षितमेव प्रत्याख्यातृभाष्यकृत्तात्पर्यं युक्तम्।। अत एव छन्दसि वा वचनादिति परिहारस्य नोनावेत्यत्र यङन्तप्रकृतिकलिडन्ते लिटि घातोरित्यस्याप्रवृत्तिरेव प्रयोजनत्वेनोपदर्शिता भाष्ये, न तु सोषुप्यतेः सोषुपिषत इत्यत्र यङन्तप्रकृतिकसन्नन्ते सन्यङोरित्यस्याप्रवृत्तिः।। प्रत्याख्यानस्य प्रकरणमात्रविषयकत्वे सोषुपिषत इति प्रयोगस्य छान्दसत्वे च इयमेव तत्प्रयोजनत्वेनोपदर्शिता स्यात्।। किञ्च अनभिधानब्रह्मास्त्रमाश्रित्य प्रत्याख्यानस्य प्रकरणमात्रपरत्वकल्पनापेक्षया तत्रत्योपक्रमोपसंहारस्वारस्येन तस्य सङ्कोचकल्पनैव न्याय्यत्वेन प्रतीयते।। अत एव सन्यत इति सूत्रस्थं तपरकरणं संगच्छते।। तद्धि यङन्तात्सनि पापचिषत इत्यादावभ्यासीयदीर्घाकारस्येत्त्ववारणाय कृतद्वित्वप्रकृतिकद्वित्वोपपादकप्रत्ययान्तानामनभिधाने च तदसंगतिरेव।। न च प्रत्यासत्त्या सन्प्रत्ययनिमित्तकद्वित्वप्रयुक्ताभ्याससंबन्ध्यकारस्येत्त्वमित्यर्थान्नैतादृशेषु तत्प्रवृत्तिरिति वाच्यम्।. तथासति प्रतीषिषतीत्यादौ नहि कार्यी निमित्तत्वेनाश्रीयत इति न्यायेन द्वित्वस्य सन्प्रत्ययनिमित्तकत्वाभावादित्त्वानापत्तेः।। न च सन्प्रत्ययपरकस्याभ्यासस्येत्त्वमित्यर्थे प्रतीषिषतीत्यादावव्यवहितस्य तस्य संभवात् पिपठिषतीत्यादौ तदनापत्त्या सन इत्येव सन्रूपाभ्यासस्येत्त्वमित्यर्थेन सिद्धे सन्यत इति गुरुनिर्देशेन द्वित्वप्रयोजकातिरिक्तकृतव्यवधानेपि तस्य प्रवृत्तिरित्यर्थस्य कल्पनया पापचिषत इत्यादौ यङोऽल्लौपस्य स्थानिवद्भावेन द्वित्वप्रयोजकव्यवधानान्नास्ति तत्प्रवृत्तिरिति वाच्यम्।। निर्दिष्टपरिभाषाधीनस्याव्यवहितत्वांशस्य बाधापूर्वकं व्यवधानेऽपि प्रवृत्तिरित्यर्थस्य कल्पनेनोपपत्तौ व्यवधायकविशेषविवक्षायां प्रमाणाभावात्।. न चैवमभ्यासस्येत्यस्य चिच्छादयिषतीत्यादौ तुगागमोत्तरमित्त्वसिद्ध्यर्थमावश्यकेन वैयधिकरण्येन जञ्जपिषतीत्यादावपि तदापत्तिरिति वाच्यम्।। इत्त्वविरहितप्रामाणिकप्रयोगस्यानुपलम्भेन तत्प्रवृत्तेरभीष्टत्वे बाधकाभावात्।। तदेतदाहुरित्यनेन सूचिताया अरुचेर्निदानमिति वदन्ति।।
यर्त्वावच्छिन्नमिति।। लक्ष्यतावच्छेदकीभूतयर्त्वोपहितासु सकलव्यक्तिषु प्रत्येकं लक्ष्यताविश्रान्तिरिति तदर्थः।। स्थाने जातस्येति।। संप्रसारणस्थानिकपूर्वरूपस्थाने जातस्य हल इति दीर्घस्येत्यर्थः।। पूर्वरूपादेरिति।। अत्रादिग्रहणप्रयोजनं मृग्यम्। साक्षात्संप्रसारणस्थानिकस्य पूर्वरूपातिरिक्तस्य दीर्घस्थानिनः प्रसिद्धिविरहात्।। आरम्भसामर्थ्यादिति।। संप्रसारणस्थानिकमात्रस्थानिककार्यप्रयोजकस्थानिवद्भावप्रयोज्यसंप्रसारणत्वस्यानल्विधाविति प्रतिषेधो न प्रतिबन्धकः।। यद्वा संप्रसारणस्थानिकस्य स्थानिवद्भावेन संप्रसारणत्वमाश्रित्य तस्यान्यस्य वा पूर्वरूपातिरिक्तकार्यकर्तव्यतायामनल्विधाविति निषेधो न प्रवर्तते।। अथवा संप्रसारणस्थानिकस्य तत्स्थानिकस्य वा स्थानिवद्भावेन संप्रसारणत्वमादाय पूर्वरूपातिरिक्ते यत्‌किंचित्‌कार्ये कर्तव्ये नास्त्यनल्विधाविति प्रतिषेध इत्येवमनेकधात्र ज्ञाप्यांशः।। तत्राद्ये शकहूरित्यादौ संप्रसारणस्थानिकस्य पूर्वरूपस्य स्थानिवद्भावेन संप्रसारणतया हल इति दीर्घः।। द्वितीये यून इत्यादौ संप्रसारणस्थानिकपूर्वरूपे संप्रसारणत्वातिदेशेन न संप्रसारण इति निषेधसिद्धेर्निषेधारम्भसामर्थ्यानुसरणं निष्फलम्।। तृतीये संप्रसारणस्थानिकपूर्वरूपस्थानिकस्योरदत्त्वस्य स्थानिवत्त्वेन संप्रसारणत्वस्य सुवचतया वव्रश्चेत्यादौ वस्य संप्रसारणनिषेधो निर्बाध इत्यचः परस्मिन्निति स्थानिवद्भावानुसरणप्रयासो नापेक्ष्यत इत्याहुः।। अत्रोक्तरीत्याशकह्वर्थमित्यादौ पूर्वरूपवारणंयुक्तम्।। दीर्घारम्भबलेन सामान्यतस्संप्रसारणत्वातिदेशे स्थानिवत्त्वनिषेधाप्रवृत्तिकल्पनया संप्रसाराणपूर्वत्वे समानाङ्गग्रहणमिति वार्तिकारम्भे च यजेर्लिटि ईजतुरित्यादौ पूर्वरूपं दुर्वारं, समानाङ्गत्वं हि संप्रसारणप्रयोजकप्रत्ययनिरूपिताङ्गत्वानवरुद्धसमुदायघटकवर्णाघटितत्वमितिबोध्यम्।। सवर्णा न सन्तीति।। यरोनुनासिक इत्यत्रापि सवर्णग्रहणापकर्षणादनुनासिकपरसवर्णयोर्द्वयोरप्ययं परिहारः।। अन्यथा नेमौ रहाविति भाष्यबोधितरेफगतद्वित्वकार्यित्वमात्रबाधकत्वाभावे। विशेषशब्दबोधितेनेत्यस्य व्याप्यधर्मबोधकशब्दबोधितेनेत्यर्थः।। सामान्यत एवेति।। यद्यप्यपवाद उत्सर्गस्य स्वविषये निवर्तको न तु स्वविषयदन्यत्र, मानाभावात्।। निरवकाशत्वमेव हि तन्मानम्।। ततश्च हर्यनुभाव इत्यादौ यत्र रेफस्य निमित्तता भावतु तत्र कार्यित्वस्य निवृत्तिः, धात्रंश इत्यादौ च तदप्राप्त्या कार्यित्वनिवृत्तेरयोगः, तथापि मद्रह्रद इत्यादौ निमित्तत्वाप्राप्तविषये कार्यित्वनिवर्तनपरभाष्यप्रामाण्याद्रहाभ्यामित्यस्य जातिपरत्वाभ्युपगमेन रत्वजातेस्सर्वत्र निरवकाशेन निमित्तत्वेन द्वित्वकार्यित्वं भाध्यत इत्याशयः।। ननु जातिपक्षे निरवकाशयणादेशकार्यित्वोपहिताया एवेक्त्वजातेस्सुद्ध्युपास्य इत्याद्युकारादौ सामान्यभूतनिमित्तत्वाक्रान्ताच्त्वजात्याश्रयेऽपि सुवचतया संभवेत्कार्यित्वेन निमित्तत्वबाधः, व्यक्तिपक्षे तु यस्यां व्यक्तौ निमित्तत्वं तत्र कार्यित्वाप्राप्त्या कथं निमित्तत्वनिवृत्तिः, व्यवस्थितौ चेमौ पक्षावतो निर्देशाश्रयणं निष्फलमित्याशङ्क्याह।। इदं चेति।। निर्देंशेन निमित्तत्वाभावकल्पनं चेत्यर्थः।। संग्राहकवाक्ये इति।। लक्ष्यसंस्कारकमहावाक्ये निरवकाशेन स्थानित्वेन इकारादीनां निमित्तत्वबाधे तदनुरोधेन तत्तल्लक्ष्यविषयकतया कल्पितेषु लक्षणेषु कथं तेषां निमित्तत्वं स्यादित्याशयः।। चारितार्थ्यादिति।। नहि रेफस्य निमित्तत्ववदिकः स्थानित्वं निरवकाशमिति भावः।। तदप्राप्तेयोग्येति।। तच्चोत्सर्गाप्राप्तिविषयस्वप्रथमप्राप्तिकालिकप्राप्तियोग्यलक्ष्यशून्यत्वं, तेनोत्सर्गप्रवृत्त्युत्तरं चारितार्थ्येपि न क्षतिः।। सर्वथा निरवकाशत्वमेव तु नापवादस्य बाधकताप्रयोजकम्। तक्रकौण्डिन्यन्यायोपपादनपरभाष्यस्वारस्यभङ्गापत्तेरितिध्येयम्।। न हि निमित्तवदिति।। निमित्तानि वर्णास्ते चाक्षरसमाम्नायाल्लोकतो वा निर्ज्ञातुं शक्याः लोके दण्डादेर्घटादिकं प्रति निमित्तत्वमन्वयव्यतिरेकाभ्यामवगम्यते, शास्त्रे तु तदसंभवादपूर्वबोध्यं निमित्तत्वमिति परमार्थः।। इति दिगिति।।
अत्र केचित्।। रेफस्य द्वित्वनिमित्तत्वेन कार्यित्वं बाध्यत इत्ययुक्तं, हर्यनुभाव इत्यादौ रेफस्यानचीति द्वित्वाविधेर्वैकल्पिकतया पक्षे तदीयकार्यित्वाभावे निमित्तत्वस्य चारितार्थ्यात्।। न च पाक्षिकीं नाप्राप्तिमाश्रित्य निमित्तत्वास्य निरवकाशत्वमिति वाच्यम्।। कपो वैकल्पिकत्वेन पक्षे सावकाशतया विशेषविहितानां समासान्तानां नापवादत्वमिति शेषाद्विभाषेति सूत्रस्थभाष्यासांगत्यप्रसङ्गात्।। पादोऽन्यतरस्यामिति ङीपो वैकल्पिकतया पक्षे सावकाशस्य टाबृचीत्यस्य नापवादत्वमिति स्त्रीप्रत्ययप्रकरणस्थशेखरविरोधाच्च।। किंच शास्त्रेण शब्दतः प्रतिपाद्यते कार्यित्वं, निमित्तत्वं तु तद्भावभावित्वेन पार्ष्णिकमनुमीयते, ततश्चान्तरङ्गस्य कार्यित्वस्य कथं बहिरङ्गेणा निमित्तत्वेन बाधः।। न चोपजनिष्यमाणन्यायेन भविष्यत्कालिकबुद्धिगोचरेणापि निमित्तत्वेन कार्यित्वबाध इति वाच्यम्।. अपवादत्वनिर्णयाभावात्।। किं चोक्तन्यायेन घटे गुणवत्तया ज्ञातस्य द्रव्यत्वस्य कम्बुग्रीवादिमत्तया ज्ञातेन घटत्वेन बाधापत्तौ घटो न द्रव्यमित्यापत्तेः, तस्मादनचीत्यत्र रहाभ्यामित्यानुवर्त्य नादिजीत्यतो नेत्यपकृष्य षष्ठ्या विपरिणम्य रहयोर्द्वित्वं नेति व्याख्येयमिति भाष्यतात्पर्यम्।। तत्र रेफांशे द्वित्वस्यापूर्वो निषेधो, हकारांशे त्वनुवादः।। अत एव नेमौ रहौ कार्यिणाविति भाष्यं स्वरसत उपपद्यते।। अन्यथा हकारस्य केनापि द्वित्वबोधकशास्त्रेण कार्यित्वस्याप्राप्ततया बाधानौचित्येन नायं रेफः कार्यीत्येव ब्रूयादिति वदन्ति।।
लणुसूत्रस्थभाष्यविरोधेनेति।। तत्र हि भाष्ये ``अनुनासिकविधावण्‌ग्रहणं पूर्वेण न परेण नहि पदान्ताः परेऽणस्सन्ती ति सिद्धान्त्युक्तिः, तदुत्तरमाशयानभिज्ञस्यैकदेशिनो `ननु चायमस्ति कर्तृ हर्तृ, इत्याक्षेपे' ``एवं तर्हि सामार्थ्यात् पूर्वेंण न परेण यदि हि पूर्वेण न स्यात् अण्‌ग्रहणमनर्थकं स्यात्।। अचोऽप्रगृह्यस्यानुनासिक इत्येव ब्रूयात्।। अथवा एतदपि न ब्रूयात्।। अच एव हि प्रगृह्या भवन्ती ति सिद्धान्ती स्वाभिप्रायमाविश्चकार।। ततश्च पदान्ता हलोऽणो न सन्तीति स्पष्टमेव प्रतीयत इति लाकृतिरिति प्रयोगे लृकारस्थानिकपदान्तलकारसद्भावात्तद्विरोध इति भावः।। नन्वेवं सुद्ध्युपास्यो मध्वरिरित्यादावपि यकारवकारयोः पदान्तत्वाविशेषादनभिधानप्रसक्त्या दध्यत्रेत्याष्टमिकभाष्यप्रयोगासङ्गत्या चानुनासिकप्रवृत्तियोग्यानामावसानिकानां तेषामनभिधानमित्यर्थस्यावश्यकतया कथमस्य भाष्यविरुद्धत्वमिति चेत्तर्हि लृकारस्य स्वरूपबोधकस्य प्रकृतसमासानुरोधेन विभक्त्यन्तस्य प्रयोगाभ्युपगमे वृथक् प्रयोगदशायां षष्ठीपञ्चम्येकवचनयोस्समभिव्याहारे ऋत उदित्युत्त्वे लपरत्वे चानुनासिकप्रवृत्तियोग्य आवसानिको लकारस्संभवतीति भाष्यविरोधस्स्यादतो विभाक्त्यन्ततया लृकारस्याप्रयोगो न्याय्य इत्याशयाददोषः।।
केचितु यादृशविभक्त्यन्तत्वेन प्रयोगे लृकारस्य भाष्यविरोधस्तदंशे प्रयोगाभावकल्पनेष्यन्यत्र तदभावकल्पने मानाभावः।। प्रकृते च लाकृतिरिति बहुव्रीहिः प्रथमान्तश्च, तत्र लृकार इति युक्त एवायं प्रयोगः।। तथा च आकुञ्चितैकशरणो हस्ताभ्यां कुतुकमुद्वहन् व्रजस्त्रीणाम्। यश्चरति नन्दभावने लाकृतिरवने सनोस्तु भुवनपतिरिति केषांचित् श्लोकोप्युपपद्यत इत्याहुः।।
नकाररहितः पाठ इति।। अत्र पाठे आङ्पूर्वादस्मादिगुपधात्किदित्यौणादिक इन् ।। वाचनिकत्वमिति।। वाचनिकीयं परिभाषा भाष्यकारेणोपदर्शिता न तु कात्यायनोक्तं वचनं, तद्धि वक्तव्यमित्यादिशब्दचिह्नितमित्याश्यः।। यत्तु रथवदयोश्चेति सूत्रमस्यां परिभाषायां ज्ञापकम्।। अन्यथा कोः कत्त्त्पुरुषेऽचीत्यजन्ते विधीयमानस्य कदादेशस्य स्वत एव सिद्धौ तदसङ्गतिरेवेति तन्न।। रथवदशब्दाभ्यामाचक्षाणणिजन्ताभ्यां क्विप्येकदेशविकृतन्यायेन रथादिशब्दात्मके हलन्ते कदादेशाय तत्सार्थक्यात्।। न च स्थानिवद्भावेनाजन्तत्वमिति वाच्यम्।। रथेनाटति रथाट्, एवं वदेनाटति वदाट्, आभ्यामाचक्षाणण्यन्ताभ्यां क्विपि णिलोपटिलोपयोर्हलन्ते तदादेशस्य प्रकारान्तरेण साधयितुमशक्यत्वादित्याहुः।।
तत्रैवास्या इति।। यत्र रूपवैजात्यप्रयुक्तः प्रयोगस्यानियमस्तत्रैकविधप्रयोगस्य कस्य चित् साधुत्वसंपादनाय परिभाषाप्रवृत्तिराश्रयितव्या, परिभाषाणामनियमे नियमकारिणीत्वात्।। इह तु पूर्वं पस्चाद्वा जश्त्वे प्रयोगस्यैकविधस्यैव संपत्तेरनियमाभावान्नास्ति परिभाषाप्रवृत्तिरित्याशयः, तदाह।। परिभाषात्वेनेति।. ननु शास्त्रप्रक्रियास्मरणपूर्वकप्रयोग एव धर्मोत्पत्त्या स्मर्यमाणप्रक्रियाक्रमवैजात्यप्रयुक्तः प्रयोगानियमः प्रकृतेप्यक्षतः।। किं च जश्त्वोत्तरं द्वित्वे सकृदेव जश्त्वप्रवृत्तिरिति लाघवं, द्वित्वोत्तरं जश्त्वे तु द्विवारं जश्त्वशास्त्रप्रवृत्तिरिति गौरवमतो लाघवसंपत्तये परिभाषाप्रवृत्तिराश्रयितुं युक्ता, अनियमे नियमकारिणी परिभाषेति च प्रायोवादः।। उभयगतिरिह भवतीत्यस्य कृत्रिमाकृत्रिमन्यायेन नियतविषयेऽपि प्रवृत्तिदर्शनात्।. तस्मादृधेर्धस्येति प्रकृतपरिभाषाया अप्रवृत्त्यभिप्रायको मूलग्रन्थश्चिन्त्य एवेत्यत आह।। यद्वेति।।
सूत्रशेषे चेति।। तत्र हि भाष्ये यवलानामण्‌ग्रहणेन ग्रहणे प्रयोजनोपपादनावसरे संय्यन्तेत्यादौ परसवर्णस्यानुस्वारस्थानिकस्यानुनासिकस्य यकारादेर्ग्राहकशास्त्रबलाद्यर्ग्रहणेन ग्रहाणाद्‌द्विर्वचनप्रवृत्तौ यकारत्रयादिघटितप्रयोगसिद्धिः प्रयोजनमित्युत्तवा नास्ति भेदः सत्यपि द्विर्वचने द्वियकारकमेव, कथं, हलो यमां यमि लोप इत्येवमेकस्य लोपेन भवितव्यमित्येकदेशिन आक्षेपस्य सिद्धान्तिना ``एवमपि भेदः सति द्विर्वचने कदाचिद्‌द्वियकारकं कदाचित्त्रियकारकम् असति द्विर्वचने द्वियकारकमेव स एष कथं भेदो न स्यात्।। यदि नित्यो लोपस्स्यात् विभाषा च स लोप इति परिहारः प्रदर्शितः।। एतेन हलो यमामित्यत्र विभाषानुवृत्तिस्स्पष्टमेवाभिहिता। नाज्झलाविति सूत्रस्थे भाष्ये तु परश्शतानीत्यत्र पारस्कारादित्वप्रयुक्तसुट्‌स्थानिकश्चुत्वनिष्पन्नशवर्णस्यानचीति द्वित्वोत्तरं झरो झरीति लोपकृतद्विशकारकरूपसिद्धिप्रयोजकसवर्णसंज्ञोपपत्त्यर्थमारब्धस्याज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्त्वात् सिद्धमनच्त्वाद्वाक्यापरिसमाप्तेर्वेति वार्तिकस्य व्याख्याने स्वाराणा मूष्मणां च प्रयत्नभेदात्सावर्ण्याभावेनेकारस्य शकारग्राहकत्वाद्वाक्यापरिसमाप्त्या ग्राहकशास्त्रस्य नाज्झलावित्यत्राप्रवृत्तेश्च शकारस्याच्त्वाभाव इत्येवं विभिन्नहेतुकपक्षमुपपाद्य वाक्यापरिसमाप्तिहेतुकादनच्त्वादित्येकहेतुकपक्षप्रतिपादनावसरे वाग्रहणस्य प्रयोजनसमर्थनायोक्तम्।। ``माभूल्लोपः, ननु च भेदो भवति सति लोपे द्विशकारकमसति लोपे त्रिशकारकं नास्ति बेदः असत्यपि लोपे द्विशकारकमेव, कथं विभाषा द्विर्वचनम्, एवमपि बेदः असति लोपे कदाचित्‌द्विशकारकं कदाचित्त्रिशकारकं सति लोपे द्विशकारकमेव, स एष कथं भेदो न स्याद्यदि नित्यो लोपस्स्यात् विभाषा तु स लोप इति। तेन झरो झरीत्यत्र विभाषानुवृत्तिस्स्पष्टमुक्तेत्यत्र मूलव्याख्यानकृतोराशयः।। अण्‌ग्रहणमिति।. तद्धि संय्यन्तेत्यादौ परसवर्णनिष्पन्नानुनासिकयकारादेर्यर्त्वेंन द्वित्वे त्रियकारादिरूपस्द्ध्यर्थं, हलो यमामिति लोपस्य नित्यत्वे तद्वैयर्थ्यं स्पष्टमेवेति भावः।। विशेषापेक्षत्वे इति।। कमलशब्दप्रकृतिकादाचक्षाणणिजन्तात् क्विपि निष्पन्नस्यानुनासिकयोगे कमल्नयतीत्यादौ यरोनुनासिक इत्यनुनासिके लकारे यर्त्वेन तस्य ग्रहणे द्वित्वेन द्विलकारकरूपसंपत्त्यर्थमण्ग्रहणस्य सार्थक्यकल्पनायां चेत्यपि बोध्यम्।।
सिद्धं कृत्वेति।। इदन्तु चिन्त्यम्।। उक्तरीत्या ग्राहकसूत्रस्थस्याण् ग्रहणस्य विकल्पानुवृत्तिज्ञापकत्वायोगात्।। न च न हि पदान्ताः परेऽणस्सन्तीतिलण् सूत्रस्थभाष्यप्रामाण्येन पदान्तलकारवतामनभिधानान्नास्ति जारितार्थ्यसंभव इति वाच्यम्।. उपक्रमोपसंहारस्वारस्येन तद्भाष्यबलादावसानिकानुनासिकप्रवृत्तिविषयाणां तेषामनभिधानेप्यन्येषां तथात्वे मानाभावात्। अन्यथा तल्लुनातीत्यादौ तथाविधलकारादिमतामुपलम्भात्तदसांगत्यमेव स्यात्।। संयोगान्तलोपे यणः प्रतिषेधो वाच्य इति वार्तिकमप्यसंबद्धं स्यात्।। अत एव लण्‌ सूत्रशेषे भाष्ये प्रकृत सूत्रद्वयेऽपि विकल्पानुवृत्तौ कैश्चिदुद्भावितस्य शरोऽचीति ज्ञापकस्य विघटनानन्तरं, तदेतदत्यन्तं संधिग्धं वर्तते ``आचार्याणां विभाषाग्रहणमनुवर्तते न वे त्यपसंहृतम्।। तस्य च विकल्पानुवृत्तावाचार्योपदेशपारम्पर्यमेव शरणं नत्वत्र ज्ञापकसंभव इत्येव हि स्वारसिकोऽर्थस्तथा च व्याख्यानमेव शरणमिति मूलकारोत्प्रेक्षितमेव युक्तमित्याहुः।।
अनभिधानादिति।। आवश्यकं चेदमनभिधानमन्यथा एकः पूर्वपरयोरिति सूत्रस्थभाष्यसंमते प्रत्येकमुपधावकारयोरूठिति पक्षे प्राथमिकस्योठ आङा सहान्तरङ्गत्वादाद्गुणे अवादेशे सवर्णदीर्घे जनावूरिति स्यात्।। यथाश्रुते च जनौरिति फलवैलक्षण्यापत्तेः।। नन्वेच ऊठंशे संबन्धे ओमाङोरित्यस्य बाधः, तदसंबन्धे चाद्गुण इत्यस्य, तत्र वृद्धेर्गुणबाधकत्वं क्लृप्तं गङ्गौघ इत्यादौ पररूपबाधकत्वं चाक्लृप्तम्।। तस्मादक्लृप्तबाधकल्पनापेक्षया क्लृप्तबाधकल्पनैव न्याय्येत्याशयेनाह।। किं चे ति।। नन्वेवमेत्येघत्यंशेपि तदसंबन्धस्स्यादुक्तयुक्तेरत आह।। लक्ष्यानुरोधेन चेति।। भाष्ये च योगविभागादूठंशे तदसंबन्ध उक्तः।। पूर्वस्यैव हीति।। हिशब्दादयमर्थोऽत्राब्भक्षन्यायलब्ध इति सूचितम्।। एतत्फलमारतुरित्यादावृच्छत्यॄतामित्युत्तरखण्डीयगुणस्य सवर्णदीर्घे स्थानिवत्त्वाभावः।। ण्यन्तस्याङ्गस्येति।। न च ल्यपि लघुपूर्वादित्यत्रावश्यमाश्रयितव्येन वैयधिकरण्येन प्रकृतेप्यङ्गस्य णेरित्येवार्थः किं न स्यादिति वाच्यम्।। संभवति सामानाधिकरण्ये वैयधिकरण्यस्यायुक्तत्वादगत्या तत्र तथास्वीकारेपि प्रकृते वैयधिकरण्याश्रयणे मानाभाव इत्याशयात्।। अल्पपदार्थापेक्षत्वादिति।। ननु बह्वपेक्षं बहिरङ्गमल्पापेक्षमन्तरङ्गमित्यर्थस्य बहुशो दूषितत्वात्कथं द्वित्वस्यान्तरङ्गत्वमित्यत आह।। भाष्ये त्विति।। षत्वाप्राप्तेरिति। त्वद्रीत्याण्यन्तघटकस्य स्वतन्त्रघातुग्रहणेनाग्रहणादित्याशयः।. नन्वङौहिणीशब्दस्य परिमाणविशेषविशिष्टसेनायां संज्ञाभूततया वाक्येन संज्ञिनोऽनवगमादविग्रहकेण नित्यसमासेन भवितव्यमित्यतो न युक्तं विग्रहप्रदर्शनं तत्राह।। समस्यमानेत्यादि।।
फणादेरेवेति।। नन्वस्यामवस्थायामनर्थकस्य फणादिव्यतिरिक्तभ्राजन्तर्गतराजेरपि राजिग्रहणेन ग्रहणसंभवात्तत्र फणादित्वनिश्चयाभावेन कथं तत्साहचर्येण भ्राजौ फणदित्वप्रतिपत्तिरिति चेन्न।। विपराभ्यां जेरित्यत्र परस्परसाहचर्येणोपसर्गयोरिव प्रकृते फणाद्योरेव राजिभ्लाज्योर्ग्रहणमित्याशयात्।। जॄधातोः क्विबिति।। ननु राशब्दघटितसंघातसापेक्षह्रस्वापेक्षय जॄधातुमात्रसापेक्षस्य ॠत इतीत्त्वस्यान्तरङ्गतया प्रथमं प्रवृत्तेर्नैतादृशरूपसंभव इति चेत्सत्यम्।। केवलादेन जॄधातोः क्विप्यर्थकृतबहिरङ्गत्वानाश्रयणाद्धातोः कार्यमुच्यमानमिति परिभाषया ॠत इतीत्त्वस्य परनिमित्तकत्वाच्च प्रथममेव ह्रस्वे राधातुप्रकृतिकक्विबन्तराशब्दस्य पश्चात्समासे निरुक्तरूपसंभव इत्याशयोऽत्र द्रष्टव्यः।। धातुसंज्ञकराजेरिति।। ननु साहचर्येण दादेरिति सूत्रादनुवर्तनेन वा, धातुसंज्ञकानामेव व्रश्चादिनां ग्रहणे निर्दिश्यमानपरिभाषया धातुसंज्ञावतो निर्दिश्यमानस्य व्रश्चादेरित्यर्थे लावस्थायामडिति भाष्यकारीयसिद्धान्ते व्रश्चादिभ्यो लुङि अव्राष्टामयाष्टामित्यादौ निर्दिश्यमानस्यागमसमवधाने धातुत्वाभावेन षत्वानापत्तिर्धात्ववयवस्य निर्दिश्यमानस्येति वैयधिकरण्येन संबन्धे तु भ्राजन्तर्गतस्यापि तथात्वेन व्यर्थतया युक्तमेव ज्ञापकत्वमत आह।। किं चेति।। समुदायानुबन्धत्वादिति।। प्ययोगे क्वापि राजृइत्येतादृशरूपानुपलम्भेन ऋकारानुबन्धवैशिष्ट्येन यस्योपदेशस्तद्‌ग्रहणस्य विज्ञेयतया पाणिनेश्च सर्वत्र हलन्त्यसूत्रोक्तभाष्यरीत्या समुदायोपदेश एव तात्पर्याद्विभ्राडित्यादिप्रयोगान्तर्गतस्य भ्राजवयवराजेर्ऋकाररूपानुबन्धवैशिष्ट्येनोपदेशाभावाद्राजृग्रहणेनाग्रहणात् षत्वार्थं पृथगभ्राजिग्रहणस्यावश्यकत्वेन न ज्ञापकत्वसंभव इत्याशयः।।
केचितु धातुपाठे भ्राजृ इति ऋकारानुबन्धोच्चारणसामर्थ्यादवयवेप्युपदेशतात्पर्यकल्पनया राजृ इत्यनेन भवत्येव भ्राजन्तर्गतस्यापि राजेर्ग्रहणं, भ्राजभासेत्यनेन ह्रस्वविकल्पस्य वाचनिकत्वादकारानुबन्धोच्चारणेनाप्यात्मनेपदप्रवृत्तेस्सुलभतया तस्य षत्वमात्रफलकत्वादतस्सुस्थमेव ज्ञापकत्वं, परं तु न्यायसिद्धेऽर्थे ज्ञापकान्वेषणं नातीवोपयुज्यत इत्येवारुचिरित्यन्यत्र विस्तर इत्याहुः
प्रत्येकं स्थानित्वादिति।। अत एव विध्यतीत्यादौ स्थानिवत्त्वेन संप्रसारणत्वमाश्रित्य न संप्रसारण इति निषेधः, पूर्वपरोभयसंघ। तस्यैव स्थानित्वे तु संप्रसारणत्वस्य तद्वृत्तितवाभावादनुपपत्तिस्स्पष्टैव।। स्थानिधर्मत्वाभावादिति।। एकादेशस्थानिनोरकारर्कारयोः पदत्वाभावादिति तदर्थः।। इदन्तु चिन्त्यम्।। श्रौतस्थान्यादेशभावे प्रत्येकं स्थानित्वबोधनेन कृतार्थस्य द्विवचननिर्देशस्य कल्पिते तस्मिन् पृथक्स्थानित्वसंपादकत्वे मानाभावात्।। स्पष्टं चेदमदादिप्रकरणे शेखरे।। अत एवेन्द्रस्य वज्रोसीत्यादौ पूर्वरूपात्मकैकादेशघठितसुप्तिङन्तसंधातस्य तिङन्तत्वातिदेशेन तिङतिङ इति निघातस्याप्रवृत्तिः, स्वाश्वशब्दे सवर्णदीर्घविशेष्टे स्वशब्दत्वमाश्रित्य स्वाश्वेरीत्यादौ स्वादीरेरिणोरिति वृद्धेरप्रवृत्तिश्च, अन्यथा विशिष्टे स्थानिभूतस्वावयवधर्मातिदेशेनोपदर्शितप्रदेशे विमतप्रसङ्गो दुर्वार एव स्यादित्याहुः।। दुर्लभत्वादिति।।
केचित्तु सर्वे सर्वपदादेशा इत्येतद्वचनमूलकेनार्थवतोरेव स्थान्यादेशभाव इत्येतसिद्धान्तेन कल्प्यमानस्य स्थान्यादेशभावस्यार्थवत्ताप्रयुक्ततया प्रार्छतीत्यादौ श्रौतस्यानिघटितयोःपूर्वपरसंघातयोरपि कल्पितार्थवत्त्वाव्यभिचारेण प्रत्येकमेव स्थानित्वं, परं तु श्रौतादेशस्य पूर्वपरोभयनिवर्तकस्यैकत्वबोधनेनैकग्रहणस्य कृतार्थत्वात्सूत्रघटकपदजन्यलक्षणादीनबोधविषयस्यैकादिशघटितादेशस्यानुमानिकस्यैकत्वसमर्थने गमकाभावात्। प्रशब्दस्य प्रार ऋच्छतेश्च आर्धि इत्येवमुभयविधादेशकल्पनाया आवश्यकत्वेन रेफान्ते पदत्वं दुर्वारम्। अत एव स्थानिवत्सूत्रेण गतार्थत्वं, अन्यथा हे ज्ञानेत्यादावमि पूर्व इति पूर्वरूपोत्तरमङ्गत्वस्य स्थानिवत्त्वेन ह्रस्वान्ते प्रतिपादयितुमशक्यतया संबुद्धिलोपाप्राप्तेस्तदुपपत्त्यर्थमावश्यकत्वादन्तादिवत्सूत्रस्य कथं गतार्थता स्यात्।। तस्मादिह विसर्गवारणे निर्देश एव सर्वथा शरणमिति चिन्त्य एवायं ग्रन्थ इत्याहुः।।
ताद्रूप्यस्येति।। तस्य वर्णस्य यद्रूपमसाधारणो धर्मस्तदेव ताद्रूप्यम्, स्वार्थष्यञ् तस्य योऽतिदेशस्तस्याभाव इत्येवं नञा सहार्धाभावेऽव्ययीभावस्तदाह।। अतिदेशाभाव इति।। उक्तार्थस्योपपत्तिमाह।। पूर्वस्य परस्य चेति।। अनुवर्तमानं च पूर्वपरयोरिति समुदायपरम्, अन्तादिवदिति तृतीयान्ताद्वतिः, उपमेये प्रथमादर्शनात्।। ततश्च एकादेशस्थानिघटितयोः पूर्वपरसंघातयोरेकादेशोऽन्तादिभ्यां तुल्यं भवतीत्यक्षरार्थः।। ताद्रूप्यानतिदेशश्च प्रमाणान्तरसिद्धो नत्वपूर्व इत्याह।। अत एव तुक्यसिद्धवचनमिति।। एकादेशापेक्षया पूर्वमेव तु न तुगागमः। अधीत्येत्यादौ ल्यबुत्पत्तये क्त्वान्तेन समासे तत्र संहिताया नित्यत्वाद्विशिष्टसमासमापेक्षं ल्यबादेशमपेक्ष्यान्तरङ्गत्वाच्च प्रथममेकादेशस्य दुर्वारत्वादिति वक्ष्यते।। तुग्ग्रहणं ज्ञापकमिति।। षत्वग्रहणं तु न ज्ञापकं, तस्य त्रैपादिकान्तरङ्गत्वेन तदंशे बहिरङ्गपरिभाषाया अप्रवृत्तिः।।
अपपाठ इति।। पूर्वत्र उस्यपदान्तादित्यत्रापि प्रयोजनसत्त्वेनातो गुण इत्येतदर्थत्वप्रतिपादनस्यायुक्तत्वादिति भावः।। यादृशं रूपमिति।। रूपमवयवसंस्थानं तद्यादृशं परस्य तादृशं यस्य स यथा स्यादिति तदर्थः।। न ह्यन्यदीयमवयवसंस्थानमन्यस्य भवतीत्याहुः।। रूपशब्देनेति।। रूपवदर्थकेनेत्यर्थः।। न हि स्वरइति।। उदात्तत्वादिगुणविशेषविशिष्टो वर्णस्तेन गुणेन न रूपवानिति तदर्थः।। वर्णरूपावयवसंस्थानमिति।। वर्णरूपा येऽवयवास्तेषां क्रमविशेषविशिष्टस्संदर्भस्संस्थानम्, आनुपूर्वीति यावत्।। अयं भावः।। रूपमत्राकारः। स च सकलपदार्थसाधारणो जातिगुणकर्मभ्यस्तत्तत्पदार्थगतेभ्यो विलक्षणो भिन्नभिन्नः, यथा घटादौ। ततश्च शब्दगतानां शब्दत्वादिजातीनामानुनासिक्यादिगुणानां च न शब्दाकारता, किन्तु संदर्भविशेषविशिष्टानामवयवानामे, निरवयवत्वे च तत्तद्व्यक्तिरेकैवाकाराकारभेदेन व्यपदिश्यते, यथा गगनादौ, ततो नैकवर्णेऽपि तद्व्यवहारविरोध इति।। ननु गुणानां रूपत्वाभावे निरुक्तरीत्या तन्निवारणायोगादेकस्थान्यन्तरतमत्वात्पाक्षिकी सानुनासिकप्रवृत्तिर्दुर्वारेत्यत आह।। परःकिं गुणक इत्यादि।। तस्यैव सिद्धेरिति।। ननु गुणानामभेदकत्वात्कथमुक्तार्थलाभस्तत्राह।। परशब्देनेत्यादि।। न तु प्रयोगे इति।। अन्यथा गुणविधायकशास्त्रवैफल्यमेव स्यात्। अत एव य उदात्ते कर्तव्ये अनुदात्तं करोति खण्डिकोपाध्यायस्तस्मै चपेटां ददातीति वृद्ध्याह्निके भाष्यकारेणोक्तमित्याशयः।। दोषमाशङ्क्येति।। एध इत्यादौ वृद्धिवारणेन कृतार्थत्वात्पररूपविधानस्य पचन्तीत्यत्र दोषप्रसङ्गः।। यादृशं रूपमिति।। अत एतीति सिद्धे गुण इत्युक्तेरकारे पररूपेण दीर्घाप्रवृत्तिरित्यपि युज्यते वक्तुम्।। सूचितमिति।। सिद्धान्ते तस्योक्तर्थकताया आवश्यकत्वे अवश्यं चैतदेवं विज्ञेयमित्यपि तत्र वदेदिति भावः।।
इति दिगिति।। दिगर्थस्तु आवसानिकानुनासिकोपहितस्य शिवायेत्यादिरोमित्यनेन संबन्धे निमित्तापाये नैमित्तिकस्याप्यपाय इति तदनुनासिकत्वं निवर्तेत, यद्यनुकरणस्वरूपभङ्गभयात्तदनिवृत्तिरित्युच्यते तर्हि तेनैव निमित्तेन संहिताकार्यमपि तत्र न स्यात्। निमित्तापायपरिभाषाया अनाश्रयणे तु युक्तमीदृशानामनभिधानमेव। अन्यथा विसर्जनीयस्य स इति सूत्रस्थभाष्यविरोधः, तत्र हि खरीत्यस्यानुवृत्त्यभावेपि खर्येव विसर्जनीयस्य सत्वमिति प्रतिपादनाय खरवसानयोर्विसर्जनीयं विधाय तस्यानेन सत्वविधानादन्यतरस्मिन्सत्वं, यदि च खरवसानयोरुभयोरप्यनेन सत्वं स्यात्तर्हि विसर्गविधानं व्यर्थं स्यादित्युपक्रम्य शर्परे विसर्जनीय इति ज्ञापकात्खर्येव विसर्गस्य सत्वप्रवृत्तिर्विपर्यये ुत खरि विसर्जनीयस्य सिद्धतया पुनर्विधानमनुपयुक्तं स्यादित्युक्तम्। आवसानिककार्यस्य भाविन्यवसानभङ्गेपि पूर्वं प्रवृत्तिः, प्रवृत्तस्य वा निमित्तविनाशे निवृत्त्यभावः, तदा क इत्यादेर्विसर्गान्तस्यानुकरणे त्सरुशब्दयोगे कः त्सरुरित्यादौ सत्वनिवृत्तये विसर्गविधानेन सार्थकस्य शर्पर इत्यस्य भाष्यकारोक्तज्ञापकताया अनुपपत्तेरित्यन्यत्र विस्तरः।।
ननु देशविशेषशब्दस्य लुप्तचातुरर्थिकाणन्तशकविशेषणत्वेपि जातिवाचकतया विशेषणानां चाजातेरिति पर्युदासाद्युक्तवद्भावाप्रसक्त्या बहुवचनान्तत्वमयुक्तमत आह।। यौगिकत्वेनेति।। समस्तत्वेनेत्यर्थः।। अयं भावः।। अजातेरिति जातिप्रवृत्तिनिमित्तकानां पर्युदासस्समासश्च समस्यमानपदार्थसंसर्गप्रवृत्तिनिमित्तकः।। कृत्तद्धिनसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेत्यनुशासनानुरोधात् कर्मधारयेऽपि तादात्म्यमेव प्रवृत्तिनिमित्तम्।। तादात्म्यस्य संसर्गत्वमनिच्छूनां तु विशेषणविशेष्यभाव एव तदित्यन्यत्।। ततश्च युक्तवद्भावविरोधिनो जातिप्रवृत्तिनिमित्तकत्वस्यभावाद्युक्तवद्भावस्यात्र प्रसङ्ग इति, तदाह।। जातिवाचकत्वाभावादिति।।
केचितु प्रधान्येन जात्युपहितद्रव्यवाचकस्यायं पर्युदासः।। अत एव भोगदेशश्चोला रोगदेशो वङ्गा इत्यादिव्यवहारोपपत्तिस्तस्मात्प्रधानवाचिनो विशेषशब्दस्य जातिवाचकत्वाभावात्प्रकृते नोक्तपर्युदासप्रवृत्तिरिति युक्तमत्रोत्तरमिति वदन्ति।।
अत्र शकशब्दो देशाविशेषे कर्कशब्दो राजविशेषे च प्रसिद्ध इति भेदेनार्थविवरणमिति तत्त्वम्।।
नन्वव्यक्तस्येत्युक्तावपि ध्वनावच्छब्दाभावेन शास्त्रप्रवृत्त्ययोगेन सामर्थ्यादनुकारणे परिस्फुटाकारादिवर्णघटिते प्रवर्तत इति किमनुकरणोपादानेनेत्यत आह।। तदभावे हीति।। जश्त्वेपीति।। सपादसप्ताध्यायीस्थकार्यप्रवृत्तियोग्यतायां त्रैपादिकस्य पूर्वमप्रवृत्त्या तस्मिन् प्रसक्तेपीत्यर्थः।। अत एवेति।। अच्छब्दस्यैवेत्यर्थः।। वृच्यादिस्थस्येति।। पुनरद्‌ग्रहणाज्जश्त्वासिद्धत्वबोधनेन तद्विषये पररूपाप्रसक्तौ निषेधोदाहरणत्वं तस्य दुर्वचमित्याशयः।। उभयतःपाशेति।। पटत्+इति=पटितीति पूर्वग्रन्थे जश्त्वाभावसमर्थनार्थमभेदविवक्षाश्रयणे अतः किं? दान्ते माभूदित्यग्रिमग्रन्थस्यासंगतिस्तत्समर्थनाय भेदविवक्षाश्रयणे च पूर्वग्रन्थासंगतिरिति तदर्थः।। अपास्तमिति।। अपदान्तग्रहणानुवृत्तिशब्दाधिकाराभ्यामन्यथासिद्धत्वान्नेदमद्ग्रहणस्य सौत्रस्य प्रयोजनमित्यभिप्रायः।। ननु सूत्राक्षराणां कथंचित्सार्थक्यसंभवे सुतरां वैयर्थ्यापादनमनुचितं तत्राह।। ज्ञापनार्थमिति।। ननु नाम्रेडितस्यान्त्यस्य तु वेति ज्ञापकादत्रार्थाधिकारो न युक्तः। न ह्यकारस्यान्त्यः कश्चन वर्णोऽस्ति येन विकल्पविधानमुपपन्नं स्यात् ।। न चाम्रेडितान्त्यस्यैव विकल्पविधानमिति युक्तम्। नञो वैयर्थ्यादन्त्यग्रहणस्यापि निष्फलत्वाच्च।। तथा च कथं शब्दाधिकारानित्यत्वज्ञापनेन वा सौत्रस्याद्ग्रहणस्य सार्थक्यं स्यात्, स्वांशे चारितार्थ्यस्य दुर्लभत्वादिति चेदत्र केचित्।। अत इत्यस्यानुवृत्तावपदान्तादित्यस्यापि संबन्धस्स्यात्।। पूर्वत्र तयोस्सहसंबद्धत्वात्, ततश्च पदान्तविषये न स्यात्। अतो भेदविवक्षायां पदान्ते तदविवक्षायामपदान्ते च प्रवृत्त्यर्थं पुनरद्‌ग्रहणमिति सर्वमनवद्यमित्याहुः।।
अन्यथासिद्धिरिति।। ईषत्स्पृष्योरप्यृकारलृकारयोर्द्विमात्रकत्वादृलृक्‌सूत्रे पाठेनाच्त्वाच्च दीर्गतया होतृ ऋकार इत्यादौ रेफद्वयवत्तासाम्यात्कदाचिदीषत्स्पृष्टदीर्घः कदाचिद्विवृतत्वसाम्याद्विवृतदीर्घः, तथा होतृ+लृकार इत्यादौ हल्‌द्वयवत्तासाम्यादुत्तरवार्तिकविधेय ईषत्‌स्पृष्टः पक्षे चोभयस्थान्यन्तरमस्य परस्यान्तरतमस्य चाप्रसिद्धत्वात् पूर्वस्थान्यन्तरतम एव विवृतो दीर्घ इत्येवं तदुद्भावनमित्यन्यत्रविस्तरः।.
विभक्तौ चेदिति।। हरयो विष्णव इत्यादौ जसि पूर्वरूपाभावो नियमफलं स्यादिति भावः।। नियमशङ्कावारणार्थमिति।। भवतेर इत्यादिनिर्देशरूपोपायान्वेषणपरिक्लेशमन्तरेण तन्निवारणबोधनार्थमित्यर्थः।।
आवृत्त्येति।। यथा दादेर्घातोरित्यत्र दादिपदावृत्त्या विशेषार्थावगमस्तद्वदिहापीनि भावः।। इदं प्राचामनुरोधेन।। तन्मते हि लक्षणप्रतिपदोक्तपरिभाषा वर्णग्रहणेषु न प्रवर्तते, स्वमतेनाह।। परिभाषया वेति।। ननु आदेच इति सूत्रस्थमुपदेशग्रहणं चेता स्तोतेत्यादौ लाक्षणिकस्यैच आत्त्ववारणार्थं सद्वर्णग्रहणे प्रकृतपरिभाषाया अप्रवृत्तौ ज्ञापकमिति तत्सार्थक्यम्।। यदि तु वर्णग्रहणेप्येतत्परिभाषाप्रवृत्तिस्स्यात्तर्हि लाक्षणिकत्वादेवात्त्ववारणसंभवात्तदानर्थक्यमनिवार्यं स्यादत आह।। वर्णग्रहण इत्यादि।। अनित्यतामात्रज्ञापकत्वमिति।। वर्णग्रहणेष्वप्रवृत्तिरित्येवमात्मकव्यवस्थानुपहितसमुदायग्रहणसाधारणक्वचित्काप्रवृत्तिरूपानित्यताया एव ज्ञापकमित्यर्थः।। ननु प्राचीनोक्तमनुगमोपहितमनित्यत्वमपहाय वर्णग्रहणसमुदायग्रहणसाधारणमननुगतमनित्यत्वं ज्ञापनियमिति कोऽसौ दुराग्रहस्तत्राह।। ध्वनितमिति।। भाष्ये इति।। तत्र हि ओतश्चिव प्रतिषेध इत्येतद्वार्तिकप्रयोजनभूतयोरदोभवत्पुरोभवदित्यनयोरोकारस्य लाक्षणिकत्वात्प्रकृतपरिभाषाबलेनान्यथासिद्धिरुक्ता, वर्णग्रहणेष्वेतदप्रवृत्तौ तदसंगतिरेवेति भावः।। किं च वर्णग्रहणेष्वप्रवृत्तिज्ञापनेन न निर्वाहः।। समुदायग्रहणेष्वपि क्वचिदप्रवृत्तेरभीष्टत्वात्।। अत एव भोभगो इति सूत्रे प्रतिपदोक्तनिपातवद्विभाषा भवदिति वार्तिकनिष्पन्नानां लाक्षणिकानामपि ग्रहणमुपपद्यते।। अपि च तिष्ठतु तावत्सान्यासिकं धातुग्रहणमिति भाष्ये धातुग्रहणानुवृत्तेर्निराकृतत्वात् गोभ्यां नौभ्यामित्यादावात्त्वाभावार्थमादेच इत्यत्र उपदेशग्रहणस्यावश्यकतया निरुक्त5ापनासंभवः।. एशिरेचोस्तु सामर्थ्यादेवात्त्वाप्रवृत्तिः तस्माद्भुवश्च महाव्याहृतेरिति सूत्रस्थेन महाव्याहृतिग्रहणेन सामान्यत एवोक्तपरिभाषाया अनित्यत्वं ज्ञाप्यत इति न काप्यनुपपत्तिस्तदाह।। अन्यत्र विस्तरइति।। अवादेशोपिनेति।। पाठयोः फलैकतालाभार्थमनन्तरस्येति न्यायोऽत्र नाश्रीयत इत्याशयः।।
औचित्यमिति। यद्यपि बहुव्रीहौ गवाग्रशब्दादौ गौशब्दसंबन्धिन औकारस्य पूर्वपदप्रकृतिस्वरेणोदात्तगुणतया व्यपदेशिवद्भावेनान्तोदात्तत्वाद्युदात्तत्वरूपोभयधर्मवत्त्वात्तस्य स्थाने जायमानस्यावङादेशस्य कदाचिदन्तोदात्तत्वं स्यादिति तन्निवृत्तये गोरग्वचनं स्वरसिद्ध्यर्थमिति वार्तिककृदारब्धवचनसूचितोऽसौ न्यास आदेशस्याद्युदात्तत्वनिपातनात्तत्पुरुषे गवाग्रशब्दादौ समासान्तोदात्तत्वस्य सति शिष्टता लाभार्थमुपदेशिवद्भावाभ्युपगमाच्च भागवता भाष्यकारेण निराकृतः, तथापि तत्सूत्रकारतात्पर्यवर्णनपरं, न तु वार्तिकप्रत्याख्यानपरं गौरवपराहतत्वादिति भावः।। नन्वमिति न्यासे गवाग्रमित्यादौ सवर्णदीर्घोत्तरं वकारस्य वदान्तत्वाल्लोपश्शाकल्यस्येत्यस्य प्रसङ्गः।। न च सवर्णदीर्घस्याचः परिस्मिन्निति स्थानिवद्भावादागमसन्निधानेन वान्तस्य पदत्वाभावात्तदप्राप्तिरिति वाच्यम्।। पूर्वत्रासिद्धिये न स्थानिवदिति तन्निषेधादिति चेत्सत्यम्।। यदा तु कार्यकालतावलम्बेन लोपविध्यैकवाक्यतापन्नस्यासिद्धत्वापन्नम्य पदत्वस्यातिदेशापेक्षा, यथा संयोगान्तलोपोपपादकस्य तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तग्‌रगित्यादौ, तदा स्यादयं स्थानिवद्भावनिषेधः।। यदि तु यथोद्देशमाश्रित्य कार्यविशेषासंवलितस्यागमविशिष्टे विद्यमानस्य सवर्णदीर्घोत्तरमेकदेशविकृतन्यायेन शाकललोपार्थं वान्ते पदत्वातिदेशस्तदा स्थानिवद्भावेन तत्प्रतिबन्धोदुर्वारः।। पक्षयोश्च लक्ष्यानुरोधाद्व्यवस्था स्पष्टैव।। अत एव वेतस्वानित्यत्र सकारान्ते रुत्वसमर्पकपदत्वनिवृत्तये स्थानिवत्त्वोपवर्णनं भाष्यकाराणामुपपद्यते। अत एव च जनार्दन इत्यादौ नान्तस्योक्तन्यायेन पदत्वादिकमास्थाय नलोपाभाव इत्यन्यत्र विस्तरः।। ननु सर्वत्र विभाषा गोरित्यस्य प्रकृतिभावविधायकत्वात्पूर्वत्वं प्राप्नोतीत्ययुक्तमत आह।। अत्र पूर्वत्वशब्देनेति।। लक्षणयेति भावः।। एवमपि सर्वत्रेत्यनेन प्रकृतिभावावङोरुभयोरपि प्राप्तिरयुक्तैवेत्यत आह।। अवङित्यस्याप्युपलक्षणमिति।। नाञ्जसमिति।। अनिष्ठशब्दोल्लेखस्य ग्रन्थकारशैलीविरुद्धत्वादित्यभिमानः।।
असत्यप्याह्वाने इति।। नक्षत्रं दृष्ट्वा वाचं विसृजेदित्यत्र नक्षत्रशब्दस्य तद्दर्शनयोग्यकालोपलक्षकतया धनधटावृते गगनमण्डले नक्षत्रदर्शनाभावेपि तद्दर्शनयोग्यकाले यथा वाग्विसर्गस्तद्वदिति भावः।। अत्रेदं बोध्यम्।। सूत्रे हूतशब्दो भावनिष्ठान्तः।। तस्य चाभिमुखीभवनविषयकज्ञानजनकशब्दप्रयोगात्मकव्यापारोऽर्थः। ह्वेञ् स्पर्धायां शब्दे चेतिपाठात्। पराभिमुखीभवनं च स्वाभिप्रेतार्थविषयकप्रतिपत्त्यर्थम्।। सा च सन्निहितदेशवर्तित्वे संभवतीति दूरस्थितपुरुषविषयके तस्मिन्नेहीत्यादिपदप्रयोगो नियतः।। तथा च एहि देवदत्तेत्यादावेव प्लुतस्स्यात्, न तु सक्तून् पिब देवदत्तेत्यादौ । तत उपलक्षणमाश्रीयते संबोधनस्य, तच्च यथा कथंचित् स्वाभिप्रेतार्थबोधनं, न तु संबोधनविभक्त्यन्तपदप्रयोगाधीनमित्याग्रहः।। अत एवाकडारसूत्रे दाक्षीबन्धुरित्यत्र पूर्वपदसम्बन्धिन ईकारस्य गुरोरनृत इति प्लुतोपवर्णनं भाष्यकाराणामुपपद्यत इत्याहुः।।
्वयुत्यानुवाद इति।। प्राचामिति योगविभागेन सिद्धस्य महाविकल्पस्यायमेकदेशं गृहीत्वानुवाद इत्यर्थः।. भाष्ये तु विभाषा पृष्ठप्रतिवचन इत्यत्र विभाषेति योगविभागो दृश्यते, तेनैवास्य महाविकल्पस्य सिद्धौ प्राचामित्येवायमवयुत्यानुवाद इति प्रतिभाति।। ननु पस्पशायां व्याकरणाध्ययनफलप्रतिपादनावसरे प्रत्यभिवादवाक्यान्तर्गतनामगोत्रान्यतरावयवाज्वर्णान् प्लवितुमजानतां स्मृतिनिवेदितं स्त्रीसाम्यं स्यादिति तन्निवृत्तये प्लुतपरिज्ञानपूर्वकप्लुतोच्चारणस्य आवश्यकत्वप्रतिपादनपरेण भाष्येणायं महाविकल्पो विरुद्ध्यतीत्यत आह।। अविद्वांस इत्यादि।। ``अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः। कामं तेषु च विप्लोष्य स्त्रीष्विवायमहं वदेत्।। अत्र नाम्न इति गोत्रस्याप्युपलक्षणम्।। शास्त्रपरिज्ञानविहीनाः प्रत्यभिवादवाक्ये नाम्नो गोत्रस्य वो या प्लुतं कर्तुं न जानन्ति तान् वञ्चयित्वा स्त्रीष्विवतेषु अयमभिवादयते अहमभिवादये इत्येव वदेन्न तु नामगोत्रे समुच्चारयेत्।। तदुच्चारणस्य प्लुतफलकत्वादिति तदर्थः।। एवं च शास्त्राज्ञानविशिष्टप्लुतप्रयोगाभावो निन्दाहेतुर्न तु तत्प्रयोगाभावमात्रमिति प्रतीयते, अतो न विरोधस्तदाह, शास्त्राज्ञाननिन्दापरमिति। दूरात्सम्बोधकत्वाभावादिति।। शुकयोगिनस्सन्निहितत्वेनानुकार्ये तत्त्वाभावात्प्लुताप्रवृत्तावनुकरणे कथं तत्प्रसङ्ग इत्याशयः। अस्याभावेन तत्त्वमिति।. प्रकृतिभावाभावरूपस्याप्लुतवद्भावस्य वैकल्पिकत्वे प्रकृतिभावविकल्प एव पर्यवसानमिति भावः।।
यद्द्विवचनमिति।। ननु द्विवचनपदस्य तदन्तपरत्वं लक्षणाधीनं, येन विधिरित्यस्याप्ययमेवाशयः।। अपूर्वशक्तिकल्पनायां क्लेशात्।। एवं च लक्षितार्थघटके द्विवचने विशेषणभाव ईदूदेतामयुक्तः, पदार्थैकदेशत्वात्।। न च ईदूदेतामन्वयोत्तरमेव द्विवचनपदस्य तदन्तपरत्वमिति वाच्यम्।। विशिष्टस्य तत्पदशक्तिविषयत्वाभावेन शक्यसम्बन्धरूपलक्षणाया दुर्वचत्वादिति चेत्; सत्यम्। गभीरायां नद्यां घोष इत्यत्र यथा गम्भीर्यावच्छिन्ननदीतीरे नदीपदस्य लक्षणा गभीरपदं च तात्पर्यगाराहकं तद्वत्प्रकृतेपीदूदेदन्तद्विवचनान्ते द्विवचनपदस्य लक्षणा, तात्पर्यग्राहकत्वमेवेदूदेदित्यस्येति ग्रन्थकृदाशय इत्यदोषः।। एतेन ह्रस्वात्परो यो ङम् तदन्तं यत्पदमिति ङमो ह्रस्वादितिसूत्रस्थमूलकारोक्तमपि व्याख्यातम्।। अखण्डपदे इति।। यद्यपि किरातार्जुनीयव्याख्यायां मल्लिनाधेन तवाभिधानादित्यस्य नामैकदेशे नामग्रहणमिति न्यायात् तश्च + वाश्च=तवौ=तक्षकवासुकी तयोरभिधानं यस्मिन्पदे तस्मादित्यर्थ इति व्याख्यातम्, तथापि तत्र अभिधानपदस्य नाम परत्वात्तशब्दवाशब्दघटिते अभिधाने यस्मिन् मन्त्रपदे तस्मादिति मध्यमपदलोपिसमासाश्रयणेनोपपत्तौ निरुक्तकल्पना निर्मूलेत्याशयः, तदाह।। मानाभावादिति।।
चारितार्थ्यमिति।। ननु कार्यकालपक्षेऽप्यनुनासिकविध्यैकवाक्यतायाः पूर्वमेव मुत्वविध्येकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रेण संज्ञादृष्ट्या मुत्वस्यासिद्धत्वे पश्चादनुनासिकविधौ संज्ञाशास्त्रस्योपस्थितावपि संज्ञाया दुर्लभतया कथमनुनासिकप्रतिषेधेन चारितार्थ्यमत आह।। तत्र पक्षे हीति।। वाक्यार्थबोधकत्वमिति।। ननु प्रदेशोपस्थित्यनन्तरं वाक्यार्थबोधात्पूर्वमेव मुत्वविध्येकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रेण संज्ञादृष्ट्या मुत्वस्यासिद्धत्वं किं न स्यादत आह।। कार्यार्थ इति।। वाक्यार्थबोधोत्तरमिति।। अनुनासिकशास्त्रीयविशिष्टवाक्यार्थबोधोत्तरमित्यर्थः।। ननु संज्ञैकवाक्यतया तच्छास्त्रीयवाक्यार्थबोधोत्तरं कार्यज्ञानेप्यष्टाध्यायीपाठकृतपूर्वत्वानपायात्संज्ञादृष्ट्या मुत्वस्यासिद्धत्वं दुर्वारमित्यत आह।। तद्देशीयत्वमेवेति।। संज्ञानां कार्यकालपक्षे विधिदेशीयत्वमेवेत्यर्थः।। ननु तत्पक्षे कार्यज्ञानाय संज्ञानामुपस्थितिदेशीयत्वाभ्युपगमेऽपि अष्टाध्यायीपाठकृतोपस्थापकदेशीयतायास्त्यक्तुमशक्यत्वादुपस्थाप्योपस्थापकयो रैक्याभ्युपगमेनोपस्थाप्यान्तर्भावेण कार्यज्ञानमुपस्थापकदेशगतं पूर्वत्वं चाश्रित्य मुत्वविध्येकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रेण संज्ञादृष्ट्या मुत्वस्यासिद्धत्वमपरिहार्यमत आह।। किं चाधिकार इति।। कार्यज्ञानोपपादकानुनासिकशास्त्रीयविशिष्टवाक्यार्थबोधसमनन्तरमेवाधिकारत्वेन तदेकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रेण मुत्वदृष्ट्या अनुनासिकविधेस्तदेकवाक्यतापन्नसंज्ञायाश्चासिद्धत्वं प्रतिपाद्यते, ततो नास्त्युपप्त्थापकदेशान्तर्भावेण पूर्वत्वमादाय संज्ञां प्रति मुत्वस्यासिद्धत्वसंभवः, तदाह।। एवं चेति।। उपस्थाप्याभेदेनोपस्थापके कार्यज्ञाने सम्पादनीये तदभेदेनोपस्थापकस्यासिद्धत्वमप्यापततीति भावः।। ननु प्रगृह्यसंज्ञैकवाक्यतापन्नानुनासिकशास्त्रीयविशिष्टवाक्यार्थबोधप्रयुक्तकार्यज्ञानसहकारेण तच्छास्त्रानुवृत्तपूर्वत्रासिद्धशास्त्रेण प्रथमतो मुत्वदृष्ट्या संज्ञाया असिद्धत्वं, न तु संज्ञाविषयसमर्पकत्वेन प्रसक्तमुत्वशास्त्रानुवृत्तपूर्वत्रासिद्धशास्त्रेण संज्ञादृष्ट्या मुत्वस्येत्यत्र विनिगमनाविरहादिदमयुक्तमिति चेत्; सत्यम्। अनुनासिकविध्येकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रविधेयमसिद्धत्वं नित्यम्। मुत्वविध्येकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रेण संज्ञादृष्ट्या मुत्वस्यासिद्धत्वे प्रतिपादितेपि अनुनासिकशास्त्रैकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रेण मुत्वदृष्ट्या तदेकवाक्यतापन्नसंज्ञाया असिद्धत्वस्य सुवचत्वात्।। मुत्वविध्येकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रविधेयं तु न तथा, अनुनासिकविध्येकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रेम मुत्वदृष्ट्या संज्ञाया असिद्धत्वे प्रतिपादिते पुनर्मुत्वविध्येकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रेणोक्तरीत्या संज्ञादृष्ट्या मुत्वस्यासिद्धत्वप्रतिपादनासम्भवादतो नित्यत्वमेव मुत्वदृष्ट्या संज्ञायाः प्रथममसिद्धत्वबोधने विनिगमकमिति विभावनीयमित्याहुः।।
केचित्तु यद्देशावच्छेदेन कार्यज्ञानं प्रत्यासत्त्या तद्देशगतमेव पूर्वत्वं परत्वं वा शास्त्रव्यवस्थापकमतस्संज्ञाया उपस्थापकदेशगतपूर्वत्वमादाय तद्‌दृष्ट्या मुत्वस्यासिद्धत्वमुपपादयितुमशक्यमित्याहुः।।
उपदेशप्रवृत्तिरेवेति।। इदं च कार्यकालपक्षे; यथोद्देशे तु भविष्यति किंचित्प्रयोजनमित्यभिसंधिमात्रेण कार्यविशेषानुसन्धानमन्तरेणैव अनुकार्ये संज्ञाप्रवृत्तेरव्याहतत्वादनुकरणे प्रगृह्यत्वस्यातिदेशेनैव सुवचत्वादुपदेशप्रवृत्तेरनुपयोग इति वदन्ति।।
परत्वेन विकल्पप्रवृत्ताविति।। यद्यपि निपातपदाननुवृत्तौ शाकल्यस्येतावनार्ष इत्यस्य निपातानिपातसाधारणतया उभयत्र विभाषात्वेन नवेति विभाषेत्यस्योपस्थापनात्प्रथमतो निषेधेन निपातविषये प्राप्तसामान्यप्रवृत्तेर्वारणात् सर्वस्मिन् विषये समीकृते पश्चात्स्वतस्सिद्धमभावांशमादाय पाक्षिकस्य भावांशस्यैव विधेयतया पुनरुत्सर्गस्य प्रसक्त्ययोगात्प्रकृतविषये तदापादनं, विप्रतिषेधशास्त्रबोधितबलवत्त्वोपहितस्य प्रकृतशास्त्रगतपरत्वस्य तन्निवर्तनोपायत्वप्रतिपादनं च न युक्तम्, तथापि तत्प्रत्याख्याने वाक्यभेदेन निपातविषये भावांशस्य सिद्धतया तदनुवादेनाभावांशस्यैव विधेयतया तदंशे पुनरुत्सर्गप्रसक्तिः परबलीयस्त्वेन तन्निवृत्तिश्च संभवतीत्याशयेनायं ग्रन्थ इत्यदोषः।। अन्तरङ्गत्वमिति।। नन्वेवमहो इतीत्यादौ निपातविषयेऽन्तरङ्गेण नित्यप्रगृह्यत्वेन बाधाद्विकल्पाप्रसक्त्या संबुद्धिग्रहणमनर्थकमत आह।। संबुद्धाविति।। वैचित्र्यार्थमिति।। गोभ्यां गोयानमिति प्रयोगघटकपदत्वोपहितगोशब्दानुकरणे गवित्ययमाहेत्यादौ विषणो इतीत्यादाविवप्रकृतिवदनुकरणमित्यतिदेशलब्धपदत्वनिमित्तकप्रकृतिभावफलकप्रगृह्यत्वस्य प्रकृतसूत्रप्राप्तस्य लक्ष्यानुसारिणा तदतिदेशानित्यत्वेन वारणे क्लेशात्सौगम्येन तन्निवारणार्थमिह संबुद्धिग्रहणमित्यर्थः।। ननु इतिहरिशब्देनाव्ययीभावेन समासे गवितिहरीत्यत्र प्रसक्तस्य प्रगृह्यत्वस्य वारणाय संबुद्धिग्रहणस्यावश्यकत्वात्कथं वैचित्र्यमिति चेन्न।। वैदिके इतिशब्दस्य स्वसमभिव्याहृतौदन्तस्वरूपबोधकस्यैव प्रसिद्धतया तद्भिन्नस्यापि तथाभूतस्यैव ग्रहणमित्याशयात्।। लिङ्गसर्वनामेति।। लिङ्गसामान्यमित्यर्थः।। स्त्रीत्वपुंस्त्वोभयाभावरूपस्य तस्य मृदु पचति प्रातः- कमनीयमित्यादौ प्रसिद्धिर्द्रष्टव्या।। अत्र भेदविवक्षायामपीति शेषः।। सामर्थ्यस्य दुरुपपादादिति।। गोशब्दस्य शब्दविषयकप्रकाशबोधकेनेतिशब्देनाव्ययीभावे तु पूर्वनिपात इतिशब्दस्यैव स्यादित्यपि बोध्यम्।।
नकारापत्तिवारणायेति।। नन्विदमयुक्तं, चतुर्मुख इत्यादौ प्रकृतशास्त्रप्रसक्तस्यानुनासिकस्य व्यावृत्त्यर्थमनुस्वारस्य ययीत्यत एकदेशे स्वरितत्वप्रतिज्ञाबलात्समासघटकसवर्णपदानुवृत्तेराकरसम्मतत्वात्प्रकृतन्यासेपि तत्संबन्धस्य न्याय्यतया सावर्ण्याभावादेव लकारस्य नकारापत्त्यसंभवादिति चेन्न।। अत्र न्यासे सवर्णपदसंबन्धे स्पर्शेतरवर्णसंग्राहकस्य यर्ग्रहणस्य वैयर्थ्यापत्त्या सवर्णपदसंबन्धस्य दुर्वचत्वेन कमलांश्चिनोतीत्यादौ नकार एवापद्देत, चतुर्मुख इत्यादौ च रेफस्य द्विर्वचनानुनासिकपरसवर्णप्रतिषेध इति वचनेनैवानुनासिको निवर्तनीयस्स्यादित्याशयात्।।
अनित्यत्वस्यापीति।। ननु सन्निपातनिमित्तकविधित्वरूपलिङ्गेनोपस्थितया प्रकृतपरिभाषया तत्तच्छास्त्रीयविशिष्टवाक्यार्थबोधोत्तरं वाक्यैकवाक्यतया स्वनिमित्तभूतसन्निपातविधातकविधिं प्रतीदं निमित्तं न भवतीति बोधनात् सन्निपातनिमित्तकविधेस्स्वनिमित्तविघातकविध्यन्तरनिरूपितनिमित्ततासमर्पकत्वाभाव इति निरूढः पन्थाः।। एवं च निमित्ततासमर्पकत्वाभावस्य विध्यन्तरगतविघातकत्वप्रतिपत्त्यधीनत्वादिको यणचीत्यनन्तरपठितसापादिकवत्वविध्यपेक्षया पूर्वत्रासिद्धशास्त्रेणाविद्यमानवद्भावबोधनेन तद्गतविघातकत्वस्य दुर्ज्ञेयतया सन्निपातनिमित्तकविधिप्रयोज्यविघातकविधिनिरूपितनिमित्ततासमर्पकत्वाभावस्य वक्तुमशक्यत्वेन परिभाषाप्रवृत्त्यसंभवादयुक्तमेवेदमनित्यत्वज्ञापनम्।। न च पूर्वशास्त्रीयकर्तव्यतादशायामेव पूर्वत्रासिद्धमित्यनेन परशास्त्रस्यासिद्धत्वबोधनेन प्रकृते लक्ष्यसमवेतवत्वोपहितसापादिकविध्यपेक्षया सन्निपातविघातकानुस्वारविधेरसिद्धत्वायोगात्परिभाषाप्रवृत्तिरव्याहतैवेति वाच्यम्।। शास्त्रे चेतनत्वानोपस्याकरसम्मततया विनिगमनाविरहात् कर्तव्ये कृते च पूर्वस्मिन् तद्‌दृष्ट्या परस्यासिद्धत्वबोधनेन जातसमकालप्राप्तयोरिव पूर्वशास्त्रदृष्ट्या जनिष्यमाणस्यापि परस्यासिद्धताया दुर्वारत्वात्।। न च लिङ्गवत्तया स्वोपस्थापकेन सन्निपातनिमित्तकशास्त्रेणैकवाक्यतया प्रकृतपरिभाषायास्सन्निपातविघातकविध्यन्तरनिरूपिततन्निमित्तकविधिनिष्टनिमित्तत्वाभावबोधकत्वेऽपि तथाविधनिमित्तत्वाभावस्य सन्निपातनिमित्तकविध्यंशे विघातकविधेः प्रवृत्त्यभावप्रयोजनकतया प्राधान्यात्स एव परिभाषाविषयस्तत्र य विघातकविधेरेव स्वातन्त्र्यात्तद्‌दृष्ट्या प्रकृते सन्निपातनिमित्तकविधेरसिद्धत्वाभावेन परिभाषाप्रवृत्तिर्दुर्वारैवेति वाच्यम्।। परिभाषादृष्ट्या विघातविधेरसिद्धत्वेन तदीयप्रवृत्त्यभावप्रयोजनकतन्निरूपितसन्निपातनिमित्तकविधिगतनिमित्तत्वाभावस्य बोधयितुमशक्यत्वेन परिभाषाप्रवृत्तेरभावादिति चेन्न।। अस्याः परिभाषाया उपजीव्यविरोधमूलकलोकन्यायतया सूत्रपाठगतसन्निवेशापेक्षपूर्वत्वोपहितशास्त्रसमर्पकेण मोऽनुस्वार इत्येतच्छास्त्रैकवाक्यतापन्नपूर्वत्रासिद्धशास्त्रघटकपूर्वग्रहणेन प्रकृतपरिभाषाया ग्रहीतुमशक्यत्वेन परिभाषादृष्ट्या विघातकविधेरसिद्धत्वाभावेन परिभाषाप्रवृत्तेर्निर्विवादत्वादित्याहुः।।
केचित्तु ज्ञापकसिद्धापीयं परिभाषा, न तु लोकन्यायैकसाध्या।। अन्यथा पुरुषारम्भसहायेनैव लोकन्यायानां तत्र तत्र भाष्यकारैश्शास्त्रव्यवस्थापकत्वोपवर्णनेनास्याश्शास्त्रविषयत्वमेव न स्यात्।। धर्मिग्राहकसाजात्येनाभ्युपगन्तव्या विशेषविषयतापि परिभाषायाः शास्त्रसिद्धत्वमन्तरा दुर्लभा स्यात्।। अत आवश्यकं ज्ञापकसिद्धत्वमस्याः परिभाषायाः।। ज्ञापकं चात्र न तिसृचतसृ इति दीर्घनिषेधवचनम्।। तद्धि तिसृणां चतसृणामित्यत्र दीर्घाभावाय, तत्र ऋदन्तलक्षणे ङीपि दीर्घस्यानुपयोगादेवाप्राप्तौ दद्वैयर्थ्यं स्पष्टमेव ।। ज्ञापितायां तु परिभाषायां विभक्त्यानन्तर्यनिमित्तकस्य तिसृचतसृभावस्य तद्विघातकं ङीपं प्रत्यनिमित्तत्वात्तदप्राप्तावृकारान्तयोर्दीर्घवारणार्थं निषेधवचनमर्थवत्।। न च तिसृचतसृशब्दयोस्स्वस्त्रादिपाठेन न षट्स्वस्रादिभ्य इति निषेधेन ङीपोऽप्राप्त्या वचनसार्थक्येन कथं परिभाषाज्ञापकत्वमिति वाच्यम्।। कृन्मेजन्त इति सूत्रस्थभाष्यप्रामाण्येन तयोस्स्वस्रादिपाठस्यानार्षत्वात्।। तत्र हि तिस्रश्चतस्र इत्यादौ ङीप् प्रत्ययाभावस्य सन्निपातपरिभाषाप्रयोजनत्वनिरासाय आचार्यप्रवृत्तिर्ज्ञापयति न तिसृचतसृभावे ङीप् भवतीति, यदयं न तिसृचतसृ इति नामि दीर्घत्वस्य प्रतिषेधं शास्तीत्युक्तम्।। त्योस्स्वस्रादिपाठस्य प्रामाणिकत्वे तदसङ्गतिस्स्पष्टैव।। न चोक्तस्थले ङीबभावमनेन ज्ञापकेनाश्रित्य परिभाषोदाहरणत्वखण्डनपरनिरुक्तभाष्यविरोधादयुक्तमेवेदमुक्तनिषेधस्य परिभाषाज्ञापकत्वमिति वाच्यम्।। तिसृचतसृभावे ङीबभावमात्रप्रयोजनकतया परिभाषारम्भमपेक्ष्य ज्ञापकेनैव तत्फलोपपादनस्य न्याय्यतया तथा प्रतिपादनेऽपि सिद्धान्ते साक्षाच्छास्त्रबाधकल्पनापेक्षया संभवदनेकप्रयोजनकप्रकृतपरिभाषाज्ञापनद्वारैवोक्तस्थले ङीबभाव इति तद्भाष्यतात्पर्यपर्यवसानेन विरोधस्य दुर्वचत्वात्।। न च तिसृचतसृशब्दाभ्यां ङीपि अत्यादय इत्यतिशब्देन समासे गोस्त्रियोरिति ह्रस्वे नामि प्रसक्तस्य दीर्घस्य वारणाय निषेधस्य सार्थक्यात्कथं ज्ञापकत्वमिति वाच्यम्।। अन्तरङ्गानपीति न्यायेन सामासिकविभक्तिनिमित्तकत्वेन तिसृचतसृभावस्य प्रथमतः प्रवृत्त्ययोगात्।. न च समासोत्तरमवयवस्त्रीत्वमादाय तत्प्रवृत्त्या तत्सार्थक्यसंभव इति वाच्यम्।। उक्तनिषेधस्य ङीबभावसाधकज्ञापकत्वोपवर्णनपरभाष्यप्रामाण्येन तादृशप्रयोगाणामनभिधानात्।। इत्थं च ज्ञापकसिद्धानां वचनानां ज्ञापकदेशीयताया निर्विवादत्वेन प्रकृतपरिभाषदृष्ट्या विघातकविधेरसिद्धनया प्रवृत्त्ययोगादयुक्तमेवेदमनित्यत्वज्ञापनम्।। आवश्यकश्च त्रिपाद्यामस्याः परिभाषायाः प्रवृत्त्यभावः।। अत एव सञ्च्छुम्भुरित्यादौ शवर्णानन्तर्यनिमित्तकत्वेन प्रवृत्तस्य तुगागमस्य तद्विघातकछादेशनिमित्तत्वसंभवः।। नद्ध इत्यादौ झषस्तथोरिति घत्वस्य पूर्वधकारस्य जश्त्वप्रवृत्तिनिमित्तत्वसंभवः।। परिभाषाया अनित्यत्वेन तत्समर्थनं तु न ससञ्जसम्।। परिभाषादोषेष्वेवंविधानां भाष्ये परिगणनाभावात्।। दोषाः खल्वपि साकल्येन परिगणिता इति भाष्यकारैरुपपादितत्वाच्चेति सुधीभिराकलनीयमित्याहुः।।
अच्‌सन्धिरिति।। नन्वत्र कुत्वाभावादसाधुत्वमिति चेन्न। अल्पाच्तरमिति निर्देशेन स्वघठितवृत्तिघटकयत्किंचिन्निरूपितपूर्वत्वविशिष्टाच्पदीयचकारगतचुत्वप्रयुक्तप्रकृतशास्त्रीयकार्यसमर्पकत्वाभावज्ञापनेनाभीष्टसिद्धेरिति शिवम्।।

।। इति स्वारसन्धिः ।।

अथ हल्‌सन्धिः

योगक्रियायामिति।। तन्निरूपितमेवेह निमित्तनिमित्तिनोस्साहित्यम्।। एतदर्थमेव योग इत्यस्याध्याहारः।। अन्यथा प्रधानक्रियानिरूपितस्यैव तस्य परिग्रहापत्तौ साहित्याव्रच्छेदेनैव विधेयसंबन्धादादेशस्योभयनिवर्तकत्वप्रसङ्ग इति तत्त्वम्।। ननु योगस्समभिव्याहारस्स च पूर्वपरसाधारण इव व्यवहिताव्यवहितसाधारणोपीत्यनिष्टप्रसङ्ग इत्यत आह।। संयोग इति।। स च सम्यक्त्वविशिष्टस्समभिव्याहारः स्म्यक्त्वं च नैरन्तर्येणैवेत्यभिप्रेत्याह।। अव्यवहितयोरेवेति।। ननु समसंख्याकत्वेन सन्निविष्टानामुपस्थितिक्रमानुरोधी विशिष्टवाक्यार्थबोधविषयस्संबन्ध इति यथासंख्यसूत्रस्य निष्कर्षः।। तत्र सन्निवेशक्रमापेक्षश्चोपस्थितिक्रमः।। प्रकृते च तथदधनेत्यादिक्रमिकसन्निवेशस्य वर्णसमाम्नाये विधिशास्त्रे वा नास्त्युपलम्भ इति कथमिह तथाविधोपस्थितिक्रमप्रयुक्ता विधेयसम्बन्धव्यवस्था स्यादत आह।। तथदधनेत्यादि।। क्रमिकसन्निवेशप्रसिद्धिर्यथासंख्यसूत्रप्रवृत्तौ बीजं, सा च प्रसिद्धिर्वर्मसमाम्नायवदनादितया व्यवह्रियमाणे मातृकान्यासे वर्तत एवेति नास्तीह यथासंख्यसूत्रप्रवृत्तेर्विरोध इत्याशयः।।
षत्वस्यासिद्धत्वेनेति।। न च सकारस्यैव षत्वप्रवृत्तिवेलायां षत्वासिद्धत्वेन जश्त्वं किन्न स्यादिति वाच्यम्।। विसर्जनीयस्य स इति विहितस्य तस्याप्यसिद्धत्वात्।। प्राथमिकसकारबुद्ध्या तु न तत्प्रवृत्तिः।। स्वापवादभूतेन रुत्वेन बाधात्।। न च षत्वं रुत्वापवाद इति तदंशे रुत्वाप्रवृत्त्या षत्वासिद्धत्वेन जश्त्वं दुर्वारमिति वाच्यम्।। रुत्वविसर्गयोर्विसर्जनीयस्य स इति विहितस्य सकारस्य षत्वसम्पादनेन कृतार्थस्य षत्वविधेस्तदपवादत्वायोगात्।। न च तक्रकौण्डिन्यन्यायप्रयुक्तचारितार्थ्यविशिष्टस्वप्रथमप्राप्तिकालिकोत्सर्गप्राप्तियोग्यताविरहविशिष्टस्वप्रवृत्तियोग्यलक्ष्यशून्यत्वरूपनिरवकाशत्वेन रुत्वापवादष्षत्वमिति वाच्यम्।। तथा सति रुत्वापवादत्वात्षत्वं षत्वासिद्धत्वेन जश्त्वं तदपवादत्वाद्रुत्वमित्येवं चक्रकापत्त्या रूपासिद्धिप्रसङ्गेनानित्यस्य तक्रकौण्डन्यन्यायस्येहाप्रवृत्तेरवश्याभ्युपेयतया तदपवादत्वासंभव इत्याशयात्।।
केचित्तु तक्रकौण्डिन्यन्यायप्रवृत्त्या षत्वस्य रुत्वापवादत्वेपि चक्रकेष्विष्टतो व्यवस्थेति षत्वप्रवृत्त्या परिनिष्ठितत्वाभ्युपगमेनाभीष्टसिद्ध्या लक्ष्यापेक्षन्यायाप्रवृत्तितात्पर्यकं षत्वासिद्धत्वोपवर्णनं नातीव रमणीयम्।। परं तु चतुष्ट्वमित्यादौ रेफसंबन्धिविसर्गस्थानिकसकारस्य षत्वसंपादनेन कृतार्थस्य षत्वशास्त्रस्य रुत्वापवादत्वं न संभवतीति युक्तमित्याहुः।।
तात्पर्यमिति।। इदमेव युक्तम्।। यवादिगणे ककुद्मानिति विशिष्टपाठे मानाभावात्।। तं विना दकारनिपातनकल्पनाया अयोगात्।। अपपाठ इति।। मूले समाधातुं शक्यमित्युत्तरमिति केचिदित्यादिग्रन्थ इत्यर्थः।।
अधिकमिति।। तत्संबन्धोपायानुपलम्भादित्याशयः।। पकारमात्रे इति।। परसवर्णपदे इति शेषः।। चयोऽभावादिति।। उदस्थेति थादेशस्यासिद्धत्वादप्रवृत्त्या धातौ प्रवृत्तस्यासिद्धत्वेन वा शर्परत्वेऽपि चर्त्त्वासिद्धत्वेनोपसर्गे चयोऽभाव इत्याशयः।। प्रसिद्धाष्टाध्यायीपाठानुरोधादसिद्धत्वेन थस्य चर्त्वाभावाच्चयोऽभाव इति मूलकाराशयमुत्प्रेक्ष्याह।। षट्मूत्रीपाठोत्तरमिति।। ननु पूर्वत्रासिद्धीयमद्वित्व इत्युपसर्गदकारस्य चर्त्वोत्तरं द्वित्वे वाक्क् वाक् इति भाष्योदाहरणप्रामाण्येन द्वित्वाश्रयस्य कार्यविशेषकर्तव्यतायामप्यसिद्धत्वाभावस्यावश्यमभ्युपगन्तव्यत्वान्नादिन्याक्रोश इत्येतत्सूत्रपठितद्वितीयादेशबोधकवचनदृष्ट्या परस्योदस्थेत्यस्य त्रैपादिकासिद्धत्वस्य निर्विवादतया शर्परत्वसौलभ्येन द्वितीयादेशप्रवृत्तिविषयकः प्राचीनोद्धोषो युक्त एवेति चेन्न; शिक्षायां ऊष्मोदयं प्रथमं स्पर्शमेके द्वितीयमाहुरपदान्तभाजमित्येतद्वचनघटकस्यापदान्तभाजमित्यास्य प्राङ्‌ख्‌ षष्ठ इत्यादिप्रयोगोपपत्त्यर्थमचर्त्वभाजमित्यर्थकतया तदेकवाक्यतासंपत्तये प्रकृतवचनस्यापि चर्त्वनिष्पन्नातिरिक्तविषयकताया औचित्येनोच्छब्दसंबन्धिनस्तकारस्य द्विरुच्चारणात्मकद्वित्वप्रवृत्त्युत्तरमपि चर्त्वनिष्पन्नत्वानपायाद्द्वितीयादेशप्रवृत्त्यसंभव इत्याशयात्।।
केचित्तु द्वित्वशास्त्रेण चर्त्वनिष्पन्नसजातीयोऽन्य एव प्रादुर्भाव्यत इति नायं चर्त्वनिष्पन्नः।। वाक्क् वाक् इति भाष्यस्याप्ययमेवाश्यः।। अत एवैर्त्सन्नित्यादौ पूर्वत्रासिद्धीयमद्विर्वचन इति चर्त्वोत्तरं द्वित्वे द्विरुक्ततकारस्योत्तरखण्डीयस्य सन्संबन्धिसकारात्मकशर्परत्वनिमित्तको द्वितीयादेश इति सार्वजनीनः सिद्धान्तः।। तत्थ्‌सवितुरित्यादावपि द्वित्वोत्तरमेव द्वितीयादेश इति न किंचिदनुपपन्नम्।। परं तु द्वित्वानुपन्यासेनोत्थानमित्यादौ द्वितीयादेशोपपादनं प्राचीनानामयुक्तमित्याहुः।।
शर्परत्वाभावश्चेति।। धातुतकारस्येति भावः।।
उक्तरीतेरिति।। अपवादभूतावसानिकचर्त्वप्रवृत्त्युत्तरं जश्त्वप्रवृत्तिरीतेरित्यर्थः।। अत्रायं निष्कर्षः।। विशेषशास्त्रेण सामान्यशास्त्रस्य बाधनं द्वेधा।। सर्वथा निरवकाशत्वेन, उत्सर्गप्राप्तिकालिकतदप्राप्तियोग्यलक्ष्यशून्यत्वेन च।। तत्र सर्वे ब्राह्मण भोज्यन्तां माठरकौण्डिन्यौ परिवेविष्टामित्यत्र भोजनकाले भोजनोत्तरं चानुपपन्नतया सर्वथा निरवकाशेन परिवेषणेन भोजनस्येव यत्र बाधः, यथा ङेराम्नद्याम्नीभ्य इत्यनेन याडाप इत्यस्य, न हि कृते याट्यामः प्रवृत्तिसंभवः।। निर्दिश्यमानस्य याटा व्यवधानात्, प्रवृत्तिकालेप्यनुपपत्तिरेव, यौगपद्यासंभवात्तत्र परिवेषणोत्तरं भोजनवत् सर्वथा निरवकाशेन बाधितस्य याटो बाधकप्रवृत्त्युत्तरमुत्सर्गस्य सति संभवे भवत्येव प्रवृत्तिः।। यत्र तु सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेत्यत्र दधिदानोत्तरं प्राप्तियोग्यतया चरितार्थेनापि तक्रदानेन दधिदानस्येवोत्सर्गप्रवृत्त्युत्तरकालिकचारितार्थ्योपहितेन तत्प्रवृत्तिकालिकतदप्रवृत्तियोग्यलक्ष्यशून्यत्वेन बाधः।। यथा दयतेर्दिगि लिटीत्यनेन लिटि धातोरनभ्यासस्येत्यस्य, तत्र हि द्वित्वोत्तरमुत्तरखण्डे प्रवृत्त्या सत्यपि चारितार्थ्ये द्वित्वप्रवृत्तिकालिकद्वित्वाप्रवृत्तियोग्यस्वप्रवृत्तिविषयलक्ष्यशून्यतया दिग्यादेशेन द्वित्वस्य बाधः।। तत्र तक्रदानोत्तरं दधिदानस्येव बाधकप्रवृत्त्युत्तरं पुनरुत्सर्गस्याप्रवृत्तिः।। एवं च तक्रकौण्डिन्ययन्यायप्रवृक्तचारितार्थ्यमूलकबाधकत्वोपहितेनावसानिकचर्त्वेन बाधितस्य जश्त्वस्य पुनः प्रवृत्तिर्न संवतीति।। तदेतत्सूचयन्नाह।। एतदेवाभिप्रेत्येति।। वाक्यसंस्कारपक्षेणैवेति।। पक्षयोर्लक्ष्यानुरोधेन व्यवस्थितत्वात्पदसंस्कारपक्षोऽत्रन दोषाधायक इत्याशयः।। अन्ये त्विति।। अत्रारुचिबीजं तु प्रागुपदर्शितविसर्जनीयस्य स इति सूत्रस्थभाष्यविरोधः।।
ननु यथासंख्यमित्यस्य क्रियाविशेषणत्वात्तद्विशिष्टविधिप्रवृत्तिनियामकशास्त्रप्रवृत्तेरिष्टत्वादिति वक्तव्ये यथासंख्यस्येष्टत्वादित्ययुक्तमत आह।। ख्यान्तैकदेशेनेति।। एवं चानुवाद्ययोरपि यथासंख्यमनुदेशस्समानामित्येतच्छास्त्रस्य व्यवस्थापकत्वेनाभीष्टत्वादित्यर्थ इत्यदोषः।।
परत्वादिति।. ननु विप्रतिषेधशास्त्रप्रयोज्यव्यवस्थायां न केवलं शास्त्रगतं परत्वमेव बीजमपि तु तुल्यबलविरोधोऽपीति कथमिह तत्‌प्रयोज्यव्यवस्था स्यादत आह।। डकारात्सकार इत्यादि।। परत्वेन व्यवस्थेति।। ननु पञ्चमीनिर्देशसप्तमीनिर्देशयोरुभयोरप्यचारितार्थ्ये तव्यदादीनामिव पर्यायतैव प्राप्नोति।। यदि च सप्तमीनिर्देशस्य लाघवार्थत्वेन चारितार्थ्यमभिसंधीयते तर्हि पञ्चमीनिर्देशस्य निरवकाशत्वेनैव व्यवस्था भविष्यति।। अत एव तस्मिन्नितिसूत्रे भाष्ये उभयनिर्देशप्रदेशानुदाहृत्य विप्रतिषेधमुपपाद्य विभक्तिविशेषानवकाशत्वादविप्रतिषेधः।। सर्वत्रैवात्र कृतसामर्थ्या सप्तमी, अकृतसामर्थ्या पञ्चमीति कृत्वा पञ्चमीनिर्देशो भविष्यतीत्युक्तम्।। एवं च पञ्चमीनिर्देंशस्य परत्वेन व्यवस्थापनमयुक्तमेवेति चेत्; सत्यम्। निरवकाशयोस्सप्तमीपञ्चमीनिर्देशयोस्तुल्यबलत्वविरोधाभ्यां विप्रतिषेधशास्त्रसहायेन पञ्चमीनिर्देशस्य परत्वप्रयुक्तायां व्यवस्थायामुपस्थितस्योत्तरस्येत्यंशस्य सामानाधिकरण्याय सीत्यस्य षष्ठ्यर्थत्वनिश्चये सप्तमीनिर्देशस्य कथंचित्सार्थक्यसंपादनाय लाघवार्थत्वानुसंघानं, न तु व्यवस्थायाः पूर्वं, तत्काले हि निर्देशयोः परिभाषाप्रवर्तकत्वाप्रवर्तकत्वाभ्यामेव सावकाशनिरवकाशभावो विचारविषयः।। सजातीयविषयताया औचित्यात्।। प्रकृते च द्वयोरपि पञ्चमीनिर्देशसप्तमीनिर्देशयोरन्यत्र परिभाषाप्रवर्तकत्वरूपसावकाशताया दुर्लभत्वान्निरवकाशत्वस्योभयसाधारण्ये तव्यदादिषु विधेयत्वपुरस्कृतप्राधान्योपहितप्रत्ययानुरोधेन गुणभूतप्रकृतिरूपधातोरावृत्त्याश्रयणेन पर्यायतायास्संभवेऽपि गुणभूतनिमित्तानुरोधेन प्रधानभूतधुडागमावृत्तेरनौचित्येन पर्यायताया असंभवाच्चरितार्थयोरिवाचरितार्थयोरपि तुल्यबलत्वविरोधाभ्यां विप्रतिषेधशास्त्रविषयत्वे बाधकाभावेन पञ्चमीनिर्देशस्य परत्वेनैव व्यवस्थापनं युक्तम्।। तस्मिन्निति सूत्रस्थं तु भाष्यं ङमो ह्रस्वादचीत्यादिसावकाशसप्तमीनिर्देशविषयम्। अत एव नश्चेतिसूत्रे कृतार्थाया न इति पञ्चम्याश्शि तुगित्यत्र शीतिसप्तम्या निरवकाशया बाध इति सर्वाभिप्रेतमुपपद्यत इत्याशयोऽत्र विभावनीय इत्याहुः। अत एव तुडिति।। द्वितीयादेशाप्रवृत्त्यर्थं धुट आवश्यकत्वादेव तुडिति नोक्तमित्यर्थः।। श्चुत्वं धुटि सिद्धं वाच्यमिति वार्तिके कार्यविशेषोपादानफलं दर्शयितुमाह।। श्चुत्वस्य धुटि सिद्धत्वेपीत्यादि।। तुग्नेति बोध्यमिति।। एतेन तुगिति वक्तव्ये धुट्‌करणे ष्टुत्वनिषेधमात्रप्रयोजनकमित्यपास्तम्।।
द्वयोरचरितार्थयोरिति।। उभयोरपि परिभाषाप्रवर्तकत्वरूपचारितार्थ्याभावे विप्रतिषेधशास्त्रसहायेन विरोधसमबलत्वोपपन्नस्य पञ्चमीनिर्देशस्य प्राबल्ये सप्तमीनिर्देशस्य लाघवार्थत्वम्। इह तु पञ्चमीनिर्देशस्य सावकाशतया निरवकाशेन सप्तमीनिर्देशेन बाध एवोचित इत्याशयः।। षष्ठ्यर्थेइति।। डःसीति सीत्येतत्साहचर्येणेत्याशयः।। ननु विरप्‌शमित्यस्य छान्दसत्वात्तत्र वर्णव्यत्ययेनाप्युपपत्तौ तदर्थं पदान्तादित्यनुवृत्तिपरिक्लेशो व्यर्थ इत्यत आह।। छान्दसार्थमपीति।। सत्यामुपपत्तौ बाहुलकाश्रयणमयुक्तमित्याशयः।। ननु छत्वस्य वैकल्पिकत्वाच्छन्दस्यापाद्यमानरूपाभावाच्च निर्वाहे निरुक्तक्लेशो व्यर्थ एवेत्यत आह।। लौकिकविरप्‌शस्येति।। अनुकरणात्मनक्सयेत्यर्थः।।
केचित्तु अनुकरणभूते विरप्शमित्यत्रानुकारणस्वरूपभङ्गभयेनापि छत्वनिवृत्तेस्सुवचतया नेदमुदाहरणं युक्तम्।। परं तु चक्षिङःख्याञादेशस्य ख्शादित्वात् शस्य यो वेति विहितयादेशस्य वैकल्पिकत्वाच्च यादेशाभावपक्षे चक्शावित्यादौ छत्वाभावार्थमाकरे तदनुवृत्तिसमारम्भ इति सुधीभिराकलनीयमित्याहुः।।
ननु कुर्वन्‌च्छेते इत्यत्र तुक्‌स्थानिकश्चुत्वनिष्पन्नचकारमाश्रित्य णत्वनिषेधो मूलोक्तयोगविभागेन साध्यः। तत्र श्चुत्वस्य निषेधापेक्षया परत्वेनासिद्धतया कथं निषेधोपपत्तिरत आह।। श्चुत्वस्यासिद्धत्वं तु नेति।। वचनसामर्थ्यादिति।। ननु हे प्राण्‌ चरसीत्यादौ अन्त इति सूत्रेणानितेः प्रवर्तमानस्य णत्वस्य निषेधार्थं वचनं स्यादिति कथं सामर्थ्यम्।। न च श्चुनेत्यनेन श्चुशब्देन भावितस्यैव ग्रहणं न तु स्वतस्सिद्धचकारादेरिति वाच्यम्।। श्चोततेरुपदेशे सादित्वेन श्चुत्वनिष्पन्नशकारघटिते प्राण् श्चोततीत्यादौ दोषध्रौव्यादिति चेत् सत्यम्।। योगविभागादिष्टसिद्धिरिति न्याय एवात्र शरणमिष्टसिद्धिरेव न त्वनिष्टापादनमिति हि तदर्थ इत्याहुः।। नव्यमते कार्यकालयथोद्देशपक्षयोरुभयोरपि त्रिपाद्यां बहिरङ्गपरिभाषाया अप्रवृत्तेराह।। सर्वथेति।। इदमेवेति।। योगविभागेन णत्ववारणमेवेत्यर्थः।। असिद्धत्वादित्यस्य बहिरङ्गासिद्धत्वादित्यर्थः।।
ङमिति प्रत्याहाररूपायामिति।। ननु हलन्त्यमित्यनेनाज्ञातस्वस्वरूपज्ञापनतात्पर्यप्रयुक्तोच्चारणविषयसमुदायचरमावयवस्य हल इत्संज्ञा बोध्यते। प्रत्याहारात्मकोऽयं ङम्शब्दश्च आदिरन्त्येनेत्येतच्छास्त्रेण स्वरूपातिरिक्ते सङ्केतितो न तु स्वरूपबोधक इति तत्रानुबध्यमानस्य टकारस्य कथमित्संज्ञाप्रवृत्तिरिति चेन्मैवम्।। अज्ञातस्वस्वरूपज्ञापनं च नाज्ञातस्वस्वरूपबोधनं, परं तु तदुपस्थापनं, तच्चस्वंरूपमित्येतच्छास्त्रबलादन्यत्रेव ङमुटाशब्देप्यस्त्येव। बोधविषयता तु टकारस्येत्संज्ञालोपाभ्यामपगमे मान्तस्य प्रत्याहाररूपत्वादादिरन्त्येनेत्येतच्छास्त्रबोधितसङ्केतवशादाक्षरसमाम्नायिकङकारप्रभृतिमकारपर्यन्तवर्णानामेवेत्यन्यत्।। ततश्च प्राथमिकोपस्थिति विषयसमुदायचरमावयवस्य टकारस्य हलन्त्यमित्येतद्विषयताया निर्वाधत्वेनेत्संज्ञाया अव्याघातात्।। विभाषामध्ये इति।। विकल्पविषयविधेद्वयमध्ये इत्यर्थः।। पूङःत्त्वा चेति।। तत्र हि उदुपधाद्भावादिकर्मणोरन्यतरस्यामित्यतो विकल्पानुवृत्तिमाशङ्क्य नित्यमकित्त्वमिडाद्योरिति भारद्वाजीयमतमनुसृत्य उदुपधाद्भावादिकर्मणोरन्यतरस्यां नोपधात्थफान्ताद्वेति विभाषाद्वयमध्ये पाठादन्यतरस्यामित्यस्यासंबन्धो विभाषामध्ये च ये विधयस्ते नित्यास्तेन पूङःपरौ सेठौ क्त्वानिष्ठाप्रत्ययौ नित्यमेव कितौ नेत्युक्तमिति बोध्यम्।। ननु ङम इति पञ्चम्या निरवकाशया मय उञ्‌इत्यत्र संबन्धेन कृतार्थाया अचीति सप्तम्याष्षष्ठीत्वकल्पनाया औचित्येन पूर्वादित्वस्यासंभवादेव परादित्वमिति न तत्र फलान्वेषणोपयोग इत्यत आह।। ङम इत्यस्येति।। पूर्वसूत्रे न इत्यस्य षष्ठ्यन्ततामाश्रित्य तुकः पूर्वावयवत्वकल्पनात्तदनुरोधेनात्रापि ङम इत्यस्य षष्ठ्यन्तत्वानुसन्धानेन ङमुटः पूर्वावयवत्वसंभाव इत्याशयः।। ननु पदस्येत्यधिकारात्तद्विशेषणत्वेन ङम इत्यस्य षष्ठ्यन्तत्वानुसन्धानेन ङमुटः पूर्वावयवत्वसंभव इत्याशयः।। ननु पदस्येत्यधिकारात्तद्विशेषणत्वेन ङम इत्यस्य षष्ठ्यन्तत्वे तदन्तविधौ ह्रस्वावधिकपरत्वविशिष्टङमन्तपदस्य ङमुडित्यर्थे विशिष्टस्य ङमुडागमप्रवृत्त्या पूर्वादित्वस्य वक्तुमशक्यत्वादेव परादित्वमिति तस्य कुर्वन्नास्त इत्यादिस्थलीयणत्वनिवृत्तिमात्र प्रयोजनकत्वोपवर्णनमनुचितमत आह।। अवयवषष्ठीति।। न लोपः प्रातिपदिकान्तस्येति सूत्रस्थान्तग्रहणेन पदाधिकारस्य क्वचिद्वैयधिकरण्यस्यापि ज्ञापनादिति भावः।। अत एवं ताटित्वानित्यादौ वत्वसिद्धिः।। अन्यथा झय इत्यत्र झयन्तात्पदादित्यर्थे तान्तसान्तयोर्भसंज्ञकतया तदनुपपत्तिस्पष्टैव।। यद्यैवं पदावयवस्य ह्रस्वात्परस्य ङमो ङमुडित्यर्थस्य पर्यवसानात् धनं वनमित्यादवपि तत्प्रसङ्गः।। न च पदस्येत्यस्य संबन्धमहिम्ना ङम्पदावृत्त्या ङमन्तपदावयवस्य ङमो ङमुडित्यर्थ इति वाच्यम्। एवमपि खनत्यादिभ्यश्शातरि खनन्नास्त इत्यादौ अनन्त्यस्यापि ङमुडापत्तिरत आह।। अजादौ पदे इति।। कार्यकालपक्षसंबन्धीति।। इदंप्राचीनाभिप्रायवर्णनं, न तु सिद्धान्त इत्याह।। दिगर्थ इति।। अभाव एवेति।। पक्षद्वयेऽपि तत्परिभाषायास्त्रिपाद्यामप्रवृत्तेर्विसर्जनीयसूत्रे भाष्यकृता व्यवस्थापितत्वादिति भावः।। आगमानामागमिधर्मवैशिष्ट्यमिति।। वाक्यशेषाध्याहारस्य बोद्ध्रधीनत्वाद्यदागमपरिभाषायां गृह्यन्त इत्यस्य कर्मतया सागमा आगमाश्च संबध्यन्ते, प्रकृतसूत्रस्थं भाष्यमेवात्र प्रमाणम्।। तत्र हि ङमो ङमुडितिपक्षे कुर्वन्नास्ते इत्यत्राद्यनकारस्यापदान्तस्य णत्वनिषेधोपायतया पदान्तभक्तः पदान्तग्रहणेन ग्राहीष्यत इत्युक्तमित्याशयः।। ननु लोकन्यायसिद्धमिदं यदागमा इति, लोके चाङ्गाधिक्ये तद्विशिष्टस्यैव देवदत्तादिग्रहणेन ग्रहणाद्युक्तमागमविशिष्टस्यागमिग्रहणेन ग्रहणम्।। देवदत्तादिग्रहणेनाधिकाङ्गग्रहणस्य सर्वानुभवविरुद्धत्वात्कथमागमानामागमिधर्मवैशिष्ट्यमिति चेन्न।। अङ्गुल्याकारस्याङ्गुल्यवयवस्य षष्ठाङ्गुलित्वेन व्यवहारस्य सकलसुप्रसिद्धतया परिभाषायामागमानामागमिधर्मव्यपदेशोऽपि लोकन्यायसिद्ध एवेत्याशयात्।। यत्तु मिदचोऽन्त्यात्पर इति सूत्रस्थभाष्यविरोधादिदमयुक्तं, तत्र ह्याद्यन्तौ टकितावित्यत आदिपदानुवृत्त्या मितः परादित्वे द्विषन्तप इत्यत्र द्विषच्छब्दावयवतकारात् पूर्वं तदीयाद्यवयवत्वेन प्रवर्तमानस्य मुमः पदान्तत्वाभावान्मोनुस्वारो न स्यादित्युक्तम्, पदान्तभक्तस्य पदान्तग्रहणेन ग्रहणे हि तदसङ्गतिरेवेति, तदविचारविलसितम्।। द्विषन्तप इत्यत्र तकाराद्यवयवत्वेन प्रवृत्तस्य मकारस्य संयोगान्तलोपोत्तरं पदान्तत्वप्रयुक्तस्यानुस्वारस्य निर्बाधतया तदनापत्तिप्रतिसन्धानस्यैकदेशयुक्तित्वेन तद्भाष्यविरोधस्याकिंचित्करत्वादिति दिक्।। इत्येवार्थ इति।। पूर्वसूत्रे न इत्यस्य षष्ठ्यन्तत्वात् प्रकरणानुरोधेनात्र ङम इत्यस्य षष्ठ्यन्तत्वनिश्चये तदनुरोधात्सामानाधिकरण्यान्वयोऽपि प्रसज्येत, ह्रस्वादिति च पदस्येत्यनेनैव संबध्येत न तु तदन्तविधिना ङमन्तबोधकङम्शब्दार्थैकदेशेन ङमा, ``पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेने ति व्युत्पत्तिविरोधात्।। किं च पदाधिकारसंबन्धस्योत्तरत्र संबन्धाविच्छित्तये राजनित्याहेत्यदौ ङमुटोऽप्रवृत्तये च सार्थकतया न तद्वैयर्थ्यशङ्कावकाश इत्याशयस्तदाह।। न प्रागुक्त इति।. महदनिष्टमिति।। विशिष्टपदस्यैवाद्यवयवत्वेन ङमुट्प्रवृत्तिरूपमित्यर्थः।। एतदनिष्ठवारणाय ङमुगागमविधाने कुर्वन्नास्त इत्यादौ प्राथमिकनकारस्य णत्ववारणं दुष्करमेव, तस्मादिह ह्रस्वात्परीभूतपदावयवङमः परस्याजादेः पदस्य ङमुडित्यर्थोऽवश्यमभ्युपेय इति तात्पर्यम्।। स निषेध इति।। अत्र दीक्षितादयः, उत्तरपदत्वे चेत्यत्रापदादिविधाविति प्रसज्यप्रतिषेधः, सत्या भामेतिवन्नामैकदेशे नामग्रहणात्। उत्तरेत्युत्तरपदार्थकं, तच्च लुप्तषष्ठीकं पृथक्‌पदं, तथा च उत्तरपदसम्बन्धिपदत्वे संपादनीये प्रत्ययलक्षणस्य प्रतिषेधः।। पदादिविधिप्रयोजकपदत्वे तु नायं निषेध इत्यर्थः।। परमवाचावित्यादावन्तर्वर्तिविभक्तिनिमित्तके पदत्वे प्रत्ययलक्षणप्रतिषेधात्तत्‌प्रयुक्तानां कुत्वादीनामभावः।। पदादिविधौ निषेधाभावाच्च दध्नस्सेचौ दधिसेचावित्यत्रान्तर्वर्तिसामासिकसुब्निमित्तकपदत्वप्रयुक्तस्सात्पदाद्योरिति षत्वनिषेधः।. पदादिविधिश्च प्रतिपदोक्त एव।। तेन तत्त्वबुधावित्यादौ सामासिकसुब्निमित्तकपदत्वे प्रत्ययलक्षमप्रतिषेधात् पदान्तत्वप्रयुक्तस्य वस्तुतः पदादिकार्यस्य भष्भावस्याभावः।। ङमन्तपदात्‌परस्याचो ङमुडित्येव प्रकृतसूत्रस्यार्थः।। अदिकारातः प्राप्तस्य पदस्येत्यस्य वैयधिकरण्येन संबन्धापेक्षया ङम इति समानाधिकरणविशेषणानुरोधात्पञ्चम्य विपरिणामस्यैव सुगमत्वात्।। उञि च पदे इत्यतः पदे इत्यस्यानुवृत्तिषष्ठीविपरिणामौ च फलाभावादुपेक्ष्यौ।। एवं स्थिते परमदण्डिनावित्यादौ निरुक्तरीत्या प्रत्ययलक्षणनिषेधान्ङमुडभावः।। स्पष्टं चेदं प्रकृतसूत्रे भाष्ये इत्याहुः।. तत्र लक्ष्यविसंवादादसाङ्गत्यं मन्यमान आह।। पर्युदासेनेति।। प्रसज्यप्रतिषेधाश्रयणे वाक्यभेदासमर्थसमासकल्पनाभ्यां परिक्लेशः प्रसिद्ध एव।। पदत्वे इति च तत्‌प्रयुक्तविधिपरम्।। इत्थं च पदादिविधिभिन्ने तत्‌सदृशे पदान्तविधौ प्रत्ययलक्षणस्य प्रतिषेध इत्यर्थः।। अत एव पूर्वसुगण्णीश इत्यत्र त्रिपदे बहुव्रीहावुत्तरपदनिमित्तकावान्तरतत्पुरुषगर्भे ङमुण्णिर्बाधः।। नन्वेवं पञ्चगोराड्धन इत्यत्र निरूक्तबहुव्रीहिघटकावान्तरतत्पुरुषीयोत्तरपदभूतगोराट्छब्दराट्छब्दान्यतरनिष्ठपदत्वप्रयुक्तो न पदान्तादिति ष्टुत्वनिषेधो दुर्लभः, तस्यापि पदान्तविधित्वाविशेषादत आह।। किं चेति।। उत्तरपदस्येत्यर्थकस्य उत्तरेत्यस्य पदत्वप्रयुक्तेन विधिना संबन्धो न तु पदत्वेनेत्याशयः।। माषकुम्भवापेनेति।। कार्यित्वनिवेशादेव कुम्भशब्दगतपदत्वनिमित्तकस्य पदव्यवायेपीत्यस्य प्रवृत्तिरित्यर्थः।। ननु कार्यित्वनिवेशे पूर्वदण्डिप्रिय इत्यादौ त्रिपदेबहुव्रीहाववान्तरतत्पुरुषीयोत्तरपदभूतस्य दण्डिन्शब्दादेः षदत्वप्रयुक्तनलोपप्रवृत्तिर्दुर्लभा, तस्योत्तरपदस्य कार्यितया निरुक्तनिषेधेन प्रत्ययलक्षणायोगात्।। तस्मात् प्रकृतवार्तिकस्थशब्देन्दुशेखरीत्य मध्यमत्वानाक्रान्तस्यैवोत्तरपदस्य प्रकृतनिषेधविषयताया आवश्यकतया तेनैव माषकुम्भवापेनेत्यादावुपपत्तेस्तत्र णत्वनिषेधस्य कार्यित्वनिवेशप्रयोजनत्वोपवर्णनमयुक्तमिति चेन्न।। स्वनिष्ठसुबन्तत्वप्रयोज्यसमासीयपूर्वोत्तरपदनिरूपितमेवेह मध्यमत्वं, प्रत्यासत्त्यनुरोधात्।। तच्च त्रिपदबहुव्रीहावेव संभवति।। माषकुम्भवोपेनेत्यादौ तु तत्पुरुषगर्भस्तत्पुरुष इति कुम्भादेर्निरुक्तमध्यमत्वानाक्रान्तत्वेन निषेधविषयत्वापत्त्या णत्वनिषेधप्रयोजकपदत्वसमर्थनाय कार्यित्वनिवेशस्यावश्यकत्वात्।। अत एव व्युत्पत्तिपक्षे परमसर्पिः कुण्डिकेत्यादौ विशिष्टस्य इसुसन्तत्वाभावात् पूर्वसमासीयोत्तरपदभूतसर्पिरादीनामनेन निषेधेन पदत्वाभावादिसुसन्तपदावयवविसर्गस्य स्थाने प्रवर्तमानस्य षादेशस्य प्रवृत्त्ययोगाद्व्यर्थमनुत्तरपदस्थग्रहणमित्याशङ्क्य परमसर्पिष्करोतीत्यादौ षत्वप्रवृत्तिफलकतया तदन्तविधिद्वयज्ञापनेन सार्थक्योपवर्णनपर नित्यं समास इति सूत्रस्थशब्देन्दुशेखरादिग्रन्थसङ्गतिं।। यथाकथंचित् मध्यमत्वग्रहणे तु सर्पिरादीनामपि मध्यमत्वाक्रान्तत्वेन प्रत्ययलक्षणनिषेधविषयत्वभावात्तदसङ्गतिरेव। तस्मात्स्वनिष्ठसुत्रन्तत्वप्रयोज्यसमासघटकपूर्वोत्तरपदावधिकमध्यभागवृत्तित्वाभाववदुत्तरपदोद्देश्यकपदादिविधिभिन्नपदत्वप्रयोज्यविधिप्रयोजकप्रत्ययलक्षणस्याभाव इति निष्कर्षः।। तथा च परमदण्डिनावित्यादौ प्रकृतकार्योद्देशयत्वानुपहितस्य दण्डिनित्यादेरुत्तरपदस्य प्रत्ययलक्षणनिषेधविषयत्वाभावेन पदत्वस्य सुस्थतया ङमत्वपदात्परस्याचो ङमुडिति व्याख्यानं न तत्र ङमुण्णिवारणोपाय इत्याशयः, तदाह।। इत्युच्यते तदेति।। अजादेः पदस्येति।। उञि च पदे इत्यतः पदे इत्यस्यानुवृत्ति-रवश्यमाश्रयितव्या।। पदावयवङमः परस्याजादेः पदस्य ङमुडित्येव तदर्थ इत्याशयः।। नन्वेवमिण्गतावित्यस्माल्लङ्‌मध्यमपुरुषैकवचने एरित्यस्य तिङश्चेति अकचि राजन्नकैरित्यत्र विशिष्टस्याकचो वा पदात्वाभावान्ङमुडनापत्तिरिति चेन्न।। तत्राप्यर्थवत्सूत्रेण विशिष्टस्य प्रातिपदिकत्वस्य निर्बाधत्वादौत्सर्गिकैकवचनेन पदत्वाक्षतेः।। अन्यथा तस्यापदं न प्रयुञ्जीतेति निषेधविषयतैव स्यात्।। न च सुगण्णीश इत्यत्रोत्तरपदस्य निरुक्तरीत्या पदत्वाभावान्ङमुडनापत्तिरितिवाच्यम्।। वाक्ये ङमुटो निर्बाधत्वेन वृत्तिकारद्युदाहरणोपपत्त्या समासे तस्यानिष्ठत्वे क्षत्यभावात्।। अत एव वृषणश्व इत्यत्र ङमुडभावः।। सनन्तप्रक्रियायङन्तप्रक्रियेत्यादावपि प्रागुक्तरीत्या प्रत्ययलक्षणनिषेधविषयत्वादन्तशब्दस्य ङमुट्‌प्रवृत्त्यभावादुपपत्तिः।। इको यणचीत्यादिस्तु संहिताया अविवक्षया निर्बाधः।। नन्वेवं सुगण्‌शब्दोपपदकात् अयधातोः कर्मण्यणि सुगण्णाय इत्यत्र ङमुट्‌प्रवृत्त्ययोगान्निरुक्तव्याख्यानमयुक्तमत आह।। स्पष्ट चेदमित्यादि।। तथा चैवं व्याख्यानपरभाष्यप्रामाण्यादीदृशानामनभिधानमभीष्टो वा तत्र ङमुडभाव इति गुढाशय इति दिक्‌ [टि- दिगिति।। दिगर्थस्तु यदि त्वार्द्रगोमयेणेत्यादौ निषेधाप्रवृत्तये क्रियमाणस्य अतद्धिते इति वक्तव्यमिति वार्तिकस्य प्रत्याख्यानायाश्रिते ``पदे व्यवाये नेति व्याख्याने पदपदस्य पदत्वयोग्योपलक्षणत्वस्याश्रयणवन्माषपवापेनेत्यादौ णत्वव्यावृत्तये आरम्भपक्षेऽपि पदपदस्य पदत्वयोग्योपलक्षणत्वाश्रयमस्यावश्यकतया कार्यित्वनिवेशे फलाभाव इत्युच्यते, तदा राजपुरुषशब्दादाचारक्विपि लोण्मध्यपुरुषैकवचने निष्पन्नात्परत्न भवतीत्यस्य प्रयोगे तिङतिङ इति निघातार्थं कार्यित्वनिवेश आवश्यकः। तत्रोत्तरपदभूतपुरुषशब्दस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वादतिङ इत्यस्य पर्युदासत्वेन तिङन्तभिन्नत्वाच्च तत्र निघात इष्ट एवेति बोध्यमिति।।]।।
इदमेव ज्ञापकमिति।। समस्सुटीति सूत्रमेवेत्यर्थः।। अन्यथा समो मलोपमेक इति लोपे लोपस्यापि रुप्रकरणविधेयत्वादनुस्वारानुनासिकयोः सकृद्‌द्वित्वेन द्विसकारकस्य पुनर्द्वित्वेन त्रिसकारकस्यापि सिद्धौ सूत्रं व्यर्थमेव स्यादिति भावः।। ननु सूत्रसत्त्वे त्रिसकारकरूपसम्पत्तये सकृदेव द्वित्वशास्त्रस्य प्रवृत्तिः।। सूत्राभावे द्विवारं द्वित्वशास्त्रप्रवृत्तिरिति प्रक्रियालाघवार्थं सूत्रमावश्यकम्।। न च सूत्रसत्त्वे द्विसकारकसम्पत्त्यर्थं खरवसानयोरित्यादिप्रवृत्त्याश्रयणप्रयुक्तं गौरवमधिकमिति वाच्यम्।। सम्पुङ्कानामिति वार्तिकबलेन समस्सुटीत्यत्र सकारं प्रश्लिष्य मकारस्यैव सकारविधानेन विसर्गाद्यनपेक्षणादिति चेन्न।। समस्सुटीत्यस्य सत्त्वे तत्प्रवृत्त्या द्विसकारकं द्वित्वप्रवृत्त्या त्रिसकारकं, सूत्राभावे च द्विवारं द्वित्वशास्त्रप्वृत्त्या द्विसकारकत्रिसकारकयोस्सिद्धिरिति शास्त्रप्रवृत्त्यप्रवृत्तिकृतलघुगुरुभावस्य दुर्वचत्वादित्याहुः।।
नन्वधिकारपक्षवद्विधिपक्षेऽपि रुप्रकरणपाठादेव तल्लाभादत्रग्रहणं व्यर्थमेवेत्यधिकारपक्षमात्रपरतया तद्वैयर्थ्योपपादनं मूलकारस्यायुक्तमित्यत आह।। विधिपक्षे इति।। अत्र रुप्रकरणे इति।. तेन ससजुषोरिति विहितरुत्वविषये नास्य प्रवृत्तिरिति भावः।। विधित्वे त्विति।। यद्यपि मतुवसोरु इत्यतः प्रागेव पठितव्ये तदुत्तरं पाठादेव तद्विषयेऽस्य प्रवृत्त्यभाव इति वक्तुं शक्यं, तथापि तत्र क्लेश इति भावः।।
ननु पूर्वशब्देनागमत्वबोधनस्य दृष्टान्ततया प्रतिपादनादवधारणार्थक एवकारो न युक्त इत्याह।। प्रसिद्धाविति।। तत्‌प्रसिद्धिश्च उरण्‌ रपर इत्यत्रेति बोध्यम्।।
अवसाने न स इति।। खरवसानयोरुभयोरपि सत्वप्रवृत्तौ विसर्गविधानवैयर्थ्यादन्यतरस्मिन् तद्विधाने खरीत्यस्याननुवृत्तौ विनिगमकाभावादवसान एव तत्प्रवृत्तिस्संभाव्येतेत्याशयः।। यद्यपि भाष्ये खरीत्यस्यानुवृत्त्यभावेऽपि शर्परे विसर्जनीय इतिज्ञापकात् खर्येव विसर्गस्य स इत्युक्तम्, तथापि ज्ञापकेनापूर्वतया तत्संबन्धकल्पनापेक्षया मण्डूकानुवृत्त्या तत्संबन्धकल्पनैव लघीयसीत्याशयः। नन्वस्य संहिताधिकारीयत्वान्निमित्तनिमित्तिनोरतिशयितसामीप्येनोच्चारणे सत्वप्रवृत्तिरेत्यर्थस्य पर्यवसन्नत्वादभावात्मकस्यावसानस्य संहिताविषयत्वासंभवात् खर्येव पर्यवस्यतीति इव्यर्था खर्पदानुवृत्तिरत आह।। पूर्वेणेति।। अयं भावः।। वर्णानामुच्चारणे स्वाभाविकोऽर्धमात्राकालव्यवायः।। तदधिककालकृतव्यवधानराहित्यं चातिशयितसामीप्यं, तदेव संहितापदाभिधेयं, परस्सन्निकर्षस्संहितेत्यनुशासनात्।। लोकेप्येषा संहिता प्रसिद्धा। तादृशी च संहिता परेणेव पूर्वेणापि सुवचा, निमित्तानुपादाने संहितयोच्चार्यमाणस्य विसर्गस्य स इत्यर्थेनावसाने तत्प्रवृत्तिर्दुर्वारा।. संबन्धेप्यवसान इत्यस्य निरुक्तरीत्या वाक्यार्थे स्यादेवावसानेऽपि तत्प्रवृत्तिः।। निरवकाशयावसानसंज्ञया परसत्त्वे सावकाशायास्संहितासंज्ञायास्सत्यपि संभवे बाधनं भवतीत् बाधनं तु न युक्तम्। आकडारसूत्रेणैतच्छास्त्रीयसंज्ञानामेव बाध्यबाधकभावबोधनात्।। संहितावसानसंज्ञयोर्लोकसिद्धत्वेन शास्त्रमात्रविषयत्वाभावात्।। न हि परेणैव संहिता ग्राह्या न पूर्वेणेत्यत्र प्रमाणमस्ति इति।। ननु निमित्तनिमित्तिनोरुभयोरनुपादाने भवतु पूर्वेण संहिता, तदुपादाने च प्रत्यासत्त्या तदुभयसंहिताया एव ग्रहीतुमौचित्येन तत्संबन्धकल्पनायामावसानिककार्याणामप्रवृत्तिरेव स्यादित्यत आह।। अत एवेति।। आवसानिककार्यविधायकेषु अनुवर्तमानसंहिताधिकारस्य पूर्वसन्निकर्षपरत्वादेवेत्यर्थः।। यद्यपि विसर्जनीयदेरजाश्रयतया पूर्वसन्निकर्षस्य नियतत्वेन संहिताधिकारसंबन्धस्य व्यावर्त्यालाभः, तथाप्युत्तरत्र संबन्धाविच्छित्त्यर्थमेव तत्संबन्धः, मण्डूकानुवर्तनं तु नातस्समञ्जसमिति तत्त्वम्।। वर्णसमाम्नाये पठ्यमानानामयोगवाहानामिकारात्पूर्वं पाठे प्रमाणं दर्शयति।। अत एवेति।। झलां जश् झरीति।। झलां जशोऽन्त इति तु नापादनीयम्।। तद्दृष्ट्या मोनुस्वारस्यासिद्धत्वादित्याशयः।। कश्चिदिति।। अत्रारुचिबीजं तु नुम्‌ग्रहणस्यानुस्वारोपलक्षकस्याट्‌कुप्वाङितिसूत्रे भाष्ये प्रत्याख्यानात्तेनानित्यत्वज्ञापनानुपपत्तिः।। वाचंयमपुरंदरौ चेति निर्देशादनुस्वारस्य जश्त्वाभावः।। कटं करोतीत्यादौ खरि चेत्यनेन प्रकृतिचरां प्रकृतिचर इति न्यायादनुस्वारस्यानुस्वार एव भवतीति सामान्यतोऽयोगवाहपाठस्यानित्यत्वज्ञापनेनास्त्युपयोग इति।। परस्य द्वितीयोच्चारणस्येति।। ननु विरोधाभावात् पौर्वापर्ये विनिगमकाभावाच्च द्वाभ्यामपि वचनाभ्यामेकस्यैव द्विरुच्चारणस्य साधुत्वमुपपद्यत िति पौर्वापर्येण तद्व्यवस्थापनमनुचितमिति चेत्सत्यम्; प्रकरणे प्रकरणमसिद्धं न योगे योग इत्यस्य सिद्धान्तिसम्मतत्वाभावादचो रहभ्यामिति सूत्रापेक्षया त्रिपाद्यां परत्रानचि चेति सूत्रे पठितस्य याणो मय इत्यस्यासिद्धतया यौगपद्यासंभवेनाचो रहाभ्यामित्यस्य प्रवृत्त्युत्तरं यणो मय इत्यस्य प्रवृत्तौ न किंचिद्बाधकं, तदेतदचो रहाभ्यामिति कृते यणो मय िति भवत्येवेति वदता मूलकृता सूचितमेवेत्याहुः।।
व्याख्यादर्शरीत्येति।। अप्रत्यय इति पर्युदासो लाघवात्, तच्च समानाधिकरणं विसर्गविशेषणं, सामानाधिकरण्ये संभवति वैयधिकरण्यायोगात्।। पदस्येति व्यधिकरणमेव।। तथा च इकारोकारोपधकपदस्याप्रत्ययो यो विसर्गस्तस्य ष इति हि तदीयो ग्रन्थः।। षत्वापत्तेरिति।। यदि तु समुदाये दृष्टाश्शब्दा अवयवेऽपि दृश्यन्ते पूर्वे पञ्चालास्थैलं भुक्तं घृतं भुक्तमित्यादिव्यवहारबलादिति भाष्यकारोक्तिमनुसृत्येह भिसो विसर्गस्य प्रत्ययत्वमित्यभ्युपगम्यते, तर्ह्यादेशावयवस्यापि आदेशतया तिसृभिरित्यत्र सकारस्यादेशप्रत्यययोरिति षत्वं प्रसज्येत।। तत्रादेशे सकारोच्चारणसामर्थ्यादेव षत्वाभाव इति वक्तुमशक्यम्।। तिस्र इत्यादौ न रपरेति निषेधेन षत्वाप्रवृत्त्या चारितार्थ्यात्।। यदि च इदुद्भ्यामप्रत्ययस्येत्येव सिद्धावुपधाग्रहणादिकारोपधकस्यैव पदस्य यो विसर्गः प्रत्ययभिन्नस्तस्यैवेह ग्रहणम्।। भिसो विसर्गस्तु रामैरित्यादावैकारीपधकपदावयवत्वेनापि दृष्ट इति न तस्य प्रकृते षत्वप्रवृत्तिरित्युच्यते, तर्हि चतुष्कपाल इत्यत्राव्याप्तिस्तस्य विसर्गस्य प्रियचत्वा इत्यादावाकारोपधकपदावयवत्वेन दृष्टतया षत्वप्रवृत्तिविषयत्वाभावात्।। किं चाग्निः करोतीत्यादावपि सुप्रत्ययविसर्गस्य राम इत्यादावकारोपधकपदावयवत्वेन षत्वाविषयतया व्यर्थ एवाप्रत्यय इति पर्युदासस्स्यात्।। अपि च प्रत्याहाराह्निके भाष्ये उपधाग्रहणं न करिष्यते इदुद्भ्यां परं विसर्जनीयं विशेषयिष्याम इत्युपदाग्रहणस्य तत्र प्रत्याख्यानात्तेन फलान्तरकल्पनाभिनिवेशोप्ययुक्त इत्यास्ताम्।। एतच्चेति।। व्याख्यादर्शकारीयग्रन्थासाङ्गत्यं चेत्यर्थः।। व्याख्यादर्शरीत्येति।। एतेन परेषांरीत्याप्यत्र सामानाधिकरण्यमेव, परं तु प्रत्ययपदं प्रत्ययावयवपरमुपचारात्।। इत्थं च प्रत्ययसंबन्धिभिन्नस्य विसर्गस्येत्येवं संबन्धो न तु प्रत्ययसंबन्धिनो विसर्गस्य नेति वैयधिकरण्येन, प्रसज्यप्रतिषेधमूलकगौरवपराहतत्वादिति सूचितम्।। पातेर्हुम्‌सुनिति।। पूञो डुम्‌सुनिति पाठः कौमुद्यामुणादिषु च प्रायेण दृश्यते।। सस्थानशब्द उच्यत इति।।