प्रमुखा विकल्पसूचिः उद्घाट्यताम्
जैनदर्शनम्
[[लेखकः :|]]
जैनदर्शनम्

<poem>

चार्वाकविचारधाराया अनन्तरं नास्तिकदर्शनेषु जैनदर्शनस्य महत्त्वपूर्णं स्थानमस्ति । चार्वाकमतस्य स्थूलतत्त्वाचिन्तनस्य अपेक्षया सूक्ष्मचिन्तनं प्रति दृष्टिकोणस्य प्रावाहिकता जैनदर्शने दृश्यते । यत्र चार्वाकः शरीरमेवात्मानं स्वीकरोति तत्र जैनदर्शने आत्मा शरीरतिरिक्तम् अभौतिकं तत्त्वं स्वीकृतम् । तच्च शरीरपरिमाणं मध्यमपरिमाणं वाऽभिमतम् ।

वैदिकदर्शने प्रायेणेदं प्रतिपादितमस्ति यदात्मा अणुपरिमाणो महत्प्रिमाणो वाऽस्ति-‘अणोरणीयान् महतो महीयानिति” । अणुपरिमाणस्य महत्परिमाणस्य वा नित्यत्वात् आत्मा नित्योऽस्ति इति वैदिका मन्वते । तन्मतानुसारेण मध्यमपरिमाणात्मकाः पदार्था अनित्याः सन्ति । जैनदर्शने मध्यमपरिमाणः आत्मा नित्योऽस्ति । स भौतिकपदार्थवत् अनित्योऽस्ति ।

दार्शनिकविचारस्य क्रमेण अनयोरुभयोः दर्शनयोः पौर्वापर्थं स्पष्टरुपेण दृश्यते । ऐतिहासिकेन साक्ष्येण इदं सिद्ध्यति यत् चार्वाकस्य पश्चात् जैनदर्शनस्य विकासक्रमः समायाति । अस्यापि गणना नास्तिकदर्शनेषु विहिता, यतो हि अत्र वेदानां प्रामाण्यं स्वीकृतं नास्ति । तथाप्यस्य लक्ष्यं चार्वाकवत् स्थूलपदार्थविवेचनं नास्ति । त्रिविध दुःखेभ्य आत्यन्तिकं मुक्तिरेवात्र लक्ष्यभूता वर्तते । आस्तिकदर्शनानामपि इदमेव लक्ष्यमस्ति । अतो जैनदर्शनं आस्तिकधारायाः किञ्चिदंशेऽनुकरणं करोति । आत्मा परिणामी द्रव्यमस्ति, जीवः अस्तिकायस्वरुपो भवति इत्याद्यवधारणाभिः सूक्ष्मतत्त्वानामपि भौतिकता सिद्ध्यति । वैदिकदर्शनेभ्यो वैपरित्यदर्शनात् नास्तिकसंज्ञाऽस्याभिमता जीवात्मनः सम्बन्धे जैनसिद्धान्तानां चार्वाकसिद्धान्तै सह किमपि साम्यं दृश्यते । अतएव चार्वाकोपरान्तम् अस्य विद्यमानतया आनुक्रमिकतायां सन्देहो नास्ति ।

१. जैनदर्शनस्य उद्गमः

   १.१ आरम्भकालः
   १.२ मध्यकालः
   १.३ अवान्तरकालः

जैनदर्शनस्य तत्त्वमीमांसा

   २.१ जीवतत्त्वम्
   २.२ अजीवतत्त्वम्
   २.३ आस्रवतत्त्वम्
   २.४ बन्धतत्त्वम्
   २.५ संवरतत्त्वम्
   २.६ निर्जरातत्त्वम्
   २.७ मोक्षतत्त्वम्
   २.८ प्रमाणमीमांसा
   २.९ नयज्ञानम्
"https://sa.wikisource.org/w/index.php?title=जैनदर्शनम्&oldid=35152" इत्यस्माद् पुनः प्राप्तिः