प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ ह स्माह नगरी जानश्रुतेयो ऽसौ वा आदित्यो ऽस्तं यन्न् अग्निम् एव योनिं प्रविशतीति। स यद् एते सायमाहुती जुहोत्य् एतस्यैव तद् आदित्यस्य पृष्ठे प्रतितिष्ठति। यथोभयापदी प्रतितिष्ठेत् तादृक् तत्॥

अथ यद् एते प्रातराहुती जुहोत्य् उत्थापयत्य् एवैनं ताभ्याम्। स यथा हस्ती हस्त्यासनम् उपर्य् आसीनम् आदायोत्तिष्ठेद् एवम् एवैषा देवतैतद् विद्वांसं जुह्वतम् आदायोदैति॥

सैनं तं लोकं गमयति य एतस्यै यतः परं नास्ति। स यत् किं च पराचीनम् आदित्यात् तद् अमृतं तद् अभिजयति। अथ यद् अर्वाचीनम् आदित्याद् अहोरात्रे तद् उपमथ्नीताम् इतो यथा रेष्म्णोपमथ्न्याद् एवम्। बहवो ह वा आदित्यात् पराञ्चो लोकाः। ते ऽस्य सर्व आप्ता भवन्ति ते जिताः। तेष्व् अस्य सर्वेषु कामचारो भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.11॥


देवा वै मृत्युना समयतन्त। स यो ह स मृत्युर् अग्निर् एव सः। ते ऽब्रुवन्न् एते ऽमुं जिगीषामेति। ते ऽब्रुवन्न् आज्याहुतिं जुहुवाम तयैनं जिगीषामेति। तथेति। त आज्याहुतिम् अजुहवुः। ताम् अन्नम् अकुरुत तां प्रत्युददीप्यत। तस्माद् यत्राज्याहुतिं जुह्वति प्रत्युद्दीप्यत एव॥

ते ऽब्रुवन् पश्वाहुतिं जुहवाम तयैनं जिगीषामेति। तथेति। ते पशुम् आलभ्य मेदस् समवदाय पश्वाहुतिम् अजुहवुः। ताम् अन्नम् अकुरुत तां प्रत्युददीप्यत। तस्माद् यत्र पश्वाहुतिं जुह्वति प्रत्युद्दीप्यत एव॥

ते ऽब्रुवन् क्षीराहुतिं जुहवाम तयैनं जिगीषामेति। तथेति ते क्षीराहुतिम् अजुहवुः। तयैनम् अजयन्। तस्माद् यत्र क्षीराहुतिं जुह्वत्य् अङ्गारा एव भवन्ति।

ते ऽब्रुवन्न् अजेषु वा एनम् अन्नेन हन्तानपजय्यं जिगीषामेति॥1.12॥


ते ऽब्रुवन् सोमाहुतिं जुहवाम तयैनं जिगीषामेति। तथेति। ते सोमेनायजन्त। ते सोमाहुतिम् अजुहवुः। तयैनं प्राजयन्। तस्माद् यत्र सोमाहुतिं जुह्वत्य अङ्गारा एव भवन्ति॥

स य एवं विद्वान् आज्याहुतिं च पश्वाहुतिं जुहोति प्रियम् एवास्य तेन धामोपगच्छति। अथ यत् क्षीराहुतिं जुहोति जयत्य् एवैनं तेन। अथ यत् सोमाहुतिं जुहोति यथा जित्वा प्रजयेत् तादृक् तत्। स एतौ पुनर्मृत्यू अतिमुच्यते यद् अहोरात्रे॥1.13॥


सोमाहुतिघट्टः। प्राणाय त्वा इति समिधम् अभ्यादधाति। अपाने ऽमृतम् अधां स्वाहा इति जुहोति। अथ स्रुचम् अभिमृशति हृदयं प्रेतिर् मनस् संततिश् चक्षुर् आनतिश् श्रोत्रम् उपनतिर् वाग् आगतिः॥ प्रतीतं देवेभ्यो जुष्टं हव्यम् अस्थात्॥ अमृते माम् अधात्॥ आ मां प्राणा विशन्तु भूयसे सुकृताय इति। स ह भूय एव सुकृतं करोति। अथो हैनम् अमुष्मिन् लोके न पापिवाग् आगच्छति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.14॥


तद् आहुर् यज् जीवन् पुरुषः करोत्य एव साधु करोति पापं का तयोर् दुष्कृतृसुकृतयोर् व्यावृत्तिर् इति। यद् ध वै जीवन् पुरुषस् साधु करोति प्राणांस् तद् अभिसंपद्यते। अथ यद् दुष्कृतं शरीरं तत्। स यद् अस्माल् लोकाद् एवंवित् प्रैति तस्य प्राणेन सह सुकृतम् उत्क्रामति शरीरे सह दुष्कृतं हीयते। तद् आहुर् दुर्विदितं वैतद् यदा मर्त्यवान् दुष्कृतेन सह वसात्। यो वा एतेन जीवन्न् एव व्यावर्तते तत् सुविदितम् इति। तद् वा एतद् अग्निहोत्रम् एवाभिसंपद्यते॥1.15॥


मनो वा अनु प्राणा वाचम् अन्व् आत्मा। स यद् वाचा पूर्वाम् आहुतिं जुहोति मनसोत्तरां तद् दुष्कृतसुकृते व्यावर्तयति। तस्माद् आहुर् नैते आहुती संसृज्ये। दुष्कृतसुकृते ह्य् एताभ्यां व्यावर्तयतीति॥

स यत् सायमाहुत्योर् वाचा पूर्वाम् आहुतिं जुहोति यत् एवाह्ना पापं करोति तस्माद् एव तया व्यावर्तते। अथ यन् मनसोत्तरां यद् एव रात्र्या पापं करोति तस्माद् एव तया व्यावर्तत॥

अथ यत् प्रातराहुत्योर् वाचा पूर्वाम् आहुतिं जुहोति यद् एव रात्र्या पापं करोति तस्माद् एव तया व्यावर्तते। अथ यन् मनसोत्तरां यद् एवाह्ना पापं करोति तस्माद् एव तया व्यावर्तते। स एषो ऽहरहर् दुष्कृतेन व्यावर्तमान एति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.16॥


द्वे ह वाव योनी। देवयोनिर् हैवान्या मनुष्ययोनिर् अन्या। द्वा उ हैव लोकौ। देवलोको हैवान्यो मनुष्यलोको ऽन्यः॥

सा या मनुष्ययोनिर् मनुष्यलोक एव सः। तत् स्त्रियै प्रजननम्। अतो ऽधि प्रजाः प्रजायन्ते। तस्माद् उ कल्याणीं जायाम् इच्छेत कल्याणे म आआत्मा संभवाद् इति। तस्माद् उ जायां जुग्प्सेन् नेन् मम योनौ म लोके ऽन्यस् संभवाद् इति। तस्य वै संभविष्यतः प्राणा अग्र प्रविशन्त्य् अथ रेतस् सिच्यते। स इमान् प्राणान् आकाशान् अभिनिवर्तते। तस्माद् उ समानस्यैव रेतसस् सतो यादृश एव भवति तादृशो जायते॥

अथैषा देवयोनिर् देवलोको यद् आहवनीयः। एष ह वै देवयोनिर् देवलोकः। तस्माद् यो गार्हपत्य जुहुयाद् अकृतं करोतीत्य् एवैनं मन्येरन्। स यज् जुहोति यस् साधु कर्त्तेत्य एतस्याम् एवैनद् देवयोनाव् आत्मानं सिञ्चति। सो ऽस्यात्मामुष्मिन्न् आदित्ये संभवति। स हैवं विद्वान् द्व्यात्मा द्वियोनिः। एकात्मा हैवैकयोनिर् एतद् अविद्वान्। स यस्माल् लोकाद् एवंवित् प्रति - ॥1.17॥


- तस्य प्राणः प्रथम उत्क्रामति। स हे य त्ता देवेभ्य आचष्ट इयद् अस्य साधु कृतम् इयत् पापम् इति। अथ हायं धूमेन सहोर्ध्व उत्क्रामति॥
तस्य हैतस्यर्तवो द्वारपाः। तेभ्यो हैतेन प्रब्रुवीत।
विचक्षणाद् ऋतवो रेत आभृतम् अर्धम स्यं प्रसुतात् पित्र्यावतः।
तं मा पुसि कर्तर्य् एरयध्वं पुंसः कर्तुर् मातय् आसिषिक्त॥
स उपजायोपजायमानो द्वादशेन त्रयोदशोपमासः।
समं तद् विदे प्रति तद् विदे ऽहं तं मा ऋतवो ऽमृत आनयध्वम्॥

इति। तं हर्तव आनयन्ते। यथा विद्वान् विद्वांसं यथा जानन् जानन्तम् एवं हैनम् ऋतव आनयन्ते॥

तं हात्यर्जयन्ते। स हैतम् आगच्छति तपन्तम्। तं हागतं पृच्छति कस् त्वम् असि इति। स यो ह नाम्ना वा गोत्रेण वा प्रब्रूते तं हाह यस् ते ऽयं मय्य् आत्माभूद् एष ते सः इति। तस्मिन् हात्मन् प्रतिपत्त ऋतवस् संपलाय्य पद्गृहीतम् अपकर्षन्ति। तस्य हाहोरात्रे लोकम् आप्नुतः॥

तस्मा उ हैतेन प्रब्रुवीत को ऽहम् अस्मि सुवस् त्वम्। स त्वां स्वर्ग्यं स्वर् अगाम् इति। को ह वै प्रजापतिः। अथ हैवंविद् एव सुवर्गः। स हि सुवर् गच्छति॥

तं हाह यस् त्वम् असि सो ऽहम् अस्मि। यो ऽहम् अस्मि स त्वम् अस्य् एहि इति। स एतम् एव सुकृतरसम् अप्येति। तस्य पुत्रा दायम् उपयन्ति पितरस् साधुकृत्याम्। स हैवं विद्वान् द्वयात्मा द्विदायः। एकात्मा हैवैकदाय एतद् अविद्वान् अग्निहोत्रं जुहोति॥1.18॥


वाग् वा अग्निहोत्री। तस्यै मन एव वत्सः। मनसा वै वाचं पृक्तां दुह्रे। वत्सेन वै मातरं पृक्तां दुह्रे। तद् वा इदं मनः पूर्वम्। यत् पश्चा वाग् अन्वेति तस्माद् वत्सं पूर्वं यन्तं पश्चा मातान्वेति। हृदयम् एव मेथ्य् उपदोहनी प्राणो रज्जुः। प्राणेनैव वाक् च मनश्च चाभिहिते। रज्ज्वा वै वत्सं च मातरं चाभिददाति॥

तद् ध जनको वैदेहो याज्ञवल्क्यं पप्रच्छ वेत्थाग्निहोत्रं याज्ञवल्क्या इति। वेदेति होवाच। किम् इति। पय इति। यत् पयो न स्यात् केन जुहुया इति। व्रीहियवाभ्याम् इति॥

यद् व्रीहियवौ न स्यातां केन जुहुया इति। यद् अन्यद् धान्यं तेनेति॥

यद् अन्यद् धान्यं न स्यात् केन जुहुया इति। आरण्याभिर् ओषधीभिर् इति॥

यद् आरण्या ओषधयो न स्युः केन जुहुया इति। अद्भिर् इति॥

यद् आपो न स्युः केन जुहुया इति। स होवाच न वा इह तर्हि किं चनासीद् अथैतद् उ हूयत इव सत्यं श्रद्धायाम् इति। तं होवाच वेत्थाग्निहोत्रं याज्ञवल्क्य नमस् ते ऽस्तु सहस्रं भगवो दद्म इति॥
अथ हैनम् उपजगौ
किं स्विद् विद्वान् प्रवसति -- ॥॥1.19॥


--अग्निहोत्री गृहेभ्य।

कथा तद् अस्य काव्यं कथा संततो ऽग्निभिः॥

इति। यद् अग्नीन् आधायाथापप्रवसति कथम् अस्यानपप्रोषितं भवतीति। स होवाच वाजसनेयः
यो जविष्ठो भुवनेषु स विद्वान् प्रवसन् विदे।
तथा तद् अस्य काव्यं तथा संततो ऽग्निभिः॥
इति मन इति होवाच। मनो वाव भुवनेषु जविष्ठम्। मनसैवास्यानपप्रोषितं भवतीति ह तद् उवाच॥

अथ हैनम् उपजगौ
यत् स दूरं परेत्याथ तत्र प्रमाद्यति।
कस्मिन् सास्य हुताहुतिर् गृहे याम् अस्य जुह्वति॥
इति। स होवाच वाजसनेयः
यो जागार भुवनेषु स विद्वान् प्रवसन् विदे।
तस्मिन् सास्य हुताहुतिर् गृहे याम् अस्य जुह्वति॥
इति। प्राण इति होवाच। प्राणो वा भुवनेषु जागरः। प्राण एवास्य सा हुताहुतिर् भवति। तस्मादु आहुः प्राणो ऽग्निहोत्रम् इति। यावद् ध्य एव प्राणेन प्राणिति तावद् अग्निहोत्रं जुहोति॥1.20॥