प्रमुखा विकल्पसूचिः उद्घाट्यताम्

दीर्घसत्त्रं ह वा एत उपयन्ति ये ऽग्निहोत्रं जुह्वति। एतद् ध वै सत्त्रं जरामूरीयम्। जरया वा ह्य् एवास्मान् मुच्यते मृत्युना वा॥

तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निं जुह्वतो ऽग्नीन् अन्तरेण युक्तं वा वियायात् सं वा चरेयुः किं तत्र कर्म का प्रायश्चित्तिर् इति। वज्रो वै चक्रः। वज्रो वा एतस्याग्नीन् अन्वति यस्यान्तरेण युक्तं वा वियाति सं वा चरन्ति। कुर्वीत हैव निष्कृतिम् अपि हेष्ट्या यजेत। तद् उ तथा न विद्यात्। इमान् वा एष लोकान् अनुवितनुते यो ऽग्नीन् आधत्ते।

तस्यायम् एव लोको गार्हपत्यो भवत्य् अन्तरिक्षलोको ऽन्वाहार्यपचनो ऽसाव् एव लोक आहवनीयः। कामं वा एषु लोकेषु युक्तं चायुक्तं च वयांसि च चरन्ति। स विद्याद् यदि मे ऽपि ग्राम एवाग्नीन् अन्तरेणायासीन् नैव म आर्तिर् अस्ति न रिष्टिः का चनेति॥

त्रयो ह त्वै ग्राम्याः पशवो ऽजुष्टा दुर्वराह एडकश् श्वा। तेषां यदि कश् चिद् अन्तरेण सन्नेजीयेत किं तत्र कर्म का प्रायश्चित्तिर् इति॥1.51॥


तद् उ हैके छादिमुष्टिम् एव निवपन्तो यन्ति। गार्हपत्याद् आहवनीयान् निनयन्न् इयात् इदं विष्णुर् विचक्रमे इत्य् एतयर्चा। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् आसान् न्वा अयं यजमानस्यावाप्सीत् क्षिप्रे परमासान् आवप्स्यते ज्येष्ठगृह्यं रोत्स्यतीति तथा हैवं स्यात्॥

इत्थम् एव कुर्यात् उदपात्रं वैवोदकमण्डलुं वादाय गार्हपत्याद् आहवनीयान् निनयन्न् इयात् इदं विष्णुर् विचक्रमे इत्य् एतयैवर्चा। देवपवित्रं वा एतद् यद् ऋग् देवपवित्रम् एतद् यद् आपः। तद् यद् एवात्र यज्ञस्याशान्तं भवति यद् अमेध्यम् आपो वै तस्य सर्वस्य शान्तिः। अद्भिर् एवैनं तच् छमयन्ति॥1.52॥


तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रं दुह्यमानं स्कन्देत् किं तत्र कर्म का प्रायश्चित्तिर् इति। यद् एव तत्र स्थाल्यां परिशिष्टं स्यात् तेन जुहुयात्॥

यद्य् उ नीची स्थाली स्याद् अपि वा भिद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। स्कन्नप्रायश्चित्त्यै वाभिमृश्य अस्कन्न् अधित इति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥

यदा वै स्कन्दत्य् अथ धीयते। रेतो वै पयो योनिर् इयम्। योन्याम् एवैतद् रेतः प्रतिष्ठापयति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद। अमुतो वै पर्जन्यस् स्कन्दतीहौषधयो वनस्पतयो जायन्ते। पुरुषाद् रेतस् स्कन्दति पशुभ्यः। तत इदं सर्वं प्रजातम्। स विद्याद् उप मा देवाः प्राभूवन् प्रजातिर् मे भूयस्य् अभूच् छ्रेयान् भविष्यामीति। तथा हैव स्यात्॥

अथो यत्रैतद् विभिन्नं तद् उदपात्रं वैवोदकमण्डलुं वोपनिनयेत् भूर् भुवस् स्वः इत्य् एताभिर् व्याहृतिभिः। एता वै व्याहृतयस् सर्वप्रायश्चित्तयः। तद् अनेन सर्वेण प्रायश्चित्तिं कुरुते॥1.53॥


अथैतानि कपालानि संचिन्त्य यत्राहवनीयस्य भस्मोद्धृतं स्यात् तद् उपनिकिरेत्। एतद् एवात्र कर्म॥

अथो खल्व् आहुर् यत् प्राच उद्द्रुतस्य स्कन्देत् किं तत्र कर्म का प्रायश्चित्तिर् इति। यद् एव तत्र स्रुचि परिशिष्टं स्यात् तेन जुहुयात्॥

यद्य् उ नीची स्रुक् स्याद् अपि वा भिद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। तस्योक्तः प्रत्यभिमर्शः॥

तद् उ हैके तत एव प्रत्येत्योन्नयन्ति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् यद् अनेनाग्निहोत्रेणाचिकीर्षीन् न्यवृतत् तस्मान् नास्येदं स्वर्ग्यम् इव भविष्यतीति तथा हैव स्यात्॥

इत्थम एव कुर्यात्। यत्रैव स्कन्देत् तद् उपविशेत्। अथास्मिन् स्थालीम् अहरेयुस् स्रुवं च स्रुचं च निर्णिज्य। तद् अद एवास्योन्नेष्यामीत्य् उक्तं भवति। अथ यथोन्नीतम् उन्नीय समिधम् आदाय प्राक् प्रेयात्। तद् यथाप्रत्युत्थायामित्रान् पचेद् एवम् एवैतद् अवृत्तिं पाप्मानम् अपहत्याहुतिं प्राप्नोति। तद् उ हैक उपेव लभन्ते। अहुतं तस्य यस्याग्निहोत्रोच्छिष्ठेन जुह्वति यातयामं ह्य् एतद् इति वदन्तः। तद् उ तथा न विद्यात्। यदा वा एतद् अयातयामं भवत्य् अथैतस्यापि हविरातञ्चनं कुर्वन्ति॥1.54॥


तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रं दुह्यमानम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् उ हैके होतव्यम् एव मन्यन्ते, न वै देवाः कस्माच् चन बीभत्स इति वदन्तः। तद् उ तथा न विद्यात्। पुरुषो न्वेव बीभत्सेयाद् बीभत्सते बीभत्सान्ताइ3 देवाः। इत्थम् एव कुर्यात्। गार्हपत्यस्यैवोष्णं भस्म निरूह्य तस्मिन्न् एतत्तूष्णीं निनयेत्। तन् न हुतं नाहुतम्। अद्बिर् अनुनिनयेत्। अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥

अथो खल्व् आहुर् यद् दुग्धम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। येष्व् एवाङ्गारेष्व् अधिश्रयिष्यन् स्यात् तान् एव प्रत्यूह्य तेष्व् एवैनत्तूष्णीं निनयेत्। तन् न हुतं नाहुतम्। अद्भिर् अनुनिनयेत्।अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥

अथो खल्व् आहुर् यद् अधिश्रितम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। येष्व् एवाङ्गारेष्व् अधिश्रितं स्यात्तान् एव प्रत्यूह्य तेष्व् एवैनत् तूष्णीं निनयेत्। तन्न हुतं नाहुतम्। यद् अहैनत् तेषु निनयति तेन हुतं यद् व् एनांस् तेनो एवानुगमयति तेनो अहुतम्। अद्भिर् अनुनिनयेत्। अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥

अथो खल्व् आहुः -- ॥1.55॥


--यत् प्राग् उद्द्रुतम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् उ हैके होतव्यम् एव मन्यन्ते प्रेतम् एतन् नैतस्याहोमः कल्पत इति वदन्तः। अथ हैके ऽद्भिर् अभ्यासिच्य परासिञ्चन्ति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयात् पराङ् वा अयम् इदम् अग्निहोत्रम् असिञ्चत् परासंक्ष्यते ऽयं यजमान इति तथा हैव स्यात्। इत्थम् एव कुर्यात्। आहवनीय एव समिधम् अभ्याधायाहवनीयस्यैवोष्णं भस्म निरूह्य तस्मिन्न् एनत् तूष्णीं निनयेत्। तन् न हुतं नाहुतम्। अद्भिर् अनुनिनयेत्। अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥

अथो खल्व् आहुर् यद् अववर्षेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। स विद्याद् उपरिष्टान्मा शुक्रम् आगात् प्रजातिर् मे भूयस्य अभूच् छ्रेयान् भविष्यामीति। तथा हैव स्यात्॥

अथो खल्व् आहुर् यत्पूर्वस्याम् आहुतौ हुतायाम् अङ्गारा अनुगच्छेयुः क्वोत्तरां जुहुयाद् इति। य एव तत्र शकलो ऽन्तिकस् स्यात् तम् अध्यस्यन् जुहुयात्। दारौदारौ ह्य् अग्निः। स यदि तस्यां न तिष्ठेद् धिरण्यम् अभिजुहुयात्। अग्नेर् वा एतद् रेतो यद् धिरण्यम्। य उ वै पिता स पुत्रः। तस्माद् धिरण्यम् अभिजुहुयात्॥

अथो खल्व् आहुः -- ॥1.56॥


--यद् अधिश्रिते यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति। पर्याधायैवैनद् विष्यन्दयेत्। एतद् एवात्र कर्म। अथो खल्व् एषैव सर्वेषां हविर्यज्ञानां प्रायश्चित्तिः॥

अथो खल्व आहुर् यत् प्राच्य उद्द्रुते यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति। यद् एवादयश् चतुर्गृहीतम् आदिष्टं स्यात् तत्रैवैनद् अभ्युन्नयेत्। एतद् एवात्र कर्म॥

अथो खल्व् आहुर् यत् पूर्वस्याम् आहुतौ हुतायां यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् उ हैके होतव्यम् एव मन्यन्ते। कृत्स्नं वा एतस्याग्निहोत्रं हुतं भवति यस्य पूर्वा हुताहुतिर् भवतीति वदन्तः। तद् उ तथा न विद्यात्। न वै प्रेतस्याग्निहोत्रं जुहोति। यद् एवादयश् चतुर्गृहीतम् आदिष्टं स्यात् तत्रैवैनद् अभ्युन्नयेत्। एतद् एवात्र कर्म॥1.57॥


तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्री दुह्यमानोपविशेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। ताम उ हैके यजुषोत्थापयन्ति। अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्योपविशति यस्याग्निहोत्री दुह्यमानोपविशति। ताम् उत्थापयन्ति उद् अस्थाद् देव्य् अदितिः इति। इयं वै देव्य् अदितिः। इमाम् एवास्मै तद् उत्थापयन्ति। आयुर् यज्ञपताव् अधात् इत्य् आयुर् एवास्मिंस् तद् दधति। इन्द्राय कृण्वती भागम् इतीन्द्रियम् एवास्मिंस् तद् दधति। मित्राय वरुणाय च इति -- प्राणापानौ न्वै मित्रावरुणौ -- प्राणापानाव् अवास्मिंस् तद् दधति। तां तस्याम् एवाहुतौ हुतायां ब्राह्मणाय ददति। यं संवत्सरम् अनभ्यागमिष्यन्तो भवन्त्य् अवृत्तिम् अस्मिन् पाप्मानं निवेशयाम इति वदन्तः॥1.58॥


तद् उ होवाच वाजसनेयो ऽश्रद्दधानेभ्यो हैभ्यो गौर् अपक्रामति। अवृत्त्या हि तं विध्यन्ति। इत्थम् एव कुर्यात्। दण्डम् एव लब्ध्वा तेनैनां विपिष्योत्थापयेत्। तद् यथा वा अदो धावयतो ऽश्वतरो गदायते युक्तो वा बलीवर्द उपविशति तेन दण्डप्रजितेन तोत्त्रप्रजितेन यम् अध्वानं कामयते तं समश्नुते। एवम् एवैतया दण्डप्रजितया तोत्त्रप्रजितया यं स्वर्गं लोकं कामयते तं समश्नुते। ताम् आत्मन्न् एव कुर्वीत्। आत्मन्न् एव तच् छ्रियं धत्त इति॥1.59॥


तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रीवत्सो नश्येत् किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् होवाचारुणिर् द्यौर् वा अग्निहोत्री तस्या आदित्य एव वत्स इयम् एवाग्निहोत्रस्थाली। न ह वा एवंविदो ऽग्निहोत्रीवत्सो नष्यति। क्व ह्य् एष नश्येत्। नो वा एवंविदो ऽग्निहोत्रं दुह्यमानं स्कन्दति। अस्यां ह्य् एवं प्रतितिष्ठति। नो वा एवंविदो ऽग्निहोत्री दुह्यमानोपविशति। यदा वा एषा सुस्पृष्टं वर्षत्य अभिनिपद्य एव बतावर्षीद् इत्य् एनाम् आहुः॥

अथो खल्व् आहुर् यद् एषा लोहितं दुहीत किं तत्र कर्म का प्रायश्चित्तिर् इति। अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्य दुहे या लोहितं दुहे। स व्युत्क्रामते ऽत्युक्त्वान्वाहार्यपचनं परिच्छादयितवै ब्रूयात्। तद् अधिश्रित्य मेक्षणं कृत्वा श्रपयेत्। तत्तद् एव तूष्णीं निनयेत्॥

अनिरुक्तो वै प्रजापतिः। प्राजापत्यम् अग्निहोत्रम्। अथो भूर् भुवस् स्वर् इत्य् एताभिर् व्याहृतिभिः। एता वै व्याहृतयस् सर्वप्रायश्चित्तयः। तद् अनेन सर्वेण प्रायश्चित्तिं कुरुते॥

अथो खल्व् आहुः --- ॥1.60॥