प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तद् आहुर् हिंकारेण वै प्रजापतिः प्रजाभ्यो ऽन्नाद्यम् असृजत। यन् न हिंकुर्याद् अशनायुकाः प्रजास् स्युः। हिंकुर्याद् एव... भूः इति। यन् हिंकारं विसृजति तेन रेतो विच्छिनत्ति न हिंकारम् अन्तरेतीति। तद् उ वा आहुः ममृदीय इव वा अतो रेतो दारुणतर इव। हिंकारो ऽपि वैनद् वालेन विच्छिन्द्यात्। हिंकारस्यैव काले हिंकारं मनसा ध्यायेत्। तन् न रेतो विच्छिनत्ति न हिंकारम् अन्तरेतीति। भूः इति निधनं करोति। प्रजापतिर् यद् अग्रे व्याहरत् स भूः इत्य् एव व्याहरत्। स इमाम् असृजत। स यत् भूः इति निधनं करोत्य् अस्याम् एवैतद् रेतः प्रतिष्ठापयत्य् अथो एनत् तद् भूतिम् एव गमयति॥1.101॥


गायत्रीं गायति। प्राणो वै गायत्री। तस्यै द्वे अक्षरे व्यतिषजति। प्राणापानाव् एव तद् व्यतिषजति। तस्मात् प्राणापानौ व्यतिषक्तौ प्रजा अनुसंचरत आ च परा चायातयामानौ। सत् इति निधनं करोति। प्राणो वै सन्। प्राण एव तत् प्रतितिष्ठति॥

त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। चक्षुषी एव तद् दधाति। तस्माद् युक्ते इव चक्षुषी। ज्योतिः इति निधनं करोति। चक्षुर् वै ज्योतिः। चक्षुष्य् एव तत् प्रतितिष्ठति॥

जगतीं गायति। श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। श्रोत्रम् एव तद् दधाति। श्रोत्रे द्वे परिश्रवणे द्वे। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोत्य् अपि पराङ् यन् पश्चाद् वदश् शृणोति। इळा इति निधनं करोति। पशवो वा इडा। पशुष्व् एतत् प्रतितिष्ठति॥

अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् अर्वाचीम् अभिनुदन् गायति वाचो ऽनपक्रमाय। यत् पराचीम् अपनुदन् गायेद् वाचं प्रधमेद् वाग् अस्माद् अपक्रामुका स्यात्। तां यद् अर्वाचीम् अभिनुदन् गायत्य् आत्मन्न् एव तद् वाचं प्रतिष्ठापयति। तस्यै निरुक्तं चानिरुक्तं च पदे गायति। निरुक्तेन वै वाचो भुञ्जते। निरुक्तम् अस्या उपजीवनीयम्। भुंक्ते वाचोप चैनां जीवति य एवं वेद। स यन् निरुक्तम् एव गायेद् वदेयुर् एव प्रजा न तूष्णीम् आसीरन्। अथ यद् अनिरुक्तं गायेत् तूष्णीम् एव प्रजा आसीरन् न वदेयुः। यस्मान् निरुक्तं चानिरुक्तं च पदे गायति तस्मात् प्रजा वदन्ति च तूष्णीं चासते। वाक् इति निधनं करोति। वाग् वै ब्रह्म। वाच्य् एव तद् ब्रह्मन् प्रतितिष्ठति॥

पंक्तिं गायति। ऋतवो वै पंक्तिः। तस्यै षड् अक्षराणि द्योतयति। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठति॥1.102॥


तद् आहुस् समदम् इव वा एतच् छन्दोभ्यः कुर्वन्ति यद् गायत्रे सति प्रातस्सवने सर्वाणि छन्दांस्य् अभिगीयन्ते योधुकाः प्रजा भवन्तीति। स यः कामयेत शान्ताः प्रजा एधेरन्न् इति न धुरो विगायेत्। अपशीर्षाणं तु यज्ञं यजमानस्य कुर्याद् अनृतेन दक्षिणाः प्रतिगृह्णीयात्। ब्रह्म वै करद् इति वै यजमानो दक्षिणा ददाति। स तथैव चिकीर्षेद् यथा नापशीर्षाणं यज्ञं यजमानस्य कुर्यान् नानृतेन दक्षिणाः प्रतिगृह्णीयान्। वि एव गायेत्। यस् त्वा एना विजिगासन् न शक्नोति विगातुम् आर्तिम् आर्छति। यदि रेतस्यां न शक्नोति विगातुम् अरेतस्क आत्मना भवत्य् अरेतस्का गर्भा जायन्ते। यदि गायत्रीं न शक्नोति विगातुं प्रमायुक आत्मना भवति मृता गर्भा जायन्ते। यदि त्रिष्टुभ न शक्नोति विगातुं वधिर आत्मना भवति वधिरा गर्भा जायन्ते। यदि पंक्तिं न शक्नोति विगातुम् ऋतवो लुभ्यन्ति। स य एना नाशंसेत विगातुं परोक्षेणैवैनास् स रूपेण गायेत्। उभयेन त्वाव रेतस्या गीयते॥1.103॥


गायत्र्यां प्रस्तुतायां गायत्रम् एव गायन् पृथिवीं मनसा गच्छेत्। प्राण्यापान्यान्यात्। सत् इति निधनं करोति। परोक्षेणैवैनान् तद् रूपेण गायति॥
त्रिष्टुभि स्तुतायां गायत्रम् एव गायन्न् अन्तरिक्षं मनसा गच्छेत्। दिदृक्षेतैवाक्षिभ्याम्। ज्योतिः इति निधनं करोति। परोक्षेणैवैनान् तद् रूपेण गायति।
जगत्यां प्रस्तुतायां गायत्रम् एव गायन् दिशः पशून् मनसा गच्छेत्। शुश्रूषेतैव कर्णाभ्याम्। इळा इति निधनं करोति। परोक्षेणैवैनान् तद् रूपेण गायति॥

अनुष्टुभि प्रस्तुतायां गायत्रम् एव गायन् दिवं मनसा गच्छेत् परोक्षेणैवैनान् तद् रूपेण गायति।
ओषम् एवैतद् उत्तमं तृचं गायति। प्रजननो वा एष तृचः। ओषम् एव प्रजया पशुभिः प्रजायते य एवं वेद। प्रजापतिर् यत् प्रजा असृजत ता एतेनैव तृचेनासृजत। पवमानस्य ते कवे वाजिन् सर्गा असृक्षत इति सर्गश एवासृजत। असृग्रं वारे अव्यये इति चासृजत। तासां सृष्टानां परावापाद् अविभेत्। स एताम् उत्तमां समुद्रवतीम् अपश्यत्। तयैनाः अच्छा समुद्रम् इन्दवः इत्य् एव समुद्रेण समन्तं परिण्यदधात्। ता अस्य न परोप्यन्त। नास्य वित्तं परोप्यते य एवं वेद। अग्मन्न् ऋतस्य योनिम् आ इति। ग्रहा ह वा ऋतस्य योनिः। एतस्य ह वा इदम् अक्षरस्य कृतो जाताः प्रजा गच्छन्ति चा च गच्छन्ति॥1.104॥


देवासुरा वा एषु लोकेष्व् अस्पर्धन्तास्मिन् भुवने। ते देवा अकामयन्तेमान् लोकान् जयेमासुरान् स्पर्धां भ्रातृव्यान् इति। त एतान्य आज्यानि स्तोत्राण्य् अपश्यन्। तैर् अस्तुवत। तैर् इमान् लोकान् आजयन्। इमम् एव लोकम् आग्नेयेनाजयन्न् अन्तरिक्षं मैत्रावरुणेनामुम् ऐन्द्रेण दिश एवैन्द्राग्नेन। तद् यद् इमान् लोकान् आजयंस् तद् आज्यानाम् आज्यत्वम् । एमान् लोकान् जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद॥

ते देवा अब्रुवन् वीमानि भजामहा इति। तेषां ह विभागे न समपादयन्। ते ऽब्रुवन्न् आजिम् एषाम् अयाम गिरिं काष्ठां कृत्वेति। यद् अब्रुवन्न् आजिम् एषाम् अयामेति तद् एषां द्वितीयम् आज्यत्वम्। यद् उ गिरिं काष्ठाम् अकुर्वन् तस्माद् असौ गिरिः काष्ठो नाम॥1.105॥


तेषां पच्छो ऽसृज्यन्त। तेषाम् अग्निः प्रथम उदजयत्। अथ मित्रावरुणाव् अथेन्द्रः। अथैकम् अनुज्जितम् आसीत्। तद् इन्द्रो ऽवेद् अग्निर् वावेदम् उज्जेष्यतीति। सो ऽब्रवीद् अग्ने यतर आवयोर् इदम् उज्जयात् तन् नौ सहासद् इति। तथेति। तद् अग्निर् उदजयत्। तद् एनयोस् सहाभवद् अध्यर्धम् अन्यस्य स्तोत्रम् अध्यर्धम् अन्यस्य। ऐन्द्राग्नो यज्ञः। स य एवम् एता देवानाम् उज्जितीर् वेद यत्र कामयत उद् इह जयेयम् इत्य् उत् तत्र जयति॥

तद् आहुर् यद् आज्यानि सर्वाणि समाननिधनानि केनाजामि क्रियन्त इति। नानादेवत्यानीति ब्रूयात् तेनाजामीति। अथो यन् नानारूपाणीति ब्रूयात् तेनो एवेति॥

ते वा एते पशव एव। यद् आज्यान्य् अन्तस्सदसं स्तुवन्ति तस्माद् ग्राम्याः पशवो ऽन्तर् ग्रामे न्योकसः। पराचीषु पुनर् अभ्यावर्तन्। तस्माद् ग्राम्याः पशवः पराञ्चः प्रातः प्रेरते ते सायं समावर्तन्ते। नानारूपासु स्तुवन्ति। तस्माद् ग्राम्याः पशवो नानारूपाः। नानादेवत्यासु स्तुवन्ति। तस्माद् ग्राम्याः पशवो नाना। ते यथायथं सायं गृहान् अभ्युपायन्ति॥1.106॥


देवासुरास् संयत्ता ज्योङ् न व्यजयन्त। तेष्व् असुरेष्व् इदं सर्वम् आसीत्। अथैकम् एवाक्षरं देवेष्व् आसीत्। वाग् एव। सो ऽग्निर् अब्रवीद् अहं वा इदम् अदर्शं यथेदं जेष्यामीति। तद् वै ब्रूहीत्य् अब्रुवन्। सो ऽब्रवीद् अक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजामेति। यद् अब्रवीद् अक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजामेति तद् आज्यधुराम् आज्यधूस्त्वम्। ते ऽक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजन्। तान् अजयन्। जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद॥

स यदीतरा धुरो विगायेद् व्य् एवाज्यधुरो गायेत्। स यो हैवं विद्वान् संग्रामयोस् संनिहितयोर् ब्रूयाद् अक्षरेण त्वा संनिदधामीति परं ग्रामं स हैव तं ग्रामं जयति। अथो यस्मिन्न् एवं विद् ग्रामे भवति स उ हैव तं ग्रामं जयति॥

ते देवा अब्रुवन् वीमानि भजामहा इति। तस्माद् उ गिरिः काष्ठो नाम॥1.107॥


स तेषां सकृद् एवं सर्वेषाम् असृज्यन्त। तेषाम् अग्निर् एवोदजयत्। तस्यापगमनम् अगतस्याक्षो ऽछिद्यत। तस्य रथचक्रं पतित्वा कृष्णाधिकां कोशान्तेन पर्यवर्तत। तम् अब्रुवन्न् ईक्षित्वान्नादो वा अयं श्रेष्ठो भविष्यति पाप्मा वा अस्य पर्यवर्तीति। स यो हैवं विद्वान् परिवर्तयते ऽन्नाद एव श्रेष्ठस् स्वानां भवत्य् अथो हास्य तं पाप्मानम् एव परिवर्तयन्ति॥

सो ऽग्निर् उज्जित्य प्राद्रवत्। तम् इन्द्रो ऽब्रवीत् सह नाव् अस्त्व् इति। नेत्य् अब्रवीत्। यद् वा एको गृह्याणां विन्दते सर्वेषां वै तत् सह भवति। सहैव नाव् अस्त्व् इति। नेत्य् एवाब्रवीत्। स वै माभि चिद् अवेक्षस्वेति। तम् अभ्यवैक्षत। सो ऽब्रवीत् सान्त्वाय माभ्यवैक्षिष्ठास् सह नाव् अभूद् इति। यं यं न्व् एवाहम् अभ्यवेक्षिष्य इत्य् अब्रवीत् तेनतेनैव मे सह भविष्यतीति। नेत्य् एवाब्रवीत्। सान्त्वाय वै मा त्वम् एनद् अभ्यवैक्षिष्ठास् सहैव नाव् अभूद् इति॥1.108॥


तौ वै पृच्छावहा इति। तौ प्रजापताव् अपृच्छेताम्। स प्रजापतिर् अब्रवीत् सान्त्वाय वै वां त्वम् एतम् अभ्यवैक्षिष्ठास् सहैव वाम अभूद् इति। तथेति। तद् एनयोस् सहाभवद् अध्यर्धम् अन्यस्य स्तोत्रम् अध्यर्धम् अन्यस्य। ऐन्द्राग्नो यज्ञः॥

तौ मित्रावरुणौ प्राणापानौ पशुभ्यो ऽपाक्रामताम् अनुवी मन्यमानौ नावाभ्याम् अनुवीभ्यां पशवः प्राणिष्यन्तीति। ते पशवो ऽप्राणन्त आध्मायमाना अशेरत। तद् आभ्याम् आचक्षताप मित्रावरुणौ प्राणापानौ पशुभ्यो ऽतामिष्ठां त इमे ऽप्राणन्त आध्मायमानाश् शेरत इति। ताव् आद्रुत्याब्रूतां प्राणन्तु नौ युवाभ्यां पशव इति। नावाभ्याम् अनुवीभ्याम् इत्य् अब्रूताम्। ताभ्याम् एतं मैत्रावरुणम् आज्यम् अवाकल्पयन्। ततो वै ताभ्यां पशवः प्राणन्। स य एवम् एताम् अग्नेर् उज्जितिं वेद यत्र कामयत उद् इह जयेयम् इत्य् उत् तत्र जयति। य उ एवैताम् इन्द्रस्यार्धितां वेद यत्र कामयते ऽर्धी ह स्याम् इत्य् अर्धी तत्र भवति। य उ एवैतां मित्रावरुणयोर् अवक्लृप्तिं वेद यत्र कामयते ऽव म इह कल्पेतेत्य् अवास्मै तत्र कल्पते॥1.109॥


तानि वा एतान्य् ऐन्द्राग्नान्य् एव सर्वाणि यद् आज्यानि। आग्नेयीषु स्तुवन्ति। तेनाग्नेयं गायत्री छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥
तद् एतद् ऐन्द्राग्नम् एव मैत्रावरुणीषु स्तुवन्ति। तेन मैत्रावरुणं गायत्री छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥
तद् एतद् ऐन्द्राग्नम् एवैन्द्रीषु स्तुवन्ति। तेनैन्द्रं गायत्री छन्दः। ऐन्द्राग्नम् एवैन्द्राग्नीषु स्तुवन्ति। तेनैन्द्राग्नं गायत्री छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥

तद् एतद् ऐन्द्राग्नम् एवैन्द्राग्नीषु स्तुवन्ति। तेनैन्द्राग्नं गायत्री छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥

तद् एतद् ऐन्द्राग्नम् एव। इन्द्राग्नी यज्ञस्य देवता। स्वायाम् एवैतद् देवतायां प्रातस्सवने यज्ञं प्रतिष्ठापयन्ति॥1.110॥