प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तद् उ ह स्माहेयपिस् सौमापस् स वाद्य यजेत स वान्यं याजयेद् यो यथा महति तीर्थे सिकते गा असंबाधमानास् संतर्पयेद् एवं सर्वा देवता अनुसवनं छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्तीर् विद्याद् इति। अष्टाक्षरा गायत्र्य् अष्टौ वसवः। वसूनां गायत्रं प्रातस्सवनम्. तत् ते प्रातस्स्वने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति। एकादशाक्षरा त्रिष्टुब् एकादश रुद्राः। रुद्राणां त्रैष्टुभं माध्यंदिनं सवनम्। तत् ते माध्यंदिने सवने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति। द्वादशाक्षरा जगती द्वादशादित्याः। आदित्यानां जागतं तृतीयसवनम्। तत् ते तृतीयसवने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति। अनुष्टुभैव विश्वेदेवाः। सवनैर् इन्द्राग्नी। स य एवम् एतां देवानां तृप्तीर् वेद तृप्यत्य् आत्मना तृप्यत्य् अस्य प्रजा॥1.281॥


यद् यत्र ह वा एवंविद् यजत एवं विद्वान् याजयति न हैव तस्य देवा ईशते। यत् तन् नाना गच्छेयुर् यदि च ह भक्षयिष्यन्तो भवन्ति यद च नाथ हैव गच्छन्ति। यद् इह शुचिर भवति भक्षयन्ति यद्य् अशुचिः प्रेक्षयन्ति। तद् धापि पणाय्यं यस्य प्रेक्षिवायन्॥

यो वै देवानां पात्रं वेद पात्र्यस् स्वानां भवति। ब्राह्मणो ह वाव देवानां पात्रम्। पात्र्यस् स्वानां भवति य एवं वेद॥

तद् यथा ह वै शुद्धेन शुचिना पात्रेण पिपासन्त्य् एवं ह वाव देवा ब्राह्मणेन शुद्धेन शुचिना पिपासन्ति। तस्माद् उ ह ब्राह्मणेन शुद्धेनैव शुचिना बुभूषितव्यम्॥1.282॥


प्रजापतिर् देवान् असृजत। तान् मृत्युः पाप्मान्वसृज्यत। ते देवाः प्रजापतिम् उपेत्याब्रुवन् कस्माद् उ नो ऽसृष्टा मृत्युं चेन् नः पाप्मानम् अन्वस्रक्ष्यन्न् आसिथेति। तान् अब्रवीच् छन्दांसि संभरत तानि यथायतनं प्रविशत ततो मृत्युना पाप्मना व्यावर्त्स्यथेति। वसवो गायत्रीं समभरन्। तां ते प्राविशन्। तान् साछादयत्। रुद्रास् त्रिष्टुभं समभरन्। तां ते प्राविशन्। तान् साछादयत्। आदित्या जगतीं समभरम्। तां प्राविशन्। तान् साछादयत्। विश्वे देवा अनुष्टुभं समभरन्। तां ते प्राविशन्। तान् साछादयत्। मरुतः पंक्तिं समभरन्। तां ते प्राविशन्। तान् साछादयत्। साध्याश् चाप्त्याश् चातिच्छन्दसं समभरन्। तां ते प्राविशन्। तान् साछादयत्॥1.283॥


सवनान्य् एवेन्द्राग्नी अनुप्राविशताम्। ततो वै तान् मृत्युः पाप्मा न निरजानात्। कुतो हि तस्य मृत्युः पाप्पेशिष्यते यं न निर्जानाति। न हैनं मृत्युः पाप्मानुविन्दति य एवं वेद। छन्दांसि वाव तान् मृत्योः पाप्मनो ऽछादयन्। तद् यद् एनान् छन्दांसि मृत्योः पाप्मनो ऽछादयंस् तच् छन्दसां छन्दस्त्वम्। छादयन्त्य् एवैनं छन्दांसि मृत्योः पाप्मनो य एवं वेद। तद् येनयेन ह वै छन्दसैवंविद् आर्त्विज्यं करोति तत्तद् एव स तर्हि प्रपन्नो भवति। येनयेन ह्य् एवैनं छन्दसा कुर्वन्तम् उपवदति तस्माद् आवृश्च्यते। तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स आर्तिम् आर्छति॥

अथ होर्जो जानायनः कपिवनं भौवायनं पप्रच्छ यद् गायत्रं प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम् अथ केयम् अनुष्टुब् अयातयाम्नी सवनमुखान्य् उपापतत्य् आन्ताद् यज्ञं वहतीति। स होवाच वाग् वा अनुष्टुब् वाचो यज्ञस् तायते। तद् यथा वा अदो भद्र बलीवर्देन रज्ज्वभिहितेन पुनःपुनः प्रतिधावन्ति प्रतिकूलाय वा कुरवे वोद्वोढ एवं वा एतां वाचम् अनुष्टुभं सवनमुखेषु पर्याणाय युञ्जन्ति। प्रतिकूलानि वा एतानि यत् सवनमुखानि। सैषा वाग् एषायातयाम्न्य् आन्ताद् यज्ञं वहति। यो वा अनुष्टुभं सर्वत्रापीनं वेद सर्वत्र हास्यापि पुण्यो भवति॥

अष्टाक्षरा गायत्र्य् एकादशाक्षरा त्रिष्टुब् द्वादशाक्षरा जगती वाग् इति यज्ञायज्ञीयस्य निधनम्। तद् द्वात्रिंशदक्षरा ऽनुष्टुप्। अपि वा एतस्यै प्रातस्सवने ऽपि माध्यंदिने सवने ऽपि ततीयसवने ऽपि वा एतस्यै ब्रह्मण्य् अपि क्षत्रे ऽपि विश्य् एपि वा एतस्या अस्मिन् लोके ऽप्य् अन्तरिक्षे ऽप्य् अमुष्मिन् - स य एवम् एताम् अनुष्टुभं सर्वत्रापीनं वेद सर्वत्र हैवास्यापि पुण्यो भवति॥1.284॥


अथ हाहीनसम् आश्वत्थिं केशी दार्भ्यः केशिनस् सात्यकामिनः पुरोधाया अपरुरोध। स ह स्थविरतरो ऽहीना आस कुमारतरः केशी। तं होवाचां केशिन् किं मे विद्वान् राजन्यम् उपाहृथा इति। स होवाच दहेद् अनुष्टुभम् एव सर्वाणि छन्दांस्य् उपास्महे बृहतीं पशून् यज्ञं स्वर्गं लोकम् इति। तं हास्रं विवेद। स ह कृपयांचक्रे। तं होवाच मा कृपयथाः। यदि राजन्यकाम्या कृपयस एष ते राजन्यः। अपि वै वयम् अन्यं राजन्यम् एषिष्यामहा इति। स होवाच नैतत् केशिन् राजन्यकाम्या ब्रह्मचर्यम् एव वै मा तद् अनुसंस्मृत्यास्रम् अविदत्। चचार वै ब्रह्मचर्यम्। उपचरसं वावेदम् अशृण्म यद् अयम् इयत्कुमारको ऽभिवेदयत इति । एवम् एवैतद् अनुसंस्मृत्यास्रम् अविदद् इति॥

स यद् अनुष्टुभं सर्वाणि छन्दांस्य् उवाचाष्टाक्षरा गायत्र्य् एकादशाक्षरा त्रिष्टुप् द्वादशाक्षरा जगती वाग् इति यज्ञायज्ञीयस्य निधनम्। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। एतद् अनुष्टुभं सर्वाणि छन्दांस्य् उवाच बृहतीं पशून् इति। या वा अनुष्टुप् सा बृहती। चतुष्पात्सु वा एषा पशुषूपहितेषु बृहत्य् अभवत्। यज्ञम् इति। यो ह्य् एव पशुमान् भवति तं यज्ञ उपनमति। स्वर्गं लोकम् इति। बृहती ह्य् एव स्वर्गो लोकः॥

अथ ह संगमन क्षैमिस् सत्ययज्ञं पौलुषिं पप्रच्छाचार्येण प्रहित आरुणिना सत्ययज्ञ पौलुषे यत् स्तुता गायत्री भवति स्तूयते त्रिष्टुब् अस्तुता जगती कथं तास् सर्वास् संपद्य माध्यंदिनं सवनम् उद्यच्छन्तीति। तद् ध न प्रत्युवाच। तेन हैनं जिगाय। स यत् प्रत्यवक्ष्यद् यस्माद् ब्राह्मणश् च वैश्यश् च क्षत्रियम् अधस्ताद् उपासाते अथो यद् अस्याद्याव् अभवताम् अथो यद् एवैतद् द्वादशाक्षरं पदम् इति॥1.285॥


छन्दांसि यद् इमान् लोकान् व्यभजन्तेमम् एव लोकं गायत्र्य् अभजतान्तरिक्षं त्रिष्टुब् अमुं जगती। ब्रह्म वै गायत्री क्षत्रं त्रिष्टुब् विड् जगती। सेयं त्रिष्टुब् अस्मिन्न् अन्तरिक्षे नालर्नेतुपादनेनारारण्यत। सेमां गायत्रीं प्राङ् अभ्यविध्यत्। ताम् अभ्यतपत्। तस्या अबिभेद् आयतनं म उपहरिष्यत इति। ताम् अब्रवीन् नमस् ते ऽस्तु किंकामा माभिविध्यसीति। प्रदानं मे प्रयच्छेत्य् अब्रवीत्। तस्यै द्वे अष्टाक्षरे पदे प्रायच्छत्। सामूं जगतीम् उपपल्यायत। ताम् अभ्यविध्यत्। ताम् अभ्यतपत्। तस्या अबिभेद् आयतनं म उपहरिष्यत इति। ताम् अब्रवीन् नमस् ते ऽस्तु किंकामा माभिविध्यसीति। प्रदानं मे प्रयच्छेत्य् अब्रवीत्। तस्यै द्वादशाक्षरं पदं प्रायच्छत्। सेमाम् एव गायत्रीं पुनर् उपपल्यायत। ताम् अब्रवीद् यत् ते प्रदानं प्रादां किम् उ न्व एवेछसीति। सर्वम् एव म आत्मानं प्रयच्छेत्य् अब्रवीत्। अथ किम् उ मे भविष्यतीति। समानं नाव् अन्नाद्यं भविष्यति पुरस् त्वा धास्य इति। तथेति। तां पुरो ऽधत्त। तस्यै सर्वम् आत्मानं प्रायच्छत्। तद् यद् गायत्री सर्वम् आत्मानं प्रायच्छत् तस्माद् ब्राह्मणस् सर्वेणात्मना क्षत्रियम् अभ्येति। अथो यज् जगती न सर्वम् इवात्मानं प्रायच्छत् तस्माद् उ क्षत्राद् विड् अपक्रामम् इव चरति। यांयाम् एव तां गायत्री च जगती च संप्रायच्छतां सैवैषा बृहत्य् अभवत्। तस्माद् बृहत्यै त्रीणि चाष्टाक्षराणि पदानि द्वादशाक्षरं च। सैषा गायत्री प्रथमतो युज्यते उच्चा ते जातम् अन्धसा इति। एषा पुरोहितावसाने। विन्दते पुरोधां वा पुरोधामात्रं वा या एवं वेद॥1.286॥


अथ बृहत्य् अथ त्रिष्टुप्। तद् एतद् ब्रह्मणा च क्षत्रेण चोभयतो ऽन्नाद्यं परिगृहीतम्। ब्रह्मणा च ह वा एनं क्षत्रेण चोभयतो ऽन्नाद्यं परिगृहीतम् उपतिष्ठते य एवं वेद। तस्माद् ब्राह्मणेन क्षत्रियाय न द्रोग्धव्यं न क्षत्रियेण ब्राह्मणाय। समानं ह्य् एनयोर् अन्नाद्यम्। तस्माद् यद् ब्राह्मणो महद् इव गच्छति क्षत्रियम् एव स तस्यान्नाद्यस्य द्वितीयं गोप्तारम् इच्छते। यत् क्षत्रियो ब्राह्मणम् उ एव। विन्दते क्षत्रियं भर्तारं य एवं वेद॥

चतुरक्षराणि ह वा अग्रे छन्दांस्य् आसुर् अयज्ञवाहानि। अथ हेन्द्रस्य त्रिदिवे सोम आस। तं हाग्नयो गन्धर्वा जुगुपुर् एत एव धिष्णयाः। त उ एवाशीविषाः। स हिरण्मय्योः कुश्योर् आस। ते ह स्म निमेषमात्रम् अभिसंपततः। तानीमानि छन्दांस्य् अब्रुवन् सोमम् आहराम यज्ञं तनवामहा इति। सा जगती प्रथमोदपतद् ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा मन्यमाना। तस्यै परेतायै सोमपालास् त्रीण्य् अक्षराण्य् अविन्दन्त। सैकाक्षरा पुनर् आगच्छद् दीक्षां च पशूंश् चाहरन्ती। तस्माद् य एव पशुमान् भवति तं दीक्षोपनामुका॥

अथ त्रिष्टुब् उदपतत्। तस्यै परेतायै सोमपाला एकम् अक्षरम् अविन्दन्त। सा त्र्यक्षरा पुनर् आगच्छत् तपश् च दक्षिणाश् चाहरन्ती। कस्मात् त्रिष्टुभो लोके दक्षिणा नीयन्ते। तस्माद् उ तम् एव तपस् तप्यमानं मन्यन्ते -- ॥1.287॥


-- यो ददत्॥

अथ गायत्र्य् उदपतत्। ताम् अनुष्टुभ् माता प्रत्यन्वैक्षत। तस्मान् माता पुत्रं जनं यन्तं प्रत्यन्वीक्षेत जीवन्न् आहरन्न् आगच्छेति। सा नानैव हस्ताभ्यां सवने समगृह्णाद् इमानि चानयोर् अक्षराणि मुखेनैकं सवनं सह सर्वेणैव यज्ञेनागच्छत्। तद् एतद् आहुर् धीतम् इव वै तृतीयसवनम्। मुखेन हि तद् आहरद् इति। सा सोमम् आहृत्याब्रवीद् इमे इतरे छन्दसी आ वा अहम् इमं सोमम् अहार्षम् एतं यज्ञं तनवा इति। ते अब्रूतां विवृहे वा आवं स्वो न तस्मा अलम् इति। सैतद् गायत्री प्रातस्सवनम् उपयु़ञ्जानाब्रवीद् अहं वा इदं वक्ष्यामीति। तद् अवहत्। तत् समस्थापयत्। तस्माद् गायत्रं प्रातस्सवनम् इत्य् आख्यायत॥

सैतं माध्यंदिनं सवनम् उपायुंक्त। तस्यै तृचेन कृतम् आसीत्। अथ त्रिष्टुब् भीयमानामन्यत। साब्रवीद् अप्य् अहम् ऐमीति। अपीहीत्य् अब्रवीत्। अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति। तां त्रिभिर् अक्षरैर् उपपरैत्। सैतत् त्रिष्टुब् एकादशाक्षरा भूत्वा माध्यंदिनं सवनम् अवहत्। तत् समस्थापयत्। सा यत् त्रिष्टुभम् अब्रवीद् अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति तस्मात् त्रैष्टुभं माध्यंदिनं सवनम् इत्य् आख्यायते॥

सैतत् तृतीयसनम् उपायुंक्त। तस्यै तृचेन कृतम् आसीत्। अथ जगती हीयमानामन्यत। साब्रीद् अप्य् अहम् ऐमीति। अपीहीत्य् अब्रवीत्। अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति। ताम् एकेनाक्षरेणोपपरैत्। सैतज् जगती द्वादशाक्षरा भूत्वा तृतीयसवनम् अवहत्। तत् समस्थापयत्। सा यज् जगतीम् अब्रवीद् अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति तस्माज् जागतं ततीयसवनम् इत्य् आख्यायते॥1.288॥


गायत्री वै प्रातस्सवनं वहति गायत्री माध्यंदिनं सवनं गायत्री तृतीयसवनम्। स य एतद् एवं वेद गायत्री प्रातस्सवनं वहति गायत्री माध्यंदिनं सवनं गायत्री तृतीयसवनम् इत्य् आ जरसं हास्य यशः कीर्त्तिर् न व्येति। तद् उ होवाचारुणिर् गायत्रीं वा अहं सर्वाणि सवना निवहन्तीं वेद तस्मान् म आ जरसं यशः कीर्त्तिर् न व्येतीति। आ जरसं हैवास्य यशः कीर्त्तिर् न व्येति य एवं वेद॥

तानीमानि छन्दांस्य अब्रुवन्न् इयं वाव नश् श्रेष्ठेयं वीर्यवत्तमा या सोमम् आहार्षीद् या यज्ञं ततैताम् एवाप्ययामेति। तान् त्रिष्टुब्जगत्यौ सवनाभ्याम् अप्यैताम्। अथ यद् उष्णिक्ककुभोर् द्वे अष्टाक्षरे पदे तेन ते अप्यैताम्। अथ यद् बृहत्यै त्रीण्य् अष्टाक्षराणि पदानि तेन साप्यैद्। अथ यद् अनुष्टुभश् चत्वार्य् अष्टाक्षराणि पदानि तेन साप्यैत्। अथ यत् पंक्तेः पञ्चाष्टाक्षराणि पदानि तेन साप्यैत्॥1.289॥


दशाक्षरा ह साग्र आस। साप्येनकाम्याद् अष्टाक्षराणि पदानि चक्रे। यद्य् अतिछन्दसि यदि विराजि यस्मिन् कस्मिंश् चिच् छन्दस्य् अष्टाक्षरं पदम् अधिगम्यते गायत्रीम् एव तेन सर्वाणि छन्दांस्य् अपियन्ति। स य एतद् एवं वेद गायत्रीं सर्वाणि छन्दांस्य् अपियन्तीत्य् अभि हैनं स्वास् संजानते श्रेष्ठतायै। तद् आहुर् अति त्रिवृतं स्तोमा यन्ति न गायत्रीं छन्दांसीति नाहैव त्रिवृतं स्तोमा अतियन्तीति ब्रूयान् नो गायत्रीं छन्दांसीति। त्रिप्रयाणा हि स्तोमास् त्रिमध्यास् त्र्युदयाः। एतद् उ गायत्रीं सर्वाणि छन्दांसि नातियन्ति॥

अथ हौपाविर् आरुणिं पप्रच्छारुण आरुणे कस्मै कम् अनुष्टुब् यज्ञम् उद्यच्छतीति। तद् ध न प्रत्युवाच। स होवाचाजिनमिम् अजिनात कं प्र ते ब्रवीमि मामथा इति वाव मे गौतमं प्रोच्यमानं न मनुत इति। स यत् प्रत्यवक्ष्यत् -- प्रजापतिर् वा अनुष्टुप् प्रजापतिर् वै कः - प्रजापतये कम् उद्यच्छतीति ह प्रत्यवक्ष्यद् इति। तद् उ ह शश्वन् न तथा। यद् एव बृहतीं सर्वाणि छन्दांस्य् अभिसंपद्यन्ते - बृहती स्वर्गो लोकः -- स्वर्गाय लोकाय कम् उद्यच्छतीति ह प्रत्यवक्ष्यद् इति॥1.290॥