प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अस्य वा एतस्य गायत्रीम् एव प्रातस्सवनं संपद्यते, त्रिष्टुभं माध्यंदिनं सवनं, जगतीं तृतीयसवनम्। तद् यद् गायत्रीं प्रातस्सवनं संपद्यते - अष्टाक्षरा गायत्र्य्, अष्टौ वसवो - गायत्र्यैव तच् छन्दसा प्रजापतिश् चेन्द्रश् च वसुषु देवेषु प्रातस्सवने अध्य् अपचितिम् अगच्छताम्। अथ यत् त्रिष्टुभं माध्यंदिनं सवनं संपद्यत - एकादशाक्षरा त्रिष्टुप्, एकादश रुद्रास् - त्रिष्टुभैव तच् छन्दसा प्रजापतिश् चेन्द्रश् च रुद्रेषु देवेषु माध्यंदिने सवने ऽध्य् अपचितिम् अगच्छताम्। अथ यज् जगतीं तृतीयसवनं संपद्यते - द्वादशाक्षरा जगती, द्वादशादित्या - जगत्यैव तच् छन्दसा प्रजापतिश् चेन्द्रश् चादित्येषु देवेषु तृतीयसवने ऽध्य् अपचितिम् अगच्छताम्। अष्टाक्षरा गाय़त्री। एकादशाक्षरा त्रिष्टुप्। द्वादशाक्षरा जगती। वाग् इति यज्ञायज्ञीयस्य निधनम्। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। विश्वेषां देवानाम् अनुष्टुप्। अनुष्टुभैव तच् छन्दसा प्रजापतिश् चेन्द्रश् च विश्वेषु देवेषु तृतीयसवने ऽध्य् अपचितिम् अगच्छताम्। एतावन्तो वै देवाः। एतावन्ति देवजातानि। तेष्व् एव तद् अध्य् अपचितिम् अगच्छताम्॥2.101॥


गायत्रो वै ब्राह्मणः। त्रैष्टुभो राजन्यः। जागतो वैश्यः। आनुष्टुभः शूद्रः। तद् यद् गायत्रीं प्रातस्सवनं संपद्यते, गायत्र्यैव तच् छन्दसा दर्भः शातानीकिर् ब्राह्मणे मनुष्ये ऽध्य् अपचितिम् अगच्छत्। अथ यत् त्रिष्टुभं माध्यंदिनं सवनं संपद्यते, त्रिष्टुभैव तच् छन्दसा दर्भः शातानीकी राजन्ये मनुष्ये ऽध्य् अपचितिम् अगच्छत्। अथ यज् जगतीं तृतीयसवनं संपद्यते, जगत्यैव तच् छन्दसा दर्भः शातानीकिर् वैश्ये मनुष्ये ऽध्य् अपचितिम् अगच्छत्। अष्टाक्षरा गायत्री। एकादशाक्षरा त्रिष्टुप्। द्वादशाक्षरा जगती। वाग् इति यज्ञायज्ञीयस्य निधनम्। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। आनुष्टुभः शूद्रः। अनुष्टुभैव तच् छन्दसा दर्भः शातानीकिः शूद्रे मनुष्ये ऽध्य् अपचितिम् अगच्छत्। एतावन्तो वै मनुष्याः। एतावन्ति मनुष्यजातानि। तेष्व् एव तद् अध्य् अपचितिम् अगच्छत्॥2.102॥


तद् आहु- कैतस्य यज्ञस्य विधृतिः कापचितिर् इति। स ब्रूयाद् यद् एव सवनात् सवनं न समैति। यद् अमैव सवनं संपद्यते सैवैतस्य यज्ञस्य विधृतिस् सापचितिर् इति। तस्य आहुर् दविद्युतत्या रुचेत्य् एव प्रतिपदं कार्याम्। एषा वै गणिनी प्रतिपद् बहुरूपा। गणा इव वै तं सचन्ते य श्रियम् अश्नुत इति। तद् उ वा आहुः पवस्व वाचो अग्रिय, उपास्मै गायता नर इत्य् एते एव प्रतिपदौ कार्ये। एते वाव गणिन्यौ प्रतिपदौ बहुरूपे। अथो उभे ह्य् अत्र सामनी क्रियेते। तस्माद् एते एव प्रतिपदौ कार्ये इति। बृहद्रथन्तरे भवतः। ब्रह्म वै रथन्तरं, क्षत्रं बृहत्। ब्रह्म च वै क्षत्रं चापचिते रूपम्। भद्रेश्रेयसी भवतः। भद्रेण वै देवा भद्रा अभवञ् छ्रेयसा श्रियम् अगच्छन्। सहोमहसी भवतः। सहसा वै देवा असुरान असहन्त। महसा महो ऽभवन्। भ्रर्ग यशसी भवतः। भर्गेण वै देवा भर्गो ऽभवन्। यशसा यशो ऽगच्छन्। उत्सेधनिषेधौ भवतः। उत्सेधेन वै देवा औत्सेध्यम् उदसेधन्। निषेधेन निषेद्यं न्यषेधन्। सदोविशीयं च विशोविशीयं च भवतः। सदोविशीयेन वै देवा विशम् असीदन्। विशोविशीयेन विशो विशो राजानो ऽभवन्। धर्मविधर्मणी भवतः। धर्मेण वै देवा धर्मो ऽभवन्। विधर्मणा विधर्मापाघ्नत। तस्मिन् एता उभयीर् द्विपदातिच्छन्दसः क्रियन्ते, ज्येष्ठानि च ह्रसिष्ठानि च छन्दांसि। पशवो वै छन्दांसि। तस्माद् भूतम् उभये पशव उपतिष्ठन्ते ज्येष्ठाश् च ह्रसिष्ठाश् च य एवं वेद। तस्याश्वरथश् चतुर्युग् दक्षिणा भवति। सर्वे शतक्रियो ऽश्वाः। स रुक्मी प्रावेपी सर्वाभरण्य् अंशुमान् भवति। तस्य वैयाघ्रः परिवारो भवति, द्वैपो धन्वधिर्, आर्क्ष उपासंगः। खाड्ग - कवचो ऽध्यास्थाता भवति संनद्धस् संनद्धसारथिर् आवृतः प्रतिहिताभ्याम्। निष्की स्रग्वी संग्रहीता भवति। एतद् वै त्विषे रूपम् एतद् अपचितेः। तस्मिन्न् एतद् अपचितं धनं ददाति। अपचिता एवापचितं धनं ददानीति। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.103॥


अथैताव् अभिभूश् च विनुत्तिश् च । देवासुरा अस्पर्धन्त। ते देवा अकामयन्त -- अभीमान् असुरान् भवेमेति। त एतम् अभिभवं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तेनासुरान् अभ्यभवन्। यद् अभ्यभवंस् तद् अभिभुवो ऽभिभूत्वम्। अभि ह वै द्विषन्तं भ्रातृव्यं भवति य एवं वेद। तस्य त्रिवृताव् अभितो भवतः। ब्रह्म वै त्रिवृत्। ब्रह्मणा वा एनांस् तद् अभ्यभवन्। ब्रह्मणैव द्विषन्तं भ्रातृव्यम् अभिभवति य एवं वेद। ते जितास् त्रयस्त्रिंशम् एव पितरं प्रजापतिं प्रापद्यन्त। यथा ज्येष्ठायां वरिष्ठायां पर्ययेतरंस् तथा तान् अकामयन्तात एनान् विनुदहेमहीति। त एतं विनुत्तिं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तत एनान् व्यनुदन्त। यद् व्यनुदन्त तद् विनुत्तेर् विनुत्तित्त्वम्। वि ह वै द्विषन्तं भ्रातृव्यं नुदते य एवं वेद। तस्य त्रिवृतौ मध्ये भवतः। ब्रह्म वै त्रिवृत्। ब्रह्मणा वा एनांस् तद् व्यनुदन्त। ब्रह्मणैव द्विषन्तं भ्रातृ्व्यं विनुदते य एवं वेद॥2.104॥


अथो आहुर् अग्निर् एवैष यत् त्रिवृत् स्तोमः। तद् यथा भ्रमलान् संसन्नान् अग्निना ऽभ्यौषेद् एवम् एवैनांस् तत् त्रिवृता अग्निना स्तोमेन त्रयस्त्रिंशाभ्याम् उभयत उपमार्याभ्यौषन्। ते विपलाय्येमाम् उपासर्पन्न् इति। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद। अथो आहुः पुरोधाकाम एवैनेन यजेत यद् अभिभूर् इति। तस्य त्रिवृताव् अभितो भवतस् त्रयस्त्रिंशौ मध्ये। ब्रह्म वै त्रिवृत् क्षत्रं त्रयस्त्रिंशः। ब्रह्मणैव तद् उभयतः क्षत्रं परिगृह्णाति। यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्य् अथ स तस्य पुरोधां गच्छति। गच्छति पुरोधां पुर एनं दधते। अथो आहुर् अन्तस्थाकाम एवैनेन यजेत यद् विनुत्तिर् इति। तस्य त्रिवृतौ मध्ये भवतस्, त्रयस्त्रिंशाव् अभितः। ब्रह्म वै त्रिवृत्, क्षत्रं त्रयस्त्रिंशः। क्षत्रेणैव तद् उभयतो ब्रह्म परिगृह्णाति। यदो वै क्षत्रेण ब्रह्म परिगृह्णात्य् अथ स तस्यान्तस्थान् तिष्ठति। तिष्ठत्य अन्तस्थान् नान्तस्थायां जीयते। अथो आहू राजानौ हेद् वा एतौ स्तोमौ स्तोमराजाव् इति॥2.105॥


तस्य वा एतस्याभिभुवस् त्रिवृताव् अभितो भवतस् त्रयस्त्रिंशौ मध्ये। तयोष् षट्षष्टि स्तोत्र्याः। ततो याष् षष्टिर् आसन्दी सा। अथ याश् चतस्र आसन्दीपादास् ते। अथ ये द्वे यजमान एवैष द्विपाद् एतस्यां राजासन्द्याम् अध्यूढः। गच्छति राज्यं य एवं वेद, यद्य् अस्मिन् लोके नाथ वा अमुष्मिन्। अथो आहुर् यस्य द्वाव् एतौ त्रिवृतौ मध्ये सा हेद् वा अप्य् आसन्दीति। मध्ये विनतेव वा आसन्दी। मध्ये विनत इवैष । सा ह वै सुषिमत्तरा या मध्ये विनता। गच्छति राज्यं य एवं वेद, यद्य् अस्मिन् लोके नाथ वा अमुष्मिन्। अथो आहुः पुनर् असौ हेद् वा एतौ यज्ञक्रतू इति। षड् वा एतयोर् अति ऊर्ध्वा स्तोमा उद्यन्ति। षड् अमुतो ऽर्वांचष् षड्भिर् एवेत ऊर्ध्वं स्वर्गं लोकं गच्छति, प्रत्य् एवामुतष् षड्भिर् अवरोहति, गच्छति स्वर्गं लोकं, प्रत्य् अस्मिन् लोके तिष्ठति। अथो ह वेद यो ऽसाव् आसं सो ऽयम् अस्मीति पुनर् हैवास्मिन् लोक आजायते। अथो आहु स्वर्गकाम इद् य आभ्याम् अपियजेतेति॥2.106॥


तयोर् वा एतयोस् सह त्रिवृतौ सह पञ्चदशौ सह सप्तदशौ सहैकविंशौ सह त्रिणवौ सह त्रयस्त्रिंशौ। स यथा द्वाभ्यां द्वाभ्यां प्रतितिष्ठन्न् इयाद्, एवम् एवैताभ्यां स्वर्गे लोके प्रतितिष्ठति। अथो आहुर् अन्विष्टीनां हेद् वा एतौ यज्ञक्रतू इति। स यत् संवत्सरभृता वा संवत्सरभृता वाग्निना चित्येन यजेत। स एताभ्यां यजेत। सद्यो हैवास्य संवत्सर ऋतुशो मासशो ऽर्धमासशो ऽन्विष्टो भवति। तद् यत् पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य - ऋतवो वै पृष्ठानि। संवत्सर ऋतवस् - तेनर्तुशः। अथ यद् द्वादश स्तोत्राणि भवन्ति द्वादश मासास् संवत्सरस् तेन मासशः। अथ यच् चतुर्विंशति स्तुतशस्त्राणि भवन्ति, चतुर्विंशत्यर्धमासस् संवत्सरस् - तेनार्धमासशः। सद्यो हैवास्य संवत्सरो ऽन्विष्टो भवति य एवं वेद॥2.107॥


अथैष मनुस्तोमः। मनुर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, मानवीः प्रजास् सृजेयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत। ता इमा मानवीः प्रजा असृजत। स यः कामयेत - बहुः प्रजया पशुभिः प्रजायेय मानवीः प्रजाः सृजेयेति, स एतेन यजेत। बहुर् एव प्रजया पशुभिः प्रजायते मानवीः प्रजास् सृजते। तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति। ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरः प्रजननम्। स यः प्रजननं स मा प्रजनयाद् इति।

तस्योभये स्तोमा भवन्त्य् अयुजश् च युग्मन्तश् चैव। तद् वै दैव्यं मिथुनं प्रजननं यद् उभये स्तोमाः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति।

तस्य व्यतिषिक्ता स्तोमा भवन्ति - व्यतिषिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। तस्योभे बृहद्रथन्तरे सामनी भवतः। एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति।

तस्य छन्दोमाः पवमाना भवन्ति। पशवो वै छन्दोमाः। पशवः प्रजननम्। तद् यत् प्रजननं तन् मा प्रजनयाद् इति।

तस्य मानवं ब्रह्मसाम भवति। ब्रह्म वै ब्रह्मसाम। यजमानकामो एष यद् ब्रह्मसाम, स्व एव तद् आयतने यजमानं कामैस् समृद्धयन्ति।

स उक्थ्यो भवति। प्रजा वै पशव उक्थानि। प्रजा वै पशवः प्रजननम्। तद् यत् प्रजननं तन् मा प्रजनयाद् इति॥2.108॥


अथो आहुर् अन्विष्टीनां हेद् वा एष एको यज्ञक्रतुर् इति। स यस् संवत्सरभृता वा संवत्सरभृता वाग्निना चित्येन यजेत स एतेन यजेत। सद्यो हैवास्य संवत्सर ऋतुशो ऽर्धमासशो मासशो रात्रिशो ऽन्विष्टो भवति। तद् यत् पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृष्ठानि, संवत्सर ऋतवस् - तेनर्तुशः। अथ यत् पञ्चदश स्तोत्राणि भवन्ति - पञ्चदश वार्धमासस्य रात्रयस् - तेनार्धमासशः। अथ यत् त्रिंशत् स्तुशस्त्राणि भवन्ति - त्रिंशन् मासस्य रात्रयस् - तेन मासशः। अथ यत् त्रीणि शतानि स्तोत्रिया भवन्ति - तावतीः संवत्सरस्य रात्रयस् - तेन रात्रिशः। सद्यो हैवास्य संवत्सरो ऽन्विष्टो भवति य एवं वेद। ताः प्रजन्याकामयत स्वर्गं लोकं गच्छेयम् इति। स एतम् उत्तरम् मनुस्तोमम् अपश्यत्। तम् आहरत्। तेनायजत। तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्य् - ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सर स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्योर्ध्वा स्तोमा भवन्त्य् - ऊर्द्वो वै स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै। तस्योभे बृहद्रथन्तरे सामनी भवत स्वर्ग्ये, स्वर्गस्यैव लोकस्य समष्ट्यै। तस्य पञ्चविंशं ब्रह्मसाम भवति। अन्नं वै पञ्चविंशम्। यजमानकामो वा एष यद् ब्रह्मसाम। स्व एव तद् आयतने यजमानम् अन्नाद्येन समृद्धयन्ति। स उक्थ्यो भवति - प्रजा वै पशव उक्थानि। प्रजा वै पशव स्वर्गो लोक - स्वर्गस्यैव लोकस्य समष्ट्यै॥2.109॥


अथो आहुर् अन्विष्टीनां हेद् वा एष एको यज्ञक्रतुर् इति। तत एव रात्रिम् उपयन्ति। अतिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। ते स्वर्गं लोकं गत्वा सार्धमेवाव्यवसिता आसत। दिशौ प्रजानानास् ते अकामयन्त - दिशः प्रजानीयामेति। अहोरात्रयोर् ह वै परस्तात् स्वर्गो लोकः। त एतान्य् उपरिष्टाद् रात्रेश् चत्वारि स्तोत्राण्य् अपश्यन्। तैर् अस्तुवत। तैर् एव स्तुत्वा दिशः प्राजानन्। ततो वै ते यत्र यत्र स्वर्गस्य लोकस्याकामयन्त तत् तद् व्यवास्यन्। यत्र यत्र ह वै स्वर्गस्य लोकस्य कामयते तत् तद् व्यवस्यति य एवं वेदेति ह स्माह जानश्रुतेयः। अथ ह स्माह वैतहव्यः। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टाः प्राद्रवन्। तान् अग्निष्टोमेनाविवारयिषत। ते तद् अत्याद्रवन्। तान् उक्थ्येनाविवारयिषत। ते तद् अत्याद्रवन्। तान् षोडशिनाविवारयिषत। ते तद् अत्य् एवाद्रवन्। तान् पर्यायैः पर्यायम् ऐत्। यत् पर्यायैः पर्यायम् ऐत् तत् पर्यायाणां पर्यायत्वम्। तान् आश्विनेन क्रतुना पर्यगृह्णात्। तेषां परिगृहीतानां यथा क्षुद्रा मत्स्या अक्ष्योर् अक्ष्य् अतिशीयेरन्न् एवम् एव ये क्षुद्राः पशव आसुस् ते अतिशेरुः। तान् अकामयताप्त्वैनान् आत्मन् यच्छेयम् इति। स एतान्य् उपरिष्टाद् रात्रेश् चत्वारि स्तोत्राण्य् अपश्यत्। तैर् अस्तुत। तैर् एवैनान् आप्त्वात्मन्य् अयच्छत्। यद् आप्त्वात्मन्य् अयच्छत् तस्माद् अप्तोर्यामः। यद् व् एवाप्तश इव सोमस्य प्रभावयन् नन्वैतस्माद् अप्तोर्यामः॥2.110॥