← कण्डिका १११-१२० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका १२१-१३०
[[लेखकः :|]]
कण्डिका १३१-१४० →

गोधूमोर्वरा वेदिर् भवति। सा हि पुराकृता भवति। गोधूमानाम् उत्तरवेदिः परोक्षतायै। खलेवला यूपस्फ्याग्रो भवत्य् ऐन्द्रः। विजित्यै सह पशू आलभन्ते समष्ट्यै। स्त्रीगौस् सोमक्रयणी भवति परोक्षतायै। कुंभ्या वसतीवर्यो भवन्ति यः पुरेजानस् तस्य गृहेभ्यः। ता हि पुरागृहीता भवन्ति। सर्पिष्मन्तम् अशित्वा निपद्यते। यम् एवामुं दीक्षणीयम् अश्नाति स एवास्य सो ऽशितो भवति। प्रियायै जायाया अन्तरोरु शेते निपद्यमानः। तस्यम् एवास्य तद् धिरण्यम् मुख आधाय शेते। सत्यं वै हिरण्यम्। सत्यम् एवास्य तद् उदितं भवति। रजतं भवति परोक्षतायै। वळवा श्वेता दक्षिणा भवति परोक्षतायै। अश्वतरीरथस् सोमप्रवाको भवति त्रैपदं परमं परोक्षतायै। तस्मिन् दधिदृतर् उपावहितो भवति। तस्य यत् सर्पिस् संपतति तद् आज्यकुंभे ऽवास्यन्ति। तद् धि सद्योजम् इवाध्यर्धक्रोशे ऽध्यर्धक्रोश ऋत्विजो विनिहिता भवन्ति। त एनं प्रातर् उपसमेत्य याजयन्ति। स जुह्वत् त्रिर निमीलयति त्रिर् वीक्षते। ता एव दीक्षोपसदः। स वा एषो ऽष्टादशपवमानो भवति। परोक्षं त्रिवृत्। अग्निष्टोमयज्ञा वा आदित्या उक्थ्ययज्ञा अंगिरसः। स एष उक्थ्यो निदानेन सन्न् अग्निष्टोमः प्रत्याह्रियते क्षिप्रतायै। अथैष चतुर्विंशपवमानो भवति। परोक्षं त्रिवृद् उ एव। स वा एषो ऽतिरात्रो निदानेन सन् षोडशीमान् वा अग्निष्टोमः प्रत्याह्रियते क्षिप्रतायै॥2.121॥


अथैष परिक्रीः। खण्डिकश् च हौद्भारिः केशी च दार्भ्यः पाञ्चालेषु पस्पृधाते। स ह खण्डिकः केशिनम् अभिप्रजिघाय। सद्यःक्रिया वै स्यो यक्ष्यत इति। अथ हैतेन प्रोच्य भ्रातृव्याय यजन्ते। तस्य हैते ब्राह्मणा आसुर् - अहीना आश्वत्थिः, केशी सात्यकामिर्, गङ्गिना राहक्षितो, लुशाकपिः खार्गलिर् इति। ते हैनम् उपसमेयुः. स ह ध्यायन् निषसाद। तं होचुः - किं नु राजन्यो ध्धायतीति। स होवाच - न हि मे ध्येयम्। यूयं ब्राह्मणा अनुब्रूथ - आदित्याश् चाङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त। त आदित्याः पूर्वे स्वर्गं लोकम् अगच्छन्न् अहीयन्ताङ्गिरस इति। स य एतेन प्रोच्य भ्रातृव्याय यजते, स एव भवति, परास्य द्विषन् भ्रातृव्यो भवति॥2.122॥


तम् उ वै मायं खण्डिको ऽभिप्राहैषीत् - सद्यःक्रिया वै स्यो यक्ष्यत इति। स एव नूनं भविष्यति, परा स्यो भविष्यतीत्य एवैतद् ध्यायामीति। तं होचुः परिक्रीर इति वा अयं यज्ञक्रतुर् अस्ति। तेन त्वा याजयामेति। तथेति। तेन हैनं याजयांचक्रुः। तस्य वा एतस्य तृचस्य तृचस्यैकैकया स्तुवन्ति। ब्रह्म वै प्रथमा स्तोत्रिया, क्षत्रं द्वितीया, विट् तृतीया। अवलम्भ उ ह वै ब्रह्मणः। क्षत्रं च विट् च। क्षत्रं चो ह वै विशं चानु भ्रातृव्यलोकः। स ये द्वे अवचिच्छेद, भ्रातृव्यलोकम् एव तद् अवचिच्छेद। आत्मा वै प्रथमा स्तोत्रिया, जाया द्वितीया, प्रजा तृतीया। अवलम्ब उ ह वा आत्मनो जाया च प्रजा च। जायां चो ह वै प्रजां चानु भ्रातृव्यलोकः। स ये द्वे अवचिच्छेद, भ्रातृव्यलोकम् एव तद् अवचिच्छेद॥2.123॥


ततो वै स खण्डिकं निःसारयांचकार। ततो वै केशी दार्भ्यो ऽभवत्, परा खण्डिकः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति, य एवं वेद। तस्य तिसृषु बहिष्पवमानं भवति, चतसृष्व् आज्यानि, पञ्चसु माध्यंदिनः पवमानश्, चतसृषु पृष्ठानि, सप्तस्व् आर्भवः पवमान, एकस्याम् अग्निष्टोमसाम। ताश चतुर्विंशति स्तोत्र्यास् संपद्यन्ते। चतुर्विंशत्यर्धमासम् संवत्सरः। संवत्सराद् एव तत् खण्डिकम् औद्भारिं केशी दार्भ्यो नुनुदे, संवत्सराद् अन्तरियाय। संवत्सराद् एव द्विषन्तं भ्रातृव्यं नुदते, संवत्सराद् अन्तरेति, य एवं वेद॥2.124॥


अथैष एकत्रिकः। प्रजननकामो हैतेन यजेत। प्रजापतिर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेयेमां व्यष्टिं व्यश्नुवीयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। स ऐक्षत केन स्तुवीयेति। स आत्मानम् अपश्यत्। तेनास्तुत। स ऐक्षत केन न्वेव स्तुवीयेति। स प्राणापानव्यानान् अपश्यत्। तैर् अस्तुत। स आत्मना स प्राणापानव्यानैस् स आत्मना स प्राणापानव्यानैस् स एवम् एव विपर्यासं यज्ञं समस्थापयत्। ततो वै स बहुः प्रजया पशुभिः प्रजायतेमां व्यष्टिं व्याश्नुत यास्येयम्। बहुर् एव प्रजया पशुभिः प्रजायत इमां व्यष्टिं व्यश्नुते य एवं वेद॥2.125॥


तेन हैतेनोदरश् शाण्डिल्य इयक्षाञ्चक्रे। तस्य ह मनस्य् एवास - एकत्रिकेण यजेयेति। न ह तु कस्मै चनोवाच। अथ हास्य जाया गन्धर्विण्य् आस। तां हायं गन्धर्व उपन्येयाय। तां होवाचैकत्रिक इति वै यज्ञक्रतुर् दारुण इवास्ति। तेन वै ते पतिर् यक्ष्यत इति। सा हेयं पतिं पपप्रच्छ - एकत्रिक इति वै यज्ञक्रतुर् दारुण इवास्ति। सत्यं त्वं तेन यक्ष्यसा3 इति। स होवाच - यद् अहम् इदम् वैव कस्मै चनावोचं, मनस्य् एव मे ऽभूत्, कस् त इदम् अवोचद इति। यो मायं गन्धर्व उपन्यैतीति। तं वै त्वं पृच्छताद् इति होवाच। यष्टव्यं तेना3, न यष्टव्या3म् इति। तं ह पप्रच्छ - यष्टव्यं तेना3, न यष्टव्या3म् इति। स होवाच - यथा वा एनं स वेदैवम् एनं वयं विद्मः। अन्यतर इति वा एनं स वेदान्यतर इति वा एनं स वेदान्यतर इत्य् एनं वयं विद्मः। यस् त्व् अस्येत्थं स्तोत्रं विद्यात्, स एनेन यजेतेति, यथैनेनादः प्रजापतिस् तुष्टुवे। तेनो ह स नोपदधर्षेष्टुम्॥2.126॥


शश्वद् धोदरश् शाण्डिल्यस् तेनैव पणाय्यतां जगाम यद् अस्य मनस्य् एवासैकत्रिकेण यजेयेति। स वा एषो ऽन्यतर इव यज्ञक्रतुस् सुपणाय्यो वैनेनेष्ट्वा भवति सुपापीयान् वा। तस्यैकस्यां बहिष्पवमानं संपद्यते उपास्मै गायता नर इति। तिसृषु माध्यंदिनः पवमानो - गायत्रम् एव गायत्र्याम् , उत्सेधस् सतोबृहत्याम्, सैवेळा, तन् निधनम्, औशनम् एव त्रिष्टुभि। एतस्याम् आर्भवः पवमानो ऽया रुचा हरिण्या पुनान इति। एतस्याम् अतिच्छन्दसि गायत्रपार्श्वम्। स एव स्वरस् तन् निधनम्. सप्तपदा भवति। सप्त वै छन्दांसि। अतिछन्दा वै सर्वाणि छन्दांस्य् अभिभवति। तद् अस्य तत् सर्वाण्य् एव छन्दांस्य् उपेतानि भवन्ति। तद् आहुः पञ्चनिधनम् एव वामदेव्यं कार्यम्। पञ्चछन्दा आर्भवः पवमानस् सप्तसामा। यद् अह पञ्चनिधनानि, तेन छन्दांसि प्रतिविभवति। यद् उ वै सप्तपदा तेन सामान्य् अत्रेव विभवतीति। तद् उ वा आहुर् गायत्रपार्श्वम् एव कार्यम्। स एव स्वरस्, तन् निधनम्। आत्मा वै स्वरः, प्रजा निधनम्। एतद् एव समृद्धतरम् इव यद् गायत्रपार्श्वम्। तस्माद् गायत्रपार्श्वम् एव कार्यम् इति। ताश् चतुर्विंशति स्तोत्र्यास् संपद्यन्ते। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननम्। स यः प्रजननं स मा प्रजनयाद् इति॥2.127॥


अथैष बृहस्पतिसवः। प्रजापतिः प्रजास् ससृजानस् स व्यस्रंसत। सो ऽन्नं भूतो ऽशयत्। तस्य सर्वे देवा ममत्विन आसन् - मम ममेति। ते ऽब्रुवन् - वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन् - आजिम् अस्यायामेति। त आजिम् आयन्। स बृहस्पतिर् आजिसरणं पन्थानम् अपश्यत्। स पूर्वः परीत्य रथेन वृत्वातिष्ठत्। ते देवास् तन् नाविन्दन् येनात्यसरिष्यन्। शश्वद् ध वावान् एव रथयानाय तावान् आजिर् आस। ततो वै स तम् आजिम् उदजयत्। यद् बृहस्पतिर् उदजयत्, तस्माद् बृहस्पतिसवः। तम् आजिम् उज्जिगिवांसम् इन्द्रो ऽब्रवीत् - पुरस् त्वा दधे। माम् अनेन यज्ञेन याजयेति। तथेति। तं पुरो ऽधत्त। तेनैनम् अयाजयत्। ततो वा इन्द्रस् सर्वेषां देवानां श्रैष्ठ्यम् अगच्छत्। गच्छति स्वानां श्रैष्ठ्यं य एवं वेद।

स वा एष द्वयोर् एव यज्ञो - ब्राह्मणस्य चैव राजन्यस्य च। यद् बृहस्पतिर् उदजयत्, तेन ब्राह्मणस्य। यद् इन्द्रो ऽयजत, तेनो राजन्यस्य। स उ हेन्द्रस्यैवैकस्य पुरोहित आस, नेतरेषां देवानाम्। सो ऽकामयत - सर्वेषां देवानां पुरोधां गच्छेयम् इति। स एतेनैव यज्ञेनायजत। ततो वै स सर्वेषां देवानां पुरोधाम् अगच्छत्। बृहस्पतिर् वै देवानां पुरोहितः॥2.128॥


स त्रिवृद् रथन्तरसामा भवति। ब्रह्म वै त्रिवद्, ब्रह्म रथन्तरम्। ब्रह्मणा वाव स तद् ब्रह्मवर्चसम् आर्ध्नोत्। ब्रह्मणैव ब्रह्मवर्चसम् ऋध्नोति य एवं वेद।

तस्य त्रयस्त्रिंशद् दक्षिणा भवति। त्रयस्त्रिंशद् वै देवताः। देवतानाम् एव पुरोधाम् आश्नुत। अश्वश् चतुस्त्रिंशः। प्रजापतेर् वा एतद् रूपं यद् अश्वः. सप्रजापतिकानाम् एव तेन देवतानां पुरोधाम् आश्नुत। तस्यैता यथापूर्वम् अनुसवनं दक्षिणा ददात्य् - अष्टौ प्रातस्सवने ददात्य्, एकादश माध्यंदिने सवने, द्वादश तृतीयसवने, ऽनूबंध्यायाम् एकाम्, उदवसानीयायाम् एकाम्। अनुसवनम् अश्वं तृतीयशः। तद् या अष्टौ प्रातस्सवने ददात्य् - अष्टौ वसव - वसूनाम् एव पुरोधाम् आश्नुत। अथ या एकादश माध्यंदिने सवन - एकादश रुद्रा - रुद्राणाम् एव तेन पुरोधाम् आश्नुत। अथ या द्वादश तृतीयसवने - द्वादशादित्या - आदित्यानाम् एव तेन पुरोधाम् आश्नुत। अथ याम् अनूबंध्यायाम् एकां - मित्रावरुणयोर् एव तेन पुरोधाम् आश्नुत। अथ याम् उदवसानीयायाम् एकां - कर्म कर्म मे दक्षिणावद् असद् इति। अथ यम् अनुसवनम् अश्वं तृतीयशः - प्रजापतेर् एव तेन पुरोधाम् आश्नुत॥2.129॥


तद् आहुर् - मनसैव प्रातस्सवने दद्यान्, मनसा तृतीयसवने, माध्यंदिन एव सवने दद्याद् इति। तद् उ वा आहुर् - अतीर्थं वै प्रातस्सवनं दक्षिणानाम्, अतीर्थं तृतीयसवनम्। माध्यंदिन एव सवने दद्यात्। तद् एव तीर्थं, तद् आयतनम्। नैवेतरयोः सवनयोर् मनसा चन ददद् आद्रियतेति। ब्रह्मणे ऽश्वं ददाति। ब्रह्मणो ह्य् एवैकं दक्षिणा। तद् यदा माध्यंदिनीयाश् चमसाः प्रतिष्ठेरन्न् अथ जघनेनाहवनीयं प्राचीनग्रीवं कृष्णाजिनम् उपस्तृणीतेति ब्रूयाद् उदीचीनग्रीवं वा। तद् यजमान आस्ते। स हुतानां चमसानाम् उन्मार्ष्टि - देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै त्वा वाचो यन्तुर् यन्त्रेण बृहस्पतेस् त्वा साम्राज्येन ब्रह्मणाभिषिंचामीति। मुखं विमार्ष्टि। स सोमाभिषिक्तस् तेजस्वी ब्रह्मवर्चसी भवति। त्रिर् उत्क्रोशन्ति - त्रयो वा इमे लोका - एष्व् एवास्य तल् लोकेषु श्रुतिं दधति॥2.130॥