← कण्डिका १३१-१४० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका १४१-१५०
[[लेखकः :|]]
कण्डिका १५१-१६० →

अथैष विघनः। प्रजापतिर् देवान् असृजत - वसून् रुद्रान् आदित्यान्। तेभ्यो यज्ञं चेमांश् च लोकान् प्रायच्छत्। वसुभ्य एव प्रातस्सवनं प्रायच्छद्, रुद्रेभ्यो माध्यंदिनं सवनम्, आदित्येभ्यस् तृतीयसवनम्। वसुभ्य एवेमं लोकं प्रायच्छद्, रुद्रेभ्यो ऽन्तरिक्षम्, आदित्येभ्यो ऽमुम्। अथेन्द्रम् असृजत। स इदम् एषां सर्वं विभक्तम् अपश्यत् । सो ऽब्रवीद् यद् इदम् एषां सर्वं विभक्तम्, अथ कस्मै माम् असृष्टा इति। एतेषां त्वा, इत्य् अब्रीवीच्, छ्रैष्ठ्यायाधिपत्यायासृक्षीति। सो ऽहं कथम् एषां श्रेष्ठो ऽधिपति स्याम् इति। परेह्य् एनान् ब्रूहीत्य् अब्रवीद्, युष्माकं मा प्रजापति श्रैष्ठ्यायाधिपत्यायासृष्टेति। स एत्याब्रवीद् - युष्माकं मा प्रजापति श्रैष्ठ्ययायाधिपत्यायासृष्टेति। ते ऽब्रुवन् - वयं वाव श्रेष्ठा स्मो, वयम् अधिपतयो, ये ज्येष्ठा स्म इति नाजानन्। स पुर् एत्याब्रवीन् - न वा अमी तज् जानन्ति यत् त्वम् आत्थेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनैनम् अयाजयत्। स हेष्ट्वैव सर्वा मृधो व्यहत।यद् व्यहत, तद् विघनस्य विघनत्वम्। वि ह वै द्विषन्तं भ्रातृव्यं हते य एवं वेद॥2.141॥


तं विजिग्यानं सर्वे देवा अभितस् समन्तं पर्यविशन् - वसवः पुरस्ताद्, रुद्रा दक्षिणत, आदित्याः पश्चान्, मरुत उत्तरतो, विश्वे देवा उपरिष्टात्, साध्याश् चाप्त्याश् चाधस्ताद्, अभितो ऽङ्गिरसः। एषा वै दैवी श्रीर् दैवी सभा दैवी संसत्। गच्छति ह वा एतां दैवीं श्रियं दैवीं सभां दैवीं संसदं य एवं वेद। स वा एष षड् बृहतीर् अभिसंपद्यते। षड् वा ऋतवस् संवत्सरश्रीः। श्रियां वावैनं तद् अध्यौहत्। स एष ऋतुषु च संवत्सरे चैतस्यां श्रियाम् अध्यूढस् तपति। तस्य प्रत्नं पीयूषं पूर्वं यद् उक्थ्यम् इत्य् एताः सतोबृहतयो भवन्ति गायत्री भाजनम्। ब्रह्म वै गायत्री. क्षत्रं बृहती। ब्रह्मैव तद् यशसानक्ति। ब्रह्मणो ऽस्य त(त्) सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद॥2.142॥


तासु व्यतिषक्तासु स्तुवन्ति - व्यतिषक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथो व्यतिषक्तो वै पुरुषः। पाप्मभिर् व्यतिषक्ताभिर् एव तद् व्यतिषक्तान् पाप्मनो ऽपहते। तासु गायत्रम् उक्तब्राह्मणम्। अथामहीयवम् उक्तब्राह्मणम्। अथ सौपर्णम् उक्तब्राह्मणम्। अथ सत्रासाहीयं विजित्यै। सत्रा तम् अभिषहा तं यो ऽस्याभिषं ह्यो ऽसद् इति। अथोत्सेधनिषेधौ पापवस्यसस्यैवोत्सिद्ध्यै च निषिद्ध्यै च। अथ विशोविशीयं च सदोविशीयं च। विशोविशीयेन वा इन्द्रो देवान् अभ्यारोहत्। तान् सदोविशम् इत्य् एव सदोविशीयेन विशम् अकुरुत। अथैतास् त्रिष्टुभो भवन्ति। तासु ब्रह्मसाम। ब्रह्म वै ब्रह्मसाम। क्षत्रं त्रिष्टुप्। यजमानकामो वा एष यद् ब्रह्मसाम। स्व एव तद् आयतने यजमानं कामैस् समृद्धयन्ति॥2.143॥


ताः पदब्राह्मणा भवन्ति। तद् इद् आस भुवनेषु ज्येष्ठम् इति प्रजापतिर् हि सः। प्रजापतिर् ह्य् एष भुवनेषु ज्येष्ठः। यतो जज्ञ उग्रस् त्वेषनृम्ण इति इन्द्रो हि सः। सद्यो जज्ञानो नि रिणाति शत्रून् इति सद्यो ह्य् एव स जज्ञानस् सर्वा मृधो व्यहत। अनु यं विश्वे मदन्त्य् ऊमा इत्य् ऋतवो वा ऊमास् - त एवैनं तद् अनुमदन्ति। वावृधानश् शवसा भूर्योजाश् शत्रुर् दासाय भियसं दधातीतीन्द्रो ह सः। अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेष्व् इति यच् च ह वै व्यनिति, यच् च न, तत् सर्वम् एतस्यैव श्रियै तत् स्थानम्। त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमा इति - ऋतवो वा ऊमास् - त एवैते द्विस् त्रिर् भवन्ति। स्वादो स्वादीय स्वादुना सृजा सम् इति प्रजा वै स्वादुः प्रजायै या प्रजा सा स्वादो स्वादु। अदः सु मधु मधुनाभि योधीर् इति प्रजा वै मधु प्रजायै या प्रजा सा मधोर् मधु। अपि ह प्रजायै प्रजां पश्यते य एवं वेद। तासु श्यैतम् उक्तब्राह्मणम्॥2.144॥


अथैतानि गोनामामि भवन्ति - पशवो वै गोनामानि - पशूनाम् एवावरुद्ध्यै। एकपदा प्रथमा भवति, त्रिपदे उत्तरे द्वे। तानि सप्तपदानि संपद्यन्ते। सप्तपदा वै शक्वर्यः। शाक्वराः पशवः। अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै। तद् आहुर् अपावमान्यो न पवमाने कार्या इति। तद् उ वा आहुः - पावमान्य एवामुष्य वा एताश् चन्द्रमस ऋचः। एष वै पवमान, एष सोमो राजा। तस्मात् कार्या एवेति।
[१]सुमन्मा वस्वी रन्ती सूनरी सुरूप वृषन्न् आ गहि।
इमौ भद्रौ धुर्याव् अभि ताव् इमा उपसर्पतः॥
नीव शीर्षाणि मृढ्वं मध्य आपस्यति।
शृंगेभिर् दशभिर् दिशन्॥
इति ये ह वा एत आदित्यस्य रश्मय एतानि ह वा एतस्य शृंगाणि। मध्य उ ह वा एष एतत् अपाम्। तासु वारवन्तीयम् । यद् अनेन कर्मणावारुत्स्महि, तन् नो वारवन्तीयेन वारितम् अन्तत उपतिष्ठाता इति। तद् उ वा आहुर् यद् वावान्या वाङ् नातिवदति तद् एतस्याह्नो ऽग्निष्टोमसाम कार्यम्। यज्ञायज्ञीयं वावान्या वाङ् नातिवदति। वाग् वै यज्ञायज्ञीयम्. कुतो हि वाग् वाचम् अतिवदिष्यति। तस्माद् एतस्याह्नो यज्ञायज्ञीयम् एवाग्निष्टोमसाम कार्यम् इति॥2.145॥


अथैष वैश्वदेवः। प्रजननकामो हैतेन यजेत। प्रजापतिर् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, वैश्वदेवीः प्रजास् सृजेयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स बहुः प्रजया पशुभिः प्रजायत, वैश्वदेवीः प्रजा असृजत। स यत् कामयेत बहुः प्रजया पशुभिः प्रजायेय, वैश्वदेवीः प्रजास् सृजेयेति, स एतेन यजेत। बहुर् एव प्रजया पशुभिः प्रजायते, वैश्वदेवीः प्रजास् सृजते। तद् यद् एष वैश्वदेवो भवति वैश्वदेवीनाम् एव प्रजानां सृष्ट्यै। स सर्व एव वैश्वदेवीषु भवति वैश्वदेवीनाम् एव प्रजानां प्रजात्यै।
स त्रिवृद् भवति - न्यूनं वै त्रिवृत्। न्यूनं प्रजननम् - तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
तस्य रथन्तरं पृष्ठं भवति - प्रजननं वै रथन्तरं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
स उक्थ्यो भवति - प्रजा वै पशव उक्थानि। प्रजा वै पशवः प्रजननं - तद् यत् प्रजननं तन् मा प्रजनयाद् इति॥2.146॥


अथो आहुस् सप्तदश एव स्याद् इति - प्रजापतिर् वै सप्तदशः। प्रजापतिः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति।
अथो आहुस् त्रिणव एव स्याद् इति। त्रयो ह ते त्रिवृतः। न्यूनं वै त्रिवृत्। न्यूनं प्रजननम्। तद् यत् प्रजननं तन् मा प्रजनयाद् इति।
अथो आहुस् त्रयस्त्रिंश एव स्याद् इति। प्रजापतिर् वै त्रयस्त्रिंशः । प्रजापतिः प्रजननम्। स यः प्रजननं स मा प्रजनयाद् इति।
तद् उ वा आहुस् सप्तदश एव स्यात्। एष ह वाव प्रजापतिर् यत् सप्तदशः। तस्मात् सप्तदश एव स्याद् इति। स उ एव त्रिवृतं च स्तोमं गायत्रीं च छन्दो ऽभिसंपद्यते। एतद् वै दैव्यंमिथुनं प्रजननं यत् त्रिवृच् च स्तोमो गायत्री च छन्दः। तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति।

स उक्थ्यो भवति - विड् वा उक्थानि - वैश्वदेवीनाम् एव प्रजानां प्रजात्यै। स हैष भूर् एव नाम यज्ञक्रतुः। एतेन ह वै यज्ञेनेष्ट्वा प्रजापतिर् अभवत्। यद् अभवत् तस्माद् भूः। भवति य एवं वेद। स वा एष वैश्यस्येव यज्ञो, ब्राह्मणस्याग्निष्टुद्, राजन्यस्येन्द्रस्तोमः। यर्हि वा एतैर् एवं व्याकृतैर् ईजिरे, प्रोक्ता ह स्म मनुष्या विज्ञायन्ते। ब्राह्मणो वदति, राजन्यो वदति, वैश्यो वदतीति। अथ यद् इदम् एतर्हि यथोपवादम् एतैर् यजन्ते ततो ह नाप्रोक्ता विज्ञायन्ते॥2.147॥


अथैष उपहव्यः। प्रजापतिः प्रजा असृजत। तासां सृष्टानां नावेन्वो एव प्रजा अविदुः प्रजापतिर् नो ऽसृष्टेति। स ऐक्षत कथं न्व् इमा अहं प्रजास् सृजेय तासां सृष्टानां न विद्याम इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो ऽनेनैव ता उपाह्वयत। यद् उपाह्वयत तद् उपहव्यस्योपहव्यत्वम्। स सप्तदशो ऽनिरुक्तासु भवति। यथा ह वै वना कक्षा एवं सप्तदशो ऽनिरुक्तासु। स यथा वनात् कक्षात् परीत्यार्भवेद् एवम् एवैताभिर् दृष्टवतीभिर् आविर्बभूव। यद् आदर्शि गातुवित्तम इत्य् एतासु दृष्टवतीष्व् अग्निष्टोमसाम भवति। ततो वै तं ता अविदुर् अस्य वै वयं स्मो ऽयं वास्माकम् आसेति। अथो हाभ्यो ऽन्नम् एव भूतो ददृशे। ता एनम् अन्नकाशिनीः प्रजा अभ्युपाववृधुः। तद् यस्माद् राजन्याद् विशो ऽपक्रामेयुर् ब्राह्मणाद् वा स जातास् स एतेन यजेत। तस्मिन्न् ऋत्विज उपह्वयेत। एता उ ह वै यजमानस्य विशो यद् ऋत्विजः॥2.148॥


तस्य रथन्तरं पृष्ठं भवति। अन्नं वै रथन्तरम्। अथो हास्मिन् बह्व् एव पक्वान्नं दद्यात्। ता एनम् अन्नकाशिनीः प्रजा अभ्युपावर्तन्ते। प्रजापतिर् यज्ञम् असृजत। तं देवेभ्यः प्रायच्छत्। स यज्ञं प्रदाय रिरिचानो ऽमन्यत। स ऐक्षत कथं न्व अहम् इमं यज्ञं पुनर् उपह्वय इति। स एतेनैव यज्ञेनायजत। तेनैनं पुनर् उपाह्वयत। यद् उपाह्वयत तद् व् एवोपहव्यस्योपहव्यत्वम्। तद् यं सकृदिष्टिनं यज्ञो नोपनमेत्, स एतेन यजेत। अपक्रान्तो ह वा एतस्माद् यज्ञो भवति। यं सकृदिष्टिनं यज्ञो नोपनम्त्य्, एतेन हैवैनं पुनर् उपह्वयते। उप हैनं यज्ञो नमति य एवं वेद॥2.149॥


द्वया उ ह वा अग्रे प्राजापत्या आसुर् देवाश् चैवासुराश् च। ततो हाभिराधयत्तरा इव देवा आसुर् अनभिराधयत्तरा इवासुराः। स प्रजापतिर् अकामयत देवा एव स्युः, परासुरा भवेयुर् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तस्मिन् देवान् उपाह्वयत। अथासुरान् दीर्घवंशेनान्तरगृह्णात्। ततो वै देवा अभवन्, परासुराः। भवत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद। स यो भ्रातृव्यवान् स्याद् यो ऽभिचरेद् य स्पर्धेत स एतेन यजेत। तद् ये ऽस्य प्रति कामीना इवर्त्विज स्युस् तान् उपाह्वयेत। अथेतरान् दीर्घवंशेनान्तर्गृह्णीयात्। तेषाम् एवानुपहवम् अनु द्विषन्न् अस्य भ्रातृव्यः पराभवति, श्रियम् आत्मनाश्नुते॥2.150॥


  1. साम १६५४