प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथो यथा रथाक्षे रथचक्रं प्रतिमुञ्चेद् एवम् एवैतानि सर्वाणि शिल्पान्य् आहृत्य ब्रह्मन् प्रतिष्ठापयन्ति ये गायत्रीषु बृहद् अग्निष्टोमसाम कुर्वन्ति। तस्माद् गायत्रीष्व् एव बृहद् अग्निष्टोमसाम कार्यम् इति। तद् आहुस् सहस्रम् एव दद्यात् तद् एव विश्वम् इति। अथो आहुर् यावतीर् एवैतस्य विश्वजित स्तोत्र्यास् तावद् एव दद्यात्। तद् एव विश्वम् इति। तद् उ वा आहुर् यद् एवास्य किंचित् स्वं स्यात् तद् दद्यात्। यत् परिशिनष्टि स पाप्मेति। यथा वैनं मिथुनात् स्रवत्य् एवम् एनं तस्मात् सर्वस्मात् पाप्मा स्रवति यत् परिशिनष्टि। तस्मात् सर्वम् एव देयम् इति॥2.191॥


अथैष वाजपेयः। वाजपेयेनान्नाद्यकामो यजेत। अन्नपेयो ह वा एष यद् वाजपेयः। अन्नं वै वाजः। यदा वै गौर् अश्वः पुरुषो ऽन्नस्य सुहितो भवत्य् अथ स वाजी भवति। अग्निष्टोमेन ब्रह्मवर्चसकामो यजेत - ब्रह्म वा अग्निष्टोमो - ब्रह्मवर्चसस्यैवावरुद्ध्यै। ऋतूनां च ह खलु वै पशूनां च कामायाभिषिच्यमानो ऽभिषिच्यते। तस्य पञ्च स्तोत्राणि चतुस्त्रिंशानि कुर्युस् सर्वान् पवमानान् उभे ब्रह्मसामनी। तावतीर् उक्थ्यस्य स्तोत्र्याः। आप्नुवन्ति तं कामं य उक्थ्ये। नो वा अग्निष्टोमाद् यन्ति। न ह खलु वा एषो ऽग्निष्टोमो नोक्थ्यो न षोडशिमान् नातिरात्रः। अतिरिक्तयज्ञो ह वा एषः। अतिरिक्तो वै प्रजापतिः। प्राजापत्य एष यज्ञः। प्रजापतेर् एवाप्त्यै। तस्य बृहच् छिपिविष्टवती भवति। पशवो वै शिपिविष्टाः। क्षत्रं बृहत्। क्षत्रियस्यो अयं लोकः। अस्य नो लोकवतस् साम्नः पशवो लोकम् अनूपतिष्ठन्ता इति। त्रिष्टुप्सु स्तुवन्ति बृहत् साम। क्षत्रं वै त्रिष्टुप्। क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति। वैष्णवीषु स्तुवन्ति - विष्णुर् वै परमो देवतानां - परमया देवतयाभिषिच्यमानो ऽभिषिच्याता इति। आजिं धावन्ति, प्रजापतेर् एवाप्त्यै स्वर्गस्य च लोकस्योज्जित्यै। सप्तदश प्रव्याधान धावन्ति। सप्तदशो वै प्रजापतिः। प्राजापत्य एष यज्ञः प्रजापतेर् एवाप्त्यै॥2.192॥


तद् आहुस् तिसृष्व् एवास्तुतासु धावेयुः। त्रयो वै प्राणापानव्यानाः। तेषां संतत्या अव्यवच्छेदायेति। अथो आहुर् एकस्याम् एवास्तुतायां धावेयुः। को ह्य् एवैष यत् प्राणो ऽपानो व्यान इति। तद् उ वा आहुस् सर्वास्व् एवास्तुतासु धावेयुर् एतयोर् आज्योर् असंसर्गायेति। तद् आहुर् यन्ति वा एते यज्ञाद् ये बहिर्वेदि प्रसुते धावयन्ति। एतावान् वाव यज्ञो यावान् अन्तर्वेदि। ऐव वेद्यन्ताद् धावेयुर् इति। अथो आहू रथोपस्थ एव पादम् आधाय तं पुनर् एव हरेत्। तद् एव सृतं चासृतं चेति। तद् उ वा आहुर् धावयेयुर् एव। रथन्तरेण वै दैव्यम् आजिम् उज्जयति, रथेन मानुषम्। तस्माद् धावयेयुर् एवैतयोर् आज्योर् उज्जित्या इति। ब्रह्मा रथचक्र आसीनस् सामभिर् गायत्य् अग्म वाजं वाजिन इति. त आ वाजं वाजिनो ऽग्मन्न् इति। अमृतो ऽन्नं वै वाजो ऽन्नाद्यस्यैवावरुद्ध्यै। वर्तमाने गायति। वर्तमानो हि तत्र गच्छति यत्र जिगमिषति। वयश्वो ददाति। वयश्वो वा इदं विहितम्। प्रजापतेर् वा इदं सर्वम्। प्राजापत्य एष यज्ञः, प्रजापतेर् एवाप्त्यै। वयसो वयसस् सप्तदश सप्तदश ददाति। सप्तदशो वै प्रजापतिः। प्राजापत्य एष यज्ञः। प्रजापतेर् एवाप्त्यै। तस्यानिरुक्तं प्रातस्सवनं भवति। अनिरुक्तो वै प्रजापतिः। प्राजापत्य एष यज्ञः। प्राजपतेर् एवाप्त्यै। वाजवन् माध्यंदिनं सवनम्। वाजपेयो ह्य् एषः। चित्रवत् तृतीयसवनम्। चित्रतमो ह्य् एष यज्ञः। उच्चा ते जातम् अन्धसेति माध्यंदिनस्य पवमानस्य अन्धस्वतीर् गायत्र्यो भवन्ति। अन्नं वा अन्धः। तद् एनं तत् सुष्वाणम् एव पवमानमुखे अन्नाद्येन समृद्धयन्ति॥2.193॥


तासु गायत्रम् उक्तब्राह्मणम्। अथामहीयवम्। प्रजापतेर् वा आमहीयवम्। प्राजापत्य एष यज्ञः। प्रजापतेर् एवाप्त्यै। अथ सैन्धुक्षितं क्षत्रसाम। क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति। अथाभीकम् अभिषिक्त्यै रूपम्। पुनानस् सोम धारयेत्य् उभयरूपा बृहती भवति। एषा उभयसामनी उद्ययामस् तस्माद् एताम्। कुर्वन्त्य् एव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः। तासु रौरवं प्रज्ञातम् अग्निष्टोमसाम। प्रज्ञातम् अग्निष्टोमसाम नेद् अन्तरयामेत्य् अथ वाजजिद् - अन्नं वै वाजो - ऽन्नाद्यस्यैवावरुद्ध्यै। अथ दैर्घश्रवसम् - अन्नं वै दैर्घश्रवसम् - अन्नाद्यस्यैवावरुद्ध्यै। अथार्कपुष्पम् - अन्नं वा अर्को - ऽन्नाद्यस्यैवावरुद्ध्यै। अथ समन्तम्। समन्तैनं श्रीर् असद् इति। अथ यौधाजयं त्रिणिधनं सवनानां क्लृप्त्यै। अथौशनम् अन्त्यं साम, अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवाता इति। अथ रथन्तरम्। ब्रह्म वै रथन्तरम्। ब्रह्मसव एषः। ब्रह्मणाभिषिच्यमानो ऽभिषिच्याता इति। अथ वामदेव्यं शिवं शान्तं सुष्वाणम् अनुवर्तता इति। अथो पशवो वै वामदेव्यं, पशूनाम् एवावरुद्ध्यै। अथ नौधसं प्रज्ञातं ब्रह्मसाम। प्रज्ञातं ब्रह्मसाम नेद् अन्तरयामेति। अथ कालेयं कं सुष्वाणायासद् इत। अथो कालं सुष्वाणो ऽश्नवाता इत्य् अथो तं कालयातं यो ऽस्य काल्यो ऽसद् इति। यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्यान्धस्वतीर् गायत्र्यो भवन्ति। अन्नं वा अन्धः। तद् एनं तत् सुष्वाणम् एव पवमानमुखे ऽन्नाद्येन समृद्धयन्ति॥2.194॥


तासु गायत्रम् उक्तब्राह्मणम्। अथो संहितम्। ब्रह्म वै संहितम्। ब्रह्मसव एषः। ब्रह्मणाभिषिच्यमानो ऽभिषिच्याता इति। अथ वाजदावर्य्यः। अन्नं वाजः। अन्नदावर्य्य एता अन्नाद्यस्यैवावरुद्ध्यै। अथ वारवन्तीयं, वारितैनं श्रीर् उपतिष्ठाता इति। अथो पशवो वै वारवन्तीयम्। पशूनाम् एवावरुद्ध्यै। अथ सभम्। सभमविभं सुष्वाणायासद् इति। अथो सभं सुष्वावो ऽश्नवाति इति। अथ श्रुधीयं कीर्तिमत् साम। पुण्यैनं कीर्तिर् उत्तस्थिवांसम् अनूत्तिष्ठाद् इति। पुरोजिती वो अन्धस इत्य् अन्धस्वतीर् अनुष्टुभो भवन्ति। अन्नं वा अन्धः। तद् एनं तत् सुष्वाणाम् एवान्नाद्येन समृद्धयन्ति। तासु नानदम्। षोडशी ह्य् अत्रापि क्रियते। अथ विशोविशीयं क्षत्रसाम, क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति। अथो अयं सुष्वाणो विशः। विशो राजासद् इति। अथ श्यावाश्वं स्वर्ग्यं स्वर्गस्य लोकस्य समष्ट्यै। अथान्धीगवम् - अन्नं वा आन्धीगवम् - अन्नाद्यस्यैवावरुद्ध्यै। अथ कावं, कं सुष्वाणायासद् इति। अथो कावं सुष्वाणो ऽश्नवाता इति। अथ यज्ञायज्ञीयं प्रज्ञातम् अग्निष्टोमसाम। प्रज्ञातम् अग्निष्टोमसाम नेद् अन्तरायेमेत्य् अथो ज्यैष्ठ्यम्। (ज्यैष्ठयं) वै यज्ञायज्ञीयम् । ज्यैष्ठ्य एवैनं तत् प्रतिष्ठापयति। अथ साकमश्वं स्वर्ग्यं साम, स्वर्गस्य लोकस्य समष्ट्यै। अथ सौभरं बृहतस् तेजः। सतेजस्केन नो बृहता स्तुतम् असद् इति। अथ नार्मेधम् अतिरात्रसामातिरात्रसाम नेद् अन्तरयामेति। अथो पशवो वै नार्मेधं, पशूनाम् एवावरुद्ध्यै। अथ षोडशी, यत् षोडशिनि कामस् स म उपाप्तो ऽसद् इति। अथ बृहच् छिपिविष्टवतीषु भवति। मनो वै बृहत्। मनः प्रजापतिः। सप्दशम् एतत् स्तोत्राणां भवति। सप्तदश एष स्तोमः। प्रजापतिर् वै सप्तदशः। प्रजापति स्वर्गो लोकः। श्रीस्तत्। एनं तत् प्रजापताव् एव स्वर्गे लोके श्रियाम् अन्ततः प्रतिष्ठापयन्ति॥2.195॥


अथैष राजसूयः। वरुणो वा अकामयत - सर्वेषां देवानां राज्याय सूयेयेति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै सर्वेषां देवानां राज्यायासूयत। सूयते स्वानां श्रेष्ठतायै य एवं वेद। तस्य चतुस्त्रिंशाः पवमाना भवन्ति। स्वराड् वै देवलोकः। स्वाराज्यम् उ चतुस्त्रिंशी। तद् एनं तत् सुष्वाणम् एव पवमानमुखे स्वाराज्येन लोकेन समृद्धयन्ति। अनुष्टुप् प्रतिपद् भवति। वाग् वा अनुष्टुप्। क्षत्रम् उ वै वाक्। क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति। अथैताः पंच संभार्या नानादेवत्या भवन्ति। पञ्चानां ह वै पुरुषाणां राज्यायाभिषिच्यमानो ऽभिषिच्यते - राज्ञे राजन्याय सूताय ग्रामण्ये शूद्राय दासाय। उद् अतस् त्रिवृतं स्तोमं हरन्त्य् उद् आग्नेयीं संभार्याभ्यः। तस्माद् ब्राह्मण्यो राजन्यस्याज्येयो ऽमार्यो ऽदण्ड्यो ऽघात्यः। यद् अत्र त्रिवृतं स्तोमं कुर्युर् उद् आग्नेयीं संभार्यास्व् अब्रह्मज्य एव राजन्यो ब्राह्मणाञ् जिनीयाद् अभ्रूणह्त्यै मारयात्॥2.196॥


तद् आहुर् नैतद् राजभ्यो वेदयेत। यथा वै श्रेष्ठी कामयते तथा करोति। यस् स ब्रूयात् - त्रिवृतम् एव स्तोमं कुरुताग्नेयीं संभार्यास्व् इत्य् अब्रह्मज्य एव राजन्यो ब्राह्मणाञ् जिनीयाद् अभ्रूणह्त्यै मारयात्। तद् उ वा आहुर् य एवैतद् राजभ्यो वेदयेत तम् एवाब्रह्मज्यो जिनीयात्। तम् अभ्रूणह्त्यै मारयाद् इति। तद् आहुर् यन्ति वा एते प्राणेभ्यो ये त्रिवृत स्तोमाद् यन्तीति। त्रिवृताग्निष्टोमेन पुरस्ताद् यजेत। प्राणो वै त्रिवृतः। तेनैव प्राणेभ्यो न यन्ति। ब्रह्म पुरस्ताद् उ क्षत्रं सूयते। अथो आहुर् अपचितिर् इति यज्ञक्रतुः। तेनैव यजेतेति। तस्य यद् द्वे त्रिवृती स्तोत्रे भवतस् तेनैव प्राणेभ्यो न यन्ति। अपचितिम् उ सुष्वाणो ऽश्नुते। तद् उ वा आहुर् यद् एवैषा वायव्या प्रतिपद् भवति - प्राणो वै वायुः - प्राणैर् एव तत् समृध्यन्ते। वायो शुक्रो अयामि त इति शुक्रवती भवति। ज्योतिर् इव ह वा एषो ऽन्येषु मनुष्येष्व् अतिभाति यस् सूयते यं सुष्वाणो ज्योतिर् इवासद् इति। मध्वो अग्रं दिविष्टिष्व् इति तद् एतन् मधव्यम् एवाग्र्यं कुर्वन्ति। आ याहि सोमपीतय इति सौमी। तेन पावमानी क्रियते। स्पार्हो देव नियुत्वतेति। क्षत्रं वै स्पार्हः। विशो नियुत्वतीः. क्षत्रायैव तद् विशम् अनु वर्त्मानं कुर्वन्ति। तस्मात् क्षत्रस्य विड् अनु वर्त्मा॥2.197॥


अथैते सरस्वतश् च सरस्वत्याश् च। एतद् वै दैव्यं मिथुनं प्रजननं यत् सरस्वांश् च सरस्वती च। दैव्येन मिथुने प्रजाया इति। तद् आहुः पुंसः पूर्वा कार्या स्त्रिय उत्तराः। तथा सुष्वाणस्यानपगद्भ्यो राजपुत्र आजायत इति। तद् उ वा आहुर् वायुर् वै रेतोधाः , प्रजननं सरस्वती। तौ सरस्वन्तं मिथुनात् प्रजनयतः। अथो वाशिता वै पूर्वा धावत्य् अन्वम् ऋषभः। सरस्वत्या एव पूर्वा कार्येति। एतद् उ हैतत् सरस्वतस् त्व् एव पूर्वा कार्या। अथ ब्राह्मणस्पत्या, ब्रह्मण्य क्षत्रं सूयाता इति। अथ सावित्री, सवितृप्रसूत सूयाता इति। अथैते उभे प्रतिपदौ भवतः। उभे ह्य् अत्र सामनी क्रियेते। अभिवन् नवर्च भवत्य् अभिषिक्त्यै रूपम्। अथो तेनैव त्रिवृत स्तोमान् न यन्ति। सवत् षड्ऋचं भवति। सामानं वदन्तीभिस् सूयाता इति। वृषण्वद् भवति। अयं वृषाभिषिच्यमानो ऽभिषिच्याता इति। चतुर्ऋचं भवति - चतुष्पदां पशूनाम् अवरुद्ध्यै। परोक्षं द्विपदा भवन्ति, द्विपदां पशूनाम् अवरुद्ध्यै। पर्यासो भवति - यः पर्यासे कामस् स मा उपाप्तो ऽसद् इति॥2.198॥


अध क्षपा परिष्कृत इत्य् अनुष्टुब् अन्त्या भवति। स ह वा उद्गाता राजानं राजसूयेन याजयेद् य एनं बहिष्पवमान एव देवानां देवासन्दीम् आरोहयेत्। अनुष्टुप् प्रतिपद् भवति अनुष्टुब् अन्त्या। तयोश् चतुष्षष्टिर् अक्षराणि। ततो यानि षष्टिर् आसन्दी सा। अथ यानि चत्वार्य् आसन्दीपादास् ते। एतद् वै राजानम् उद्गाता बहिष्पवमान एव देवानां देवासन्दीम् आरोहयति। उभयान्य् आज्यानि भवन्ति। उभे ह्य् अत्र सामनी क्रियेते। तद् आहुर् अन्यतराण्य् एव कार्याणि यान्य् एव बार्हतानि। विड् - भाजनानि वा आजान्य् अपि वाजिन्या विशः क्षत्रं सूयाता इति। तद् उ वा आहुर् उभयान्य् एव कार्याणि। सर्वेषां वै राज्यायाभिषिच्यमानो ऽभिषिच्यते। तस्माद् उभयान्य् एव कार्याणीति। तानि पञ्चदशानि भवन्ति - क्षत्रं वै पञ्चदशः - क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति॥2.199॥


अवभृथाद् उदेयुषे द्वादशपुष्करां स्रजं प्रतिमुञ्चति। आपो वै दैवानां पत्नय आसन्। ता मिथुनम् ऐच्छन्त। ता देवा उपायन्। ता गर्भम् अदधत। ततः पुष्कराण्य् अजायन्त। सत्यं वा आपः। सत्यं दीक्षा। सत्यस्यैव तत् सत्यं यत् पुष्कराणि। सत्यस्यैवास्मै तत् सत्येन तपो दीक्षां प्रतिमु्ञ्चति। सा द्वादशपुष्करा भवति। द्वादश मासास् संवत्सरः। संवत्सरो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुस् सप्तपुष्करैव स्याद् इति। सप्त वै छन्दांसि। छन्दोभिर् यज्ञस् तायते। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुष् षट्पुष्करैव स्याद् इति। षड् वा ऋतवस् संवत्सरः। संवत्सरो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुः पञ्चपुष्करैव स्याद् इति। पांक्तो यज्ञः। पांक्ताः पशवः। पशवो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुश् चतुष्पुष्करैव स्याद् इति। चतस्रो दिशः। चतुष्पदाः पशवः। पशवो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। अथो आहुस् त्रिपुष्करैव स्याद् इति. त्रिषवणो यज्ञः। यज्ञम् एवास्मिंस् तत् प्रतिमुञ्चति। तद् उ वा आहुर् द्वादशपुष्करैव स्याद् इति। द्वादशसु वावैतानि सर्वाणि। तस्माद् द्वादशपुष्करैव स्याद् इति॥2.200॥