प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथेतरे विश्वजितम् एव सर्वपृष्ठं पितरं प्रजापतिं प्रापद्यन्त। ततो वै ते निकृत्य मृत्युम् अमृता अभवन्। निकृत्य हैव मृत्युम् अमृतो भवति, य एवं वेद। अथैते ऽग्निष्टोमा एव दशाहानि भवन्ति। एतेभ्यो ह वै सामभ्यः प्रजापतिस् सोमपीथं प्रददौ। तानि वा एतानि प्रत्तसोमपीथान्य् अपहतपाप्मानि सामानि। अपहत्य पाप्मानं श्रेयान् भवति, य एवं वेद। एतान्य् उ ह वै सामानि कामानां पूर्णानि। यथा दृतिस्व् आसिक्त स्याद् दध्नो वा घृतस्य वा मधुनो वैवम् एतानि सामानि कामानां पूर्णानि। एतान्य् उ ह स्म वै तत् कुंस्थः कालाशभिर् उपगायति --
अरुणान् सदम् उक्षन्न् अश्वान् काष्ठातो यथा।
पूर्णान् परिस्रुतः कुम्भाञ् जनमेजयसादन॥
इति। यं ह वा एतैस् सामभिः कामं कामयते तम् एवावरुन्द्धे। अथैतानि द्वादशाहस्य दशाहानि भवन्ति। एतान्य् उ ह वै वीर्यवन्त्य् अहानि यानि द्वादशाहस्य। तद् यानि वीर्यवन्त्य् अहानि तैर् न स्तुतम् असद् इति। तान्य् उ नाना स्तोमा वहन्ति। एषा ह वा अह्नां समृद्धिर् यद् एनानि नाना स्तोमा वहन्ति। सा यैवाह्नां समृद्धिस् सैवैषा क्रियते॥2.331॥


अथैष कुसुर्विन्ददशरात्रः। तस्य त्रयस् त्रिवृतो ऽग्निष्टोमास् त्रयः पञ्चदशा उक्थ्यास् त्रयस् सप्तदशा उक्थ्या ज्योतिर् अतिरात्रो, यः कामयेत तेजस्वी ब्रह्मवर्चस्य् ओजस्वी वीर्यावान् अन्नादः प्रतितिष्ठेयम् इति, स एतेन यजेत। तेजो वै ब्रह्मवर्चसं त्रिवृत् स्तोम, ओजो वीर्यं पञ्चदशो, ऽन्नं सप्तदशः, प्रतिष्ठा ज्योतिर् अतिरात्र, ऋध्नोति हैनेनैतान् कामान् य एतस्मिन् कामाः। अतो ज्योतिष्टोमे ऽतिरात्रे श्रुतस् तं कामम् ऋध्नवानि यो दशरात्र इति। एतं ह स्म वै तत् प्रसृप्तौ ब्राह्मणौ समूदाते - कं नु सोम्य यज्ञक्रतुं प्रसृप्तौ स्व इति। तयोर् हान्यतर उवाच - यदि न्वा इदम् एवाप्य् अह श्वो भविताग्निष्टोमा एव तर्हि दशो एव त्वयि नूनम् अहान्य् आसिष्यावहा इति। तं हैतं ताव् अग्निष्टोमम् एव मेनाते य ह्य् एवामी अग्निष्टोमस्य स्तोमास् त एवैते॥

अथैषो ऽभ्रिर् उभयतःक्ष्णूः -- ॥2.332॥


--तस्य त्रिवृद् अग्निष्टोमः पुरस्ताद् भवति, त्रिवृद् अग्निष्टोम उपरिष्टाद्, अष्टाव् उक्थ्याः सप्तदशा मध्ये। अन्नाद्यकामो हैतेन यजेत। अग्निर् वै पूर्वस् त्रिवृद्, आदित्य उत्तरः। अग्निर् वा अस्य लोकस्याभ्रिर्, आदित्यो ऽमुष्य। अथैतद् अन्नम् एव यजेत। अष्टाव् उक्थ्यास् सप्तदशा मध्ये। अयम् एवास्मा अग्निर् इत एतद् अन्नाद्यं रद्त्य् आदित्यो ऽमुतो वृष्टिं प्रयच्छति। ता अस्मा एतद् उभयतो ऽन्नादं रदतो ऽन्नादो ह भवति, य एवं वेद। अथो आहुः - पशुकाम एवैनेन यजेतेति। तस्याग्निष्टोमाव अभितो भवत, उक्थ्या मध्ये। ब्रह्म वा अग्निष्टोमः, पशव उक्थानि। ब्रह्मणैव तद् उभयतः पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते, य एवं वेद॥

अथ यस्यैतस्योर्ध्वष् षडह, ऊर्ध्वस् त्र्यहो, ज्योतिर् अतिरात्र, स्वर्गकामो हैतेन यजेत। ऊर्ध्वा एते स्तोमा भवन्त्य् - ऊर्ध्वो वै स्वर्गो लोक, स्वर्गस्यैव लोकस्य समष्ट्यै॥

अथ यस्यैतस्य ज्योतिर् गौर् आयुर् अतिरात्रो ज्योतिर् गौर् आयुर् अतिरात्रो ज्योतिर् अतिरात्रो, यः कामयेत ज्योतिष्मतो लोकान् जयेयम् इति, स एतेन यजेत। चत्वार्य् उ ह वै देवानाम् आविष्टमानाव् अतिज्योतींष्य् - अग्निः पृथिव्याम्, आदित्यो दिवि, चन्द्रमा नक्षत्रेषु, विद्युद् अप्सु। एतान् एव ज्योतिष्मतो लोकान् जयति य एवं विद्वान् एतेन यज्ञक्रतुना यजते, य उ चैनम् एवं वेद, य उ चैनम् एवं वेद॥2.333॥


सत्रम्
अथैष त्रयोदशरात्रः। असौ वा आदित्यस् सदृङ्ङ् एवान्यैर् देवैर् आसीद् अनेनाग्निना वायुना चन्द्रमसान्यैर् देवैः। सो ऽकामयत सर्वेषां देवानां श्रैष्ठ्यं गच्छेयं, त्रयोदशो मासो भूत्वेदं सर्वम् अभ्यारोहेयम् इति। स एतं त्रयोदशरात्रम् अपश्यत्। तम् उपैत्। ततो वै स सर्वेषां देवानां श्रैष्ठ्यम् अगच्छत्, त्रयोदशो मासो भूत्वेदं सर्वम् अभ्यारोहत्। संवत्सरो वा इदं सर्वम्। त एव सर्वे स्तोमास्, तानि सर्वाणि पृष्ठानि, तानि सर्वाणि छन्दांसि, तानि सर्वाणि सवनानि, ते सर्वे देवास्, ते सर्वे लोकास्, ते सर्वे कामाः। स द्वादशभिर् एवाहोभिर् द्वादश मासान् आप्त्वा त्रयोदशेनैवाह्ना त्रयोदशो मासो भूत्वेदं सर्वम् अभ्यारोहत्। ते य एवं विद्वांसस् त्रयोदशरात्रम् उपयन्त्य् एतम् एवर्ध्नुवन्त्य् एतस्य सलोकतां गच्छन्ति॥2.334॥


मास्यं वा एतत् सत्रम्। तेन यर्द्धिस् सैवर्द्धिः। मासो ह खलु वै पुनः पुनः पल्ययमानस् संवत्सरम् आप्नोति। संवत्सरं वा एतत् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यच् चतुर्दश। सप्त परस्ताद् अहानि सप्तावस्तात्। अथ यो मध्ये लोकस् स स्वराट् स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति। तद् अन्यस्याननुयाना भवन्ति। ता वा एता रात्रयस् संपद्यन्ते विराजं च गायत्रीं च। एते ह खलु वै छन्दसां वीर्यवत्तमे यद् विराट् च गायत्री च। ते ये छन्दसां वीर्यवत्तमे तयोर् ऋध्नवाम, तयोः प्रतितिष्ठाम, ताभ्यां न स्तुतम् असद् इति। उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। द्व्यूना विराट्, द्वे ते स्त्रिया ऊने यतस् सा प्रजायते, तेनो प्रजननम्। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः॥2.335॥


अथैष पृष्ठ्यष् षडहो भवति। श्रीर् वै पृष्ठानि, वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति। तद् उ सत्रिणो भवन्ति। तद् आहु - श्रेयांसं वा एते ऽभ्यारोहन्ति, य एतं पृष्ठ्यं षडहम् उपयन्तीति। तद् यत् परस्तात् प्रत्यङ् पृष्ठ्यष् षडहो भवति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। तत् त्व् एतस्य परिचक्षते यद् आरभमाणा एवं पृष्ठ्यं षडहम् आरभन्ते वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥
अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। एते ह वै शिवाश् शान्ताः पथ्या स्तोमा ये ज्योतिर् गौर् आयुर् इति। ते ये शिवाश् शान्ताः पथ्या स्तोमास् तैर् न स्तुतम् असद् इति। त उ विराजं संपन्नाः। तद् उ विराजम् अन्नाद्यम् आरभन्ते। यो वै श्रेयांसम् असंविद्योपाधिरोहत्य् उद् वै स तं हिंस्ते। यया वै स तम् आर्त्या कामयते तयैनं निनयति। अथ य एनम् अनु संविदम् अनु समात् सद्यो वाधिरोहति न वै स तम् उद्धिंस्ते। तद् यद् एते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति, यथा श्रेयांसम् अनु संविदम् अनु समात् सद्यो वाधिरोहेत् तादृक् तत्॥2.336॥


अथैष पृष्ठ्यष् षडहो भवति। श्रीर् वै पृष्ठानि। वर्ष्म वै पृष्ठानि। तच् छ्रियं वर्ष्म पृष्ठानि रोहन्ति, तद् उ सत्रिणो भवन्ति। तद् आहुर् अग्रम् इव वा एते रोहन्ति य एतं पृष्ठ्यं षडहम् उपयन्तीति। यो वै महावृक्षस्याग्रं रूढ्वा प्रत्यवरोढुं न वेद भंगं वै स न्येत्य अव वा हि पद्यते तद् वैवोपरि शुष्यति। तद् यत् परस्तात् प्रत्यङ् त्र्यहो भवति, निह्नवायैवानार्त्यै शिवत्वाय शान्त्यै। ज्योतिषो ऽध्य् अह्न उत्तिष्ठन्ति, प्रज्ञाताज् ज्यैष्ठ्यात् स्तोमात् प्रज्ञाते ज्यैष्ठ्ये स्तोमे प्रतिष्ठायोदृचम् अश्नवामहा इति। तस्य द्वादश स्तोत्राणि भवन्ति - द्वादश मासास् संवत्सरः। संवत्सरो ज्यैष्ठ्यं , तस्य भ्रातृव्यो नास्त्य् - अभ्रातृव्ये ज्यैष्ठ्ये स्तोमे प्रतिष्ठायोदृचम् अश्नवामहा इति। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.337॥


अथैता द्वादशाहवतीर् भवन्ति - देवसत्रं ह खलु वा एतत् प्रजापतिसत्रं यद् द्वादशाहः। एतेन वै सत्रेण प्रजापतिर् आर्ध्नोत् - तद् येन सत्रेण प्रजापतिर् आर्ध्नोत् तेनर्ध्नवामेति। तद् आहुः - किं वर्ष्म सत्राणाम् इति। द्वादशाह इति ब्रूयात्। द्वादशाहो ह वै वर्ष्म सत्राणां, न ह्य् अन्यस्मिन् सत्रे चतुश्चत्वारिंश स्तोमो ऽस्ति, नाष्टाचत्वारिंशः। तद् यद् वर्ष्म सत्राणां तन् उपेतम् असद् इति। इहेव च ह खलु वा एत इहेव च वाचं विप्रयुञ्जते ये यजन्ते ये सत्रम् आसते। तान् दशमेनैवाह्ना संपादयन्ति संपन्नायै नो वाचो विकृष्टायै प्रतिष्ठिताया उदृचम् अश्नवामहा इति। एकेनो च सत्रेण द्वे सत्रे उपयन्ति द्वादशाहं च चतुर्दशरात्रे च। वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.338॥


मास्यं वा एतत् सत्रम् । तेन यर्द्धिस् सैवर्द्धिः। मासो ह खलु वै पुनः पुनः पल्ययमानस् संवत्सरम् आप्नोति। संवत्सरं वा एतद् ईत्सन्ति संवत्सरम् ईप्सन्ति यद् यजन्ते यत् सत्रम् आसते। न हि किं चन बहिस् संवत्सराद् अस्ति। स्वाराज्यं वा एता रात्रयो यत् पञ्चदश। सप्त परस्ताद् अहानि सप्तावस्तात्। अथ यन् मध्ये ऽहस् तद् स्वराट्, स स्वर्गो लोकः। तद् ब्रध्नस्य विष्टपं गच्छन्ति, तत् स्वाराज्यं गच्छन्ति, तद् अन्यस्याननुयाना भवन्ति। वज्रो ह खलु वा एष यत् पञ्चदशरात्रः। पञ्चदशरात्रेण वै वज्रेण देवा असुरान् अभ्यभवन्। ते ये पाप्मगृहीता इव मन्येरंस् त एतम् एव पञ्चदशरात्रम् उपेयुः। पञ्चदशरात्रेणैव वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यम् अभिभूयोत्तिष्ठन्ति। तद् उ होवाच यामनो भ्रातलायनो याम् अहं सरस्वतीं पञ्चदशरात्रेण वज्रेणाजयं कस् तस्याम् उद् अन्यो ऽवसातुम् अर्हति। वज्रेण वा अहम् एताम् अजयम्। दुरपजय्यं वै वज्रजितम् इति। ता वा एता रात्रयस् संपद्यन्ते विराजं च गायत्रीं च। एतं ह खलु वै छन्दसां वीर्यवत्तमे यद् विराट् च गायत्री च। ते ये छन्दसां वीर्यवत्तमे तयोर् ऋध्नवाम, तयोः प्रतितिष्ठाम, ताभ्यां न स्तुतम् असद् इति। उपो विराजं गच्छन्ति। तद् उ विराजो ऽन्नाद्यस्यैश्वर्यम् आधिपत्यं गच्छन्ति। एको विराड्, ऊनं तत् स्त्रियै यतस् सा प्रजायते, तेनो प्रजननम्। वैश्वानरः प्रायणीयो ऽतिरात्रो भवति। वैश्वानरप्रायणा ह्य् अहीनास् सोमाः॥2.339॥


अथैते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति। एते ह वै शिवाश् शान्ताः पथ्या स्तोमा ये ज्योतिर् गौर् आयुर् इति। ते ये शिवास् शान्ताः पथ्या स्तोमास् तैर् न स्तुतम् असद् इति। त उ विराजं संपन्नाः। तद् उ विराजम् अन्नाद्यम् आरभन्ते। यो वै श्रेयांसम् असंविद्योपाधिरोहत्य् उद् वै स तं हिंस्ते। यया वै स तम् आर्त्या कामयते तयैनं निनयति। अथ य एनम् अनु संविदम् अनु समात् सद्यो वाधिरोहति न वै स तम् उद्धिंसते। तद् यद् एते ज्योतिर् गौर् आयुर् इति स्तोमा भवन्ति यथा श्रेयांसम् अनु संविदम् अनु समात् सद्यो वाधिरोहेत् तादृक् तत्। अथैष त्रिवृद् अग्निष्टुद् अग्निष्टोमो भवति। ब्रह्म वै त्रिवृत्। क्षत्रं पृष्ठ्यष् षडहः। तद् यत् पुरस्तात् पृष्ठ्यस्य षडहस्याग्निष्टुतम् उपयन्ति ब्रह्मैव तत् क्षत्रस्य पुरस्ताद् दधाति। तस्माद् ब्राह्मणः क्षत्रियस्य पुरोहितः। एकेनोप सत्रेण द्वे सत्रे उपयन्ति द्वादशाहं च दशरात्रं च । वैश्वानर उदयनीयो ऽतिरात्रो भवति। वैश्वानरोदयना ह्य् अहीनास् सोमाः॥2.340॥