प्रमुखा विकल्पसूचिः उद्घाट्यताम्

जैमिनीयं ब्राह्मणम्
(द्वादशाहाः)


प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स आत्मन्न् ऋत्वियम् अपश्यत्। ततस् त्रीन् ऋतून् असृजतेमान् एव लोकान्। यद् ऋत्वियाद् असृजत तद् ऋतूनाम् ऋतुत्वम्। यद् ऋत्वियाद् अजनयत् तस्माद् ऋत्विज इत्य् आख्यायन्ते। स यत् प्रथमम् अतप्यत ततो ग्रीष्मम् असृजत। तस्मात् स बलिष्ठं तपति। यद् द्वितीयम् अतप्यत ततो वर्षा असृजत। तस्मात् ता उभयं कुर्वन्त्य् आ च तपन्ति वर्षन्ति च। यत् तृतीयम् अतप्यत तत हेमन्तम् असृजत। तस्मात् स शीततम इव। त्रीन् सतो ऽभ्तप्यत। तान् द्वेधा व्यौहत्। ते षड् ऋतवो ऽभवन्। स ग्रीष्माद् एव वसन्तं निरमिमीत, वर्षाभ्यश् शरदं, हेमन्ताच् छिछिरम्। तस्माद् एत ऋतूनाम् उपश्लेषा इव निर्मिता हि। षड् सतो ऽभ्यतप्यत। तान् द्वेधा व्यौहत्। ते द्वादश मासा अभवन्। द्वादश सतो ऽभ्यतप्यत। तान् द्वेधा व्यौहत्। ते चतुर्विंशतिर् अर्धमासा अभवन्। चतुर्विंशतिं सतो ऽभ्यतप्यत। स ऐक्षत यदि द्वेधा व्यूहिष्यामि, न विभविष्यन्ति, हन्त, निर्मिमा इति। तेभ्यस् सप्त च शतानि विंशतिं चाहोरात्राणि निरममीत। स इदं सर्वं व्यकरोत्। यथा ह वै हिरण्यम् अविकृतम् एवम् इदं ततः पुरा। स सर्वम् अधि हास्मिञ् छिल्पानि गम्यन्ते विकृतानि चाविकृतानि च य एवं वेद॥3.1॥

स एवैष प्रजापतिस् संवत्सरो ऽभवत्। स इदं सर्वं स्तब्ध्वा व्याप्यातिष्ठत्। स ऐक्षत - कया स्वधया केनान्नाद्येन कयोर्जेदम् अयं व्यापद् इति। तस्मिन्न् एतां स्वधाम् ऊर्जम् अन्नाद्यम् अक्षितिं पर्यपश्यद् द्वादश पौर्णमासीर् द्वादशाष्टका द्वादशामावास्याः। ताम् अवारुरुत्सत। सैनम् अब्रवीन् न मानभिश्रान्ताम् अवरोत्स्यस इति। स तपो ऽतप्यत। स एतं द्वादशाहं यज्ञम् अपश्यत्। तम् आहरत। सो ऽकामयत - दीक्षितं मा दीक्षिता याजयेयुर् इति। स मासांश् चर्तूंश् चाब्रवीद् याजयत मेति। तं मासा नाब्रुवन्। स वा अस्मास्व् एव सत्या भुनजासा इति। तस्माद् एता मास्य् एव सर्वाः पौर्णमास्यष्टकामावास्याः। तद् ऋतवः प्रसुते पश्चेवान्वबुध्यन्त - प्र हैभ्यो ऽदाद् इति। तम् अब्रुवन्न् - अस्मभ्यम् अपि दक्षिणां प्रयच्छेति। तेभ्यो ऽन्नाद्यं प्रायच्छत्। तद् एतद् यथर्त्व् अन्नाद्यं पच्यते। स दीक्षाभिर् एव पौर्णमासीर् अवारुन्धोपसद्भिर् अष्टकाः प्रसुतेनामावास्याः। स यो हैवं विद्वान् द्वादशाहेन यजत एताम् एव स्वधाम् ऊर्जम् अन्नाद्यम् अक्षितिम् अवरुन्द्धे। प्रत्य् ऋतवो ऽगृह्णन् न मासाः प्रतिग्रहम् अकामयन्त। तस्मान् मासा आख्याततरा इव। आख्याततर उप ह्य् एवाप्रतिगृह्णन् भवति। तस्माद् ऋतवो ज्यायांसः। ज्यायान् ह्य् एव प्रतिगृह्णन् भवति। ता ह वा एतास् तिस्र एव रात्रयः पौर्णमास्यष्टकामावास्याः॥3.2॥

पुरो इन्द्राय देवा श्रैष्ठ्याय नातिष्ठन्त। स प्रजापतिम् उपाधावत् - प्र म इमा यच्छेति। तस्मा एते द्वे प्रायच्छत् - पौर्णमासीं चामावास्यां च। अस्मिन्न् एवाष्टकाम् अधत्त। ततो वा इन्द्राय देवा श्रैष्ठ्यायातिष्ठन्त। तिष्ठन्ते ऽस्मै स्वा श्रैष्ठ्याय य एवं वेद। तस्माद् एतां रात्रिं सर्व एव सुहिता वसन्ति। पितर्ह्य् एवैतां प्रजापतौ वसन्ति। तस्माद् एतां रात्रिं न जुहुयाद्, यज् जुहुयान् न ब्रूयात्। अनिरुक्तो वै प्रजापतिः। स यद् एव तत्र त्रिर् विलां कुरुते यद् अस्य गृहे सुहिता वसन्ति सा हैवास्यै समृद्धिः। ते मासाश् चर्तवश् चाब्रुवन् - येन नः पिता प्रजापतिर् यज्ञेनेष्ट्वारात्सीत् तेन यजामहा इति। ते तम् आहरन्त। स प्रजापतिर् ऐक्षत - यदि वा इमे समापयन्ति यथा वा अहम् इदम् अस्म्य् एवम् इमे तर्हि भवन्तीति। तान् अब्रवीन् मयैव गृहपतिना दीक्षध्वम् इति। तं वै त्वास्माभिर् आचक्षान्ता इत्य् अब्रुवन्। मयो युष्मान् इति। तस्मान् मासैश् चर्तुभिश् च संवत्सरम् आचक्षते, संवत्सरेणर्तूंश् च मासांश् च। तस्मात् पुत्रेण पितरम् आचक्षते, पित्रा पुत्रान् । ऐनेन गृह्यांश् चक्षते य एवं वेद॥3.3॥

ते ऽयजन्त। ते मासाश् चर्तवश् च संवत्सरे प्रत्यतिष्ठन्, संवत्सर ऋतुषु च मासेषु च। तस्माद् आहुस् समावन् मात्रियेवर्द्धिर् यं च याजयन्ति ये च याजयन्तीति। समावन् मात्रियेव ममानेनर्द्धिर् इति हेक्षेत। यथैवास्यैवम् एव ममेति। तेन हैतेनैक एव यजेत। एको ह्य् एव प्रजापतिर् आर्ध्नोत्। यद्य् उ भूयांसो यजेरन् द्वादश वा त्रयोदश वा यजेरन्न् इमे चत्वार इमे चत्वार इमे चत्वारो ऽयम् एक इति निर्मिमीरन्। यं कामयेरन्न् इमं यज्ञस्य व्यृद्धिर् अन्वियाद् इति तं हैव यज्ञस्य व्यृद्धिर् अन्वेति। यद्य् उ भूयांसो यजेरन् षोडश वा सप्तदश वा यजेरन्न् इमे चत्वार इमे चत्वार इमे चत्वारो ऽयम् एक इति निर्मिमीरन्, यं कामयेरन्न् इमं यज्ञस्य व्यृद्धिर् अन्वियाद् इति तं हैव यज्ञस्य व्यृद्धिर् अन्वेति। यद्य् उ भूयांसो यजेरंश् चतुर्विंशतिर् वा पञ्चविंशतिर् वा यजेरन्न् इमे पञ्चेमे पञ्चेमे पञ्चेमे चत्वारो ऽयम् एक इति निर्मिमीरन्, यं कामयेरन्न् इमं यज्ञस्य व्यृद्धिर् अन्वियाद् इति तं हैव यज्ञस्य व्यृद्धिर् अन्वेति। सर्व इतर ऋध्नुवन्ति। यो वै सत्रस्य गृहपतिं च गृहपत्नीं च वेदाश्नुते गार्हपत्यं प्र गार्हपत्यम् आप्नोति। संवत्सरो वाव गृहपतिर् इयम् एव गृहपत्नी। अश्नुते गार्हपत्यं प्र गार्हपत्यम् आप्नोति य एवं वेद॥3.4॥

यो वै छन्दसां स्वाराज्यं वेद गच्छति स्वाराज्यं प्र स्वाराज्यं लोकम् आप्नोति। बृहती वै छन्दसां स्वराट्। ताम् एतां प्रतीचीं पराचीं तिरश्चीम् अन्नाद्यायासते। तस्मात् पशुं प्रत्यञ्चं पराञ्चं तिर्यञ्चम् उपजीवन्ति। एतावद् वाव संवत्सर इन्द्रियं वीर्यं यद् द्वादशाहो - द्वादश पौर्णमासीर् द्वादशाष्टका द्वादशामावास्यास्, तद् एवैतेनावरुन्द्धे। यो वै विराजम् ऋतुप्रतिष्ठितां वेदर्तून् विराजि प्रतिष्ठितान्, गच्छति प्रतिष्ठाम् अवान्नाद्यं रुन्द्धे। त्रिंशदक्षरा विराट्। षड् ऋतवः। एतद् वै विराड् ऋतुषु प्रतितिष्ठत्य्, ऋतवो विराजि। गच्छति प्रतिष्ठाम् अवान्नाद्यं रुन्द्धे य एवं वेद। अनुष्टुभं वावैताम् आसते यद् द्वादशाहम्। द्वात्रिंशदक्षरानुष्टुप्। चतुष्पदाः पशवः। वाग् अनुष्टुप्। वाचा पशून् दाधार। तस्मात् पशवो वाचा सिद्धा वाचाहूता आयन्ति॥3.5॥

गायत्रमुखो वै प्रथमस् त्र्यहः । तस्माद् अयम् अग्निर् ऊर्ध्वो दीदाय। गायत्रमध्यो द्वितीयस् त्रियहः। तस्माद् अयं वायुस् तिर्यङ् पवते। गायत्रोत्तमस् तृतीयस् त्रियहः। तस्माद् असाव् अर्वाङ् आदित्यस् तपति। तेजसा वै गायत्री प्रथमं त्रियहं दाधार, पदैर् द्वितीयम्, अक्षरैस् तृतीयम्। त्रिवृद् वै गायत्री तेजः। त्रिवृत् प्रथमम् अहः। तेन प्रथमस् त्रियहो धृतः। त्रिपदा गायत्री, त्रियहो मध्ये , तेन द्वितीयस् त्रियहो धृतः। चतुर्विंशत्यक्षरा गायत्री, चतुर्विंश सप्तमम् अहस्, तेनैव तृतीयस् त्रियहो धृतः। कथं गायत्री द्वादशाहम् इत्य् आहुः। यथारान् नेमिस् सर्वतः पर्येत्य्, एवं गायत्री द्वादशाहं सर्वतः पर्येत्य् अविस्रंसाय। यथा रथनाभाव् अरा धृता एवं गायत्र्यां द्वादशाहो धृतो ऽसंप्लवाय। मयूखो वा एष वा धरुणो यद् गायत्री। तस्यां द्वादशाहो धृतो ऽसंव्याथाय। अनुष्टुब् वा एषा प्रतायते यद् द्वादशाहः। अष्टाभिर् वा अक्षरैर् अनुष्टुप् प्रथमम् अहर् उद्यच्छत्य्, एकादशभिर् द्वितीयं, द्वादशभिस् तृतीयम्। अक्षरम् एव त्रियक्षरं परिशिष्यते। तद् एवोत्तरं त्रियहम् अनुविदधाति॥3.6॥

छन्दांस्य् एवास्यै तुरीयं वहन्ति। ताम् एतां प्रतीचीं पराचीं तिरश्चीम् अन्नाद्यायासते। तस्मात् पशुं प्रत्यञ्चं पराञ्चं तिर्यञ्चम् उपजीवन्ति। प्रजापतिर् जायमान एव सह पाप्मनाजायत। सो ऽकामयताप पाप्मानं हनीयेति। स एतं व्यूढछन्दसं द्वादशाहं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तेन विष्वञ्चं पाप्मानं व्यौहत। स यः पाप्मगृहीत इव मन्येत स एतेन व्यूढछन्दसा द्वादशाहेन यजेत। विष्वञ्चं हैव पाप्मानं व्यूहते। प्रजा ह तु संसर्पका इव भवन्ति। तद् यद् गायत्र्याण्य् उत्तराण्य् आज्यानि भवन्ति प्रजानाम् एवासंसर्पाय। मयूखो वा एष वा धरुणो यद् गायत्री। तस्यां द्वादशाहो धृतो ऽसंसर्पाय॥3.7॥

दशाहेन वै प्रजापतिः प्रजा असृजत। ता अस्य सृष्टा विषूचीर् विपरौप्यन्त। स एतौ वैश्वानराव् अतिरात्राव अपश्यत्। ताभ्याम् एना उभयतः पर्यगृह्णाद् अनेनेत उपरिष्टाद् अमुता। ता एताभ्याम् एवावारयत। यद् विश्वं भूतम् अवारयत तद् वैश्वानरयोर् वैश्वानरत्वम्। प्रजापतिर् एष यद् उद्गाता। स एतद् दशाहेनैव प्रजास् सृजते। ता एताभ्याम् एव वैश्वानराभ्यां वारयते ऽनेनेत उपरिष्टाद् अमुना प्रजानां धृत्या अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। प्राणो वै पूर्वो वैश्वानरो ऽपान उत्तरः। प्राणापानाभ्याम् एवैतत् समृद्ध्योदृचम् अश्नुवते। तस्माद् उ हैतयो स्तोत्रेण सुप्यात् प्राणान् नेत् संलुंपानीति। तद् उ वा आहुः को हास्वप्नस्येशे। यद् वाव प्राणो जागर्ति तद् एव जागरितम्। कामम् एव स्वप्तव्यम् इति। तद् आहुर् यन् नु परम एष यज्ञक्रतुर् यद् अतिरात्रः कस्माद् एतं परमं सन्तं प्रथमम् उपयन्तीति। यज्ञक्रतूनाम् एवाप्त्या इति ब्रूयात्। एते वै सर्वे यज्ञक्रतवो यद् अग्निष्टोम उक्थो ऽतिरात्रः। तान् एवैतेनाप्नोति यो वा अग्निष्टोमेन दशाहं कल्पमानं वेद। कल्पते ऽस्मै प्रातस्सवनेनैव प्रथमस् त्रियहः, कल्पते माध्यन्दिने द्वितीयस्, तृतीयसवनेन तृतीयो, ऽग्निष्टोमसाम्नैव दशमम् अहः कल्पते। कल्पते ऽस्मै य एवं वेद॥3.8॥

प्राणः पूर्वो वैश्वानरो ऽपान उत्तरो ऽथ यद् अस्ति यत् सत्रं तद् इतराण्य् अहानि। गायत्री वा एषा ज्योतिष्पक्षाय द्वादशाहः । पक्षाव् अतिरात्राव् अग्निष्टोमौ चक्षुषी बाह्याव् अतिरात्राव् अन्तराव् अग्निष्टोमौ। तस्माद् अन्तरे अक्ष्योः कनीनिके। अथ यान्य् अष्टाव् अहानि सा गायत्री। तथा देवा स्वर्गं लोकम् आयन्। गच्छति स्वर्गं लोकं य एवं वेद। जामि द्वादशाहस्यास्तीत्य् आहुः। यद् एतान्य् अष्टाव् अहानि मध्य उक्थ्यानीति, न तत्र जाम्य् अस्तीति ब्रूयात्। पशवो वा उक्थानि। पशून् एवैतत् पशुभिस् समाकरोति। भूयो वै पशवः पशुभिस् समाकृताश् शोभन्त इति। ज्योतिष्टोमो ऽतिरात्रो विराजं संपद्यते। संवत्सरो विराट् प्रजननं संवत्सरः। द्वे स्तोत्रिये पूर्वस्याह्नो विराजम् अतीतो, द्वे उत्तरस्य। ते ये पूर्वस्याह्नो विराजम् अभितो बृहद्रथन्तरे ते युक्ते यज्ञं वहतो, ऽथ ये उत्तरस्य विराजस् स दोहः प्रतिष्ठितिः। आयुष्टोमम् आहरेत स्वर्गकामः। ऊर्ध्वा स्तोमा यन्त्य् अनपभ्रंशाय॥3.9॥

गोष्टोमम् आहरेत वीर्यकामः। इन्द्रियं वै वीर्यं पञ्चदशः। यावज् जीवन्ति तावद् वीर्यावन्तो भवन्ति। ईश्वरा ह तु प्रमायुका भवितोः। प्राणेभ्यो हि यन्ति। त्रिवृतो य ईजानाः क्लृप्तं तेषाम् अथ ये ऽनीजाना अक्लृप्तं तेषाम्। यदि बृहत् पृष्ठं भवति रथन्तरेणाश्विभ्यां स्तुवन्ति। इदं वै रथन्तरम् अदो बृहत्। अनाक्रम्यास्याम् अमुष्याम् आक्रमन्ते। ते प्रमायुका भवन्ति ज्यायुका वा । अथो यथा परेण बिलेन प्रतिदधीत तद् वै परैव सिच्यते न पिबति। तादृग् यदि रथन्तरं पृष्ठं भवति रथन्तरेणाश्विभ्यां स्तुवन्ति॥3.10॥