प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तिस्रो वाच उद् ईरत इत्य् आर्भवस्य पवमानस्य गायत्र्यो भवन्ति तृतीयस्याह्नो रूपम्। तेनैव त्रीण्य् अहानि कल्पन्ते।
गावो मिमन्ति धेनवः।
हरिर् एति कनिक्रदत्॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः। अभि ब्रह्मीर् अनूषतेत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। राये समुद्रांश् चतुर इति चतुर्थस्यैवाह्नः प्रजात्यै। अस्मभ्यं सोम विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। आ पवस्व सहस्रिण इति यद् वै शतवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। अथ पाष्ठौहम्। पाष्ठौहीर् आङ्गिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वर्गं लोकम् आश्नुत। तद् एतद् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ पाष्ठौहीर् आङ्गिरसो ऽपश्यत् तस्मात् पाष्ठौहम् इत्य् आख्यायते। हूतिश् च ह खलु वा एते सामनी प्रतिश्रुतिश् च - हो ये हो वा हा हो इत्य् एवैतेनाङ्गिरसो ऽह्वयन्। हा ओ वा ओ वा इत्य् अनेन प्रत्यशृण्वन्। ते ह वा एते सामनी हूतिश् चैव प्रतिश्रुतिश् च, स्वर्ग्ये, स्वर्गस्य लोकस्य समष्ट्यै। आ सोता परि षिञ्चतेति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः॥3.51॥

तासु वाचस्साम। निष्कर्या देवास् सत्रम् आसते। ते स्वर्गं लोकं न प्रजानन्न् एतत् तृतीयम् अहः। ते ऽकामयन्त प्र स्वर्गं लोकं जानीयामेदं तृतीयम् अहर् इति। तान् वाक्साम गायमानोपाप्लवत। तद् अपश्यन्। तेनास्तुवत। तेनार्ध्नुवन्। तेन स्वर्गं लोकं प्रजानन्न् एतत् तृतीयम् अहः। तद् एतद् ऋद्धि स्वर्ग्यं साम। ऋध्नोति, गच्छति स्वर्गं लोकं य एवं वेद। यद् ध वै शिवं शान्तं वाचस् तत् साम। सामन् वदतीति वा आहुः। साधु वदन्तं तद् यद् एतत् साम भवति शिवेनैवैतद् वाचश् शान्तेन त्र्यहं शमयन्ति। यद् उ वाक्साम गायमानोपाप्लवत् तस्माद् वाचस्सामेत्य् आख्यायते। सखाय आ नि षीदत पुनानाय प्र गायतेति प्रवतीः परिवतीर् भवन्ति। तद् यत् प्रवतीर् भवन्ति चतुर्थस्यैवाह्नः प्रजात्यै। अथ यत् परिवतीर् अन्तस्य रूपम् - अन्तो ह्य् एतद् अहर् - यो ऽन्तस् सो ऽन्तो ऽसद् इति। परि परीति वा अन्तं पर्यन्ति॥3.52॥

तासु शौक्तुम्। अङ्गिरसो वै तपस् तेपाना अशोचन्। ते ऽकामयन्ताप शुचं हनीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेन शुचम् अपाघ्नत। तद् यच् छुचम् अपाघ्नत तच् छौक्तस्य शौक्तत्वम्। अप शुचं हते य एवं वेद। शुक्तिर् आंगिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वर्गं लोकम् आश्नुत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ शुक्तिर् आङ्गिरसो ऽपश्यत् तस्माच् छौक्तम् इत्य् आख्यायते। सुतासो मधुमत्तमास् सोमा इन्द्राय मन्दिन इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति। पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदा इत्य् अभिपूर्वम् एवास्मिंस् तद् रसं मदं दधति।
इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन्।
वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा॥
इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। सहस्रधारः पवते समुद्रो वाचमीङ्खय इति यद् वै शतवत् सहस्रवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः॥3.53॥

तासु गौरिवीतम् उक्तब्राह्मणम्। अथ त्वाष्ट्रीसाम वीरजननं साम। अस्य वीरो जायते य एवं वेद। अथो चतुर्थस्यैवाह्नः प्रजात्यै। प्रजननं ह्य् एतद् यत् त्वाष्ट्रीसाम। तन् मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। यद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तद् उ निषिद्धम् इव भवत्य् अन्तस्य रूपम्। अन्तो वै स्वर्गो लोकानाम्। स्वर्गायैतल् लोकायाह्रियते यत् तृतीयम् अहः। तद् यद् एतन् निषिद्धम् इव भवति स्वर्गस्यैव लोकस्यानतिपादाय। पवित्रं ते विततं ब्रह्मणस् पत इति पवित्रवतीर् भवन्ति। पवित्रम् इव वा इदं विततं यद् अन्तरिक्षम्। अन्तरिक्षभाजनम् एतद् अहः। प्रभुर् गात्राणि पर्य् एषि विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् सं तद् आशतेति समष्टयै।
तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्य् अस्थिरन्।
अवन्त्य् अस्य पवितारम् आशवो दिवः पृष्ठम् अधि तिष्ठन्ति तेजसा॥
इति स्वर्गस्यैव लोकस्य समष्टयै।
अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा मिमाति भुवनेषु वाजयुः।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् आ दधुः॥
इति पुनर् एवैतत् तृतीये ऽहनि गर्भम् आदधति चतुर्थस्यैवाह्नः प्रजात्यै॥3.54॥

तास्व् अरिष्टं यज्ञस्यैवारिष्टयै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतद् अरिष्टयै। अरिष्टो ह वा एतेन यज्ञः। देवा वा एतं द्वादशरात्रम् अतन्वत। तेषां यद् यद् अरिष्यत् तद् अरिष्टेनारिष्टम् अकुर्वत। तद् अरिष्टस्यारिष्टत्वम्। अरिष्टेन द्वादशरात्रेण पाप्मानं तरति श्रियम् अश्नुते य एवं वेद। तत् त्रीळं भवति - पशवो वा इळा। पशव एतद् अहर् - अभिपूर्वाणाम् एव पशूनाम् अवरुद्धयै। भेषजं ह खलु वै तिस्र इळाः। एतद् ध वै शिवं शान्तं वाचो यत् तिस्र इळाः। तद् यत् त्रीळं तृतीये ऽहनि भवति तेनैव त्रीण्य् अहानि शमयन्ति। अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। प्र मंहिष्ठाय गायतेति प्रमंहिष्ठीयम् उक्तब्राह्मणम्। तं ते मदं गृणीमसीति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति। तासु हारिवर्णम् उक्तब्राह्मणम्। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशव उष्णिग् - अभिपूर्वाणाम् एव पशूनाम् अवरुद्धयै॥3.55॥

श्रुधी हवं तिरश्च्या इति तैरश्चम्। ऊर्ध्वान् वा अन्ये लोकान् देवाश् चर्षयश् चाजयन्। अथ तिरश्चिर् आंगिरसो ऽकामयत - तिरश्चो ऽहं लोकाञ् जयेयं, येनेमा आप स्यन्दन्ते, येनायं वायुः पवते, येनासाव् आदित्य एति, येन चन्द्रमा येन नक्षत्राणीति। स एतत् सामापश्यत्। तेनास्तुत। तेन तिरश्चो लोकान् अजयद्, येनेमा आप स्यन्दन्ते, येनायं वायुः पवते, येनासाव् आदित्य एति, येन चन्द्रमा येन नक्षत्राणि। ऊर्ध्वान् ह वा अन्यैः कर्मभिर् लोकाञ् जयन्ति। अथैतेन तिरश्च उभयान् लोकान् सध्रीचः। जयति तिरश्चश् चोर्ध्वांश् च य एवं वेद। तिरश्चिर् हांगिरसश् चकमे - ऽव वीरांश् च पशूंश् च रुन्धीयेति। स एतत् सामापश्यत्। तेनास्तुत।
श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सर्पयति।
सुवीर्यस्य गोमतो रायस् पूर्धि महं असि॥
इत्य् एव वीरांश् च पशूंश् चावरुन्द्धे। तद् उ वीराणां च पशूनां चावरुद्धिः। अव वीरांश् च पशूंश च रुन्द्धे य एवं वेद। यद् उ तिरश्चिर् आंगिरसो ऽपश्यत् तस्मात् तैरश्चम् इत्य् आख्यायते। देवान् वै स्वर्गं लोकं यतो रक्षांस्य् अन्वसचन्त। ते ऽकामयन्ताप रक्षांसि हनीमहीति। त एतत् सामापश्यन्। तद् देवपुराम् एव कृत्वा तिर्यक् पर्यौहन्। तेन रक्षांस्य् अपाघ्नत। तद् उ रक्षसाम् अपहतिः। अप रक्षः पाप्मानं हते य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.56॥

यदाप्यते यज्ञ, आप्यन्ते छन्दांस्य्, आप्यन्ते देवता, आप्यन्त इमे लोका, अथ केन चतुर्थम् अहस् तायत् इत्य् आहुः। वाचैवेति ब्रूयात्। वाग् एव तत् उच्छिष्यते ऽक्षरम् एव त्र्यक्षरं परिशिष्यते। तद् एवोत्तरं त्र्यहम् अनुविदधाति। यद् आहाप्यते यज्ञ इति - प्रातस्सवनभाजनं प्रथमम् अहर्, माध्यन्दिनभाजनं द्वितीयं, तृतीयसवनभाजनं तृतीयं - तेन यज्ञ आप्यते। यद् आहाप्यन्ते छन्दांसीति - गायत्रं प्रातस्सवनं, त्रैष्टुभं माध्यन्दिनं सवनं, जागतं तृतीयसवनं - तेन छन्दांस्य् आप्यन्ते। यद् आहाप्यन्ते देवता इति - वसूनां प्रातस्सवनं, रुद्राणां माध्यन्दिनं सवनम्, आदित्यानां तृतीयसवनं - तेन देवता आप्यन्ते। यद् आहाप्यन्त इमे लोका इति - इदं प्रातस्सवनम्, इदं माध्यन्दिनं सवनम्, अदस् तृतीयसवनं - तेनेमे लोका आप्यन्ते। अक्षरम् एव त्र्यक्षरं परिशिष्यते। तद् एवोत्तरं त्र्यहम् अनुविदधाति। यो वै चतुर्थे ऽहनीन्द्रं वेदेन्द्रियावान् भवति। वाग् वाव चतुर्थे ऽहनीन्द्रः। इन्द्रियावान् भवति य एवं वेद॥3.57॥

एता भवन्ति प्र त आश्विनीः पवमान धेनव इति प्रवतीः प्रायणीये ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। दिव्या असृग्रन् पयसा धरीमणीति विराजाम् एवैतद् रूपम् उपगच्छन्ति। वैराजं ह्य् एतद् अहः। प्रान्तरिक्षात् स्थावरीस् ते असृक्षतेत्य् अन्तरिक्षवतीर् भवन्ति। अन्तरिक्षभाजनं वै तृतीयम् अहः। तृतीयाद् अह्न एतत् प्रजातम्। ये त्वा मृजन्त्य ऋषिषाण वेधस इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना। उभयतः पवमानस्य रश्मय इत्य् उभाभ्यां ह वा एतत् त्र्यहाभ्यां प्रजनयन्ति। प्रैव पूर्वस्माज् जनयन्ति, तन्वत उत्तरस्मात्। ध्रुवस्य सतः पर्यन्ति केतव इत्य् अह्र् वै ध्रुवं छन्दांसि केतवः। स यथा श्रान्तान् अनडुह ऊर्ध्वांस् तान् द्विपरिणायं धुरि युञ्ज्युर् एवम् एवैतद् द्विपरिणायं छन्दांसि युञ्जन्त्य् आप्तेष्व् अहस्सु। यदि पवित्रे अधि मृज्यते हरिर् इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना। सत्ता नि योनौ कलशेषु सीदतीति सोमम् एवैतत् प्रत्यक्षम् अनुवदन्ति। विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष् टे सतः पर्यन्ति केतव इत्य् अग्निर् ह वा इमान् लोकान् अनु प्रभुः। तम् एवैतत् प्रातस्सवनात् प्रजनयन्ति। तं प्रजातं माध्यन्दिने सवने मन्थन्ति। व्यानशी पवसे सोम धर्मणा पतिर् विश्वस्य भुवनस्य राजसीति स ह्य् अस्य विश्वस्य भुवनस्य राजति॥3.58॥

ता एता भवन्ति जगत्यो गायत्रवर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्र ऋध्यते। सम् अस्मा ऋध्यते य एवं वेद। एतस्य ह वै सन्धेर् अर्पणं न ददृशे। जगदन्तः पूर्वस् त्रियहो भवति। जगत्यैतद् अहः प्रतिपद्यन्ते। समाद् एवैतत् समम् उपयन्ति। यो वै स्तोम चतुर्युजं वेद वहन्त्य् एनं चतस्रस् संयुक्ताः। जगदन्तः पूर्वस् त्रियहो भवति। जगत्यैतद् अहः प्रतिपद्यन्ते। स यथा प्रष्टि प्रष्टियुगाय नियुज्याद् एवम् एवैतत् पूर्वस्मिंस् त्रियह उत्तरं त्र्यहम् अनुनियुनक्ति। वहन्त्य् एनं चतस्रस् संयुक्ता य एवं वेद। यो ह खलु वै व्यूढच्छन्दास् स समूढच्छन्दा, यस् समूढच्छन्दास् स व्यूढच्छन्दाः। जगदन्तः पूर्वस् त्रियहो भवति। जगत्यैतद् अहः प्रतिपद्यन्ते। समाद् एवैतत् समम् उपयन्ति। त्रिष्टुबन्तो द्वितीयस् त्र्यहो भवति। त्रिष्टुभा तृतीयं त्रियहं प्रतिपद्यन्ते। समाद् एवैतत् समं संक्रामन्ति यत्रान्तस् तृतीयस् त्रियहो भवति। गायत्र्या दशमम् अहः प्रतिपद्यन्ते। समाद् एवैतत् समं संक्रामन्तो यन्ति। एष ह वाव समूढच्छन्दाः। पवमानो अजीजनद् इति जनद्वान् अनुरूपो भवति। षोडशिनम् एवैतत् प्रातस्सवनात् प्रजनयन्ति। तं प्रजातं तृतीयसवन आरभन्ते। तद् आहुर् अह्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेण साम्न इति स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो, ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति॥3.59॥

दिवश् चित्रं न तन्यतुं ज्योतिर् वैश्वानरं बृहद् इति बृहतो रूपम् उपगच्छन्ति। बार्हतं ह्य् एतद् अहः। पवमानस्य ते रसः, पवमान रसस् तवेति समानम् अनुतुदति वैराजरूपम्। अनुतुन्नं हि वैराजस्य रूपम्। प्र यद् गावो न भूर्णय इति प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। त्वेषा अयासो अक्रमुर् घ्नन्तः कृष्णाम् अप त्वचम् इति पाप्मा वै कृष्णा त्वक्। ताम् एवैतेनापघ्नते। सुवितस्य वनामहे अति सेतुं दुराय्यम् इति पूर्वो ह वै त्रियहस् सेतुर् दुराय्यस् तम् एवैतेनातितरन्ति।
<poem>शृण्वे वृष्टेर् इव स्वनः पवमानस्य शुष्मिणः।
चरन्ति विद्युतो दिवि॥
इति बृहतो रूपम् उपगच्छन्ति। बार्हतम् ह्य् एतद् अहः।
आ पवस्व महीम् इषं गोमद् इन्द्रो हिरण्यवत्।
अश्ववत् सोम वीरवत्॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै।
पवस्व विश्वचर्षण आ मही रोदसी पृणा।
उषास् सूर्यो न रश्मिभिः॥
इति सूर्यवतीर् भवन्ति। सौर्यं ह्य् एतद् अहर् एकविंश प्रतिष्ठा वैराजम्।
परि नश् शर्मयन्त्या धारया सोम विश्वतः।
सरा रसेव विष्टपम्॥
इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना।
यत्र देवा इति ब्रुवन्॥
परिष्कृण्वन्न् अनिष्कृतम्
अयं स यो दिवस् परि
इति परिपरीति भवत्य् अन्तस्य रूपम्। अन्तो वा अनुष्टुप् छन्दसाम्। आनुष्टुभम् एतद् अहः॥3.60॥


</poem>