प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ता एता भवन्ति त्रिष्टुभो जगद्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। एष देवो अमर्त्य इति सूक्तम् अनुरूपो भवति - पशवो वै सूक्तम्। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपान् कुर्वन्ति। तस्मात् पशवो नानारूपान् जनयन्त्य् - उत श्वेता। कृष्णं जनयत्य्, उत कृष्णा श्वेतम्, उत राहिणी कन्माषम्, उत कन्माषी रोहितम्। तास् समानप्रभृतयो भवन्ति नानोदर्काः - एष देवो अमर्त्य, एष देवो विपा कृत, एष देवो विपन्युभिर् इति। इदं वै प्रथमं पदम्, इदं द्वितीयं, अदस् तृतीयम्। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये द्वादशाहयाजिनः। अन्तम् इव हि गच्छन्ति तद् यद् एतास् समानप्रभृतयो भवन्ति नानोदर्काः। अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। नाना - प्रभृतयस् समानोदर्काष् षष्ठे ऽहन् भवन्ति। अमुष्मिन्न् उ ताभिर् लोके प्रतितिष्ठन्ति॥3.241॥


दशर्चं भवति - दशाक्षरा विराट्। अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्धयै। अष्टर्चं भवति। अष्टाचत्वारिंशम् एवैवैतेन स्तोमम् अभिवदति। अथो अष्टाक्षरा वै गायत्र्य् - अष्टाशफाः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। इन्द्रो वै वृत्रम् अहन्। तं वृत्रं जघ्निवांसम् एभ्यो लोकेभ्यस् सर्वाणि भूतान्य् अन्ववदन्न् - एष वीर, एष वृत्रहति। वीर्यम् एवास्मिंस् तद् अभिपूर्वम् अदधुः। वीर्यम् इव वा एष चक्रिवान् भवति वृत्रम् इव जघ्निवान् य एतद् अहर् आगच्छति। तद् यद् एष इति भवति वीर्यम् एवास्मिंस् तद् अभिपूर्वं दधति। तद् आहुर् ऋतुमान् पृष्ठयष् षडहो ऽनृतवश् छन्दोमाः। अनृताव् इव वा एते प्रतिष्ठिता यच् छन्दोमा इति। तद् यद् एतानि पञ्चर्च षडृचानि भवन्ति तेनैवर्तुमन्तश् छन्दोमाः क्रियन्ते। स वानुत्तमष् षडृचो भवति। यदा वै प्रत्यक्षं भवत्य् अथैष इत्य् आचक्षते, यदा परोक्षम् अथ स इति। परोक्षम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तस्मात् स वानुत्तमष् षडृचो भवति येन प्रयन्ति। तेनोद्यन्ति। अष्टाचत्वारिंश स्तोमो भवति। अष्टाचत्वारिंशदक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः। पशुष्व् एवैतज् जगत्यां प्रतितिष्ठन्तो यन्ति॥3.242॥


अगन्म महा नमसा यविष्ठम् इति गद्वन्त्य् आज्यानि भवन्ति। गच्छन्तीव वा एते य एतद् अहर् आगच्छन्ति। यो दीदाय समिद्ध स्वे दुरोण इति दीद्यन्त्य् एवैनम् एतेन। चित्रभानुं रोदसी अन्तर् ऊर्वी इतीमे ह वाव रोदसी इदम् एवान्तरिक्षं मरुतः। स्वाहुतं विश्वतः प्रत्यञ्चम् इति प्रत्यङ् ह्य् एष त्रियहस् तायते। स मह्ना विश्वा दुरितानि साह्वान् इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः।
अग्नि ष्टवे दम आ जातवेदाः।
स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः॥
इत्य् आशिषम् एवैतेनाशास्ते। त्वं वरुण उत मित्रो अग्न इत्य् आग्नावारुणी भवति, दुरिष्टस्यैवावेष्टयै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एषा वेष्टयै। त्वां वर्धन्ति मतिभिर् वसिष्ठा इति वृद्धं ह्य् एतद् अहः। त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिस् सदा न इत्य् आशिषम् एवैतेनाशास्ते॥3.243॥


प्र मित्रयोर् वरुणयोर् इति मैत्रावरुणं भवति।
स्तोमो न एतु शूष्यः।
नमस्वान् तुविजातयोः॥
इति जनद्वत्। नवमम् एवैतेनाहः प्रजनयन्ति। या धारयन्त देवा इति धृत्यै। अन्तम् इव ह्य् एतर्हि गच्छन्ति, छान्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति।
सुदक्षा दक्षपितरा।
असुर्याय प्रमहसा॥
ता नः स्तिमा तनूपा वरुणा जरितृणाम्।
मित्र साधयतं धियः॥
इति सिद्ध्या एव। महं इन्द्रो य ओजसेत्य् ऐन्द्रं भवति। महद् ध्य् एतद् अहर् यद् अष्टाचत्वारिंशम्।
पर्जन्यो वृष्टिमं इव।
स्तोमैर् वत्सस्य वावृधे॥
इति वृद्धं ह्य् एतद् अहः। कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् इति सिद्ध्या एव। प्रजाम् ऋतस्य पिप्रत इति जनद्वत्। नवमाद् एवैतद् अह्नो दशमम् अहः प्रजनयन्ति। नवमाद् वा एतद् अह्नः प्रजातं यद् दशमम् अहः। यद् द्वितीयस्याह्न ऐन्द्राग्नं तद् ऐन्द्राग्नं बार्हतम्। बार्हतं ह्य् एतद् अहः। समयीन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठयश् च षडहश् छन्दोमाश् च। स यथा नानाग्रामौ मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समयीन्य् आज्यानि भवन्ति। असमयीनि हैके कुर्वन्ति। तस्मात् समयीन्य् एव कार्याणि। अष्टाचत्वारिंश स्तोमो भवति। अष्टाचत्वारिंशदक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः। पशुष्व् एवैतज् जगत्यां प्रतितिष्ठन्तो यन्ति॥3.244॥


पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै।
पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः।
हरिश्चन्द्रो मरुद्गणः॥
इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। तासु गायत्रम् उक्तब्राह्मणम्। अथ गातुविन्निधनम्। गातुं विन्दामहा इति सत्रम् आसते। गातुम् एव विन्दन्ते। तद् उपरिष्टोभवद् भवति बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। तद् व् एवाचक्षते भरद्वाजस्यादारसृद् इति। क्षत्रं वै प्रातर्दनं दाशराज्ञे दशराजानः पर्ययतन्त मानुषे। तस्य ह भरद्वाजः पुरोहित आस। तम् उपाधावद् - ऋष, उप त्वा धावाम। इह नः प्रजानीहीति। सो ऽकामयत भरद्वाजो - जयेम संग्रामम् इति। स एतत् सामापश्यत्। तेनास्तुत। सो ऽब्रवीत स्तुत्वा - आ वै न इन्द्रो हवं गमिष्यति। जेष्यामो वा इमं संग्रामम् इति॥3.245॥


अथ होपमा सावेदसी कल्याण्य् आस क्षत्रस्य प्रातर्दनस्य जाया। तस्यै ह भ्रातरं जघ्नुः। तद् ध धुवनम् आस। तां ह परिधावन्तीम् इन्द्रो ऽभिदध्यौ। स ह शुष्काजिनं परिधायाभ्यवेयाय। तस्य ह विवधे अपूपमूत इतरार्धे ऽपासक्त आसामिक्षा सर्पिषा संयतेतरार्धे। स हास्या अन्तिकं नर्तितुं दध्रे। तां ह स्म नयत् सर्पिषा प्रलिम्पति। तं ह स्म यद् अपसेधत्य्, अथा ह स्मास्या अन्तिकम् एव नृत्यति। सायम् आस, व्यपेयुः। तां ह पतिः पप्रच्छ - किम् अत्र किञ्चिद् दिवादो ऽद्राक्षीर् इति। सा होवाच - न नु ततो ऽन्यत्, स्थविर एव मे ऽद्यान्तिकम् अनर्तीत्। तस्य विवधे ऽपूपमूत इतरार्धे ऽपासक्तो ऽभूद् आमिक्षा सर्पिषा संयतेतरार्धे। तं यद् अपासीत् स मथमेद्यान्तिकम् एवानर्तीद् इति। स होवाचा वै न इन्द्रो हवम् अगमत्। जेष्यामो वा इमं संग्रामम्॥3.246॥


इन्द्रो वै सो ऽभूत्, तं मोद्धिंसिष्ठास्, तं सखीकृत्य ब्रूताज् - जयाम संग्रामम् इति। श्वो ह भूते परिसस्रुः। स हायं तादृशेनैव विवधेन परस्तराम् इव नर्तितुं दध्रे। तं ह स्म यत् प्रेप्स्यत्य्, अथ ह स्मेतरः परस्तराम् एव। सा हेक्षाञ्चके - हन्तैनम् अभिवदानीति। तं हाभ्युवाद -
किं ते मजाक मूत
इति।
य कल्पितोपनराहि
इतीन्द्रः।
वि ते मजाक शीयतां महतो जोषवाजिन
इत्य् उपमा सावेदसी।
वि चेत् पुत्रक शीयातै सम् इत् तच् चिनवत् पिता
इतीन्द्रः
विषं मजाक ते भूयात् प्रावभ्राव् एव सर्पत
इत्य् उपमा सावेदसी।
विषं चित् पुत्रका सती मृगं तेन हनत् पिता
इतीन्द्रः।
परो मजाक धावानुकूलं पथैव यन्
इत्य् उपमा सावेदसी।
परश् चित् पुत्रका सत्य् उपकूलं पितायति
इतीन्द्रः।
प्रियो मे महिरो दृशे हस्तेनाभिमृशात् तत
इत्य् उपमा सावेदसी।
हिमिति स्म कुरुथा पेवस्म हस्तम् अस्यथ
किमोभूत् कथोभूत्
कथार्मे महिरः प्रियो हस्तेनाभिमृशात् तत
इतीन्द्रः।
एवो ऽभूत् ततो ऽभूत्
यथा ते महिरः प्रियो हस्तेनाभिमृशात् तत
इत्य् उपमा सावेदसी॥3.247॥


तं हानुसंद्रुत्योवाच - जयाम संग्रामम् इति। से हाजिनम् उपाघ्नान उवाच -
यथेमाम् अमूर् व्युपापतति भास्विति।
एवं क्षत्रस्य मानुषाद् व्युपापतत शत्रवः॥
इति हैवैणेयलोमानि शातयाञ्चक्रे। ते हैवाश्वरथा उत्तस्थुः। तैर् वै स तं संग्रामम् अजयत्। सो ऽब्रवीद् भरद्वाजो - न वै दारे ऽसृन्मेति। यद् अब्रवीद् भरद्वाजो - न वै दारे ऽसृन्मेति, तद् एवादारसृतो ऽदारसृत्वम्। तद् एतद् विजितिर् भ्रातृव्यहा साम। विजयते हन्ति द्विषन्तं भ्रातृव्यं, दारे द्विषन्तं भ्रातृव्यं सारयति, नात्मना दारे धावयति। अथो सेन्द्रम् एव। इन्द्रो वा एषाम् एतेन हवम् अगच्छद्, आस्येन्द्रो हवं गच्छति य एवं वेद। तद् व् अष्टाक्षरणिधनं भवत्य् - अष्टाक्षरा वै गायत्री। अष्टाशफाः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ भरद्वाजो ऽपश्यत् तस्माद् भरद्वाजस्यादारसृद् इत्य् आख्यायते॥3.248॥


अथ सैन्धुक्षितम्। सिन्धुक्षिद् वा अन्तं वाचो ऽपश्यत्। वाचं छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् एवैतत् संविन्दन्ति। अथो अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति। तद् ऐळं भवति। पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथ हरिश्रीनिधनम्। प्रजापतौ ह वा अग्रे श्रीर् आस। स इन्द्रो ऽकामयत येयं प्रजापतौ श्रीर् मय्य् एषा स्याद् इति। स एतत् सामापश्यत्। तेनास्तुत। तेन हरिश्रीर् इति प्रजापते श्रियम् अहरत्। तद् धरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीस्सवस् साम। अश्नुते श्रियं य एवं वेद। देवासुरा अस्पर्धन्त। तेषु होभयेष्व् एव श्रीर् आस। स इन्द्रो ऽकामयत वृञ्जीयासुराणां श्रियम् इति। स एतत् सामापश्यत्। तेन हरिश्रीर् इत्य् एवासुराणां श्रियम् अवृंक्त। तद् व् एव हरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीर् एव साम। अश्नुते श्रियं, वृंक्त द्विषतो भ्रातृव्यस्य श्रियं य एवं वेद। तत् त्र्यक्षरणिधनं भवति - त्रयो वा इमे लोका - एषां लोकानां विधृत्यै॥3.249॥


अथाङ्गिरसां निवेष्टः। अङ्गिरसो वा अकामयन्ताव पशून् रुन्धीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् सर्वाभ्यो दिग्भ्यः पशवो ऽभिन्यवेष्टन्त। तद् यद् एनान् सर्वाभ्यो दिग्भ्यः पशवो ऽभिन्यवेष्टन्त तन् निवेष्टस्य निवेष्टत्वम्। ते ऽब्रुवन् सं वै न इमा इळा अक्षारिषुर् इति। पशवो वा इळा। तस्माद् व् इळानां संक्षारः। अथ बाभ्रवं ग्वामिर्निधनं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। बभ्रुर् वै कुम्भ्यो ऽकामयत पशुभिस् सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। स ग्वाभिर् इत्य् एव निधनम् उपैत्। ततो वै स पशुभिर् असूयत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। यद् उ बभ्रुः कुम्भ्यो ऽपश्यत् तस्माद् बाभ्रवम् इत्य् आख्यायते। अथ ऋषभः पवमानः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। अथो हैषाम् एतेनैव सर्वे छन्दोमा ऋषभवन्तः क्रियन्ते॥3.250॥